परिधेर् बहिः स्कन्नस्य देवताः
विस्तारः (द्रष्टुं नोद्यम्)
उपांशुयाजः , ९-१३ स्विष्टकृत् च
प्रजापतिर्ऋषिः
मूलम् (संयुक्तम्)
अ॒ग्नेस्त्रयो॒ ज्यायाँ॑सो॒ भ्रात॑र आस॒न्ते दे॒वेभ्यो॑ ह॒व्यव्ँवह॑न्त॒ᳶ प्रामी॑यन्त॒ सो॒॑ऽग्निर॑बिभेदि॒त्थव्ँ वाव स्य आर्ति॒मारि॑ष्य॒तीति॒ स निला॑यत॒ सो॑ऽपᳶ प्रावि॑श॒त्तन्दे॒वता॒ᳶ प्रैष॑मैच्छ॒न्तम्मत्स्य॒ᳶ प्राब्र॑वी॒त्तम॑शपद्धि॒याधि॑या त्वा वध्यासु॒र्यो मा॒ प्रावो॑च॒ इति॒ तस्मा॒न्मत्स्य॑न्धि॒याधि॑या घ्नन्ति
विश्वास-प्रस्तुतिः
+++(पक्षे - खे विषूवत्-सूर्य-स्थानीयस्य)+++ अ॒ग्नेस् त्रयो॒ ज्यायाँ॑सो॒ भ्रात॑र आसन् ।
ते दे॒वेभ्यो॑ ह॒व्यव्ँ वह॑न्त॒ᳶ प्रामी॑यन्त +++(अयनचलनेन?)+++।
Keith
Agni had three elder brothers; they perished while carrying the offering to the gods.
मूलम्
अ॒ग्नेस्त्रयो॒ ज्यायाँ॑सो॒ भ्रात॑र आसन् ।
ते दे॒वेभ्यो॑ ह॒व्यव्ँवह॑न्त॒ᳶ प्रामी॑यन्त ।
पद-पाठः
अ॒ग्नेः । त्रयः॑ । ज्यायाँ॑सः । भ्रात॑रः । आ॒स॒न् । ते । दे॒वेभ्यः॑ । ह॒व्यम् । वह॑न्तः । प्रेति॑ । अ॒मी॒य॒न्त॒ ।
भट्टभास्कर-टीका
1अग्नेस्त्रय इत्यादि ॥ गतम् ।
विश्वास-प्रस्तुतिः
सो॒॑ऽग्निर् अ॑बिभेद्-
“इ॒त्थव्ँ वाव स्य आर्ति॒म् आरि॑ष्य॒ती"ति॑ ।
Keith
Agni was afraid, ‘Thus indeed will this one fall on misfortune.’
मूलम्
सो॒॑ऽग्निर॑बिभेत्
इ॒त्थव्ँ वाव स्य आर्ति॒मारि॑ष्य॒तीति॑ ।
पद-पाठः
सः । अ॒ग्निः । अ॒बि॒भे॒त् ।
इ॒त्थम् । वाव । स्यः । आर्ति॑म् । एति॑ । अ॒रि॒ष्य॒ति॒ । इति॑ ।
भट्टभास्कर-टीका
इत्थं वाव स्य इति । आत्मानमेव स एष इति निर्दिशति ।
विश्वास-प्रस्तुतिः
स निला॑यत ।
सो॒॑ऽपᳶ प्रावि॑शत् ।
Keith
He ran away, and entered the waters.
मूलम्
स निला॑यत ।
सो॑ऽपᳶ प्रावि॑शत् ।
पद-पाठः
सः । निला॑यत । सः । अ॒पः । प्रेति॑ । अ॒वि॒श॒त् ।
भट्टभास्कर-टीका
स निलायत निरगच्छत् । ‘उपसर्गस्यायतौ’ इति लत्वम् ।
सोऽपः प्राविशदित्यादि । अप्सु प्रविष्टम् अदृश्यतां गतम् ।
विश्वास-प्रस्तुतिः
तन् दे॒वता॒ᳶ प्रैष॑म् ऐच्छन् ।
तम् मत्स्य॒ᳶ प्राब्र॑वीत् ।
तम् अ॑शपद् -
“धि॒याधि॑या त्वा वध्यासु॒र् यो मा॒ प्रावो॑च॒” इति॑ ।
तस्मा॒न् मत्स्य॑न् धि॒याधि॑या घ्नन्ति।
श॒प्तो हि।
Keith
The gods sought to start him up. The fish proclaimed him, and he cursed it, ‘At Pleasure may they slay thee, since thou hast proclaimed me.’
