०७ इडोपाह्वानविधिः

इष्टिहोत्रब्राह्मणम्

प्रजापतिर्ऋषिः

मूलम् (संयुक्तम्)

मनुᳶ॑ पृथि॒व्या य॒ज्ञिय॑मैच्छ॒त्स घृ॒तन्निषि॑क्तमविन्द॒त्सो॑ऽब्रवी॒त्को॑ऽस्येश्व॒रो य॒ज्ञेऽपि॒ कर्तो॒रिति॒ ताव॑ब्रूताम्मि॒त्रावरु॑णौ॒ गोरे॒वावमी॑श्व॒रौ कर्तोः॑ स्व॒ इति॒ तौ ततो॒ गाँ समै॑रयताँ॒ सा यत्र॑यत्र॒ न्यक्रा॑म॒त्ततो॑ घृ॒तम॑पीड्यत॒ तस्मा॑द्घृ॒तप॑द्युच्यते॒ तद॑स्यै॒ जन्मोप॑हूतँ रथन्त॒रँ स॒ह पृ॑थि॒व्येत्या॑ह [36]

विश्वास-प्रस्तुतिः

मनुᳶ॑ पृथि॒व्या य॒ज्ञिय॑मैच्छत्।
स घृ॒तन्निषि॑क्तमविन्दत् ।

मूलम्

मनुᳶ॑ पृथि॒व्या य॒ज्ञिय॑मैच्छत्।
स घृ॒तन्निषि॑क्तमविन्दत् ।

पद-पाठः

मनुः॑ । पृ॒थि॒व्याः । य॒ज्ञिय॑म् । ऐ॒च्छ॒त् ।
सः । घृ॒तम् । निषि॑क्त॒मिति॒ नि-सि॒क्त॒म् । अ॒वि॒न्द॒त् ।

भट्टभास्कर-टीका

1अतः परं चत्वारोऽनुवाका इष्टिहौत्रब्राह्मणम् । मनुः पृथिव्या इत्यादि ॥ इडोपाह्वानविधिः । यज्ञार्हमन्विच्छत् । पृथिव्या निषिक्तं घृतं लब्धवान् उपलब्धवान् । वृष्टिरूपाया इडायाः कार्यं दृष्टवान् । उक्तं च ‘वृष्टिर्वा इडा’ इति ।

विश्वास-प्रस्तुतिः

सो॑ऽब्रवीत् ।
को॑ऽस्येश्व॒रो य॒ज्ञेऽपि॒ कर्तो॒रिति॑ ।
ताव॑ब्रूताम् ।

मूलम्

सो॑ऽब्रवीत् ।
को॑ऽस्येश्व॒रो य॒ज्ञेऽपि॒ कर्तो॒रिति॑ ।
ताव॑ब्रूताम् ।

पद-पाठः

सः । अ॒ब्र॒वी॒त् । कः । अ॒स्य॒ । ई॒श्व॒रः । य॒ज्ञे । अपीति॑ । कर्तोः॑ । इति॑ । तौ । अ॒ब्रू॒ता॒म् ।

भट्टभास्कर-टीका

अथाब्रवीत् प्रजापतिः कोऽस्य घृतस्य यज्ञेऽपि साधनभावं कर्तुमीश्वरः स्यात् । ‘ईश्वरे तोसुन्कसुनौ’ ।

विश्वास-प्रस्तुतिः

मि॒त्रावरु॑णौ॒ गोरे॒वावमी॑श्व॒रौ कर्तोः॑ स्व॒ इति॑ ।

मूलम्

मि॒त्रावरु॑णौ॒ गोरे॒वावमी॑श्व॒रौ कर्तोः॑ स्व॒ इति॑ ।

पद-पाठः

मि॒त्रावरु॑णा॒विति॑ मि॒त्रा-वरु॑णौ । गोः । ए॒व । आ॒वम् । ई॒श्व॒रौ । कर्तोः॑ । स्वः॒ । इति॑ ।

भट्टभास्कर-टीका

अथ मित्रावरुणावब्रूतां गोरेव यज्ञे साधनभावं कर्तुं आवामीश्वरौ स्वः न कार्यभूतस्य घृतस्येति । अत्रापीडायाः गोश्शरीरत्वादिडैव गौरुच्यते । यथोक्तं ‘शरीरं वा अस्यैतदुपाह्वथाः’ इति ।

