०८

इडाभक्षणम् ७-१५ प्राशित्रभक्षणं च

प्रजापतिर्ऋषिः

मूलम् (संयुक्तम्)

प॒शवो॒ वा इडा॑ स्व॒यमा द॑त्ते॒ काम॑मे॒वात्मना॑ पशू॒नामा द॑त्ते॒ न ह्य॑न्यᳵ काम॑म्पशू॒नाम्प्र॒यच्छ॑ति वा॒चस्पत॑ये त्वा हु॒तम्प्राश्ञा॒मीत्या॑ह॒ वाच॑मे॒व भा॑ग॒धेये॑न प्रीणाति॒ सद॑स॒स्पत॑ये त्वा हु॒तम्प्राश्ञा॒मीत्या॑ह

विश्वास-प्रस्तुतिः

प॒शवो॒ वा इडा॑ स्व॒यमा द॑त्ते ।
काम॑मे॒वात्मना॑ पशू॒नामा द॑त्ते ।
न ह्य॑न्यᳵ काम॑म्पशू॒नाम्प्र॒यच्छ॑ति ।
वा॒चस्पत॑ये त्वा हु॒तम्प्राश्ञा॒मीत्या॑ह ।
वाच॑मे॒व भा॑ग॒धेये॑न प्रीणाति ।
सद॑स॒स्पत॑ये त्वा हु॒तम्प्राश्ञा॒मीत्या॑ह ।

मूलम्

प॒शवो॒ वा इडा॑ स्व॒यमा द॑त्ते ।
काम॑मे॒वात्मना॑ पशू॒नामा द॑त्ते ।
न ह्य॑न्यᳵ काम॑म्पशू॒नाम्प्र॒यच्छ॑ति ।
वा॒चस्पत॑ये त्वा हु॒तम्प्राश्ञा॒मीत्या॑ह ।
वाच॑मे॒व भा॑ग॒धेये॑न प्रीणाति ।
सद॑स॒स्पत॑ये त्वा हु॒तम्प्राश्ञा॒मीत्या॑ह ।

पद-पाठः

प॒शवः॑ । वै । इडा॑ । स्व॒यम् । एति॑ । द॒त्ते॒ ।
काम॑म् । ए॒व । आ॒त्मना॑ । प॒शू॒नाम् । एति॑ । द॒त्ते॒ ।
न । हि । अ॒न्यः । काम॑म् । प॒शू॒नाम् । प्र॒यच्छ॒तीति॑ प्र-यच्छ॑ति ।

वा॒चः । पत॑ये । त्वा॒ । हु॒तम् । प्रेति॑ । अ॒श्ञा॒मि॒ । इति॑ । आ॒ह॒ ।
वाच॑म् । ए॒व । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । प्री॒णा॒ति॒ ।
सद॑सः । पत॑ये । त्वा॒ । हु॒तम् । प्रेति॑ । अ॒श्ञा॒मि॒ । इति॑ । आ॒ह॒ ।

भट्टभास्कर-टीका

1पशवो वा इत्यादि ॥ इडायाः स्वयमादानव्याजेन पशूनामेव कामं स्वयमादत्ते पशुभ्यः प्रदातुं हस्ते गृह्णाति । न ह्यन्यः पशूनां कामं प्रदातुमर्हतीति ॥

सायण-टीका

यद् उक्तं सूत्र-कारेण—

“पुरस्तात् प्रत्यङ्ङ् आसीन इडाया होतुर् हस्तेऽवान्तरेडाम् अवद्यत्य् अध्वर्युः प्रथमम् अवदानम् अवदधाति स्वयँ होतोत्तरम्”

इति, तद् इदं हेतुर् अवदानं विधत्ते - पशव इति। गो-रूपाया इडाया पशुत्वेन ताम् इडाम् आददानो होता पशूनाम् अभिलषितार्थं स्वीकृतवान् भवति। होतुर् अन्यो न कश्चिद् अपि पशूनाम् इडा-रूपाणां कामं दातुं समर्थः।

इडाया-भाग-प्राशन-मन्त्राव् उत्पाद्य व्याचष्टे— “वाचस्पतय इति।” इडोपाह्णान-रूपा या वाक् तस्याः पतिर् होतुर् जीवात्मा तस्मै हुतं हे पुरोडाश त्वां भक्षयामि। अनेन मन्त्रोच्चारणेन भागं दत्वा वाचं देवतां प्रीणयतीत्य् अर्थः। सदसो यज्ञ-सभायाः पतिर् होतुर् जीवात्मा तस्मै हुतं त्वां भक्षयामि। अनेन तस्य पुरोडाशस्य स्वोदर-कृतत्वं भवति।

मूलम् (संयुक्तम्)

स्व॒गाकृ॑त्यै चतुरव॒त्तम्भ॑वति ह॒विर्वै च॑तुरव॒त्तम्प॒शव॑श्चतुरव॒त्तय्ँयद्धोता॑ प्राश्ञी॒याद्धोता॑ [42] आर्ति॒मार्च्छे॒द्यद॒ग्नौ जु॑हु॒याद्रु॒द्राय॑ प॒शूनपि॑ दध्यादप॒शुर्यज॑मानस्स्यात्

विश्वास-प्रस्तुतिः

स्व॒गाकृ॑त्यै चतुरव॒त्तम्भ॑वति।

मूलम्

स्व॒गाकृ॑त्यै चतुरव॒त्तम्भ॑वति।

पद-पाठः

स्व॒गाकृ॑त्या॒ इति॑ स्व॒गा-कृ॒त्यै॒ । च॒तु॒र॒व॒त्तमिति॑ चतुः-अ॒व॒त्तम् । भ॒व॒ति॒ ।

भट्टभास्कर-टीका

2स्वगाकृतिः यथा स्वभागकरणम् । ‘ऊर्यादिच्विडाचश्च’ इति गतित्वात् ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ।

सायण-टीका

होतुर् हस्ते क्रियमाणस्य अवदानस्य संख्यां विधत्ते - “चतुरवत्तम् इति।”