So they slay the fish at pleasure, for he is cursed [1].
मूलम्
तन्दे॒वता॒ᳶ प्रैष॑मैच्छन् ।
तम्मत्स्य॒ᳶ प्राब्र॑वीत् ।
तम॑शपद् -
धि॒याधि॑या त्वा वध्यासु॒र्यो मा॒ प्रावो॑च॒ इति॑ ।
तस्मा॒न्मत्स्य॑न्धि॒याधि॑या घ्नन्ति।
श॒प्तो हि।
पद-पाठः
तम् । दे॒वताः॑ । प्रैष॒मिति॑ प्र-एष॑म् । ऐ॒च्छ॒न् ।
तम् । मत्स्यः॑ । प्रेति॑ । अ॒ब्र॒वी॒त् ।
तम् । अ॒श॒प॒त्
। धि॒याधि॒येति॑ धि॒या-धि॒या॒ । त्वा॒ । व॒ध्या॒सुः॒ । यः । मा॒ । प्रेति॑ । अ॒वो॒चः॒ । इति॑ ।
तस्मा॑त् । मत्स्य॑म् । धि॒याधि॒येति॑ धि॒या-धि॒या॒ । घ्न॒न्ति॒ ।
श॒प्तः । हि ।
भट्टभास्कर-टीका
प्रैषम् इष्टविषये प्रेषितुम् ऐच्छन् देवताः तदर्थं तमन्विछन्ति स्मेति यावत् । छान्दसो णमुल् । अथाप्सु स्थितः कश्चिन्मत्स्यः तमग्निं प्राब्रवीत् इह वसतीति ।
अथाग्निर्मत्स्यमशपत् यस्त्वं मामदृश्यं देवताभ्यः प्रावोचः तत् त्वां सर्वेऽपि धियाधिया कर्मणा जालग्रहणादिना व्यापारेण वध्यासुः । पुरुषव्यापारेणैव तव प्राणवियोगोऽस्त्विति । बुद्धियोगो वा धीरित्युच्यते ।
तस्माच्छप्तत्वादद्यापि तथैव क्रियते मत्स्यः ॥
मूलम् (संयुक्तम्)
तमन्व॑विन्द॒न्तम॑ब्रुव॒न्नुप॑ न॒ आ व॑र्तस्व ह॒व्यन्नो॑ व॒हेति॒ सो॑ऽब्रवी॒द्वरव्ँ॑वृणै॒ यदे॒व गृ॑ही॒तस्याहु॑तस्य बहिᳶपरि॒धि स्कन्दा॒त्तन्मे॒ भ्रातृ॑णाम्भाग॒धेय॑मस॒दिति॒ तस्मा॒द्यद्गृ॑ही॒तस्याहु॑तस्य बहिᳶपरि॒धि स्कन्द॑ति॒ तेषा॒न्तद्भा॑ग॒धेय॒न्ताने॒व तेन॑ प्रीणाति परि॒धीन्परि॑ दधाति॒ रक्ष॑सा॒मप॑हत्यै
विश्वास-प्रस्तुतिः
तम् अन्व् अ॑विन्दन् ।
तम् अ॑ब्रुवन्न् -
“उप॑ न॒ आ व॑र्तस्व, ह॒व्यन् नो॑ व॒हे"ति॑ ।
Keith
They found him; they said, ‘Come to us, and carry the offering for us.’
मूलम्
तमन्व॑विन्दन् ।
तम॑ब्रुवन् ।
उप॑ न॒ आ व॑र्तस्व, ह॒व्यन्नो॑ व॒हेति॑ ।
पद-पाठः
तम् । अन्विति॑ । अ॒वि॒न्द॒न् ।
तम् । अ॒ब्रु॒व॒न् । उपेति॑ । नः॒ । एति॑ । व॒र्त॒स्व॒ । ह॒व्यम् । नः॒ । व॒ह॒ । इति॑ ।
भट्टभास्कर-टीका
2तमन्वविन्दन्नित्यादि ॥ गतम् ।
विश्वास-प्रस्तुतिः
सो॒॑ऽब्रवीत् -
वरव्ँ॑ वृणै ।
यद् ए॒व गृ॑ही॒तस्याहु॑तस्य बहिᳶपरि॒धि स्कन्दा॒त्
तन् मे॒ भ्रातृ॑णाम् भाग॒धेय॑म् अस॒द्
इति॑ ।
तस्मा॒द् यद् गृ॑ही॒तस्याहु॑तस्य बहिᳶपरि॒धि स्कन्द॑ति॒
तेषा॒न् तद् भा॑ग॒धेय॑म् ।
तान् ए॒व तेन॑ प्रीणाति ।
Keith
He said,
‘Let me choose a boon; whatever of the offering when it is taken (in the ladle) falls outside the enclosing-sticks, let that be the share of my brothers.’
