०९

अनूयाजाः ११-१२ सूक्तवाकाश्च

प्रजापतिर्ऋषिः

मूलम् (संयुक्तम्)

अ॒ग्नीध॒ आ द॑धात्य॒ग्निमु॑खाने॒वर्तून्प्री॑णाति स॒मिध॒मा द॑धा॒त्युत्त॑रासा॒माहु॑तीना॒म्प्रति॑ष्ठित्या॒ अथो॑ स॒मिद्व॑त्ये॒व जु॑होति परि॒धीन्त्सम्मा॑र्ष्टि पु॒नात्ये॒वैना॑न्त्स॒कृत्स॑कृ॒त्सम्मा॑र्ष्टि॒ परा॑ङिव॒ ह्ये॑तर्हि॑ य॒ज्ञश्च॒तुस्सम्प॑द्यते॒ चतु॑ष्पादᳶ प॒शवᳶ॑ प॒शूने॒वाव॑ रुन्द्धे॒ ब्रह्म॒न्प्र स्था॑स्याम॒ इत्या॒हात्र॒ वा ए॒तर्हि॑ य॒ज्ञश्श्रि॒तः [49] यत्र॑ ब्र॒ह्मा यत्रै॒व य॒ज्ञश्श्रि॒तस्तत॑ ए॒वैन॒मा र॑भते॒ यद्धस्ते॑न प्र॒मीवे॑द्वेप॒नस्स्या॒द्यच्छी॒र्ष्णा शी॑र्षक्ति॒मान्त्स्या॒द्यत्तू॒ष्णीमासी॒तास॑म्प्रत्तो य॒ज्ञस्स्या॒त्प्र ति॒ष्ठेत्ये॒व ब्रू॑याद्वा॒चि वै य॒ज्ञश्श्रि॒तो यत्रै॒व य॒ज्ञश्श्रि॒तस्तत॑ ए॒वैनँ॒ सम्प्र य॑च्छति॒ देव॑ सवितरे॒तत्ते॒ प्र [50] आ॒हेत्या॑ह॒ प्रसू॑त्यै॒ बृह॒स्पति॑र्ब्र॒ह्मेत्या॑ह॒ स हि ब्रह्मि॑ष्ठ॒स्स य॒ज्ञम्पा॑हि॒ स य॒ज्ञप॑तिम्पाहि॒ स माम्पा॒हीत्या॑ह य॒ज्ञाय॒ यज॑मानाया॒त्मने॒ तेभ्य॑ ए॒वाशिष॒मा शा॒स्तेऽना॑र्त्या आ॒श्राव्या॑ह दे॒वान्य॒जेति॑ ब्रह्मवा॒दिनो॑ वदन्ती॒ष्टा दे॒वता॒ अथ॑ कत॒म ए॒ते दे॒वा इति॒ छन्दाँ॒सीति॑ ब्रूयाद्गाय॒त्रीन्त्रि॒ष्टुभ॑म् [51]
जग॑ती॒मित्यथो॒ खल्वा॑हुर्ब्राह्म॒णा वै छन्दाँ॒सीति॒ ताने॒व तद्य॑जति दे॒वानाव्ँ॒वा इ॒ष्टा दे॒वता॒ आस॒न्नथा॒ग्निर्नोद॑ज्वल॒त्तन्दे॒वा आहु॑तीभिरनूया॒जेष्वन्व॑विन्द॒न्यद॑नूया॒जान्यज॑त्य॒ग्निमे॒व तत्समि॑न्द्ध ए॒तदु॒र्वै नामा॑सु॒र आ॑सी॒त्स ए॒तर्हि॑ य॒ज्ञस्या॒शिष॑मवृङ्क्त॒ यद्ब्रू॒यादे॒तत् [52]
उ॒ द्या॒वा॒पृ॒थि॒वी॒ भ॒द्रम॑भू॒दित्ये॒तदु॑मे॒वासु॒रय्ँ य॒ज्ञस्या॒शिष॑ङ्गमयेदि॒दन्द्या॑वापृथिवी भ॒द्रम॑भू॒दित्ये॒व ब्रू॑या॒द्यज॑मानमे॒व य॒ज्ञस्या॒शिष॑ङ्गमय॒त्यार्ध्म॑ सूक्तवा॒कमु॒त न॑मोवा॒कमित्या॑हे॒दम॑रा॒त्स्मेति॒ वावैतदा॒होप॑श्रितो दि॒वᳶ पृ॑थि॒व्योरित्या॑ह॒ द्यावा॑पृथि॒व्योर्हि य॒ज्ञ उप॑श्रित॒ ओम॑न्वती ते॒ऽस्मिन्य॒ज्ञे य॑जमान॒ द्यावा॑पृथि॒वी [53]
स्ता॒मित्या॑हा॒शिष॑मे॒वैतामा शा॑स्ते

विश्वास-प्रस्तुतिः

अ॒ग्नीध॒ आ द॑धाति ।

अ॒ग्निमु॑खाने॒वर्तून्प्री॑णाति ।

स॒मिध॒मा द॑धाति ।
उत्त॑रासा॒माहु॑तीना॒म्प्रति॑ष्ठित्यै

अथो॑ स॒मिद्व॑त्ये॒व जु॑होति ।
परि॒धीन्त्सम्मा॑र्ष्टि ।
पु॒नात्ये॒वैना॑न्त्स॒कृत्स॑कृ॒त्सम्मा॑र्ष्टि ।
परा॑ङिव॒ ह्ये॑तर्हि॑ य॒ज्ञश्च॒तुस्सम्प॑द्यते ।
चतु॑ष्पादᳶ प॒शवᳶ॑ प॒शूने॒वाव॑ रुन्द्धे ।
ब्रह्म॒न्प्र स्था॑स्याम॒ इत्या॑ह ।
अत्र॒ वा ए॒तर्हि॑ य॒ज्ञश्श्रि॒तः ।

यत्र॑ ब्र॒ह्मा यत्रै॒व य॒ज्ञश्श्रि॒तस्तत॑ ए॒वैन॒मा र॑भते ।
यद्धस्ते॑न प्र॒मीवे॑द्वेप॒नस्स्यात् ।
यच्छी॒र्ष्णा शी॑र्षक्ति॒मान्त्स्यात् ।
यत्तू॒ष्णीमासी॒तास॑म्प्रत्तो य॒ज्ञस्स्यात् ।
प्र ति॒ष्ठेत्ये॒व ब्रू॑यात् ।
वा॒चि वै य॒ज्ञश्श्रि॒तः ।
यत्रै॒व य॒ज्ञश्श्रि॒तस्तत॑ ए॒वैनँ॒ सम्प्र य॑च्छति ।
देव॑ सवितरे॒तत्ते॒ प्रा॒हेत्या॑ह॒ प्रसू॑त्यै ।
बृह॒स्पति॑र्ब्र॒ह्मेत्या॑ह ।
स हि ब्रह्मि॑ष्ठ॒स्स य॒ज्ञम्पा॑हि ।
स य॒ज्ञप॑तिम्पाहि॒ स माम्पा॒हीत्या॑ह ।

य॒ज्ञाय॒ यज॑मानाया॒त्मने॒ तेभ्य॑ ए॒वाशिष॒मा शा॒स्तेऽना॑र्त्यै ।
आ॒श्राव्या॑ह दे॒वान्य॒जेति॑ ।

ब्रह्मवा॒दिनो॑ वदन्ति ।
इ॒ष्टा दे॒वताः॑ ।
अथ॑ कत॒म ए॒ते दे॒वा इति॑ ।
छन्दाँ॒सीति॑ ब्रूयात् ।
गाय॒त्रीन्त्रि॒ष्टुभ॒ञ्जग॑ती॒मिति॑ ।
अथो॒ खल्वा॑हुर्ब्राह्म॒णा वै छन्दाँ॒सीति॑ ।
ताने॒व तद्य॑जति ।

दे॒वानाव्ँ॒वा इ॒ष्टा दे॒वता॒ आसन् ।

अथा॒ग्निर्नोद॑ज्वल॒त् ।
तन्दे॒वा आहु॑तीभिरनूया॒जेष्वन्व॑विन्दन् ।
यद॑नूया॒जान्यज॑त्य॒ग्निमे॒व तत्समि॑न्द्धे ।