विश्वास-प्रस्तुतिः

ह॒विर्वै च॑तुरवत्तम् ।
प॒शव॑श्चतुरवत्तम् ।
यद्धोता॑ प्राश्ञीयात् ।
होता॑ आर्ति॒मार्छे॑त् ।

यद॒ग्नौ जु॑हु॒याद्रु॒द्राय॑ प॒शूनपि॑ दध्यात् ।

अप॒शुर्यज॑मानस्स्यात् ।

मूलम्

ह॒विर्वै च॑तुरवत्तम् ।
प॒शव॑श्चतुरवत्तम् ।
यद्धोता॑ प्राश्ञीयात् ।
होता॑ आर्ति॒मार्छे॑त् ।

यद॒ग्नौ जु॑हु॒याद्रु॒द्राय॑ प॒शूनपि॑ दध्यात् ।

अप॒शुर्यज॑मानस्स्यात् ।

ह॒विः । वै । च॒तु॒र॒व॒त्तमिति॑ चतुः-अ॒व॒त्तम् । प॒शवः॑ । च॒तु॒र॒व॒त्तमिति॑ चतुः-अ॒व॒त्तम् ।

यत् । होता॑ । प्रा॒श्ञी॒यादिति॑ प्र-अ॒श्ञी॒यात् ।
होता॑ । । आर्ति॑म् । एति॑ । ऋ॒च्छे॒त् ।

यत् । अ॒ग्नौ । जु॒हु॒यात् । रु॒द्राय॑ । प॒शून् । अपीति॑ । द॒ध्या॒त् ।
अ॒प॒शुः । यज॑मानः । स्यात् ।

भट्टभास्कर-टीका

चतुरवत्तमित्यादि । गतम् ॥

सायण-टीका

प्रधानस्य हविषश् चतुरवत्तत्वं पूर्वम् एव दर्शितं तत्-साम्याद् इदमपि हविर् एव भवति चतुष्पात्त्व-संख्या-साम्यात् तस्य पशु-रूपत्वम्।

प्रकारान्तरेण भक्षणं प्रशंसति - “यद् होता इति।” देवता-रूपाया इडाया भक्षणेन होता मरणं प्राप्नुयात्। प्राशनं परित्यज्याग्नौ तद्-भाग-होमे सतीडा-रूप-गवादि-पशून् अग्नि-रूपाय क्रूराय रुद्राय समर्पितवान् भवति। ततो यजमानः पशु-रहितः स्यात्।

मूलम् (संयुक्तम्)

वा॒चस्पत॑ये त्वा हु॒तम्प्राश्ञा॒मीत्या॑ह प॒रोक्ष॑मे॒वैन॑ज्जुहोति॒ सद॑स॒स्पत॑ये त्वा हु॒तम्प्राश्ञा॒मीत्या॑ह स्व॒गाकृ॑त्यै॒ प्राश्ञ॑न्ति ती॒र्थ ए॒व प्राश्ञ॑न्ति॒ दक्षि॑णान्ददाति ती॒र्थ ए॒व दक्षि॑णान्ददाति॒ वि वा ए॒तद्य॒ज्ञम् [43] छिन्दन्ति

विश्वास-प्रस्तुतिः

वा॒चस्पत॑ये त्वा हु॒तम्प्राश्ञा॒मीत्या॑ह ।
प॒रोक्ष॑मे॒वैन॑ज्जुहोति ।
सद॑स॒स्पत॑ये त्वा हु॒तम्प्राश्ञा॒मीत्या॑ह ।

मूलम्

वा॒चस्पत॑ये त्वा हु॒तम्प्राश्ञा॒मीत्या॑ह ।
प॒रोक्ष॑मे॒वैन॑ज्जुहोति ।
सद॑स॒स्पत॑ये त्वा हु॒तम्प्राश्ञा॒मीत्या॑ह ।

पद-पाठः

वा॒चः । पत॑ये । त्वा॒ । हु॒तम् । प्रेति॑ । अ॒श्ञा॒मि॒ । इति॑ । आ॒ह॒ ।
प॒रोक्ष॒मिति॑ परः-अक्ष॑म् । ए॒व । ए॒न॒त् । जु॒हो॒ति॒ ।
सद॑सः । पत॑ये । त्वा॒ । हु॒तम् । प्रेति॑ । अ॒श्ञा॒मि॒ । इति॑ । आ॒ह॒ ।

भट्टभास्कर-टीका

3परोक्षमिति ॥ कोऽत्र प्राश्नाति प्रहूयत एवेदं वाचस्पतय इति प्रच्छादनं परोक्षत्वम् । तेन होतुः प्राशननिमित्ताया आर्तेरप्रसङ्गः ।

सायण-टीका

तस्माद् वाचस्पतये त्वा हुतम् इति प्रथमम् उक्त्वा पश्चाद्-भक्षणे सति साक्षाद् अग्नौ हुतं न भवतीति रुद्राय पशु-समर्पणं न भवति। वाचस्पति-व्यवधानेन परोक्षम् एव हुतत्वात्। तथाऽयम् अपि साक्षाद् इडां न प्राश्नाति किंत्व् अन्यस्मै हुतम् एव प्राश्नातीतीडा-प्राशन-प्रयुक्तो मरण-दोषो न भवतीति। ईदृशस्य भक्षितस्य स्वात्म-गतत्वेन स्थापनाय “सदसस्पतय” इत्यादिकं पठनीयम्।

विश्वास-प्रस्तुतिः

स्व॒गाकृ॑त्यै॒ प्राश्ञ॑न्ति ।
ती॒र्थ ए॒व प्राश्ञ॑न्ति ।
दक्षि॑णान्ददाति ।
ती॒र्थ ए॒व दक्षि॑णान्ददाति ।

मूलम्

स्व॒गाकृ॑त्यै॒ प्राश्ञ॑न्ति ।
ती॒र्थ ए॒व प्राश्ञ॑न्ति ।
दक्षि॑णान्ददाति ।
ती॒र्थ ए॒व दक्षि॑णान्ददाति ।

पद-पाठः

स्व॒गाकृ॑त्या॒ इति॑ स्व॒गा-कृ॒त्यै॒ । प्रेति॑ । अ॒श्ञ॒न्ति॒ ।
ती॒र्थे । ए॒व । प्रेति॑ । अ॒श्ञ॒न्ति॒ ।
दक्षि॑णाम् । द॒दा॒ति॒ ।
ती॒र्थे । ए॒व । दक्षि॑णाम् । द॒दा॒ति॒ ।