There fore whatever of the offering when it is taken falls outside the enclosing sticks is their share; verily by it he delights them.
मूलम्
सो॑ऽब्रवी॒द् वरव्ँ॑वृणै ।यदे॒व गृ॑ही॒तस्याहु॑तस्य बहिᳶपरि॒धि स्कन्दा॒त् तन्मे॒ भ्रातृ॑णाम्भाग॒धेय॑मस॒दिति॑ ।
तस्मा॒द्यद्गृ॑ही॒तस्याहु॑तस्य बहिᳶपरि॒धि स्कन्द॑ति ।
तेषा॒न् तद्भा॑ग॒धेय॑म् ।
ताने॒व तेन॑ प्रीणाति ।
पद-पाठः
सः । अ॒ब्र॒वी॒त् । वर॑म् । वृ॒णै॒ । यत् । ए॒व । गृ॒ही॒तस्य॑ । अहु॑तस्य । ब॒हि॒ᳶप॒रि॒धीति॑ बहिः-प॒रि॒धि । स्कन्दा॑त् । तत् । मे॒ । भ्रातृ॑णाम् । भा॒ग॒धेय॒मिति॑ भाग-धेय॑म् । अ॒स॒त् । इति॑ ।तस्मा॑त् । यत् । गृ॒ही॒तस्य॑ । अहु॑तस्य । ब॒हि॒ᳶप॒रि॒धीति॑ बहिः-प॒रि॒धि । स्कन्द॑ति । तेषा॑म् । तत् । भा॒ग॒धेय॒मिति॑ भाग-धेय॑म् । तान् । ए॒व । तेन॑ । प्री॒णा॒ति॒ ।
भट्टभास्कर-टीका
स्कन्दादिति । लेट्याडागमः ।
असदिति । अडागमः |
तस्मात्परिधानं कर्तव्यं रक्षसां चापहत्यै भवति ॥
परिधिः
मूलम् (संयुक्तम्)
परि॒धीन्परि॑ दधाति॒ रक्ष॑सा॒मप॑हत्यै । सँ स्प॑र्शयति [31] रक्ष॑सा॒मन॑न्ववचाराय॒ न पु॒रस्ता॒त्परि॑ दधात्यादि॒त्यो ह्ये॑वोद्यन्पु॒रस्ता॒द्रक्षाँ॑स्यप॒हन्तिविश्वास-प्रस्तुतिः
प॒रि॒धीन्परि॑ दधाति॒ रक्ष॑सा॒म् अप॑हत्यै । सँ स्प॑र्शयति रक्ष॑सा॒म् अन॑न्ववचाराय ।
Keith
He puts the enclosing sticks around, to smite away the Raksases.
He makes them touch [2], so that the Raksases may not creep through.
मूलम्
प॒रि॒धीन्परि॑ दधाति॒ रक्ष॑सा॒मप॑हत्यै । सँ स्प॑र्शयति रक्ष॑सा॒मन॑न्ववचाराय ।
पद-पाठः
प॒रि॒धीनिति॑ परि-धीन् । परीति॑ । द॒धा॒ति॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ । समिति॑ । स्प॒र्श॒य॒ति॒ । रक्ष॑साम् । अन॑न्ववचारा॒येत्यन॑नु-अ॒व॒चा॒रा॒य॒ ।
विश्वास-प्रस्तुतिः
न पु॒रस्ता॒त् परि॑ दधाति ।
आ॒दि॒त्यो हि ह्य् ए॒॑वोद्यन्
पु॒रस्ता॒द् रक्षाँ॑स्य् अप॒हन्ति +++(←चादिलोपे विभाषा)+++ ।
Keith
He puts none in front, for the sun rises in front and smites away the Raksases.