विश्वास-प्रस्तुतिः

तौ ततो॒ गाँ समै॑रयताम् ।

मूलम्

तौ ततो॒ गाँ समै॑रयताम् ।

पद-पाठः

तौ । ततः॑ । गाम् । समिति॑ । ऐ॒र॒य॒ता॒म् । ।

भट्टभास्कर-टीका

अथैवमुक्तवन्तौ मित्रावरुणौ गां गोशरीरां वृष्ट्यात्मिकामिडां समैरयतां यज्ञसाधनत्वेनागमयताम् ।

विश्वास-प्रस्तुतिः

सा यत्र॑यत्र॒ न्यक्रा॑मत् ।
ततो॑ घृ॒तम॑पीड्यत ।
तस्मा॑द्घृ॒तप॑द्युच्यते।
तद॑स्यै॒ जन्मोप॑हूतँ रथन्त॒रँ स॒ह पृ॑थि॒व्येत्या॑ह ।

मूलम्

सा यत्र॑यत्र॒ न्यक्रा॑मत् ।
ततो॑ घृ॒तम॑पीड्यत ।
तस्मा॑द्घृ॒तप॑द्युच्यते।
तद॑स्यै॒ जन्मोप॑हूतँ रथन्त॒रँ स॒ह पृ॑थि॒व्येत्या॑ह ।

पद-पाठः

सा । यत्र॑य॒त्रेति॒ यत्र॑-य॒त्र॒ । न्यक्रा॑म॒दिति॑ नि-अक्रा॑मत् ।

भट्टभास्कर-टीका

सा च यत्रयत्र न्यक्रामत् निर्गत्यापतत् गोपक्षे निमित्तं क्रामति स्म ।

विश्वास-प्रस्तुतिः

ततो॑ घृ॒तम॑पीड्यत ।

मूलम्

ततो॑ घृ॒तम॑पीड्यत ।

पद-पाठः

ततः॑ । घृ॒तम् । अ॒पी॒ड्य॒त॒ ।

भट्टभास्कर-टीका

ततो घृतमपीड्यत उत्पद्यते । अस्मादुदकं तस्मादिडा घृतपद्युच्यते वृष्टिद्वारेण घृतहेतुत्वात् गोरूपेण वा घृतस्य हेतुत्वात् ।

विश्वास-प्रस्तुतिः

तस्मा॑द्घृ॒तप॑द्युच्यते।
तद॑स्यै॒ जन्मोप॑हूतँ रथन्त॒रँ स॒ह पृ॑थि॒व्येत्या॑ह ।

मूलम्

तस्मा॑द्घृ॒तप॑द्युच्यते।
तद॑स्यै॒ जन्मोप॑हूतँ रथन्त॒रँ स॒ह पृ॑थि॒व्येत्या॑ह ।

पद-पाठः

तस्मा॑त् । घृ॒तप॒दीति॑ घृ॒त-प॒दी॒ । उ॒च्य॒ते॒ ।

तत् । अ॒स्यै॒ । जन्म॑ । उप॑हूत॒मित्युप॑-हू॒त॒म् । र॒थ॒न्त॒रमिति॑ रथम्-त॒रम् । स॒ह । पृ॒थि॒व्या । इति॑ । आ॒ह॒ ।

भट्टभास्कर-टीका

तदस्या इडाया जन्म यदिहोपह्वयते । घृतं पादेषु यस्यास्सा घृतपदी । ‘कुम्भपदीषु च’ ति पादस्य लोपः , ‘पादोन्यतरस्याम्’ इति ङीप्, ‘पादः पत्’ इति पद्भावः ।
एवं मनुना प्रथममुपलब्धत्वात् इडा मानवी
पदात् घृतपीडनात् घृतपदी । मित्रावरुणाभ्यां समीरितत्वात् मैत्रावरुणी

मूलम् (संयुक्तम्)

इ॒यव्ँ वै र॑थन्त॒रमि॒मामे॒व स॒हान्नाद्ये॒नोप॑ ह्वयत॒ उप॑हूतव्ँवामदे॒व्यँ स॒हान्तरि॑क्षे॒णेत्या॑ह