भट्टभास्कर-टीका

प्राश्नातीति । सर्वेऽपि यजमानपञ्चमाः सह प्राश्नन्तीति ।

तीर्थे दुःखोत्तरणावसरे प्राशनं दक्षिणादानं च कृतं भवतीति ।

ऋत्विग्भ्यः पुरोडाशप्रदानं दक्षिणा

सायण-टीका

यद् उक्तं सूत्र-कारेण –

यजमान-पञ्चमा इडां प्राश्नन्ति

इति। तद् इदं विधत्ते- “प्राश्नन्तीति।” तीर्थे दुःखोत्तरणावसरे प्राशनेन हि दुःखम् उत्तीर्यते। ऋत्विग्भिः प्राशने सति दक्षिणाऽपि दत्ता भवति। तद्-दानम् एतस्मिन् प्रधान-यागोत्तरणावसरे।

प्रदीपसिंहः प्राश्नन्ति इति टीकायां प्रतीकग्रहणं साधु । सर्वेपि इति बहुवचनसद्भावात् । प्राश्नाति इति एकवचने अन्वयः न स्यात् ।
विश्वास-प्रस्तुतिः

वि वा ए॒तद्य॒ज्ञम् छिन्दन्ति ।

मूलम्

वि वा ए॒तद्य॒ज्ञम् छिन्दन्ति ।

पद-पाठः

वीति॑ । वै । ए॒तत् । य॒ज्ञम् । छि॒न्द॒न्ति॒ ।

भट्टभास्कर-टीका

वि वा एतदित्यादि । गतम् ॥

सायण-टीका

यद् उक्तं सूत्र-कारेण-

“मनो ज्योतिर् इत्य् अद्भिर् अन्तर्-वेदि प्रस्तरे मार्जयित्वा”

इति, तद् इदं विधत्ते- वि वा एतद् इति।

मूलम् (संयुक्तम्)

यन्म॑ध्य॒तᳶ प्रा॒श्ञन्त्य॒द्भिर्मा॑र्जयन्त॒ आपो॒ वै सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒व य॒ज्ञँ सन्त॑न्वन्ति

विश्वास-प्रस्तुतिः

यन्म॑ध्य॒तᳶ प्रा॒श्ञन्ति॑ ।
अ॒द्भिर्मा॑र्जयन्ते । आपो॒ वै सर्वा॑ दे॒वताः॑ ।
दे॒वता॑भिरे॒व य॒ज्ञँ सन्त॑न्वन्ति ।

मूलम्

यन्म॑ध्य॒तᳶ प्रा॒श्ञन्ति॑ ।
अ॒द्भिर्मा॑र्जयन्ते । आपो॒ वै सर्वा॑ दे॒वताः॑ ।
दे॒वता॑भिरे॒व य॒ज्ञँ सन्त॑न्वन्ति ।

पद-पाठः

यत् । म॒ध्य॒तः । प्रा॒श्ञन्तीति॑ प्र-अ॒श्ञन्ति॑ । अ॒द्भिरित्य॑त्-भिः । मा॒र्ज॒य॒न्ते॒ ।
आपः॑ । वै । सर्वाः॑ । दे॒वताः॑ ।
दे॒वता॑भिः । ए॒व । य॒ज्ञम् । समिति॑ । त॒न्व॒न्ति॒ ।

भट्टभास्कर-टीका

4मार्जयन्त इति ॥ ‘मनो ज्योतिः’ इत्यन्तर्वेदि मार्जनम् ॥

सायण-टीका

“सत्यम् आपः सर्वा देवता आप”

इति-श्रुत्य्-अन्तराद् अपां सर्व-देवता-रूपत्वम्।

मूलम् (संयुक्तम्)

दे॒वा वै य॒ज्ञाद्रु॒द्रम॒न्तरा॑य॒न्त्स य॒ज्ञम॑विध्य॒त्तन्दे॒वा अ॒भि सम॑गच्छन्त॒ कल्प॑तान्न इ॒दमिति॒ ते॑ऽब्रुव॒न्त्स्वि॑ष्टव्ँ॒ वै न॑ इ॒दम्भ॑विष्यति यदि॒मँ रा॑धयि॒ष्याम॒ इति॒ तत्स्वि॑ष्ट॒कृत॑स्स्विष्टकृ॒त्त्वन्तस्यावि॑द्ध॒न्निः [44] अ॒कृ॒न्त॒न्यवे॑न॒ सम्मि॑त॒न्तस्मा॑द्यवमा॒त्रमव॑ द्येत् ।

विश्वास-प्रस्तुतिः

दे॒वा वै य॒ज्ञाद्रु॒द्रम॒न्तरा॑यन् ।
स य॒ज्ञम॑विध्यत् ।
तन्दे॒वा अ॒भि सम॑गच्छन्त । कल्प॑तान्न इ॒दमिति॑ ।

मूलम्

दे॒वा वै य॒ज्ञाद्रु॒द्रम॒न्तरा॑यन् ।
स य॒ज्ञम॑विध्यत् ।
तन्दे॒वा अ॒भि सम॑गच्छन्त । कल्प॑तान्न इ॒दमिति॑ ।

पद-पाठः

दे॒वाः । वै । य॒ज्ञात् । रु॒द्रम् । अ॒न्तः । आ॒य॒न् ।
सः । य॒ज्ञम् । अ॒वि॒ध्य॒त् ।
तम् । दे॒वाः । अ॒भि । समिति॑ । अ॒ग॒च्छ॒न्त॒ ।
कल्प॑ताम् । न । इ॒दम् । इति॑ ।

भट्टभास्कर-टीका

5देवा वै यज्ञादिति ॥ अन्तरणं विस्मरणाद्यज्ञेऽननुप्रवेशनम् । ़ कल्पनं कर्म्णोऽविकलसम्पत्तिः ।