मूलम्
न पु॒रस्ता॒त्परि॑ दधाति ।
आ॒दि॒त्यो हि ह्ये॑वोद्यन्पु॒रस्ता॒द्रक्षाँ॑स्यप॒हन्ति ।
पद-पाठः
न । पु॒रस्ता॑त् । परीति॑ । द॒धा॒ति॒ । आ॒दि॒त्यः । हि । ए॒व । उ॒द्यन्नित्यु॑त्-यन् । पु॒रस्ता॑त् । रक्षाँ॑सि । अ॒प॒हन्तीत्य॑प-हन्ति॑ ।
भट्टभास्कर-टीका
3संस्पर्शयतीत्यादि ॥ गतम् ॥
आघार-समिधौ
मूलम् (संयुक्तम्)
ऊ॒र्ध्वे स॒मिधा॒वा द॑धात्यु॒परि॑ष्टादे॒व रक्षाँ॒स्यप॑ हन्ति॒ यजु॑षा॒न्यान्तू॒ष्णीम॒न्याम्मि॑थुन॒त्वाय॒ द्वे आ द॑धाति द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै
विश्वास-प्रस्तुतिः
ऊ॒र्ध्वे स॒मिधा॒व् आ द॑धाति ।
उ॒परि॑ष्टाद् ए॒व रक्षाँ॒स्य् अप॑ हन्ति ।
यजु॑षा॒ ऽन्यान्
तू॒ष्णीम् अ॒न्याम् -
मि॑थुन॒त्वाय॒ द्वे आ द॑धाति ।
द्वि॒पाद् यज॑मानः।
प्रति॑ष्ठित्यै ।
Keith
He places the two kindling sticks upright, for upwards they smite away the Raksases.
(He places) one with a Yajus, the other in silence, to make a pair.
He places two, the sacrificer has two feet, for support.
मूलम्
ऊ॒र्ध्वे स॒मिधा॒वा द॑धाति ।
उ॒परि॑ष्टादे॒व रक्षाँ॒स्यप॑ हन्ति ।
यजु॑षा॒न्यान्तू॒ष्णीम॒न्याम्मि॑थुन॒त्वाय॒ द्वे आ द॑धाति ।
द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।
पद-पाठः
ऊ॒र्ध्वे इति॑ । स॒मिधा॒विति॑ सम्-इधौ॑ । एति॑ । द॒धा॒ति॒ ।
उ॒परि॑ष्टात् । ए॒व । रक्षाँ॑सि । अपेति॑ । ह॒न्ति॒ ।
यजु॑षा । अ॒न्याम् । तू॒ष्णीम् । अ॒न्याम् । मि॒थु॒न॒त्वायेति॑ मिथुन-त्वाय॑ । द्वे इति॑ । एति॑ । द॒धा॒ति॒ ।
द्वि॒पादिति॑ द्वि-पात् । यज॑मानः । प्रति॑ष्ठित्या॒ इति॒ प्रति॑-स्थि॒त्यै॒ ।
भट्टभास्कर-टीका
4ऊर्ध्वे इत्यादि ॥ आघारविधिः ।
यजुषेति। ‘वीतिहोत्रं त्वा कवे’ इति दक्षिणाम् । यजुर्वेदाम्नानात् गायत्र्येव यजुरित्युच्यते । तेन विभिन्नलिङ्गद्वयसयोगान्मिथुनत्वम् ॥
स्कन्नस्यानुमन्त्रणम्
मूलम् (संयुक्तम्)
ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै य॑जेत॒ यो य॒ज्ञस्यार्त्या॒ वसी॑या॒न्त्स्यादिति॒ भूप॑तये॒ स्वाहा॒ भुव॑नपतये॒ स्वाहा॑ भू॒ताना॑म् [32]
पत॑ये॒ स्वाहेति॑ स्क॒न्नमनु॑ मन्त्रयेत य॒ज्ञस्यै॒व तदार्त्या॒ यज॑मानो॒ वसी॑यान्भवति॒ भूय॑सी॒र्हि दे॒वताः॑ प्री॒णाति
विश्वास-प्रस्तुतिः
ब्रह्मवा॒दिनो॑ वदन्ति॒ -
स त्वै य॑जेत॒
यो य॒ज्ञस्यार्त्या॒ वसी॑या॒न्त् स्याद् इति।+++(5)+++
Keith
The theologians say,
‘He indeed would be a sacrificer who should be the stronger for a failure in the sacrifice.’