ए॒तदु॒र्वै नामा॑सु॒र आ॑सीत् ।
स ए॒तर्हि॑ य॒ज्ञस्या॒शिष॑मवृङ्क्त ।
यद्ब्रू॒यादे॒तदु॒ द्या॒वा॒पृ॒थि॒वी॒ भ॒द्रम॑भू॒दिति॑ ।
ए॒तदु॑मे॒वासु॒रय्ँ य॒ज्ञस्या॒शिष॑ङ्गमयेत् ।
इ॒दन्द्या॑वापृथिवी भ॒द्रम॑भू॒दित्ये॒व ब्रू॑यात् ।
यज॑मानमे॒व य॒ज्ञस्या॒शिष॑ङ्गमयति ।
आर्ध्म॑ सूक्तवा॒कमु॒त न॑मोवा॒कमित्या॑ह।
इ॒दम॑रा॒त्स्मेति॒ वावैतदा॑ह ।
उप॑श्रितो दि॒वᳶ पृ॑थि॒व्योरित्या॑ह ।
द्यावा॑पृथि॒व्योर्हि य॒ज्ञ उप॑श्रितः ।
ओम॑न्वती ते॒ऽस्मिन्य॒ज्ञे य॑जमान॒ द्यावा॑पृथि॒वी स्ता॒मित्या॑ह ।
आ॒शिष॑मे॒वैतामा शा॑स्ते ।

मूलम्

अ॒ग्नीध॒ आ द॑धाति ।

अ॒ग्निमु॑खाने॒वर्तून्प्री॑णाति ।

स॒मिध॒मा द॑धाति ।
उत्त॑रासा॒माहु॑तीना॒म्प्रति॑ष्ठित्यै

अथो॑ स॒मिद्व॑त्ये॒व जु॑होति ।
परि॒धीन्त्सम्मा॑र्ष्टि ।
पु॒नात्ये॒वैना॑न्त्स॒कृत्स॑कृ॒त्सम्मा॑र्ष्टि ।
परा॑ङिव॒ ह्ये॑तर्हि॑ य॒ज्ञश्च॒तुस्सम्प॑द्यते ।
चतु॑ष्पादᳶ प॒शवᳶ॑ प॒शूने॒वाव॑ रुन्द्धे ।
ब्रह्म॒न्प्र स्था॑स्याम॒ इत्या॑ह ।
अत्र॒ वा ए॒तर्हि॑ य॒ज्ञश्श्रि॒तः ।

पद-पाठः

अ॒ग्नीध॒ इत्य॑ग्नि-इधे॑ । एति॑ । द॒धा॒ति॒ ।
अ॒ग्निमु॑खा॒नित्य॒ग्नि-मु॒खा॒न् । ए॒व । ऋ॒तून् । प्री॒णा॒ति॒ ।

स॒मिध॒मिति॑ सम्-इध॑म् । एति॑ । द॒धा॒ति॒ ।
उत्त॑रासा॒मित्युत्-त॒रा॒सा॒म् । आहु॑तीना॒मित्या-हु॒ती॒ना॒म् । प्रति॑ष्ठित्या॒ इति॒ प्रति॑-स्थि॒त्यै॒ ।

अथो॒ इति॑ । स॒मिद्व॒तीति॑ स॒मित्-व॒ति॒ । ए॒व । जु॒हो॒ति॒ ।

प॒रि॒धीनिति॑ परि-धीन् । समिति॑ । मा॒र्ष्टि॒ ।
पु॒नाति॑ । ए॒व । ए॒ना॒न् । स॒कृत्स॑कृ॒दिति॑ स॒कृत्-स॒कृ॒त् । समिति॑ । मा॒र्ष्टि॒ ।

पराङ्॑ । इ॒व॒ । हि । ए॒तर्हि॑ । य॒ज्ञः ।
च॒तुः । समिति॑ । प॒द्य॒ते॒ । चतु॑ष्पाद॒ इति॒ चतुः॑-पा॒दः॒ । प॒शवः॑ । प॒शून् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।

ब्रह्म॑न् । प्रेति॑ । स्था॒स्या॒मः॒ । इति॑ । आ॒ह॒ ।

अत्र॑ । वै । ए॒तर्हि॑ । य॒ज्ञः । श्रि॒तः ।

सायण-टीका

तत्रादौ तावद् आग्नीध्र-भागस्य प्रदानं विधत्ते - ‘अग्नीध’ इति। पौरोडाशिके तु काण्डे अग्नीधे प्रथमायाऽऽदधातीति भाग-प्रदानं प्रथमस्य यु(स्यो)क्तम्। तस्माद् आग्नीध्रेणेध्यमानस्याग्नेर् मुखत्वम्। तस्मिन्न् एव काण्डे “सकृद् उपस्तीर्य द्विरादधत। उपस्तीर्य द्विरभिघारयति” इत्युक्तं (क्त) षडवत्त-संख्या-सामान्याद् ऋतु-संबन्धः तस्माद् अग्नि-मुखानाम् ऋतूनां प्रीतिः।

यद् उक्तं सूत्र-कारेण-

“अनुज्ञातो ब्रह्मणाग्नीध्रः समिधम् आदधात्य् एषा ते अग्ने समित्”

इति, तद् एतद् विधत्ते - समिधम् एति।

अनूयाजा उत्तरा आहुतयस् ताश् चास्यां समिधि प्रतितिष्ठन्ति। किं च समिद्-युक्त एवाग्नाव् अनूयाजाञ् जुहोति। पुनः शोधनं विधत्ते ‘परिधीन् सम्… इति’। पूर्ववद् आवृत्तिं प्रसक्तां वारयति - ‘सकृत् सकृत् सम्… इति’। यो ऽयम् आघारयोर् मध्ये पूर्वोक्तः संमार्गस् तस्य काले यज्ञः पराग्-भूतो न भवति, किंतु प्रत्यग्-भूतः। तत ऊर्ध्वं प्रधान-यागानां प्रवर्तिष्यमाणत्वात्। अनूयाज-समिध ऊर्ध्वं संमार्ग-काले तु यज्ञः पराग्-भूतस् तत ऊर्ध्वं प्रधान-यागस्य कस्याप्य् अभावात्। अग्नेर् अपि सकृत्-संमार्गम् अध्याहृत्यानेन सह परिधि-त्रय-गतां संमार्ग-संख्यां प्रशंसति - ‘चतुः सम्… इति’।

अनूयाजार्थं गमिष्यतो ऽध्वर्योर् ब्रह्मणं प्रत्य् अनुज्ञापन-मन्त्रम् उत्पाद्य तस्य तात्पर्यं दर्शयति - ‘ब्रह्मन् प्र… इति’।

मूलम्

यत्र॑ ब्र॒ह्मा यत्रै॒व य॒ज्ञश्श्रि॒तस्तत॑ ए॒वैन॒मा र॑भते ।
यद्धस्ते॑न प्र॒मीवे॑द्वेप॒नस्स्यात् ।
यच्छी॒र्ष्णा शी॑र्षक्ति॒मान्त्स्यात् ।
यत्तू॒ष्णीमासी॒तास॑म्प्रत्तो य॒ज्ञस्स्यात् ।
प्र ति॒ष्ठेत्ये॒व ब्रू॑यात् ।
वा॒चि वै य॒ज्ञश्श्रि॒तः ।
यत्रै॒व य॒ज्ञश्श्रि॒तस्तत॑ ए॒वैनँ॒ सम्प्र य॑च्छति ।
देव॑ सवितरे॒तत्ते॒ प्रा॒हेत्या॑ह॒ प्रसू॑त्यै ।
बृह॒स्पति॑र्ब्र॒ह्मेत्या॑ह ।
स हि ब्रह्मि॑ष्ठ॒स्स य॒ज्ञम्पा॑हि ।
स य॒ज्ञप॑तिम्पाहि॒ स माम्पा॒हीत्या॑ह ।

य॒ज्ञाय॒ यज॑मानाया॒त्मने॒ तेभ्य॑ ए॒वाशिष॒मा शा॒स्तेऽना॑र्त्यै ।
आ॒श्राव्या॑ह दे॒वान्य॒जेति॑ ।