सायण-टीका

अथ प्राशित्रावदान-परिमाणं विधत्ते-
“देवा वा इति।” देवाः पुरा यज्ञं प्रथमम् अकुर्वंस् तदा स्विष्टकृद् अग्नि-रूपं रुद्रम् अन्तरितवन्तः, तेनान्तरायेण कुपितः सन् रुद्रस् तदीयं यज्ञम् अविध्यद् विकलम् अकरोत्। तं रुद्रं देवा आभिमुख्येन गत्वा “तद् इदं यज्ञानुष्ठानम् अस्माकं कल्पतां संपूर्णं भवत्व् इति” प्रार्थितवन्तः।

विश्वास-प्रस्तुतिः

ते॑ऽब्रुव॒न्त्स्वि॑ष्टव्ँ॒ वै न॑ इ॒दम्भ॑विष्यति ।
यदि॒मँ रा॑धयि॒ष्याम॒ इति॑ ।

तत्स्वि॑ष्ट॒कृत॑स्स्विष्टकृ॒त्त्वम् ।

तस्यावि॑द्ध॒न् निर॑कृन्तन् ।
यवे॑न॒ सम्मि॑तम् ।
तस्मा॑द्यवमा॒त्रमव॑ द्येत् ।

मूलम्

ते॑ऽब्रुव॒न्त्स्वि॑ष्टव्ँ॒ वै न॑ इ॒दम्भ॑विष्यति ।
यदि॒मँ रा॑धयि॒ष्याम॒ इति॑ ।

तत्स्वि॑ष्ट॒कृत॑स्स्विष्टकृ॒त्त्वम् ।

तस्यावि॑द्ध॒न् निर॑कृन्तन् ।
यवे॑न॒ सम्मि॑तम् ।
तस्मा॑द्यवमा॒त्रमव॑ द्येत् ।

पद-पाठः

ते । अ॒ब्रु॒व॒न् । स्वि॑ष्ट॒मिति॒ सु-इ॒ष्ट॒म् । वै । नः॒ । इ॒दम् । भ॒वि॒ष्य॒ति॒ ।
यत् । इ॒मम् । रा॒ध॒यि॒ष्यामः॑ । इति॑ ।

तत् । स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट-कृतः॑ । स्वि॒ष्ट॒कृ॒त्त्वमिति॑ स्विष्टकृत्-त्वम् ।

तस्य॑ । आवि॑द्ध॒मित्या-वि॒द्ध॒म् । निरिति॑ । अ॒कृ॒न्त॒न् ।
यवे॑न । सम्मि॑त॒मिति॒ सम्-मि॒त॒म् ।
तस्मा॑त् । य॒व॒मा॒त्रमिति॑ यव-मा॒त्रम् । अवेति॑ । द्ये॒त् ।

भट्टभास्कर-टीका

अथ देवा अब्रुवन् -इमं राधयिष्यामः, तेन चैव यज्ञः स्विष्टकृतं भवतीति । ततः स्विष्टकृतमाराधयित्वा यज्ञस्य तदाविद्धं यवमात्रं निष्कृष्य तेन प्राशित्रमकुर्वन् । तस्माद्यदि यवमात्राज्ज्यायः प्रवृद्धमवद्येत् यज्ञस्य रोपयेत् विमोहयेत् । रुप विमोहने ।
लिङ्गं चा - ‘मा रूरुपाम यज्ञस्य’ इति ॥

सायण-टीका

तदानीं केचिद् बुद्धिमन्तो देवा इतरान् प्रत्य् एवम् अब्रुवन्— “यदि वयं तं रुद्रं हविष्-प्रदानेनाराधयिष्यामस् तर्ह्य् अस्माकम् इदं कर्म स्विष्टं भविष्यतीति।” ततो हविर्-आराधनेन स्विष्ट-करणाद् रुद्र-रूपस्याग्नेः स्विष्ट-कृत्त्वं संपन्नम्। ततो देवास् तम् आराध्य तस्य संबन्धि यद् यव-मात्रं पुरोडाशांश-रूपम् आविद्धम् आसीत् तद्-आविद्धम् उपहतं निरकृन्तन् निष्कृष्य छिन्नवन्तः। यस्माद् एवं तस्मात् प्राशित्र-भागं यव-मात्रम् अवद्येत्।

मूलम् (संयुक्तम्)

यज्ज्यायो॑ऽव॒द्येद्रो॒पये॒त्तद्य॒ज्ञस्य॒ यदुप॑ च स्तृणी॒याद॒भि च॑ घा॒रये॑दुभयतस्सँश्वा॒यि कु॑र्यादव॒दाया॒भि घा॑रयति॒ द्विस्सम्प॑द्यते द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै॒ यत्ति॑र॒श्चीन॑मति॒हरे॒दन॑भिविद्धय्ँ य॒ज्ञस्या॒भि वि॑ध्ये॒दग्रे॑ण॒ परि॑ हरति ती॒र्थेनै॒व परि॑ हरति

विश्वास-प्रस्तुतिः

यज्ज्यायो॑ऽव॒द्येद्रो॒पो॒पये॒त्तद्य॒ज्ञस्य॑ ।
यदुप॑ च स्तृणी॒याद॒भि च॑ घा॒रये॑त् ।
उ॒भ॒य॒त्स्सँ॒ं॒श्वा॒यि कु॑र्यात् ।
अ॒व॒दाया॒भि घा॑रयति ।
द्विस्सम्प॑द्यते द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।

यत्ति॑र॒श्चीन॑मति॒ हरे॑त् ।
अन॑भिविद्धय्ँ य॒ज्ञस्या॒भि वि॑ध्येत् ।

अग्रे॑ण॒ परि॑ हरति ।

ती॒र्थेनै॒व परि॑ हरति ।

मूलम्

यज्ज्यायो॑ऽव॒द्येद्रो॒पो॒पये॒त्तद्य॒ज्ञस्य॑ ।
यदुप॑ च स्तृणी॒याद॒भि च॑ घा॒रये॑त् ।
उ॒भ॒य॒त्स्सँ॒ं॒श्वा॒यि कु॑र्यात् ।
अ॒व॒दाया॒भि घा॑रयति ।
द्विस्सम्प॑द्यते द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।