मूलम्
ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै य॑जेत॒ यो य॒ज्ञस्यार्त्या॒ वसी॑या॒न्त्स्यादिति
पद-पाठः
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।
सः । तु । वै । य॒जे॒त॒ । यः । य॒ज्ञस्य॑ । आर्त्या॑ । वसी॑यान् । स्यात् । इति॑ ।
विश्वास-प्रस्तुतिः
“भूप॑तये॒ स्वाहा॑ ।
भुव॑नपतये॒ स्वाहा॑ ।
भू॒ताना॒म् पत॑ये स्वाहे"ति॑ स्क॒न्नम् अनु॑ मन्त्रयेत ।
य॒ज्ञस्यै॒व तद् आर्त्या॒ यज॑मानो॒ वसी॑यान् भवति ।
भूय॑सी॒र् हि दे॒वताः॑ प्री॒णाति॑ ।
Keith
(The words),
‘To the lord of earth hail! To the lord of the world, hail! To the lord of creatures [3] hail! ’ he should pronounce over the spilt (offering).
Thus by a failure in the sacrifice he becomes stronger, for he delights more gods (than usual).
मूलम्
भूप॑तये॒ स्वाहा॑ ।
भुव॑नपतये॒ स्वाहा॑ ।
भू॒ताना॒म्पत॑ये स्वाहेति॑ स्क॒न्नमनु॑ मन्त्रयेत ।
य॒ज्ञस्यै॒व तदार्त्या॒ यज॑मानो॒ वसी॑यान्भवति ।
भूय॑सी॒र्हि दे॒वताः॑ प्री॒णाति॑ ।
पद-पाठः
भूप॑तय॒ इति॒ भू-प॒त॒ये॒ । स्वाहा॑ ।
भुव॑नपतय॒ इति॒ भुव॑न-प॒त॒ये॒ । स्वाहा॑ ।
भू॒ताना॑म् । पत॑ये । स्वाहा॑ । इति॑ । स्क॒न्नम् । अन्विति॑ । म॒न्त्र॒ये॒त॒ ।
य॒ज्ञस्य॑ । ए॒व । तत् । आर्त्या॑ । यज॑मानः । वसी॑यान् । भ॒व॒ति॒ ।
भूय॑सीः । हि । दे॒वताः॑ । प्री॒णाति॑ ।
भट्टभास्कर-टीका
5ब्रह्मवादिन इत्यादि ॥ अनार्थावस्थायां वसुमत्तरोऽस्त्विति यः कामयेत । गतमन्यत् ।
भूयसीरिति । अनार्तावस्थाया बहुतरा इति तेनार्तत्वमेव वरमिति ॥
जामिता-वारणम्
मूलम् (संयुक्तम्)
जा॒मि वा ए॒तद्य॒ज्ञस्य॑ क्रियते॒ यद॒न्वञ्चौ॑ पुरो॒डाशा॑वुपाँशुया॒जम॑न्त॒रा य॑ज॒त्यजा॑मित्वा॒याथो॑ मिथुन॒त्वाय
विश्वास-प्रस्तुतिः
जा॒मि वा ए॒तद् य॒ज्ञस्य॑ क्रियते॒ -
यद् अ॒न्वञ्चौ॑ पुरो॒डाशौ॑।
उ॒पाँ॒शु॒-या॒जम् अ॑न्त॒रा य॑जति,
अजा॑मित्वा॒याथो॑ मिथुन॒त्वाय॑ ।
Keith
There is sameness in the sacrifice, in that there are two sacrificial cakes (offered) in order. Between them he offers the silent sacrifice, to break the sameness and to make a pair.