पद-पाठः

यत्र॑ । ब्र॒ह्मा । यत्र॑ । ए॒व । य॒ज्ञः । श्रि॒तः । ततः॑ । ए॒व । ए॒न॒म् । एति॑ । र॒भ॒ते॒ ।

यत् । हस्ते॑न । प्र॒मीवे॒दिति॑ प्र-मीवे॑त् । वे॒प॒नः । स्या॒त् ।

यत् । शी॒र्ष्णा । शी॒र्ष॒क्ति॒मानिति॑ शीर्षक्ति-मान् । स्या॒त् ।

यत् । तू॒ष्णीम् । आसी॑त । अस॑म्प्रत्त॒ इत्यस॑म्-प्र॒त्तः॒ । य॒ज्ञः । स्या॒त् ।

प्रेति॑ । ति॒ष्ठ॒ । इति॑ । ए॒व । ब्रू॒या॒त् ।
वा॒चि । वै । य॒ज्ञः । श्रि॒तः ।
यत्र॑ । ए॒व । य॒ज्ञः । श्रि॒तः । ततः॑ । ए॒व । ए॒न॒म् । सम् । प्रेति॑ । य॒च्छ॒ति॒ ।

देव॑ । स॒वि॒तः॒ । ए॒तत् । ते॒ । प्रेति॑ । । आ॒ह॒ । इति॑ । आ॒ह॒ । प्रसू॑त्या॒ इति॒ प्र-सू॒त्यै॒ ।

बृह॒स्पतिः॑ । ब्र॒ह्मा । इति॑ । आ॒ह॒ ।

सः । हि । ब्रह्मि॑ष्ठः ।

सः । य॒ज्ञम् । पा॒हि॒ ।
सः । य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ-प॒ति॒म् । पा॒हि॒ ।
सः । माम् । पा॒हि॒ । इति॑ । आ॒ह॒ ।
य॒ज्ञाय॑ । यज॑मानाय । आ॒त्मने॑ । तेभ्यः॑ । ए॒व । आ॒शिष॒मित्या॑-शिष॑म् । एति॑ ।

शा॒स्ते॒ । अना॑र्त्यै ।
आ॒श्राव्येत्या॑-श्राव्य॑ । आ॒ह॒ ।
दे॒वान् । य॒ज॒ । इति॑ ।

सायण-टीका

यस्मिन्न् आहवनीयस्य दक्षिणे देशे ब्रह्मा वर्तते ऽत्रैवैतस्मिन्-काले यज्ञ आश्रितस् तत्-समीपे स्थित्वा होतव्यत्वात्। अतो ब्रह्मानुज्ञापनेन यज्ञो यस्मिन् देश आश्रितस् तत एव देवान् यज्ञम् उपक्रान्तवान् भवति। ब्रह्मणो वाचैवानुज्ञा-प्रदानं विधत्ते -

‘यद् हस्तेन इति’। किम् अयं ब्रह्मा हस्ताग्र-संचालनेनानुजानीते किंवा शिरश्-चालनेनाथवा तूष्णीम् एवाऽऽस्त आहोस्वित् ‘प्रतिष्ठेत्य् एतया वाचा। नाऽऽद्यः। कम्प-प्रसङ्गात्। यदि हस्त-चालनेन प्रमीयेत् प्ररेयेत्तदा तदा शरीरे वातादि-जन्यः कश्चित् कम्प-रोग उत्पद्यते। शिरसाभ्यनुज्ञाने शीर्षक्तिमाञ् शिरो-रोगवान् भवेत्। तूष्णीम् अवस्थाने यज्ञो ऽसंप्रत्तः सम्यक्-प्रवृत्तो न भवेत्। तस्मात् ‘प्रतिष्ठा’ इत्य् अनया वाचैवाभ्यनुज्ञानं परिशिष्यते। तथा सति यज्ञस्य मन्त्र-रूपायां वाचि श्रितत्वात् तद्-योग्याद् आश्रयाद् यज्ञं प्रयच्छति।"

यद् उक्तं सूत्र-कारेण-

“ब्रह्मन् प्रस्थास्याम इत्य् उच्यमाने देव सवितर् एतत् ते प्राह तत् प्र च सुव प्र च यज बृहस्पतिर् ब्रह्मा स यज्ञं पाहि स यज्ञ-पतिं पाहि स मां पाह्यों प्रतिष्ठेति प्रसौति”

इति। सो ऽयं शाखान्तर आम्नातो मन्त्रस् तस्यायम् अर्थः- हे सवितर्-देव यद् एतत् ‘प्रस्थास्याम’ इत्य् अनुज्ञापनं तद् एतत् तवाध्वर्युः प्राह तस्मात् त्वं प्रसुव च प्रयज च। बृहस्पतिर् एवात्र ब्रह्मा। हे बृहस्पते स त्वं यज्ञं पाहि यज्ञ-पतिं मनुष्य-ब्रह्म-रूपं माम् अपि पाहि। हे अध्वर्यो यत् त्वयोक्तं तद् ॐ तथास्तु। अनूयाजान् यष्टुं प्रस्थानं कुर्व् इति।

तस्यैतस्य मन्त्रस्य भागान् व्याचष्टे -
‘देव सवितर् इति’। यद् उक्तं सूत्र-कारेण—“औपभृतं जुह्वाम् आनीय जुहूपभृताव् आदाय दक्षिणा सकृद् अतिक्रान्तो ऽग्रेणाघार-संभेदं प्रतीचस् त्रीन् अनूयाजान् यजत्य् आश्रावम् आश्रावम् प्रत्याश्राविते ‘देवान् यज’ इति प्रथमँ संप्रेष्यति ‘यज यजेतीतरौ” इति। आ(तत्राऽऽ)श्रावण-पूर्वकं प्रथम-याग-संप्रेषं विधत्ते-

“आश्राव्य इति।”

मूलम्

ब्रह्मवा॒दिनो॑ वदन्ति ।
इ॒ष्टा दे॒वताः॑ ।
अथ॑ कत॒म ए॒ते दे॒वा इति॑ ।
छन्दाँ॒सीति॑ ब्रूयात् ।
गाय॒त्रीन्त्रि॒ष्टुभ॒ञ्जग॑ती॒मिति॑ ।
अथो॒ खल्वा॑हुर्ब्राह्म॒णा वै छन्दाँ॒सीति॑ ।
ताने॒व तद्य॑जति ।

पद-पाठः

ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।

इ॒ष्टाः । दे॒वताः॑ ।
अथ॑ । क॒त॒मे । ए॒ते । दे॒वाः । इति॑ ।

छन्दाँ॑सि । इति॑ । ब्रू॒या॒त् ।
गा॒य॒त्रीम् । त्रि॒ष्टुभ॑म् । जग॑तीम् । इति॑ ।

अथो॒ इति॑ । खलु॑ । आ॒हुः॒ ।

ब्रा॒ह्म॒णाः । वै । छन्दाँ॑सि । इति॑ ।
तान् । ए॒व । तत् । य॒ज॒ति॒ ।

सायण-टीका

अथ पूर्वोत्तर-पक्षाभ्याम् अनूयाजार्थं देवता-सद्भावं दर्शयति - “ब्रह्मवादिन इति।” या देवता अग्नि-प्रजापत्यादयो यष्टव्यास् ताः सर्वाः पुरोडाशादिभिर् एवेष्टाः। अथ यान् देवान् यष्टुम् अयम् अध्वर्युः प्रयतते ते देवाः कतमे, न खल्व् अवशिष्टाः केचिद् देवाः सन्तीति पूर्वः पक्षः। अत्र सिद्धान्तः- छन्दांस्य् अवशिष्टानीत्य् उत्तरं ब्रूयात्, गायत्रीं त्रिष्टुभं जगतीं च यष्टुम् अध्वर्योर् यत्न इति। अपि चान्ये तत्र विशेषम् आहुः-

छन्दसां ब्राह्मणैर् अध्येतव्यत्वाद् ब्राह्मणा एव छन्दो-रूपा

इति। तस्माद् ब्राह्मणान् एवाध्वर्युर् यजतीत्य् उत्तरम्। ब्राह्मण-जात्यभिमानी यो ऽग्निः स एवानूयाज-देवतेति तात्पर्यार्थः।