यत्ति॑र॒श्चीन॑मति॒ हरे॑त् ।
अन॑भिविद्धय्ँ य॒ज्ञस्या॒भि वि॑ध्येत् ।

अग्रे॑ण॒ परि॑ हरति ।

ती॒र्थेनै॒व परि॑ हरति ।

पद-पाठः

यत् । ज्यायः॑ । अ॒व॒द्येदित्य॑व-द्येत् । रो॒पये॑त् । तत् । य॒ज्ञस्य॑ ।
यत् । उपेति॑ । च॒ । स्तृ॒णी॒यात् । अ॒भीति॑ । च॒ । घा॒रये॑त् ।
उ॒भ॒य॒त॒स्सँ॒श्वा॒यीत्यु॑भयतः-सँ॒श्वा॒यि । कु॒र्या॒त् ।

अ॒व॒दायेत्य॑व-दाय॑ । अ॒भीति॑ । घा॒र॒य॒ति॒ ।
द्विः । समिति॑ । प॒द्य॒ते॒ । द्वि॒पादिति॑ द्वि-पात् । यज॑मानः । प्रति॑ष्ठित्या॒ इति॒ प्रति॑-स्थि॒त्यै॒ ।

यत् । ति॒र॒श्चीन॑म् । अ॒ति॒हरे॒दित्य॑ति-हरे॑त् ।
अन॑भिविद्ध॒मित्यन॑भि-वि॒द्ध॒म् । य॒ज्ञस्य॑ । अ॒भीति॑ । वि॒ध्ये॒त् ।
अग्रे॑ण । परीति॑ । ह॒र॒ति॒ ।
ती॒र्थेन॑ । ए॒व । परीति॑ । ह॒र॒ति॒ ।

भट्टभास्कर-टीका

6यदित्यादि ॥ उभयपार्श्वरुग्णं उभयतः संशायि । यत्तिरश्चीनमित्यादि ॥ गतम् ॥

सायण-टीका

अधिकावदानं प्रतिषेधति - “यज् ज्यायो ऽवद्येद् इति।” अधिकावदाने यज्ञस्य तद्-अङ्गं रोपयेन् मोहयेद् यज्ञ-प्रयोगे भ्रान्तिं जनयेद् इत्य् अर्थः। रुद्रेण कृतो यो ऽयं पुरोडाशस्य वेधस् तस्माद् एव वेध-देशाद् इदम् अत्र प्राशित्र-भागावदानं प्रतीयते च। विस्पष्टम् अयम् अर्थः शास्त्रान्तर आम्नायते—

अज्यायो यव-मात्राद् आव्याधात् क्रित्यताम् इदम्।
मा रूरुषाम यज्ञस्य शुद्धँ स्विष्टम् इदँ हविः

इति।

उपस्तरणादि-चतुरवदान-निन्दा-पुरःसरं सकृद्-अवदानाभिधारणे विधत्ते -
“यद् उप चेति।” यद्य् अवदानात् पूर्वम् उषस्तरणं पश्चाच् चाभिघारणं कुर्यात् तदानीम् उपात्तस्य पुरोडाशस्योभयोः पार्श्वयोः संश्वायि कुर्यात्। सम्यक्-श्वाय उच्छूनत्व-रूपो रोगविशेषो यस्याङ्गस्य तद् अङ्गं संश्वायि। सकृद्-अवदानाभिघारणाभ्यां द्वि-पदो यजमानस्य प्रतिष्ठा भवति।

यद् उक्तं सूत्र-कारेण —

“अग्रेणाहवनीयं ब्रह्मणे प्राशित्रं परिहरति”

इति। तद् एतद् विधत्ते - “यत् तिरश्चीनम् इति।” वेदेर् उत्तरतः स्थितो ऽध्वर्युर् वेदि-मध्य-स्थिते पुरोडाशे प्राशित्र-भागम् अवदायाऽऽहवनीयस्य दक्षिणे भागे स्थिताय ब्रह्मणे वेदेर् उपरि हस्तं प्रसार्य तिरश्चीनं यथा भवति तथा यदि दद्यात् तदानीं यज्ञस्य यद् अङ्गं रुद्रेणानभिविद्धं तद् अप्य् अभिविद्धं भवेत्। तस्माद् उत्तरस्यां दिश्य् अवस्थितो ऽध्वर्युः प्राङ्-मुखो गत्वाऽऽहवनीयस्याग्रेण देशेन ब्रह्म-समीपं प्राप्य तस्मै भागं परिहरति। परितो नयति सम्यग् दद्याद् इत्य् अर्थः। तथा सति तीर्थेनैव नद्यवतरण-सदृशेनैव मार्गेणैवाऽऽनीतवान् भवति। अत्र सूत्र-कारेण प्राशित्रम् अवदीयमानं प्रेक्षत इत्य् उपक्रम्यैतद् उक्तं -

“सूर्यस्य त्वा चक्षुषा प्रतिपश्यामीत्य् आह्रियमाणं सावित्रेण प्रतिगृह्याङ्गुष्ठेनोपमध्यमया चाङ्गुल्याऽऽदायाग्नेस् त्वाऽऽस्येन प्राश्नामि ब्राह्मणस्योदरेण बृहस्पतेर् ब्रह्मणेन्द्रस्य त्वा जठरे सादयामीत्य् असंम्लेत्याभिगिरति”

इति। असंम्लेत्य दन्तैर् अचूर्णीकृत्य।

मूलम् (संयुक्तम्)