विश्वास-प्रस्तुतिः

इ॒यव्ँ वै र॑थन्त॒रमि॒मामे॒व स॒हान्नाद्ये॒नोप॑ ह्वयते ।

उप॑हूतव्ँवामदे॒व्यँ स॒हान्तरि॑क्षे॒णेत्या॑ह ।

मूलम्

इ॒यव्ँ वै र॑थन्त॒रमि॒मामे॒व स॒हान्नाद्ये॒नोप॑ ह्वयते ।

उप॑हूतव्ँवामदे॒व्यँ स॒हान्तरि॑क्षे॒णेत्या॑ह ।

पद-पाठः

इ॒यम् । वै । र॒थ॒न्त॒रमिति॑ रथम्-त॒रम् ।
इ॒माम् । ए॒व । स॒ह । अ॒न्नाद्ये॒नेत्य॑न्न-अद्ये॑न । उपेति॑ । ह्व॒य॒ते॒ ।

उप॑हूत॒मित्युप॑-हू॒त॒म् । वा॒म॒दे॒व्यमिति॑ वाम-दे॒व्यम् । स॒ह । अ॒न्तरि॑क्षेण । इति॑ । आ॒ह॒ ।

भट्टभास्कर-टीका

2उपहूतं रथन्तरमित्यादिना इडोपाह्वानमन्त्रं व्याचष्टे - इयं वा इति ॥ रथन्तरं साम । दुःखतरणहेतुत्वादियं पृथिवी रथन्तरम् । अन्नाद्येनेति । पृथिवीशब्देन पृथिवीविकारोऽन्नमुच्यते । तस्मादन्नाद्येन पृथिवीमुपह्वयते । आत्मसमीपे करोति विधेयां करोति । ‘निसमुपविभ्यो ह्वः’ इत्यात्मनेपदम् ॥

मूलम् (संयुक्तम्)

प॒शवो॒ वै वा॑मदे॒व्यम्प॒शूने॒व स॒हान्तरि॑क्षे॒णोप॑ ह्वयत॒ उप॑हूतम्बृ॒हत्स॒ह दि॒वेत्या॑ह

विश्वास-प्रस्तुतिः

प॒शवो॒ वै वा॑मदे॒व्यम्प॒शूने॒व स॒हान्तरि॑क्षे॒णोप॑ ह्वयते ।

उप॑हूतम्बृ॒हत्स॒ह दि॒वेत्या॑ह ।

मूलम्

प॒शवो॒ वै वा॑मदे॒व्यम्प॒शूने॒व स॒हान्तरि॑क्षे॒णोप॑ ह्वयते ।

उप॑हूतम्बृ॒हत्स॒ह दि॒वेत्या॑ह ।

पद-पाठः

प॒शवः॑ । वै । वा॒म॒दे॒व्यमिति॑ वाम-दे॒व्यम् ।

प॒शून् । ए॒व । स॒ह । अ॒न्तरि॑क्षेण । उपेति॑ । ह्व॒य॒ते॒ । ।

उप॑हूत॒मित्युप॑-हू॒त॒म् । बृ॒हत् । स॒ह । दि॒वा । इति॑ । आ॒ह॒ ।

भट्टभास्कर-टीका

3पशवो वा इति ॥ वननीयस्वभावत्वात् ॥

विश्वास-प्रस्तुतिः

ऐ॒रव्ँ वै बृ॒हदिरा॑मे॒व स॒ह दि॒वोप॑ ह्वयते ।

मूलम्

ऐ॒रव्ँ वै बृ॒हदिरा॑मे॒व स॒ह दि॒वोप॑ ह्वयते ।

पद-पाठः

ऐ॒रम् । वै । बृ॒हत् । इरा॑म् । ए॒व । स॒ह । दि॒वा । उपेति॑ । ह्व॒य॒ते॒ ।

भट्टभास्कर-टीका

4ऐरमिति ॥ इरा वृष्टिः, तत्र भवं सारम् ऐरं तेन वृष्टिर्लक्ष्यते । दिवो वृष्टिं प्रवर्तयति ॥

मूलम् (संयुक्तम्)

उप॑हूतास्स॒प्त होत्रा॒ इत्या॑ह॒ होत्रा॑ ए॒वोप॑ ह्वयत॒ उप॑हूता धे॒नुः [37] स॒हर्ष॒भेत्या॑ह

विश्वास-प्रस्तुतिः

उप॑हूतास्स॒प्त होत्रा॒ इत्या॑ह ।
होत्रा॑ ए॒वोप॑ ह्वयते ।
उप॑हूता धे॒नुस्स॒हर्ष॒भेत्या॑ह ।

मूलम्

उप॑हूतास्स॒प्त होत्रा॒ इत्या॑ह ।
होत्रा॑ ए॒वोप॑ ह्वयते ।
उप॑हूता धे॒नुस्स॒हर्ष॒भेत्या॑ह ।