मूलम्
जा॒मि वा ए॒तद्य॒ज्ञस्य॑ क्रियते ।
यद॒न्वञ्चौ॑ पुरो॒डाशा॑वुपाँशुया॒जम॑न्त॒रा य॑जति,
अजा॑मित्वा॒याथो॑ मिथुन॒त्वाय॑ ।
पद-पाठः
जा॒मि । वै । ए॒तत् । य॒ज्ञस्य॑ । क्रि॒य॒ते॒ ।
यत् । अ॒न्वञ्चौ॑ । पु॒रो॒डाशौ॑ । उ॒पाँ॒शु॒या॒जमित्यु॑पाँशु-या॒जम् । अ॒न्त॒रा । य॒ज॒ति॒ ।
अजा॑मित्वा॒येत्यजा॑मि-त्वा॒य॒ । अथो॒ इति॑ । मि॒थु॒न॒त्वायेति॑ मिथुन-त्वाय॑ ।
भट्टभास्कर-टीका
6जामि आलस्यजनकम् । अन्वञ्चौअनुपूर्वौ अन्येनाव्यवहितौ यद्भवतः पुरोडाशौ तस्माद् आज्यहविरुपांशुयाजः पौर्णमास्यां मध्ये भवति पुरोडाशयोः प्रधानमेव । पुरोडाशाज्यहविषोः द्वयस्य विभिन्नरूपत्वात् मिथुनत्वम् ॥
अग्नि-यमौ
मूलम् (संयुक्तम्)
अ॒ग्निर॒मुष्मिल्ँ॑ लो॒क आसी॑द्य॒मो॑ऽस्मिन्ते दे॒वा अ॑ब्रुव॒न्नेते॒मौ वि पर्यू॑हा॒मेत्य॒न्नाद्ये॑न दे॒वा अ॒ग्निम् [33] उ॒पाम॑न्त्रयन्त रा॒ज्येन॑ पि॒तरो॑ य॒मन्तस्मा॑द॒ग्निर्दे॒वाना॑मन्ना॒दो य॒मᳶ पि॑तृ॒णाँ राजा॒ य ए॒वव्ँ वेद॒ प्र रा॒ज्यम॒न्नाद्य॑माप्नोति
विश्वास-प्रस्तुतिः
अ॒ग्निर् अ॒मुष्मिल्ँ॑ लो॒क आसी॑द्
य॒मो॒॑ऽस्मिन्।
ते दे॒वा अ॑ब्रुव॒न् -
“आ+इ॑त - इ॒मौ वि पर्यू॑हा॒मे"ति॑ ।
Keith
Agni was in yonder world, Yama in this. The gods said, ‘Come, let us interchange them’;
मूलम्
अ॒ग्निर॒मुष्मिल्ँ॑ लो॒क आसी॑त् ।
य॒मो॑ऽस्मिन् ॥
ते दे॒वा अ॑ब्रुवन् ।
एते॒मौ वि पर्यू॑हा॒मेति॑ ।
पद-पाठः
अ॒ग्निः । अ॒मुष्मि॑न् । लो॒के । आसी॑त् ।
य॒मः । अ॒स्मिन् ।
ते । दे॒वाः । अ॒ब्रु॒व॒न् ।
एति॑ । इ॒त॒ । इ॒मौ । वि । परीति॑ । ऊ॒हा॒म॒ । इति॑ ।
भट्टभास्कर-टीका
7अग्निरमुष्मिन् लोके इत्यादि ॥ अमुष्मिन् पितृलोके । व्याख्यातमन्यत् ।
विश्वास-प्रस्तुतिः
अ॒न्नाद्ये॑न दे॒वा अ॒ग्निम् उ॒पाम॑न्त्रयन्त,
रा॒ज्येन॑ पि॒तरो॑ य॒मम्।
तस्मा॑द् अ॒ग्निर् दे॒वाना॑म् अन्ना॒दः,
य॒मᳶ पि॑तृ॒णाँ राजा॑ ।
य ए॒वव्ँ वेद॒ प्र रा॒ज्यम् अ॒न्नाद्य॑म् आप्नोति।
Keith
with food the gods invited Agni [4], with the kingdom the Pitrs Yama; therefore is Agni the food-eater of the gods, Yama the king of the Pitrs; he who knows thus obtains the kingdom and food.
मूलम्
अ॒न्नाद्ये॑न दे॒वा अ॒ग्निमु॒पाम॑न्त्रयन्त ।
रा॒ज्येन॑ पि॒तरः॑ य॒मम्।
तस्मा॑द॒ग्निर्दे॒वाना॑मन्ना॒दः ..
य॒मᳶ पि॑तृ॒णाँ राजा॑ ।
य ए॒वव्ँ वेद॒ प्र रा॒ज्यम॒न्नाद्य॑माप्नोति
पद-पाठः
अ॒न्नाद्ये॒नेत्य॑न्न-अद्ये॑न । दे॒वाः । अ॒ग्निम् । उ॒पाम॑न्त्रय॒न्तेत्यु॑प-अम॑न्त्रयन्त ।
रा॒ज्येन॑ । पि॒तरः॑ ।
य॒मम् । तस्मा॑त् । अ॒ग्निः । दे॒वाना॑म् । अ॒न्ना॒द इत्य॑न्न-अ॒दः ।
य॒मः । पि॒तृ॒णाम् । राजा॑ ।
यः । ए॒वम् । वेद॑ । प्रेति॑ । रा॒ज्यम् । अ॒न्नाद्य॒मित्य॑न्न-अद्य॑म् । आ॒प्नो॒ति॒ ।
भट्टभास्कर-टीका
अन्नाद्येनेति । गतम् । एवं वेदिता राज्यमन्नाद्यं च प्राप्नोति ॥
स्विष्टकृत्
विश्वास-प्रस्तुतिः
तस्मा॑ ए॒तद् भा॑ग॒धेय॒म् प्राय॑च्छ॒न्
यद् अ॒ग्नये॑ स्विष्ट॒-कृते॑ ऽव॒द्यन्ति॑ ।
यद् अ॒ग्नये॑ स्विष्ट॒कृते॑ ऽव॒द्यति॑
भाग॒धेये॑नै॒व तद् रु॒द्रँ सम॑र्धयति।
Keith
To him they gave that share which they cut off for Agni Svistakrt.