तत्पू॒ष्णे पर्य॑हर॒न्तत् [45] पू॒षा प्राश्य॑ द॒तो॑ऽरुण॒त्तस्मा॑त्पू॒षा प्र॑पि॒ष्टभा॑गोऽद॒न्तको॒ हि तन्दे॒वा अ॑ब्रुव॒न्वि वा अ॒यमा॑र्ध्यप्राशित्रि॒यो वा अ॒यम॑भू॒दिति॒ तद्बृह॒स्पत॑ये॒ पर्य॑हर॒न्त्सो॑ऽबिभे॒द्बृह॒स्पति॑रि॒त्थव्ँ वाव स्य आर्ति॒मारि॑ष्य॒तीति॒ स ए॒तम्मन्त्र॑मपश्य॒त्सूर्य॑स्य त्वा॒ चक्षु॑षा॒ प्रति॑ पश्या॒मीत्य॑ब्रवी॒न्न हि सूर्य॑स्य॒ चक्षुः॑ [46] किञ्च॒न हि॒नस्ति॒ सो॑ऽबिभेत्प्रतिगृ॒ह्णन्त॑म्मा हिँसिष्य॒तीति॑ दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र्बा॒हुभ्या॑म्पू॒ष्णो हस्ता॑भ्या॒म्प्रति॑ गृह्णा॒मीत्य॑ब्रवीत्सवि॒तृप्र॑सूत ए॒वैन॒द्ब्रह्म॑णा दे॒वता॑भि॒ᳶ प्रत्य॑गृह्णा॒त्सो॑ऽबिभेत्प्रा॒श्ञन्त॑म्मा हिँसिष्य॒तीत्य॒ग्नेस्त्वा॒स्ये॑न॒ प्राश्ञा॒मीत्य॑ब्रवी॒न्न ह्य॑ग्नेरा॒स्य॑ङ्किञ्च॒न हि॒नस्ति॒ सो॑ऽबिभेत् [47]
प्राशि॑तम्मा हिँसिष्य॒तीति॑ ब्राह्म॒णस्यो॒दरे॒णेत्य॑ब्रवी॒न्न हि ब्रा॑ह्म॒णस्यो॒दर॒ङ्किञ्च॒न हि॒नस्ति॒ बृह॒स्पते॒र्ब्रह्म॒णेति॒ स हि ब्रह्मि॒ष्ठः

विश्वास-प्रस्तुतिः

तत्पू॒ष्णे पर्य॑हरन् ।

मूलम्

तत्पू॒ष्णे पर्य॑हरन् ।

पद-पाठः

तत् । पू॒ष्णे । परीति॑ । अ॒ह॒र॒न् ।

भट्टभास्कर-टीका

7तदित्यादि ॥ तद्देवतानिष्ठं प्राशित्रं देवाः पूष्णे प्रथमं पर्यहरन्,

सायण-टीका

तत्र दर्शन-मन्त्रम् उत्पाद्य विनियोक्तुं प्रस्तौति—

“तत् पूष्ण इति।” पुरा कदाचिद् देवास् तत्-प्राशित्रं पूष्णे समर्पयन्।

विश्वास-प्रस्तुतिः

तत् पू॒षा प्राश्य॑ द॒तो॑ऽरुणत् ।

मूलम्

तत् पू॒षा प्राश्य॑ द॒तो॑ऽरुणत् ।

पद-पाठः

तत् । पू॒षा । प्राश्येति॑ प्र-अश्य॑ । द॒तः । अ॒रु॒ण॒त् ।

भट्टभास्कर-टीका

तत्प्राश्य पूषा आत्मीयान् दन्तान् अरुणत् । रुद्धात् भग्नात् तस्मादद्यत्वेऽपि पूषा प्रपिष्टभागो भवति, दन्तहीनत्वात् ।

सायण-टीका

स च पूषा मन्त्रम् अन्तरेणाऽऽत्तस्य प्राशित्रस्य दन्तैर् बलाद् दशनं कृत्वा प्राश्य तद् अन्नं दशनेनोपपाद्य तेन स्वकीयान् दन्तान् पातितवान्।

विश्वास-प्रस्तुतिः

तस्मा॑त्पू॒षा प्र॑पि॒ष्टभा॑गोऽद॒न्तको॒ हि ।

तन्दे॒वा अ॑ब्रुवन् ।

वि वा अ॒यमा॑र्ध्यप्राशित्रि॒यो वा अ॒यम॑भू॒दिति॑ ।

तद्बृह॒स्पत॑ये॒ पर्य॑हरन् ।

मूलम्

तस्मा॑त्पू॒षा प्र॑पि॒ष्टभा॑गोऽद॒न्तको॒ हि ।

तन्दे॒वा अ॑ब्रुवन् ।

वि वा अ॒यमा॑र्ध्यप्राशित्रि॒यो वा अ॒यम॑भू॒दिति॑ ।

तद्बृह॒स्पत॑ये॒ पर्य॑हरन् ।

पद-पाठः

तस्मा॑त् । पू॒षा । प्र॒पि॒ष्टभा॑ग॒ इति॑ प्रपि॒ष्ट-भा॒गः॒ । अ॒द॒न्तकः॑ । हि ।

तम् । दे॒वाः । अ॒ब्रु॒व॒न् ।

वीति॑ । वै । अ॒यम् । आ॒र्धि॒ । अ॒प्रा॒शि॒त्रि॒य इत्य॑प्र-अ॒शि॒त्रि॒यः । वै । अ॒यम् । अ॒भू॒त् । इति॑ ।

तत् । बृह॒स्पत॑ये । परीति॑ । अ॒ह॒र॒न् ।

भट्टभास्कर-टीका

एवमयं वृद्धाङ्गोप्राशिन्नार्ह इति देवाः तं हित्वा तद्बृहस्पतये पर्यहरन् ।

सायण-टीका

यस्माद् एवं तस्मात् पूष्णः सर्वत्र चरोः पिष्टम् एव भागं कुर्यात्। ततो देवास् तं दन्त-हीनं पूषणम् उद्दिश्य परस्परम् अब्रुवन्। “अयं पूषा व्यार्धि समृद्धि-रहितो ऽभूद् यस्माद् अयम् प्राशित्रानर्हो ऽभूद्” इति विचार्य तत् प्राशित्रं बृहस्पतये समर्पयन्।

विश्वास-प्रस्तुतिः

सो॑ऽबिभेत् । बृह॒स्पति॑रि॒त्थव्ँ वाव स्य आर्ति॒मारि॑ष्य॒तीति॑ ।
स ए॒तम्मन्त्र॑मपश्यत् ।
सूर्य॑स्य त्वा॒ चक्षु॑षा॒ प्रति॑ पश्या॒मीत्य॑ब्रवीत् ।