पद-पाठः

उप॑हूता॒ इत्युप॑-हू॒ताः॒ । स॒प्त । होत्राः॑ । इति॑ । आ॒ह॒ ।
होत्राः॑ । ए॒व । उपेति॑ । ह्व॒य॒ते॒ ।
उप॑हू॒तेत्युप॑-हू॒ता॒ । धे॒नुः । । स॒हर्ष॒भेति॑ स॒ह-ऋ॒ष॒भा॒ । इति॑ । आ॒ह॒ ।

भट्टभास्कर-टीका

5होतृकान् पुनर्यागेषु प्रवर्तयन्ति ॥

विश्वास-प्रस्तुतिः

मि॒थु॒नमे॒वोप॑ ह्वयते ।
उप॑हूतो भ॒क्षस्सखेत्या॑ह ।

मूलम्

मि॒थु॒नमे॒वोप॑ ह्वयते ।
उप॑हूतो भ॒क्षस्सखेत्या॑ह ।

पद-पाठः

मि॒थु॒नम् । ए॒व । उपेति॑ । ह्व॒य॒ते॒ ।
उप॑हूत॒ इत्युप॑-हू॒तः॒ । भ॒क्षः । सखा॑ । इति॑ । आ॒ह॒ ।

भट्टभास्कर-टीका

6मिथुनमिति ॥ उपलक्षणत्वात्सर्वमिथुनानां प्रजनयितारमात्मानं करोति ।

विश्वास-प्रस्तुतिः

सोमपी॒थमे॒वोप॑ ह्वयते ।
उप॑हू॒ताँ (4) हो इत्या॑ह ।

मूलम्

सोमपी॒थमे॒वोप॑ ह्वयते ।
उप॑हू॒ताँ (4) हो इत्या॑ह ।

पद-पाठः

सो॒म॒पी॒थमिति॑ सोम-पी॒थम् । ए॒व । उपेति॑ । ह्व॒य॒ते॒ ।
उप॑हू॒ताँ(4) इत्युप॑-हू॒ताँ(4) । हो इति॑ । इति॑ । आ॒ह॒ ।

भट्टभास्कर-टीका

7सोमपीथमिति ॥ भक्ष्यत इति भक्षः सोमः, सखा समानख्यानः, तस्य पानं पुनःपुनः प्रवर्तयति ॥

प्रदीपसिंहः हो इत्यात्मोच्यते । इति अग्रिममूलव्याख्याने टीकावचनम् ।
मूलम् (संयुक्तम्)

आ॒त्मान॑मे॒वोप॑ ह्वयत आ॒त्मा ह्युप॑हूतानाव्ँ॒वसि॑ष्ठ॒ इडा॒मुप॑ ह्वयते प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते च॒तुरुप॑ ह्वयते॒ चतु॑ष्पादो॒ हि प॒शवो॑ मान॒वीत्या॑ह॒ मनु॒र्ह्ये॑ताम् [38] अग्रेऽप॑श्यद्घृ॒तप॒दीत्या॑ह॒ यदे॒वास्यै॑ प॒दाद्घृ॒तमपी॑ड्यत॒ तस्मा॑दे॒वमा॑ह मैत्रावरु॒णीत्या॑ह मि॒त्रावरु॑णौ॒ ह्ये॑नाँ स॒मैर॑यताम्

विश्वास-प्रस्तुतिः

आ॒त्मान॑मे॒वोप॑ ह्वयतेे ।

मूलम्

आ॒त्मान॑मे॒वोप॑ ह्वयतेे ।

पद-पाठः

आ॒त्मान॑म् । ए॒व । उपेति॑ । ह्व॒य॒ते॒ ।

भट्टभास्कर-टीका

8आत्मानमिति ॥ हो इत्यात्मोच्यते । हे आत्मन् उपहूतः त्वमत्रोपहूत इति भावः । मम आत्मेतिवत् भेद उपचर्यते ।
आह्वाने प्लुतः । ‘अणोऽप्रगृह्यस्य’ इत्यनुनासिकः ।
न त्वात्मनोभिरक्षिताऽग्न्यादिरुपहूयते ।

प्रदीपसिंहः

हो इत्यात्मोच्यते । इति भाष्येण पूर्वतनमूलस्थः = उप॑हू॒ताँ (4) हो इत्या॑ह इत्यत्रस्थः होशब्दः व्याख्यातः ।