In that he cuts off a share for Agni Svistakrt, he gives Rudra a share.
मूलम्
तस्मा॑ ए॒तद्भा॑ग॒धेय॒म्प्राय॑च्छ॒न्यद॒ग्नये॑ स्विष्ट॒कृते॑ऽव॒द्यन्ति॒ यद॒ग्नये॑ स्विष्ट॒कृते॑ऽव॒द्यति॑ भाग॒धेये॑नै॒व तद्रु॒द्रँ सम॑र्धयति
पद-पाठः
तस्मै॑ । ए॒तत् । भा॒ग॒धेय॒मिति॑ भाग-धेय॑म् । प्रेति॑ । अ॒य॒च्छ॒न् ।
यत् । अ॒ग्नये॑ । स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट-कृते॑ । अ॒व॒द्यन्तीत्य॑व-द्यन्ति॑ ।
यत् । अ॒ग्नये॑ । स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट-कृते॑ । अ॒व॒द्यतीत्य॑व-द्यति॑ । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । ए॒व । तत् । रु॒द्रम् । समिति॑ । अ॒र्ध॒य॒ति॒ ।
भट्टभास्कर-टीका
8तस्मा एतदित्यादि ॥ शोभनमिष्टं करोतीति स्विष्टकृन्नामा प्रकृताद् अग्नेः प्रशस्तो यो ऽन्योऽग्निः
तस्मात् तदीयेनैवावदानेन रुद्रम् एव भागसमृद्धं करोति तस्य रुद्रात्मकत्वात् ॥
मूलम् (संयुक्तम्)
स॒कृत्स॑कृ॒दव॑ द्यति स॒कृदि॑व॒ हि रु॒द्र उ॑त्तरा॒र्धादव॑ द्यत्ये॒षा वै रु॒द्रस्य॑ [34] दिक्स्वाया॑मे॒व दि॒शि रु॒द्रन्नि॒रव॑दयते॒ द्विर॒भि घा॑रयति चतुरव॒त्तस्याप्त्यै॑
विश्वास-प्रस्तुतिः
स॒कृत् स॑कृ॒द् अव॑ द्यति ।
स॒कृद् इ॑व॒ हि रु॒द्रः।
Keith
He cuts off one in each case, for Rudra is one as it were.
मूलम्
स॒कृत्स॑कृ॒दव॑ द्यति । स॒कृदि॑व॒ हि रु॒द्रः।
पद-पाठः
स॒कृत्स॑कृ॒दिति॑ स॒कृत्-स॒कृ॒त् । अवेति॑ । द्य॒ति॒ । स॒कृत् । इ॒व॒ । हि । रु॒द्रः ।
भट्टभास्कर-टीका
9सकृत्सकृदिति ॥ एकवारमेकवारं सर्वेषु । ‘एकस्य सकृच्च’ इति निपात्यते ।
विश्वास-प्रस्तुतिः
उ॒त्त॒रा॒र्धाद् अव॑ द्यति ।
ए॒षा वै रु॒द्रस्य॒ दिक् ।
स्वाया॑म् ए॒व दि॒शि रु॒द्रन् नि॒रव॑दयते ।
Keith
He cuts off from the north part, for this is Rudra’s [5] quarter; verily he appeases Rudra in his own quarter.