मूलम्

सो॑ऽबिभेत् । बृह॒स्पति॑रि॒त्थव्ँ वाव स्य आर्ति॒मारि॑ष्य॒तीति॑ ।
स ए॒तम्मन्त्र॑मपश्यत् ।
सूर्य॑स्य त्वा॒ चक्षु॑षा॒ प्रति॑ पश्या॒मीत्य॑ब्रवीत् ।

पद-पाठः

सः । अ॒बि॒भे॒त् ।
बृह॒स्पतिः॑ । इ॒त्थम् । वाव । स्यः । आर्ति॑म् । एति॑ । अ॒रि॒ष्य॒ति॒ । इति॑ ।

सः । ए॒तम् । मन्त्र॑म् । अ॒प॒श्य॒त् ।
सूर्य॑स्य । त्वा॒ । चक्षु॑षा । प्रतीति॑ । प॒श्या॒मि॒ । इति॑ । अ॒ब्र॒वी॒त् ।

भट्टभास्कर-टीका

अथ बृहस्पतिः एषोऽहमपि एतत्प्राशनेनास्तं गमिष्यामीति बिभ्यत् ‘सूर्यस्य त्वा’ इतीमं मन्त्रं दृष्ट्वा तेन प्राशित्रमपश्यत् ।

सायण-टीका

स बृहस्पतिर् मनस्य् एवम् अबिभेत्, “यथा पूषा प्राशित्रं प्राश्याऽऽर्तिम् अगमद् इत्थम् अन्यो ऽपि यः प्राश्नाति स आर्तिमारिष्यति गमिष्यतीति।”

अथ दर्शन-मन्त्रम् उत्पादयति -
“स एतम् इति।” मनुष्य-चक्षुः केनापि रोगेण हिंसितं भवति।

विश्वास-प्रस्तुतिः

न हि सूर्य॑स्य॒ चक्षु॒ᳶ किञ्च॒न हि॒नस्ति ।

मूलम्

न हि सूर्य॑स्य॒ चक्षु॒ᳶ किञ्च॒न हि॒नस्ति ।

पद-पाठः

न । हि । सूर्य॑स्य । चक्षुः॑ । । किम् । च॒न । हि॒नस्ति॑ ।

भट्टभास्कर-टीका

न हीति । सूर्यस्य सम्बन्धि सर्वलोकस्य चक्षुस्स्थानीयं मण्डलं सर्वलोकोपजीवि न हि कस्य चिद्धिंस्यं भवति । तस्मात्सूर्यः पश्यति नाहमिति । तं दृष्ट्वा पश्यन्न पश्यतीति न हिंस्यः ।

सायण-टीका

आरोग्य-प्रदस्य सूर्यस्य चक्षुर् न केनापि हिंस्यते। तस्माद् अनेन मन्त्रेण पश्यामीत्य् अर्थः।

विश्वास-प्रस्तुतिः

सो॑ऽबिभेत् ।
प्रतिगृ॒ह्णन्त॑म्मा हिँसिष्य॒तीति॑ ।
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र्बा॒हुभ्या॑म्पू॒ष्णो हस्ता॑भ्या॒म्प्रति॑ गृह्णा॒मीत्य॑ब्रवीत् । स॒वि॒तृ॒प्र॑सूत ए॒वैन॒द्ब्रह्म॑णा दे॒वता॑भि॒ᳶ प्रत्य॑गृह्णात् ।
सो॑ऽबिभेत् । प्रा॒श्ञन्त॑म्मा हिँसिष्य॒तीति॑ ।

मूलम्

सो॑ऽबिभेत् ।
प्रतिगृ॒ह्णन्त॑म्मा हिँसिष्य॒तीति॑ ।
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र्बा॒हुभ्या॑म्पू॒ष्णो हस्ता॑भ्या॒म्प्रति॑ गृह्णा॒मीत्य॑ब्रवीत् । स॒वि॒तृ॒प्र॑सूत ए॒वैन॒द्ब्रह्म॑णा दे॒वता॑भि॒ᳶ प्रत्य॑गृह्णात् ।
सो॑ऽबिभेत् । प्रा॒श्ञन्त॑म्मा हिँसिष्य॒तीति॑ ।

पद-पाठः

सः । अ॒बि॒भे॒त् ।
प्र॒ति॒गृ॒ह्णन्त॒मिति॑ प्रति-गृ॒ह्णन्त॑म् । मा॒ । हिँ॒सि॒ष्य॒ति॒ । इति॑ ।

दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र-स॒वे । अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । पू॒ष्णः । हस्ता॑भ्याम् । प्रतीति॑ । गृ॒ह्णा॒मि॒ । इति॑ । अ॒ब्र॒वी॒त् ।

स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ-प्र॒सू॒तः॒ । ए॒व । ए॒न॒त् । ब्रह्म॑णा । दे॒वता॑भिः । प्रतीति॑ । अ॒गृ॒ह्णा॒त् ।

सः । अ॒बि॒भे॒त् ।
प्रा॒श्ञन्त॒मिति॑ प्र-अ॒श्ञन्त॑म् । मा॒ । हिँ॒सि॒ष्य॒ति॒ । इति॑ ।

भट्टभास्कर-टीका

अथ ‘देवस्य त्वा’ इति मन्त्रेण सवित्राऽनुज्ञातो देवताभावेन प्रतिगृह्णन् प्रतिगृह्णातीति न बाध्यः । ‘अग्नेस्त्वाऽऽस्येन इत्यग्न्यास्यबुद्ध्या प्राश्नन् प्राश्नातीति, न बाध्यः ।

सायण-टीका

अथ प्रतिग्रह-मन्त्रम् उत्पादयति - “सोऽबिभेद् इति।” ब्रह्मणा मन्त्रेण देवताभिर् अश्विना(श्व्या)दिभिस् तादृशः प्रतिग्रहो न हिनस्ति। तस्मात् तेन मन्त्रेण प्रतिगृह्णीयात्। अथ प्राशन-मन्त्रस्य भाग-त्रयं क्रमेणोत्पादयति -
“सो ऽबिभेद् इति।”