विश्वास-प्रस्तुतिः

आ॒त्मा ह्युप॑हूतानाव्ँ॒वसि॑ष्ठ॒ इडा॒मुप॑ ह्वयते ।

मूलम्

आ॒त्मा ह्युप॑हूतानाव्ँ॒वसि॑ष्ठ॒ इडा॒मुप॑ ह्वयते ।

पद-पाठः

आ॒त्मा । हि । उप॑हूताना॒मित्युप॑-हू॒ता॒ना॒म् । वसि॑ष्ठः ।
इडा॑म् । उपेति॑ । ह्व॒य॒ते॒ ।

भट्टभास्कर-टीका

तत्र आत्मन आह्वानेन कोऽर्थ आत्मनस्तत्राह - आत्मा हीति । अन्नादिषु मध्ये आत्मा वासयितृतमः तस्मादात्माऽप्युपहूयते इति ।

यद्वा - तस्मादिति । उच्चैरुपहूत इति । ‘दूराद्धूरे च’ इति प्लुतस्यैवं व्याख्या ।

प्रदीपसिंहः

यद्वा - तस्मादिति इति टीकावाक्यम् अग्रिममूलस्य व्याख्यानम् । तस्मा॑दे॒वमा॑ह । इति मूलम् । एवम् =उच्चैरुपहूत इति <टीकावाक्यमिदम्)। इत्यर्थः ।

विश्वास-प्रस्तुतिः

प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते ।
च॒तुरुप॑ ह्वयते ।

मूलम्

प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते ।
च॒तुरुप॑ ह्वयते ।

पद-पाठः

प॒शवः॑ । वै । इडा॑ ।
प॒शून् । ए॒व । उपेति॑ । ह्व॒य॒ते॒ ।
च॒तुः । उपेति॑ । ह्व॒य॒ते॒ ।

भट्टभास्कर-टीका

इडामुपह्वयत इति । वृष्टिरन्नं पशवो देवता वा इडा द्रव्याभिमानिनी तामुपाह्वयते । इडोपहूतेत्यस्यार्थोऽनेन व्याख्यातः ।
उपहूतेडेति च स एवार्थः । बहुकृत्वो वचनमादरार्थम् । यथोक्तं ‘अभ्यासेन भूयांसमर्थमधिगच्छति’ इति ।
तत्रातिप्रसङ्गनिवृत्त्यर्थं चतुरुपह्वयत इत्युक्तम् । चतुष्पदां लाभश्चतुष्ट्वेन इडोपहूतेत्यस्याभ्यासाच्च ।

विश्वास-प्रस्तुतिः

चतु॑ष्पादो॒ हि प॒शवो॑ मान॒वीत्या॑ह ।
मनु॒र्ह्ये॑तामग्रे॑ऽप॑श्यत् ।
घृ॒तप॒दीत्या॑ह ।
यदे॒वास्यै॑ प॒दाद्घृ॒तमपी॑ड्यत ।
तस्मा॑दे॒वमा॑ह ।
मै॒त्रा॒व॒रु॒णीत्या॑ह ।
मि॒त्रावरु॑णौ॒ ह्ये॑नाँ स॒मैर॑यताेम् ।

मूलम्

चतु॑ष्पादो॒ हि प॒शवो॑ मान॒वीत्या॑ह ।
मनु॒र्ह्ये॑तामग्रे॑ऽप॑श्यत् ।
घृ॒तप॒दीत्या॑ह ।
यदे॒वास्यै॑ प॒दाद्घृ॒तमपी॑ड्यत ।
तस्मा॑दे॒वमा॑ह ।
मै॒त्रा॒व॒रु॒णीत्या॑ह ।
मि॒त्रावरु॑णौ॒ ह्ये॑नाँ स॒मैर॑यताेम् ।

पद-पाठः

चतु॑ष्पाद॒ इति॒ चतुः॑-पा॒दः॒ । हि । प॒शवः॑ । मा॒न॒वी । इति॑ । आ॒ह॒ ।
मनुः॑ । हि । ए॒ताम् । । अग्रे॑ । अप॑श्यत् ।