मूलम्

दे॒वानाव्ँ॒वा इ॒ष्टा दे॒वता॒ आसन् ।
अथा॒ग्निर्नोद॑ज्वल॒त् ।
तन्दे॒वा आहु॑तीभिरनूया॒जेष्वन्व॑विन्दन् ।
यद॑नूया॒जान्यज॑त्य॒ग्निमे॒व तत्समि॑न्द्धे ।

ए॒तदु॒र्वै नामा॑सु॒र आ॑सीत् ।
स ए॒तर्हि॑ य॒ज्ञस्या॒शिष॑मवृङ्क्त ।
यद्ब्रू॒यादे॒तदु॒ द्या॒वा॒पृ॒थि॒वी॒ भ॒द्रम॑भू॒दिति॑ ।
ए॒तदु॑मे॒वासु॒रय्ँ य॒ज्ञस्या॒शिष॑ङ्गमयेत् ।
इ॒दन्द्या॑वापृथिवी भ॒द्रम॑भू॒दित्ये॒व ब्रू॑यात् ।
यज॑मानमे॒व य॒ज्ञस्या॒शिष॑ङ्गमयति ।
आर्ध्म॑ सूक्तवा॒कमु॒त न॑मोवा॒कमित्या॑ह।
इ॒दम॑रा॒त्स्मेति॒ वावैतदा॑ह ।
उप॑श्रितो दि॒वᳶ पृ॑थि॒व्योरित्या॑ह ।
द्यावा॑पृथि॒व्योर्हि य॒ज्ञ उप॑श्रितः ।
ओम॑न्वती ते॒ऽस्मिन्य॒ज्ञे य॑जमान॒ द्यावा॑पृथि॒वी स्ता॒मित्या॑ह ।
आ॒शिष॑मे॒वैतामा शा॑स्ते ।

पद-पाठः

दे॒वाना॑म् । वै । इ॒ष्टाः । दे॒वताः॑ । आस॑न् ।

अथ॑ । अ॒ग्निः । न । उदिति॑ । अ॒ज्व॒ल॒त् ।
तम् । दे॒वाः । आहु॑तीभि॒रित्या-हु॒ती॒भिः॒ । अ॒नू॒या॒जेष्वित्य॑नु-या॒जेषु॑ । अन्विति॑ । अ॒वि॒न्द॒न् ।

यत् । अ॒नू॒या॒जानित्य॑नु-या॒जान् । यज॑ति ।
अ॒ग्निम् । ए॒व । तत् । समिति॑ । इ॒न्द्धे॒ ।

ए॒तदुः॑ । वै । नाम॑ । आ॒सु॒रः । आ॒सी॒त् ।
सः । ए॒तर्हि॑ । य॒ज्ञस्य॑ । आ॒शिष॒मित्या॑-शिष॑म् । अ॒वृ॒ङ्क्त॒ ।

यत् । ब्रू॒यात् । ए॒तत् । उ॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा-पृ॒थि॒वी॒ । भ॒द्रम् । अ॒भू॒त् । इति॑ ।

ए॒तदु॑म् । ए॒व । आ॒सु॒रम् । य॒ज्ञस्य॑ । आ॒शिष॒मित्या॑-शिष॑म् । ग॒म॒ये॒त् ।

इ॒दम् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा-पृ॒थि॒वी॒ । भ॒द्रम् । अ॒भू॒त् । इति॑ । ए॒व । ब्रू॒या॒त् ।

यज॑मानम् । ए॒व । य॒ज्ञस्य॑ । आ॒शिष॒मित्या॑-शिष॑म् । ग॒म॒य॒ति॒ ।

आर्ध्म॑ । सू॒क्त॒वा॒कमिति॑ सूक्त-वा॒कम् । उ॒त । न॒मो॒वा॒कमिति॑ नमः-वा॒कम् । इति॑ । आ॒ह॒ ।

इ॒दम् । अ॒रा॒त्स्म॒ । इति॑ । वाव । ए॒तत् । आ॒ह॒ ।
उप॑श्रित॒ इत्युप॑-श्रि॒तः॒ । दि॒वः । पृ॒थि॒व्योः । इति॑ । आ॒ह॒ । द्यावा॑पृथि॒व्योरिति॒ द्यावा॑-पृ॒थि॒व्योः । हि । य॒ज्ञः । उप॑श्रित॒ इत्युप॑-श्रि॒तः॒ ।

ओम॑न्वती॒ इत्योम॑न्न्-व॒ती॒ । ते॒ । अ॒स्मिन् । य॒ज्ञे । य॒ज॒मा॒न॒ । द्यावा॑पृथि॒वी इति॒ द्यावा॑-पृ॒थि॒वी । । स्ता॒म् । इति॑ । आ॒ह॒ ।

आ॒शिष॒मित्या॑-शिष॑म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ ।

भट्टभास्कर-टीका

1अग्नीध इति ॥ आग्नीध्रभागविधिः । ऋतून् कालस्य प्रवर्तकान् अग्निसहितान् प्रीणयति । फिडन्तोदात्तत्वम् ॥

सायण-टीका

अथानूयाजान् विधत्ते -

‘देवानाम् इति’। पुरा कदाचिद् देवा यागं कृतवन्तस् तत्राग्नि-प्रजापत्यादयो यद् देवैर् इष्टास् तदा तद्-यागाद् ऊर्ध्वम् आहुत्य्-आधार-भूतो ऽग्निः प्रज्वलितो नाभूत्। ततो देवा अनूयाजेषु प्रविश्य निलीनम् अन्विष्याहुतिभिर् लब्धवन्तः। तस्माद् अनूयाजान् यजेत् तेनाग्निम् एव प्रज्वालितवान् भवति।

एतेषां चानूयाजानां मन्त्रास् तदीये मन्त्र-काण्ड एवाम्नाताः-

“देवं बर्हिः। वसुवने वसुधेयस्य वेतु। देवो नराशँसः। वसुवने वसुधेयस्य वेतु। देवो अग्निः स्विष्टकृत्। सुद्रविणा मन्द्रः कविः। सत्यमन्माऽऽयजी होता। होतुर् होतुर् आयजीयान्। अग्ने यान् देवान् अयाट्। याँ अपिप्रेः। ये ते होत्रे अमत्सत। ताँँ ससनुषीं होत्रां देवं-गमाम्। दिवि देवेषु यज्ञम् एरयेमम्। स्विष्टकृच् चाग्ने होताऽभूः। वसुवने वसुधेयस्य नमोवाके वीहि” (बा. का. ३ प्र. ५ अ. ९)

इति।

देवं द्योतन-शीलं बर्हिर्-नामकं यद् अग्नि-स्वरूपं तद् एतद् वसुधेयस्य वेतु। आज्यं वसु-रूपं यद् एतद् अग्नाव् आधेयं तद् एतद् भक्षयतु। किम् अर्थं, वसुवने-वसुनो धनस्य वननं भजनं वसु-वंस् तस्मै। यजमानस्य धन-प्राप्त्यर्थम् इत्य् अर्थः। एवं नराशंस-नामे ऽप्य् अग्नौ योजयितव्यम्। स्विष्टकृन्-नामको ऽग्निः। सो ऽयं सु-द्रविणा शोभन-धनः। मन्द्रो हर्षण-शीलः। कविर् विद्वान्। सत्य-मन्मा सत्य-मननः। आयजी शास्त्रीयया मर्यादया यष्टा। होता देवानाम् आह्वाता। होतुर् होतुर् आयजीयाल् लोके यो यो होता तस्मात् तस्मात् सर्वस्माद् अतिशयेन शास्त्रीय-मर्यादानुल्लङ्घनेन यष्टा। हे अग्ने ईदृशस् त्वं यान् देवान् अयाड् यष्टवान् असि, यांश् च देवान् अपिप्रेः प्रीणितवान् असि, ये च देवास् ते तत्र होत्रे होतृ-कृत्येमत्सत यजनेमाद्यन् हृष्टवन्तः, दिवि स्थितेषु देवेषु ससनुषीं हविर्-दत्तवतीं देवं-गमां देवान् अवगच्छन्तीं तां होत्रां होतृ-क्रियाम् इमम् अस्मदीयं यज्ञम् एरयाभिमुख्येन प्रापय, अस्मदीये यज्ञे सर्व-देव-तुष्टि-करीं होतृ-क्रियां त्वम् अनुतिष्ठेत्य् अर्थः। हे अग्ने त्वं स्विष्ट-कृद् धोता चाभूर् यद् अस्माभिर् इष्टं तच् छोभनं त्वया कृतं तादृशो होमस्य कर्ताभूः। अतो नमो-वाके यजमानस्य नमस्कारोक्तौ सत्यां वसुवने धनस्य संभजनाय वसुधेयस्य वीहि अग्नाव् आधीयमानम् इदम् आज्य-रूपं द्रव्यं भक्षय।