विश्वास-प्रस्तुतिः

अ॒ग्नेस्त्वा॒स्ये॑न॒ प्राश्ञा॒मीत्य॑ब्रीत् ।

न॒ ह्य॑ग्नेरा॒स्य॑ङ्किञ्च॒न हि॒नस्ति ।
सो॑ऽबिभेत् ।

प्राशि॑तम्मा हिँसिष्य॒तीति॑ ।
ब्रा॒ह्म॒णस्यो॒दरे॑णेत्य॑ब्रवीत् ।

मूलम्

अ॒ग्नेस्त्वा॒स्ये॑न॒ प्राश्ञा॒मीत्य॑ब्रीत् ।

न॒ ह्य॑ग्नेरा॒स्य॑ङ्किञ्च॒न हि॒नस्ति ।
सो॑ऽबिभेत् ।

प्राशि॑तम्मा हिँसिष्य॒तीति॑ ।
ब्रा॒ह्म॒णस्यो॒दरे॑णेत्य॑ब्रवीत् ।

पद-पाठः

अ॒ग्नेः । त्वा॒ । आ॒स्ये॑न । प्रेति॑ । अ॒श्ञा॒मि॒ । इति॑ । अ॒ब्र॒वी॒त् ।
न । हि । अ॒ग्नेः । आ॒स्य॑म् । किम् । च॒न । हि॒नस्ति॑ ।
सः । अ॒बि॒भे॒त् ।

प्राशि॑त॒मिति॒ प्र-अ॒शि॒त॒म् । मा॒ । हिँ॒सि॒ष्य॒ति॒ । इति॑ ।
ब्रा॒ह्म॒णस्य॑ । उ॒दरे॑ण । इति॑ । अ॒ब्र॒वी॒त् ।

भट्टभास्कर-टीका

ब्राह्मणस्योदरेणेति । ब्राह्मणोदरधिया प्राशित्रं स्थापयन् प्राशितवानिति न हिंसितव्यः ।

सायण-टीका

प्रौढम् अरण्यं दहतो ऽपि दावाग्नेर् मुखम् आस्यं शुष्क-काष्ठ-कण्टकादिना केनापि न हिंस्यते।

विश्वास-प्रस्तुतिः

न हि ब्रा॑ह्म॒णस्यो॒दर॒ङ्किञ्च॒न हि॒नस्ति ।
बृह॒स्पते॒र्ब्रह्म॒णेति॒ स हि ब्रह्मि॒ष्ठः ।

मूलम्

न हि ब्रा॑ह्म॒णस्यो॒दर॒ङ्किञ्च॒न हि॒नस्ति ।
बृह॒स्पते॒र्ब्रह्म॒णेति॒ स हि ब्रह्मि॒ष्ठः ।

पद-पाठः

न । हि ब्रा॒ह्म॒णस्य॑ । उ॒दर॑म् । कम् । च॒न । हि॒नस्ति॑ ।
बृह॒स्पतेः॑ । ब्रह्म॑णा । इति॑ । सः । हि । ब्रह्मि॑ष्ठः ।

भट्टभास्कर-टीका

स हीति । बृहस्पतिर्हि ब्राह्मणतरः तस्मादेवमुच्यत इति ॥

सायण-टीका

श्राद्धादौ परान्नं भुञ्जानस्यापि ब्राह्मणस्योदरं केनापि प्रत्यवायेन न हिंसितं भवति। यस्माद् बृहस्पतिर् ब्रह्मिष्ठो मन्त्र-वित्तमस् तस्माद् “बृहस्पतेर् ब्रह्मणेत्य् एतद(म)पि मन्त्र-भागं पठेत्।

मूलम् (संयुक्तम्)

अप॒ वा ए॒तस्मा॑त्प्रा॒णाᳵ क्रा॑मन्ति॒ यᳶ प्रा॑शि॒त्रम्प्रा॒श्ञात्य॒द्भिर्मा॑र्जयि॒त्वा प्रा॒णान्त्सम्मृ॑शते॒ऽमृतव्ँ॒ वै प्रा॒णा अ॒मृत॒मापᳶ॑ प्रा॒णाने॒व य॑थास्था॒नमुप॑ ह्वयते ॥ [48]

इति द्वितीये षष्ठेऽष्टमोऽनुवाकः ॥

मूलम्

अप॒ वा ए॒तस्मा॑त्प्रा॒णाᳵ क्रा॑मन्ति ।

यᳶ प्रा॑शि॒त्रम्प्रा॒श्ञाति ।

अ॒द्भिर्मा॑र्जयि॒त्वा प्रा॒णान्त्सम्मृ॑शते ।

अ॒मृतव्ँ॒ वै प्रा॒णाः ।

अ॒मृत॒मापᳶ॑ प्रा॒णाने॒व य॑थास्था॒नमुप॑ ह्वयते ॥

पद-पाठः

अपेति॑ । वै । ए॒तस्मा॑त् । प्रा॒णा इति॑ प्र-अ॒नाः । क्रा॒म॒न्ति॒ ।
यः । प्रा॒शि॒त्रमिति॑ प्र-अ॒शि॒त्रम् । प्रा॒श्ञातीति॑ प्र-अ॒श्ञाति॑ ।

अ॒द्भिरित्य॑त्-भिः । मा॒र्ज॒यि॒त्वा । प्रा॒णानिति॑ प्र-अ॒नान् । समिति॑ । मृ॒श॒ते॒ ।

अ॒मृत॑म् । वै । प्रा॒णा इति॑ प्र-अ॒नाः ।
अ॒मृत॑म् । आपः॑ । प्रा॒णानिति॑ प्र-अ॒नान् । ए॒व । य॒था॒स्था॒नमिति॑ यथा-स्था॒नम् । उपेति॑ । ह्व॒य॒ते॒ ॥

भट्टभास्कर-टीका

8अप वा इत्यादि ॥ गतम् ॥

इति द्वितीये षष्ठेऽष्टमोऽनुवाकः ॥

सायण-टीका

“यद् उक्तं सूत्र-कारेण-

“इन्द्रस्य त्वा जठरे सादयामीति नाभि-देशम् अभिमृशति वाङ्म आसन्न् इति यथालिङ्गम् अङ्गानि”

इति। तद् एतद्-अभिमर्शनं शिरो-मार्जन-पूर्वकं विधत्ते - “अप वा इति।”