मूलम्
उ॒त्त॒रा॒र्धादव॑ द्यति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्रन्नि॒रव॑दयते ।
पद-पाठः
उ॒त्त॒रार्धादित्यु॑त्तर-अ॒र्धात् । अवेति॑ । द्य॒ति॒ ।
ए॒षा । वै । रु॒द्रस्य॑ । दिक् ।
स्वाया॑म् । ए॒व । दि॒शि । रु॒द्रम् । नि॒रव॑दयत॒ इति॑ निः-अव॑दयते ।
भट्टभास्कर-टीका
सकृदिवेति । अनावृत्त्यादिसामान्यत्वात् तुल्योत्कृष्टरहिते पदे स्थितत्वात् ।
एषेति । उद्गततरा उत्तरा, अण्डावरणैरप्यनावृतत्वात् ।
निरवदयत इति निष्कष्य देवतान्तरेभ्यो व्यावृत्तं भागेन तर्पयति ।
विश्वास-प्रस्तुतिः
द्विर् अ॒भि घा॑रयति, चतुर्-अव॒त्तस्याप्त्यै॑ ।
Keith
He sprinkles it twice, to make it divided into four.
मूलम्
द्विर॒भि घा॑रयति चतुरव॒त्तस्याप्त्यै॑ ।
पद-पाठः
द्विः । अ॒भीति॑ । घा॒र॒य॒ति॒ । च॒तु॒र॒व॒त्तस्येति॑ चतुः-अ॒व॒त्तस्य॑ । आप्त्यै॑ ।
भट्टभास्कर-टीका
द्विरित्यादि । गतम् ॥
मूलम् (संयुक्तम्)
प॒शवो॒ वै पूर्वा॒ आहु॑तय ए॒ष रु॒द्रो यद॒ग्निर्यत्पूर्वा॒ आहु॑तीर॒भि जु॑हु॒याद्रु॒द्राय॑ प॒शूनपि॑ दध्यादप॒शुर्यज॑मानस्स्यादति॒हाय॒ पूर्वा॒ आहु॑तीर्जुहोति पशू॒नाङ्गो॑पी॒थाय॑ ॥ [35]
विश्वास-प्रस्तुतिः
प॒शवो॒ वै पूर्वा॒ आहु॑तय ,
ए॒ष रु॒द्रो यद् अ॒ग्निः।
यत् पूर्वा॒ आहु॑तीर् अ॒भि जु॑हु॒याद्
रु॒द्राय॑ प॒शून् अपि॑ दध्याद्
अप॒शुर्+++(←नञ्सुभ्याम्)+++ यज॑मानस् स्यात्।
Keith
The former offerings are cattle, Agni is Rudra here; if he were to pour over the former offerings, he would give Rudra cattle, and the sacrificer would be without cattle.
मूलम्
प॒शवो॒ वै पूर्वा॒ आहु॑तय , ए॒ष रु॒द्रो यद॒ग्निर्यत्पूर्वा॒ आहु॑तीर॒भि जु॑हु॒याद् रु॒द्राय॑ प॒शूनपि॑ दध्यात् अप॒शुर्यज॑मानस्स्यात्
पद-पाठः
प॒शवः॑ । वै । पूर्वाः॑ । आहु॑तय॒ इत्या-हु॒त॒यः॒ ।
ए॒षः । रु॒द्रः । यत् । अ॒ग्निः ।
यत् । पूर्वाः॑ । आहु॑ती॒रित्या-हु॒तीः॒ । अ॒भीति॑ । जु॒हु॒यात् ।
रु॒द्राय॑ । प॒शून् । अपीति॑ । द॒ध्या॒त् ।
अ॒प॒शुः । यज॑मानः । स्या॒त् । 7 ।
भट्टभास्कर-टीका
10पशवो वा इत्यादि ॥ अभिहोमः उपरि होमः । अतिहाय होमः अतिलङ्घ्य होमः ॥
इति द्वितीये षष्ठे षष्ठोनुवाकः ॥
विश्वास-प्रस्तुतिः
अ॒ति॒हाय॒ पूर्वा॒ आहु॑तीर् जुहोति
पशू॒नाङ् गो॑पी॒थाय॑ ॥ [35]
Keith
He offers leaving the former oblations aside, to protect the cattle.
मूलम्
अ॒ति॒हाय॒ पूर्वा॒ आहु॑तीर्जुहोति पशू॒नाङ्गो॑पी॒थाय॑ ॥ [35]
इति द्वितीये षष्ठे षष्ठोनुवाकः ॥
पद-पाठः
अ॒ति॒हायेत्य॑ति-हाय॑ । पूर्वाः॑ । आहु॑ती॒रित्या-हु॒तीः॒ । जु॒हो॒ति॒ । प॒शू॒नाम् । गो॒पी॒थाय॑ ॥