तैर् एतैर् मन्त्र-काण्डोक्तैर् मन्त्रैः प्रसिद्धा अनूयाजाः प्रपञ्चिताः। अथ प्रस्तर-प्रहरणाङ्ग-भूतः सूक्त-वाको व्याख्यातव्यः। सूक्त-वाकस्य अनूयाजानन्तर-भावित्वं बौधायनेन दर्शितम्—

“अनूयाजानां प्रथमं यजति ‘देवं बर्हिर् वसुवने वसुधेयस्य वेत्व्’ इति ‘देवो नराशंसो वसुवने वसुधेयस्य वेत्व्’ इति द्वितीयं ‘देवो अग्निः स्विष्टकृद्’ इति तृतीयम् ‘अनवानम् अनूयाजाञ् यजतीति’ ब्राह्मणम् उत्तमे ‘वामत्सतेति’ व्यनिति यदा जानाति सूक्तवाकान् अनूक्या (?) इति तदा सूक्त-वाकम् अन्वाहेदं द्यावा-पृथिवी इति प्रतिपद्य”

इति।

सो ऽयं सूक्त-वाकस्य प्रथमो भागो मन्त्र-काण्ड एवम् आम्नातः-

“इदं द्यावा-पृथिवी भद्रम् अभूत्। आर्ध्म सूक्त-वाकम्। उत नमो-वाकम्। ऋध्यास्म सूक्तोच्यम् अग्ने त्वं सूक्त-वाग् असि। उपश्रितो दिवः पृथिव्योः। ओमन्वती ते ऽस्मिन् यज्ञे यजमान द्यावा-पृथिवी स्ताम्। शं-गये जीर-दानू। अत्रस्नू अप्रवेदे। उरु-गव्यूती अभयं-कृतौ। वृष्टि-द्यावा रीत्यापा। शं-भुवौ मयो-भुवौ। ऊर्जस्वती च पयस्वती च। सूपचरणा च स्वधिचरणा च। तयोर् आविदि” (ब्रा. का. ३ प्र. ५ अ. १०)

इति।

हे द्यावा-पृथिवी इदम् ईदृशं भद्रं कल्याणम् अभूत्। कीदृशम् इति। तद् उच्यते—ते वयं सूक्त-वाकम् आर्ध्स्म, श्रद्धाल् अयं यजमानः सम्यग् अनेन हविर् दत्तम् इत्यादि-वाक्यानि सूक्तानि तेषां सूक्तानां देवैर् मनुष्यैर् वा वचनं वाकस् तद् यथा भवति तथा समृद्धिं गताः स्मः। अथवा ‘अग्निर् इदं हविर् अजुषत। अवीवृधत महो ज्यायो ऽकृत’ इत्यादीनि सूक्तानि तेषां वचनम् अत्र यथा भवति तथा वयम् ऋद्धिं गताः। अपि च ‘नमो देवेभ्य’ इत्य् उक्तिर् नमो-वाकः, स यथा भवति तथा वयम् ऋद्धिं प्राप्ताः। हे अग्ने त्वया सूक्तोच्यं ‘यजमानः समृद्धं हविर् दत्तवान्’ इत्य् एतादृशं सूक्तं वक्तव्यं, तेन वयम् ऋध्यास्म समृद्धिं प्राप्ता भूयास्म। यथा त्वं द्यावा-पृथिव्योर् उपश्रितो ऽवस्थितो भूत्वा सूक्त-वाग् असि सूक्तं वक्तुं क्षमो ऽसि। हे यजमान तव संबन्धिन्य् अस्मिन् यज्ञे द्यावा-पृथिव्याव् ओमन्वती रक्षण-वत्यौ स्ताम्। कीदृशे (शौ), शं-गये सुखस्य प्रापयित्र्यौ, जीर-दानू वृष्ट्यादि-द्वारेण जीवन-प्रदात्र्यौ, अत्रस्नू भय-रहिते, अप्रवेदे अस्मदीयानां दोषाणाम् अकथयित्र्यौ, उरु-गव्यूती प्रसूत-तृणोदिक-युक्तत्वेन विस्तीर्ण-गो-चारेण, अभयं-कृताव् अस्मास्व् अभयस्य कर्त्र्यौ, वृष्टि-द्यावा वृष्टेः प्रकाशयित्र्यौ, रीत्यापा रीतेः सन्-मार्ग-वृत्ति-प्रकारस्य प्रापयित्र्यौ, शं-भुवौ रोगाद्य्-अनिष्ट-शान्तेः प्रापयित्र्यौ मयो-भुवाव् अन्न-पानादि-सुखस्य प्रापयित्र्यौ, युवयोर् मध्ये द्यौर् इयम् ऊर्जस्वती वृष्टि-रूप-रसवती, पृथिवीयं पयस्वती तृणोदक-द्वारा बहुल-क्षीरादि-युक्ता। तथेयं द्यौः सूपचरणा देवताधिवास-स्थानत्वेन सुष्ठूपचरितव्या। इयं पृथिवी स्वधिचरणा सुखेन आश्रयितुं शक्या। तयोर् द्यावा-पृथिव्योर् आविदि आज्ञायां सत्याम्, ‘अग्निर् इदं हविर् अजुषत’ इत्य् अनेन वक्ष्यमाणेन अन्वयः।

अस्य सूक्त-वाकस्य प्रथम-वाक्यं शाखान्तरेन्यथा पठितम्— “एतद् उ द्यावा पृथिवी भद्रम् अभूत्” इति, तद् इदं दूषयित्वा स्व-शाखा-पाठं प्रशंसति- “एतद् उ वै नाम इति।” एतद्-उ-नामा कश्चिद(दा)सुर आसीत्। स कस्यचिद् यज्ञ एतस्मिन् सूक्तवाक-काले समागत्यायुर आशास्ते ‘सुप्रजास्त्वम् आशास्ते’ इत्यादिकाम् आशिषं यजमान-संबन्धिनीं विनाश्य स्व-संबन्धिनीम् अकरोत्। तस्माद् ‘एतद् उ द्यावा-पृथिवी’ (वी इ) इति यदि होता पठेत् तदासुरस्यैवाशीः-प्राप्तिः स्यात्। ततः शाखान्तर-पाठं परित्यज्य ‘इदं द्यावा-पृथिवी भद्रम्’ इत्य् एव पठेत्। तथा सति यजमानस्यैवाशीः-प्राप्तिर् भवति।

सूक्त-वाक-नमो-वाक-शब्दयोः क्रिया-विशेषणत्वं दर्शयति -

‘आर्ध्मेति’। इदं द्वयं यथा भवति तथा समृद्धिं प्राप्ता इत्य् एवैतन् मन्त्र-वाक्यं ब्रूते। यज्ञस्याग्नि-रूपेण पृथिव्यां फल-रूपेण दिवि चाश्रितत्वं प्रसिद्धम् इत्य् एतद् दर्शयति - ‘उपश्रित इति’। ‘रक्षण-वत्यौ स्ताम्’ इत्य् एतादृग् आशीर् अत्र विवक्षितेती दर्शयति- “ओमन्वतीति।”

मूलम् (संयुक्तम्)

यद्ब्रू॒यात्सू॑पावसा॒ना च॑ स्वध्यवसा॒ना चेति॑ प्र॒मायु॑को॒ यज॑मानस्स्याद्य॒दा हि प्र॒मीय॒तेऽथे॒मामु॑पाव॒स्यति॑ सूपचर॒णा च॑ स्वधिचर॒णा चेत्ये॒व ब्रू॑या॒द्वरी॑यसीमे॒वास्मै॒ गव्यू॑ति॒मा शा॑स्ते॒ न प्र॒मायु॑को भवति