घृ॒तप॒दीति॑ घृ॒त-प॒दी॒ । इति॑ । आ॒ह॒ ।
यत् । ए॒व । अ॒स्यै॒ । प॒दात् । घृ॒तम् । अपी॑ड्यत । तस्मा॑त् । ए॒वम् । आ॒ह॒ ।
मि॒त्रावरु॑णा॒विति॑ मि॒त्रा-वरु॑णौ । हि । ए॒ना॒म् । स॒मैर॑यता॒मिति॑ सम्-ऐर॑यताम् ।

भट्टभास्कर-टीका

इत्थं मानवीत्यादि । गतम् । घृतपदीत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

ब्रह्म॑ दे॒वकृ॑त॒मुप॑हूत॒मित्या॑ह॒ ब्रह्मै॒वोप॑ ह्वयते॒ दैव्या॑ अध्व॒र्यव॒ उप॑हूता॒ उप॑हूता मनु॒ष्या॑ इत्या॑ह देवमनु॒ष्याने॒वोप॑ ह्वयते

विश्वास-प्रस्तुतिः

ब्रह्म॑ दे॒वकृ॑त॒मुप॑हूत॒मित्या॑ह ।
ब्रह्मै॒वोप॑ ह्वयते ।
दैव्या॑ अध्व॒र्यव॒ उप॑हूता॒ उप॑हूता मनु॒ष्या॑ इत्या॑ह ।

मूलम्

ब्रह्म॑ दे॒वकृ॑त॒मुप॑हूत॒मित्या॑ह ।
ब्रह्मै॒वोप॑ ह्वयते ।
दैव्या॑ अध्व॒र्यव॒ उप॑हूता॒ उप॑हूता मनु॒ष्या॑ इत्या॑ह ।

पद-पाठः

ब्रह्म॑ । दे॒वकृ॑त॒मिति॑ दे॒व-कृ॒त॒म् । उप॑हूत॒मित्युप॑-हू॒त॒म् । इति॑ । आ॒ह॒ ।

ब्रह्म॑ । ए॒व । उपेति॑ । ह्व॒य॒ते॒ ।
दैव्याः॑ । अ॒ध्व॒र्यवः॑ । उप॑हूता॒ इत्युप॑-हू॒ताः॒ । उप॑हूता॒ इत्युप॑-हू॒ताः॒ । म॒नु॒ष्याः॑ । इति॑ । आ॒ह॒ ।

भट्टभास्कर-टीका

9ब्रह्म परिबृढं यज्ञाख्यं कर्म देवेन ब्रह्मणा ऋत्विग्भिर्वा कृतम् ।

विश्वास-प्रस्तुतिः

दे॒व॒म॒नु॒ष्याने॒वोप॑ ह्वयते ।

मूलम्

दे॒व॒म॒नु॒ष्याने॒वोप॑ ह्वयते ।

पद-पाठः

दे॒व॒म॒नु॒ष्यानिति॑ देव-म॒नु॒ष्यान् । ए॒व । उपेति॑ । ह्व॒य॒ते॒ ।

भट्टभास्कर-टीका

देवमनुष्यानिति । देवमनुष्यांश्चाध्वरस्य नेतॄनुपह्वयते ॥

मूलम् (संयुक्तम्)

य इ॒मय्ँ य॒ज्ञमवा॒न्ये य॒ज्ञप॑तिव्ँ॒वर्धा॒नित्या॑ह [39] य॒ज्ञाय॑ चै॒व यज॑मानाय चा॒शिष॒मा शा॑स्त॒ उप॑हूते॒ द्यावा॑पृथि॒वी इत्या॑ह॒ द्यावा॑पृथि॒वी ए॒वोप॑ ह्वयते

विश्वास-प्रस्तुतिः

य इ॒मय्ँ य॒ज्ञमवा॒न् ये य॒ज्ञप॑तिव्ँ॒वर्धा॒नित्या॑ह ।
य॒ज्ञाय॑ चै॒व यज॑मानाय चा॒शिष॒मा शा॑स्ते ।
उप॑हूते॒ द्यावा॑पृथि॒वी इत्या॑ह ।
द्यावा॑पृथि॒वी ए॒वोप॑ ह्वयते ।

मूलम्

य इ॒मय्ँ य॒ज्ञमवा॒न् ये य॒ज्ञप॑तिव्ँ॒वर्धा॒नित्या॑ह ।
य॒ज्ञाय॑ चै॒व यज॑मानाय चा॒शिष॒मा शा॑स्ते ।
उप॑हूते॒ द्यावा॑पृथि॒वी इत्या॑ह ।
द्यावा॑पृथि॒वी ए॒वोप॑ ह्वयते ।