विश्वास-प्रस्तुतिः

यद्ब्रू॒यात् सू॑पावसा॒ना च॑ स्वध्यवसा॒ना चेति॑ ।
प्र॒मायु॑को॒ यज॑मानस्स्यात् ।
य॒दा हि प्र॒मीय॒ते ।
अथे॒मामु॑पाव॒स्यति॑ ।

मूलम्

यद्ब्रू॒यात् सू॑पावसा॒ना च॑ स्वध्यवसा॒ना चेति॑ ।
प्र॒मायु॑को॒ यज॑मानस्स्यात् ।
य॒दा हि प्र॒मीय॒ते ।
अथे॒मामु॑पाव॒स्यति॑ ।

पद-पाठः

यत् । ब्रू॒यात् । सू॒पा॒व॒सा॒नेति॑ सु-उ॒पा॒व॒सा॒ना । च॒ । स्व॒ध्य॒व॒सा॒नेति॑ सु-अ॒ध्य॒व॒सा॒ना । च॒ । इति॑ ।
प्र॒मायु॑क॒ इति॑ प्र-मायु॑कः । यज॑मानः । स्यात् ।
य॒दा । हि । प्र॒मीय॑त॒ इति॑ प्र-मीय॑ते ।
अथ॑ । इ॒माम् । उ॒पा॒व॒स्यतीत्यु॑प-अ॒व॒स्यति॑ ।

भट्टभास्कर-टीका

2यदा हीत्यादि ॥ मृत्युभिः पृथिवीमुपेत्यावस्यतीति ।

सायण-टीका

शाखान्तर-पठितम् अवसान-शब्दं दूषयित्वा स्व-पाठं प्रशंसति - ‘यद् ब्रूयाद् इति’। यदा पुरुषो म्रियते तदानीं पर्यङ्क-शयनादि-परित्यागेनेमां भूमिम् उपेत्यावसानं गच्छति तस्मात् तादृशस्यार्थस्य सूचके सूपावसान-शब्दे प्रयुक्ते सति मरण-शीलो भवति। भूमि-विषयकेण स्वधिचरणेति-शब्देन वरीयसीम् अतिबहुलां गव्यूतिं कामितवान् भवति। सूक्त-वाकस्य द्वितीय-भाग-पाठस् तु-

“अग्निर् इदं हविर् अजुषत। अवीवृधत महो ज्यायो ऽकृत। सोमो इदं हविर् अजुषत। अवीवृधत महो ज्यायो ऽकृत। अग्निर् इदं हविर् अजुषत। अवीवृधत महो ज्यायो ऽकृत। प्रजापतिर् इदं हविर् अजुषत। अवीवृधत महो ज्यायो ऽकृत। अग्नीषोमाव् इदं हविर् अजुषेताम्। अवीवृधेतां महो ज्यायो ऽक्राताम्। इन्द्राग्नी इदं हविर् अजुषेताम्। अवीवृधेतां महो ज्यायो ऽक्राताम्। इन्द्र इदं हविर् अजुषत। अवीवृधत महो ज्यायो ऽकृत। महेन्द्र इदं हविर् अजुषत। अवीवृधत महो ज्यायो ऽक्रत। देवा आज्यपा आज्यम् अजुषन्त। अतीवृधन्त महो ज्यायो ऽक्रत। अग्निर् होत्रेणेदं हविर् अजुषत। अवीवृधन्त महो ज्यायो ऽकृत” (बा. का. ३ प्र. ५ अ. १०)

इति।

आज्य-भाग-देवो ऽयम् अग्निर् दत्तं हविर् असेवत। सेवित्वा च यजमानं वर्धितवान्। तस्य च यजमानस्याधिकं तेजः कृतवान्। एवं सोमादिषु स्विष्टकृद्-अग्नि-पर्यन्तेषु योज्यम्। देवता-क्रमश् चात्रावाहन-निगदवत्। तत्र होत्रेण होम-निमित्तेन होमस्य स्विष्ट-कृत्त्वं कर्तुम् इत्य् अर्थः।

विश्वास-प्रस्तुतिः

सूपचर॒णा च॑ स्वधिचर॒णा चेत्ये॒व ब्रू॑यात् ।
वरी॑यसीमे॒वास्मै॒ गव्यू॑ति॒मा शा॑स्ते ।
न प्र॒मायु॑को भवति ।

मूलम्

सूपचर॒णा च॑ स्वधिचर॒णा चेत्ये॒व ब्रू॑यात् ।
वरी॑यसीमे॒वास्मै॒ गव्यू॑ति॒मा शा॑स्ते ।
न प्र॒मायु॑को भवति ।

पद-पाठः

सू॒प॒च॒र॒णेति॑ सु-उ॒प॒च॒र॒णा । च॒ । स्व॒धि॒च॒र॒णेति॑ सु-अ॒धि॒च॒र॒णा । च॒ । इति॑ । ए॒व । ब्रू॒या॒त् ।

वरी॑यसीम् । ए॒व । अ॒स्मै॒ । गव्यू॑तिम् । एति॑ । शा॒स्ते॒ ।
न । प्र॒मायु॑क॒ इति॑ प्र-मायु॑कः । भ॒व॒ति॒

भट्टभास्कर-टीका

एवमिदं शाखान्तरीयं पाठं निन्दित्वा पाठान्तरं दर्शयति । सूपचरणा चेत्यादि। सुष्ठु इमामुपेत्य चरन्ति जन्तव इति सूपचरणा पृथिवी । सुष्ठु इमामधिरुह्य चरन्तीति स्वधित्ररणा द्यौः । ‘छन्दसि गत्यर्थेभ्यः’ इति युच्, बहुव्रीहिर्वा ।
वरीयसीम् उरुतरां गव्यूतिं गवां सुखसञ्चारस्थानं द्यावापृथिव्यात्मकं यजमानायाशास्ते । ‘गोर्यूतौ छन्दसि’ इत्यवादेशः । ‘ऊतियूति’ इति क्तिनि यूतिशब्दो निपातितः । विकृतत्वान्नावगृह्यते ॥

मूलम् (संयुक्तम्)

तयो॑रा॒विद्य॒ग्निरि॒दँ ह॒विर॑जुष॒तेत्या॑ह॒ या अया॑क्ष्म [54] दे॒वता॒स्ता अ॑रीरधा॒मेति॒ वावैतदा॑ह॒ यन्न नि॑र्दि॒शेत्प्रति॑वेशय्ँ य॒ज्ञस्या॒शीर्ग॑च्छे॒दा शा॑स्ते॒ऽयय्ँयज॑मानो॒ऽसावित्या॑ह नि॒र्दिश्यै॒वैनँ॑ सुव॒र्गल्ँ लो॒कङ्ग॑मय॒त्यायु॒रा शा॑स्ते सुप्रजा॒स्त्वमा शा॑स्त॒ इत्या॑ह

विश्वास-प्रस्तुतिः

तयो॑रा॒विद्य॒ग्निरि॒दँ ह॒विर॑जुष॒तेत्या॑ह ।
या अया॑क्ष्म दे॒वता॒स्ता अ॑रीरधा॒मेति॑ । वावैतदा॑ह

मूलम्

तयो॑रा॒विद्य॒ग्निरि॒दँ ह॒विर॑जुष॒तेत्या॑ह ।
या अया॑क्ष्म दे॒वता॒स्ता अ॑रीरधा॒मेति॑ । वावैतदा॑ह

पद-पाठः

तयोः॑ । आ॒विदीत्या॑-विदि॑ । अ॒ग्निः । इ॒दम् । ह॒विः । अ॒जु॒ष॒त॒ । इति॑ । आ॒ह॒ ।
याः । अया॑क्ष्म । । दे॒वताः॑ । ताः । अ॒री॒र॒धा॒म॒ । इति॑ । वाव । ए॒तत् । आ॒ह॒ ।