पद-पाठः

ये । इ॒मम् । य॒ज्ञम् । अवा॑न् । ये । य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ-प॒ति॒म् । वर्धा॑न् । इति॑ । आ॒ह॒ ।

य॒ज्ञाय॑ । च॒ । ए॒व । यज॑मानाय । च॒ । आ॒शिष॒मित्या॑-शिष॑म् । एति॑ । शा॒स्ते॒ ।

उप॑हूते॒ इत्युप॑-हू॒ते॒ । द्यावा॑पृथि॒वी इति॒ द्यावा॑-पृ॒थि॒वी । इति॑ । आ॒ह॒ ।

द्यावा॑पृथि॒वी इति॒ द्यावा॑-पृ॒थि॒वी । ए॒व । उपेति॑ । ह्व॒य॒ते॒ ।

भट्टभास्कर-टीका

10यज्ञाय चैवेत्यादि ॥ गतम् ॥

मूलम् (संयुक्तम्)

पूर्व॒जे ऋ॒ताव॑री॒ इत्या॑ह पूर्व॒जे ह्ये॑ते ऋ॒ताव॑री दे॒वी दे॒वपु॑त्रे॒ इत्या॑ह दे॒वी ह्ये॑ते दे॒वपु॑त्रे॒ उप॑हूतो॒ऽयय्ँयज॑मान॒ इत्या॑ह॒ यज॑मानमे॒वोप॑ ह्वयत॒ उत्त॑रस्यान्देवय॒ज्याया॒मुप॑हूतो॒ भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूतो दि॒व्ये धाम॒न्नुप॑हूतः [40] इत्या॑ह

विश्वास-प्रस्तुतिः

पू॒र्व॒जे ऋ॒ताव॑री॒ इत्या॑ह ।
पू॒र्व॒जे ह्ये॑ते ऋ॒ताव॑री दे॒वी दे॒वपु॑त्रे॒ इत्या॑ह ।
दे॒वी ह्ये॑ते दे॒वपु॑त्रे॒ उप॑हूतो॒ऽयय्ँयज॑मान॒ इत्या॑ह।
यज॑मानमे॒वोप॑ ह्वयते ।

उत्त॑रस्यान्देवय॒ज्याया॒मुप॑हूतो॒, भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूतो, दि॒व्ये धाम॒न्नुप॑हूत इत्या॑ह ।

मूलम्

पू॒र्व॒जे ऋ॒ताव॑री॒ इत्या॑ह ।
पू॒र्व॒जे ह्ये॑ते ऋ॒ताव॑री दे॒वी दे॒वपु॑त्रे॒ इत्या॑ह ।
दे॒वी ह्ये॑ते दे॒वपु॑त्रे॒ उप॑हूतो॒ऽयय्ँयज॑मान॒ इत्या॑ह।
यज॑मानमे॒वोप॑ ह्वयते ।

उत्त॑रस्यान्देवय॒ज्याया॒मुप॑हूतो॒, भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूतो, दि॒व्ये धाम॒न्नुप॑हूत इत्या॑ह ।

पद-पाठः

पू॒र्व॒जे इति॑ पूर्व-जे । ऋ॒ताव॑री॒ इत्यृ॒त-व॒री॒ । इति॑ । आ॒ह॒ ।
पू॒र्व॒जे इति॑ पूर्व-जे । हि । ए॒ते इति॑ । ऋ॒ताव॑री॒ इत्यृ॒त-व॒री॒ । दे॒वी इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒व-पु॒त्रे॒ । इति॑ । आ॒ह॒ ।

दे॒वी इति॑ । हि । ए॒ते इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒व-पु॒त्रे॒ । उप॑हूत॒ इत्युप॑-हू॒तः॒ । अ॒यम् । यज॑मानः । इति॑ । आ॒ह॒ ।

यज॑मानम् । ए॒व । उपेति॑ । ह्व॒य॒ते॒ >

उत्त॑रस्या॒मित्युत्-त॒र॒स्या॒म् । दे॒व॒य॒ज्याया॒मिति॑ देव-य॒ज्याया॑म् । उप॑हूत॒ इत्युप॑-हू॒तः॒ । भूय॑सि । ह॒वि॒ष्कर॑ण॒ इति॑ हविः-कर॑णे । उप॑हूत॒ इत्युप॑-हू॒तः॒ । दि॒व्ये । धाम॑न् । उप॑हूत॒ इत्युप॑-हू॒तः॒ ।
। इति॑ । आ॒ह॒ ।