भट्टभास्कर-टीका

3तयोराविदीत्यादि ॥ तयोः द्यावापृथिव्योः आविदि आभिमुख्येन लाभे सति अग्निरिदं हविः अजुषत असेवत, आत्मीयं च महत्तेजः अवीवृधत अवर्जयत् । ज्यायः प्रशस्तं च अकृत कृतवान् । यस्मादेवमग्न्यादिका देवता अयाक्ष्म इष्टवन्तो वयं ता अरीरधाम, तेजःप्रभृतिभिश्च समृद्धा वयम् अकार्ष्मेति ।

सायण-टीका

“तस्यैतस्य मन्त्र-काण्डाम्नातस्य सूक्त-वाक-मध्य-भागस्य तात्पर्यं दर्शयति -
‘तयोर् आविदीति’। पूर्वम् ‘आर्ध्स्म सूक्त-वाकम्’ इत्य् अनेन वयं वृद्धिं प्राप्ता इति स्वकीयैवाभिवृद्धिर् उक्ता। इदानीम् ‘अग्निर् इदं हविर् अजुषत’ इत्यादिभिर् देवता-विषयाभिवृद्धिर् उच्यते। या देवता वयम् अयाक्ष्म वयम् इष्टवन्तस् ता देवता अरीरधाम यथा राध्नुवन्ति समृद्धा भवन्ति तथाकार्ष्मेत्य् एतम् एवार्थम् ‘अग्निर् इदम्’ इत्यादि-मन्त्र-वाक्यं ब्रूते। सूक्त-वाकस्य चरम-भाग एवम् आम्नातः-

“अस्याम् ऋधद् धोत्रायां देवं-गमायाम्। आशास्ते ऽयं यजमानो ऽसौ। आयुर् आशास्ते। सु-प्रजास्त्वम् आशास्ते। सजात-वनस्याम् आशास्ते। उत्तरां देव-यज्याम् आशास्ते। भूयो हविष्-करणम् आशास्ते। दिव्यं धाम आशास्ते। विश्वं प्रियम् आशास्ते। यद् अनेन हविषाशास्ते। तद् अश्ञात् तद् ऋध्यात्। तद् अस्मै देवा रासन्ताम्। तद् अग्निर् देवो देवेभ्यो वनते। वयम् अग्नेर् मानुषाः। इष्टं च वीतं च। उभे च नो द्यावा-पृथिवी अंहसस्पाताम्। इह गतिर् वामस्येदं च। नमो देवेभ्यः” (ब्रा. का. ३ प्र. ५ अ. १०)

इति।

अस्यां सूक्त-वाक-पाठ-पूर्विकायां होत्रायां प्रस्तर-प्रहरण-रूपायां होम-क्रियायां देवं-गमायां देवान् प्राप्नुवत्यां सत्यम् ऋधद् ऋध्नोतु यजमानः समृद्धिं प्राप्नोतु। असौ विष्णु-रुद्रादि-शर्मा यजमानः स्वस्यायुः प्रार्थयते सु-प्रजास्त्वं शोभनापत्य-युक्तत्वं सजात-वनस्यां समान-जातीयैर् वननं सेव्यत्वम् आत्मन इच्छतीति व्युत्पत्तिम् अभिप्रेत्यैतत् ‘सजात-वनस्येत्य्’ उच्यते। उत्तरा देव-यज्या कालान्तर-भाविनी सेयम् इष्टिः। भूयो हविष्-करणं प्रभूत-सोम-यागादि-रूपम्। दिव्यं धाम स्वर्ग-स्थानम्। किं बहुना, विश्वं प्रियं, यद् यत् सर्वम् आत्मनो ऽनेन हविषा प्रस्तराख्येन (ण) यजमानः फलम् आशास्ते तद् अश्ञात् तत् फलं भुङ्क्ताम्। तच् च फलम् ऋध्यात् समृद्धम् अस्य भवतु। तत् सर्वम् अस्मै यजमानायाग्न्यादयो रासन्तां साधयन्ताम्। तत् फलम् अग्निर् देवो देवेभ्यः सर्वेभ्य आनीय वनते यजमानं तद्-भागिनं करोति। वयं च होत्रादयो मानुषाः सन्तो ऽग्नेः प्रसादात् संभावित-फलं मनुष्येभ्य आनयाम इति शेषः। किं तद् दैवं मानुषं च फलम् इति तद् उच्यते ‘इष्टं च वीतं च’ इति। इष्टं याग-निमित्तं स्वर्ग-साधनं पुण्यं यद् अस्ति तद् दैवं, वीतम् अशन-खादि-रूपं यद् अस्ति तद् एतन् मानुषम्। किं त्व् एते द्यावा-पृथिवी उभे अपि नो ऽस्मान् अंहसः पाशात् फल-प्रतिबन्धकात् पातां रक्षताम्। इहास्मिन् कर्मणि वामस्य कमनीयस्य धनस्य गतिः प्राप्तिर् अस्तु। इदं च हविर् देवैः स्वीक्रियताम् इति शेषः। नमस्कारः सर्वेभ्यो देवेभ्यो ऽस्तु।

विश्वास-प्रस्तुतिः

यन्न नि॑र्दि॒शेत् ।
प्रति॑वेशय्ँ य॒ज्ञस्या॒शीर्ग॑च्छेत् ।
आ शा॑स्ते॒ऽयय्ँयज॑मानो॒ऽसावित्या॑ह ।
नि॒र्दिश्यै॒वैनँ॑ सुव॒र्गल्ँ लो॒कङ्ग॑मय॒त्यायु॒रा शा॑स्ते ।
सु॒प्र॒जा॒स्त्वमा शा॑स्त॒ इत्या॑ह ।

मूलम्

वावैतदा॑ह यन्न नि॑र्दि॒शेत् ।
प्रति॑वेशय्ँ य॒ज्ञस्या॒शीर्ग॑च्छेत् ।
आ शा॑स्ते॒ऽयय्ँयज॑मानो॒ऽसावित्या॑ह ।
नि॒र्दिश्यै॒वैनँ॑ सुव॒र्गल्ँ लो॒कङ्ग॑मय॒त्यायु॒रा शा॑स्ते ।
सु॒प्र॒जा॒स्त्वमा शा॑स्त॒ इत्या॑ह ।

पद-पाठः

यत् । न । नि॒र्दि॒शेदिति॑ निः-दि॒शेत् ।
प्रति॑वेश॒मिति॒ प्रति॑-वे॒श॒म् । य॒ज्ञस्य॑ । आ॒शीरित्या॑-शीः । ग॒च्छे॒त् ।

एति॑ । शा॒स्ते॒ । अ॒यम् । यज॑मानः । अ॒सौ । इति॑ । आ॒ह॒ ।
नि॒र्दिश्येति॑ निः-दिश्य॑ । ए॒व । ए॒न॒म् । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । ग॒म॒य॒ति॒ ।
आयुः॑ । एति॑ । शा॒स्ते॒ ।

सु॒प्र॒जा॒स्त्वमिति॑ सुप्रजाः-त्वम् । एति॑ । शा॒स्ते॒ । इति॑ । आ॒ह॒ ।

भट्टभास्कर-टीका

एतदस्य मन्त्रभागप्रतिपाद्यमिति दर्शयति । यन्नेति । एतन्नामा अयं यजमान आशास्ते इति यदि विशिष्टं न निर्दिश्येत तदा यज्ञस्याशीः आशासनीयमायुरादिकं यज्ञफलं प्रतिवेशं पार्श्वस्थं यं कंचित् गच्छेत्, तस्मादयं भवदत्तशर्मा यजमान इति निर्दिश्य एवमेव स्वर्गं गमयतीति आयुरादि दिव्यधामपर्यन्तं विश्वं प्रियं प्रापयतीति यावत् ॥

सायण-टीका

मन्त्र-गतेन ‘असौ’ इति पदेन यजमान-नाम-निर्देशो विवक्षित इत्याह -

‘यन् न निर्दिशेद् इति’। यद्य् अत्र न यजमानस्य नाम निर्दिशेत्, यज्ञ-संबन्धिन्य् आयुरादि-रूपा येयम् आशी सा प्रति-वेशं गच्छेद् यजमान-प्रतिरूपकं यज्ञ-शालां प्रविष्टं पार्श्व-स्थं यं कंचित् पुरुषं प्राप्नुयाद् ‘असौ’ इति नाम निर्दिशेत्। यजमानम् एव स्वर्गं प्रापयति। एतम् एव नाम-निर्देशम् अभिप्रेत्यान्यत्राम्नातम्—

“यर्हि होता यजमानस्य नाम गृह्णीयात् तर्हि ब्रूयाद् एमा अग्मन्”

इति। ‘आशास्ते ऽयं यजमान’ इत्य् अस्मिन् वाक्ये यद् आशासनीयं संग्रह-रूपेण विवक्षितं तद् एवायुरादि-वाक्यैः प्रपञ्चितम् इत्य् एतद् दर्शयति -
‘आयुर् इति’।

मूलम् (संयुक्तम्)

आ॒शिष॑मे॒वैतामा शा॑स्ते सजातवन॒स्यामा शा॑स्त॒ इत्या॑ह प्रा॒णा वै स॑जा॒ताᳶ प्रा॒णाने॒व [55]
नान्तरे॑ति॒ तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वन॑ते व॒यम॒ग्नेर्मानु॑षा॒ इत्या॑हा॒ग्निर्दे॒वेभ्यो॑ वनु॒ते व॒यम्म॑नु॒ष्ये॑भ्य॒ इति॒ वावैतदा॑हे॒ह गति॑र्वा॒मस्ये॒दञ्च॒ नमो॑ दे॒वेभ्य॒ इत्या॑ह

विश्वास-प्रस्तुतिः

आ॒शिष॑मे॒वैतामा शा॑स्ते ।
सजातवन॒स्यामा शा॑स्त॒ इत्या॑ह ।
प्रा॒णा वै स॑जा॒ताᳶ प्रा॒णाने॒व नान्तरे॑ति ।

मूलम्

आ॒शिष॑मे॒वैतामा शा॑स्ते ।
सजातवन॒स्यामा शा॑स्त॒ इत्या॑ह ।
प्रा॒णा वै स॑जा॒ताᳶ प्रा॒णाने॒व नान्तरे॑ति ।

पद-पाठः

आ॒शिष॒मित्या॑-शिष॑म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ ।

स॒जा॒त॒व॒न॒स्यामिति॑ सजात-व॒न॒स्याम् । एति॑ । शा॒स्ते॒ । इति॑ । आ॒ह॒ ।
प्रा॒णा इति॑ प्र-अ॒नाः । वै । स॒जा॒ता इति॑ स-जा॒ताः । प्रा॒णानिति॑ प्र-अ॒नान् । ए॒व । । न । अ॒न्तः । ए॒ति॒ ।

भट्टभास्कर-टीका

4आशिषमेवैतामिति ॥ प्रसिद्धपदार्थके पदे इत्यर्थः । प्राणा वै सजाता इति । समानजन्मानः प्राणा_ सजाताः तेषां वनस्याशासनात् प्राणा अनन्तरिता अनिष्टा भवन्ति ।

सायण-टीका

जीवात्मना सहोत्पन्नत्वात् प्राणाः सजात-शब्देन विवक्षिता इत्य् एतद् दर्शयति—

“सजातेति।” सजात-शब्दाभिधेयैः प्राणैर् वननस्य संभजनस्य प्रार्थ्यमानत्वात् प्राणानाम् अन्तरायं न करोति। एतैश् च प्राणैर् इतरे ऽपि सेवका उपलक्षिताः। अतः। पूर्वोक्तं मन्त्र-व्याख्यानम् अविरुद्धम्।

विश्वास-प्रस्तुतिः

तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वनु॑ते ।
व॒यम॒ग्नेर्मानु॑षा॒ इत्या॑ह ।
अ॒ग्निर्दे॒वेभ्यो॑ वनु॑ते ।
व॒यम्म॑नु॒ष्ये॑भ्य॒ इति॑।
वावैतदा॑हे॒ह गति॑र्वा॒मस्ये॒दञ्च॒ नमो॑ दे॒वेभ्य॒ इत्या॑ह ।

मूलम्

तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वनु॑ते ।
व॒यम॒ग्नेर्मानु॑षा॒ इत्या॑ह ।
अ॒ग्निर्दे॒वेभ्यो॑ वनु॑ते ।
व॒यम्म॑नु॒ष्ये॑भ्य॒ इति॑।
वावैतदा॑हे॒ह गति॑र्वा॒मस्ये॒दञ्च॒ नमो॑ दे॒वेभ्य॒ इत्या॑ह ।

पद-पाठः

तत् । अ॒ग्निः । दे॒वः । दे॒वेभ्यः॑ । वन॑ते ।
व॒यम् । अ॒ग्नेः । मानु॑षाः । इति॑ । आ॒ह॒ ।
अ॒ग्निः । दे॒वेभ्यः॑ । व॒नु॒ते ।
व॒यम् । म॒नु॒ष्ये॑भ्यः । इति॑ ।
वाव । ए॒तत् । आ॒ह॒ । इ॒ह । गतिः॑ । वा॒मस्य॑ । इ॒दम् । च॒ । नमः॑ । दे॒वेभ्यः॑ । इति॑ । आ॒ह॒ ।

भट्टभास्कर-टीका

तदग्निर्देव इत्यादि । तदाशासनीयं अग्निस्स्वयं देवस्सन् देवेभ्यो देवसकाशाद्वा वनते अस्मै यजमानाय दातुमुपादत्ते दिव्यात् भोगान् अस्मादुत्पादयति ।

वयं तु मनुष्यास्सन्तो मनुष्येभ्यो मानुषान् भोगान् यजमानार्थं वनुमः अग्नेरस्यैव प्रसादादित्येषोर्थः प्रतिपादयितुं अत्राभिप्रेत इति दर्शयितुं मनुष्येभ इति पदोपस्कारेण व्याचष्टे ।

अथ यदि विज्ञायते अग्निर्देवेभ्यो वनुते वयमग्नेस्सकाशादिति तदा एतावति प्रतिपिपादयिषिते देवो मनुष्यानिति पदद्वयोपपादनमकिञ्चित्करं स्यात् ॥

सायण-टीका

देव-सकाशान् मनुष्य-सकाशाच् च फलं फलम् अग्नौ होतरि व्यवस्थितम् इत्य् एतादृशम् अभिप्रायं दर्शयति - ‘तद् अग्निर् इति’। दिव्या मानुषाश् च भोगा विवक्षिता इत्य् अर्थः। इह कर्मणि हविर्भिर् असत्कृता अपि देवा नमस्कारेण सत्कृता भवन्तीत्य् एतद् दर्शयति - ‘इह गतिर् इति’। उभय-विध-देव-प्रासादात् स्वस्यार्तिर् न भवेद् इति।

मूलम् (संयुक्तम्)

याश्चै॒व दे॒वता॒ यज॑ति॒ याश्च॒ न ताभ्य॑ ए॒वोभयी॑भ्यो॒ नम॑स्करोत्या॒त्मनोऽना॑र्त्यै ॥ [56] इति द्वितीये षष्ठे नवमोनुवाकः ॥

विश्वास-प्रस्तुतिः

याश्चै॒व दे॒वता॒ यज॑ति ।
याश्च॒ न ताभ्य॑ ए॒वोभयी॑भ्यो॒ नम॑स्करोत्या॒त्मनोऽना॑र्त्यै ॥

मूलम्

याश्चै॒व दे॒वता॒ यज॑ति ।
याश्च॒ न ताभ्य॑ ए॒वोभयी॑भ्यो॒ नम॑स्करोत्या॒त्मनोऽना॑र्त्यै ॥ इति द्वितीये षष्ठे नवमोनुवाकः ॥

पद-पाठः

याः । च॒ । ए॒व । दे॒वताः॑ । यज॑ति ।
याः । च॒ । न । ताभ्यः॑ । ए॒व । उ॒भयी॑भ्यः । नमः॑ । क॒रो॒ति॒ । आ॒त्मनः॑ । अना॑र्त्यै ॥
इति द्वितीये षष्ठे नवमोनुवाकः ॥

भट्टभास्कर-टीका

5याश्चैवेत्यादि ॥ गतम् । प्रस्तराख्यमन्नं सर्वेभ्यो देवेभ्यः क्रियत इति । अनिष्टा देवता आर्तिमस्य नोत्पादयन्ति ॥

इति द्वितीये षष्ठे नवमोनुवाकः ॥