भट्टभास्कर-टीका

11पूर्वजे इति ॥ सर्वविकारेभ्यः पूर्वमुत्पन्ने । ऋतावरी सत्यवत्यौ वा तत्साधनत्वेन ।
मत्वर्थीये मतुपि ‘वनो र च’ इति, ‘वा छन्दसि’इति पूर्वसवर्णदीर्घत्वम् ।

देवनशीले देव्यौ देवाः पुत्राः ययोस्तौ तादृश्यौ ॥

मूलम् (संयुक्तम्)

प्र॒जा वा उत्त॑रा देवय॒ज्या प॒शवो॒ भूयो॑ हवि॒ष्कर॑णँ सुव॒र्गो लो॒को दि॒व्यन्धामे॒दम॑सी॒दम॒सीत्ये॒व य॒ज्ञस्य॑ प्रि॒यन्धामोप॑ ह्वयते॒ विश्व॑मस्य प्रि॒यमुप॑हूत॒मित्या॒हाछ॑म्बट्कारमे॒वोप॑ ह्वयते ॥ [41]

विश्वास-प्रस्तुतिः

प्र॒जा वा उत्त॑रा देवय॒ज्या ।
प॒शवो॒ भूयो॑ हवि॒ष्कर॑णम् ।
सुव॒र्गो लो॒को दि॒व्यन्धाम॑ ।

मूलम्

प्र॒जा वा उत्त॑रा देवय॒ज्या ।
प॒शवो॒ भूयो॑ हवि॒ष्कर॑णम् ।
सुव॒र्गो लो॒को दि॒व्यन्धाम॑ ।

पद-पाठः

प्र॒जेति॑ प्र-जा । वै । उत्त॒रेत्युत्-त॒रा॒ । दे॒व॒य॒ज्येति॑ देव-य॒ज्या ।
प॒शवः॑ । भूयः॑ । ह॒वि॒ष्कर॑ण॒मिति॑ हविः-कर॑णम् । सु॒व॒र्ग इति॑ सुवः-गः । लो॒कः । दि॒व्यम् । धाम॑ ।

भट्टभास्कर-टीका

12प्रजा वा इत्यादि ॥ दर्शपूर्णमासाद्यविच्छेदः प्रजाहेतुः ।

विश्वास-प्रस्तुतिः

इ॒दम॑सी॒दम॒सीत्ये॒व य॒ज्ञस्य॑ प्रि॒यन्धामोप॑ ह्वयते । विश्व॑मस्य प्रि॒यमुप॑हूत॒मित्या॑ह ।

मूलम्

इ॒दम॑सी॒दम॒सीत्ये॒व य॒ज्ञस्य॑ प्रि॒यन्धामोप॑ ह्वयते । विश्व॑मस्य प्रि॒यमुप॑हूत॒मित्या॑ह ।

पद-पाठः इ॒दम् । अ॒सि॒ । इ॒दम् । अ॒सि॒ । इति॑ । ए॒व । य॒ज्ञस्य॑ । प्रि॒यम् । धाम॑ । उपेति॑ । ह्व॒य॒ते॒ ।

विश्व॑म् । अ॒स्य॒ । प्रि॒यम् । उप॑हूत॒मित्युप॑-हू॒त॒म् । इति॑ । आ॒ह॒ ।

भट्टभास्कर-टीका

इदमसीदमसीत्यादि । प्रजा वा पशवः स्वर्गो वा यद्यज्ञस्य प्रियं धाम तादात्म्येन यज्ञे यजमानः उपहूतो भवति ।

विश्वास-प्रस्तुतिः

अछ॑म्बट्कारमे॒वोप॑ ह्वयते ॥

मूलम्

अछ॑म्बट्कारमे॒वोप॑ ह्वयते ॥

पद-पाठः

अछ॑म्बट्कार॒मित्यछ॑म्बट्-का॒र॒म् । ए॒व । उपेति॑ । ह्व॒य॒ते॒ ॥ [41]

भट्टभास्कर-टीका

अछम्बट्कारमेवेति । बट् इति सत्यनाम । तस्य छादनं छम्बट्काः किञ्चिदप्यपरिच्छाद्य सर्वमप्यस्य यजमानस्य प्रियमुपह्वयते ॥

इति द्वितीये षष्ठे सप्तमोऽनुवाकः ॥