प्रजापतिर्ऋषिः
प्रोक्षणम्
मूलम् (संयुक्तम्)
ब्र॒ह्म॒वा॒दिनो॑ वदन्त्य॒द्भिर्ह॒वीँषि॒ प्रौक्षी॒ᳵ केना॒प इति॒ ब्रह्म॒णेति॑ ब्रूयाद॒द्भिर्ह्ये॑व ह॒वीँषि॑ प्रो॒क्षति॒
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति -
“अ॒द्भिर् ह॒वीँषि॒ प्रौक्षीः॑ ।
केना॒प?” इति॒ ,
“ब्रह्म॒णे"ति॑ ब्रूयाद् -
अ॒द्भिर् ह्य् ए॒॑व ह॒वीँषि॑ प्रो॒क्षति॒, ब्रह्म॑णा॒ऽपः।
Keith
The theologians say,
‘Thou hast sprinkled the offerings with water;
but the waters with what?’
‘With the holy power (Brahman)’, he should say,
for verily he sprinkles the offerings with water,
and the waters with the holy power (Brahman).
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
अ॒द्भिर्ह॒वीँषि॒ प्रौक्षीः॑ ।
केना॒प इति॒ , ब्रह्म॒णेति॑ ब्रूयाद् -
अ॒द्भिर्ह्ये॑व ह॒वीँषि॑ प्रो॒क्षति॒ ब्रह्म॑णा॒ऽपः ।
पद-पाठः
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।
अ॒द्भिरित्य॑त्-भिः । ह॒वीँषि॑ । प्रेति॑ । औ॒क्षीः॒ ।
केन॑ । अ॒पः । इति॑ ।
ब्रह्म॑णा । इति॑ । ब्रू॒या॒त् ।
अ॒द्भिरित्य॑त्-भिः । हि । ए॒व । ह॒वीँषि॑ । प्रो॒क्षतीति॑ प्र-उ॒क्षति॑ ।
ब्रह्म॑णा । अ॒पः ।
भट्टभास्कर-टीका
1ब्रह्मवादिन इत्यादि ॥ अध्वर्युः पर्यनुयुज्यते - ब्रह्मणेति। ‘प्रोक्षितास्स्थ’ इति मन्त्रेण । कीदृशमिदं ब्रह्मणा अपां प्रोक्षणं; अप्रोक्षणमेवेदमुक्तं भवति;
मन्त्रोच्चारणमात्रमेव क्रियते इत्यत आह - अद्भिर्ह्येवेत्यादि । यस्मात् अद्भिः हविषां प्रोक्षणद्वारेण मेध्यत्वं क्रियत इति ब्रह्मणाऽपि तदपामिति । तस्मात् ब्रह्मणेत्युत्तरं ब्रूयादिति ॥
मूलम् (संयुक्तम्)
इ॒ध्माब॒र्हिᳶ प्रोक्ष॑ति॒ मेध्य॑मे॒वैन॑त्करोति॒ वेदि॒म्प्रोक्ष॑त्यृ॒क्षा वा ए॒षाऽलो॒मका॑ऽमे॒ध्या यद्वेदि॒र्मेध्या॑मे॒वैना॑ङ्करोति
विश्वास-प्रस्तुतिः
इ॒ध्माब॒र्हिᳶ प्रोक्ष॑ति ।
मेध्य॑म् ए॒वैन॑त् करोति ।
Keith
He sprinkles the kindling-wood and the sacrificial strew; verily he makes it pure.
मूलम्
ब्रह्म॑णा॒ऽप इ॒ध्माब॒र्हिᳶ प्रोक्ष॑ति ।
मेध्य॑मे॒वैन॑त्करोति ।
पद-पाठः
इ॒ध्माब॒र्हिरिती॒ध्मा-ब॒र्हिः । प्रेति॑ । उ॒क्ष॒ति॒ ।
मेध्य॑म् । ए॒व । ए॒न॒त् । क॒रो॒ति॒ ।
भट्टभास्कर-टीका
2इध्माबर्हिरित्यादि ॥ छान्दसं पूर्वोत्तरयोर्युगपत् प्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
वेदि॒म् प्रोक्ष॑ति ।
ऋ॒क्षा वा ए॒षाऽलो॒मका॑ऽमे॒ध्या ।
यद् वेदि॒र् - मेध्या॑म् ए॒वैना॑ङ् करोति ।
Keith
He sprinkles the altar, the altar was rough, hairless, and impure;
verily he makes it pure.
मूलम्
वेदि॒म् प्रोक्ष॑ति । ऋ॒क्षा वा ए॒षाऽलो॒मका॑ऽमे॒ध्या । यद्वेदि॒र्मेध्या॑मे॒वैना॑ङ्करोति ।पद-पाठः
वेदि॑म् । प्रेति॑ । उ॒क्ष॒ति॒ ।
ऋ॒क्षा । वै । ए॒षा । अ॒लो॒मका॑ । अ॒मे॒ध्या । यत् । वेदिः॑ । मेध्या॑म् । ए॒व । ए॒ना॒म् । क॒रो॒ति॒ ।
भट्टभास्कर-टीका
ऋक्षा वा एषेति । ऋक्षा तृणादिरहिता स्थाली एषा वेदिः मूलादिच्छेदनेन ऋक्षा अलोमका उप्तलोमा अमेध्या । तस्मात् प्रोक्षणेन मेध्यामेवैनां करोति । वावकाश[क्षिपकादि]त्वादित्वाभावः ॥
मूलम् (संयुक्तम्)
दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वेति॑ ब॒र्हिरा॒साद्य॒ प्र [24] उ॒क्ष॒त्ये॒भ्य ए॒वैन॑ल्लो॒केभ्य॒ᳶ प्रोक्ष॑ति
विश्वास-प्रस्तुतिः
“दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वे"ति॑
ब॒र्हिर् आ॒साद्य॒ प्रोक्ष॑ति ।
ए॒भ्य ए॒वैन॑ल् लो॒केभ्य॒ᳶ प्रोक्ष॑ति ।
Keith
‘To the sky thee, to the atmosphere thee, to earth thee’, (with these words) he places the sacrificial strew and sprinkles it [1]; verily he sprinkles it for these worlds.
मूलम्
दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वेति॑ ब॒र्हिरा॒साद्य॒ प्रोक्ष॑ति ।
ए॒भ्य ए॒वैन॑ल्लो॒केभ्य॒ᳶ प्रोक्ष॑ति ।
पद-पाठः
दि॒वे । त्वा॒ । अ॒न्तरि॑क्षाय । त्वा॒ । पृ॒थि॒व्यै । त्वा॒ । इति॑ । ब॒र्हिः । आ॒साद्येत्या॑-साद्य॑ । प्रेति॑ । उ॒क्ष॒ति॒ ।
ए॒भ्यः । ए॒व । ए॒न॒त् । लो॒केभ्यः॑ । प्रेति॑ । उ॒क्ष॒ति॒ ।
भट्टभास्कर-टीका
3दिवे त्वेत्यग्रादारभ्य प्रोक्षणम् ॥
अपाम् प्रणयनम्
मूलम् (संयुक्तम्)
क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यत्खन॑त्य॒पो नि न॑यति॒ शान्त्यै॑ पु॒रस्ता॑त्प्रस्त॒रङ्गृ॑ह्णाति॒ मुख्य॑मे॒वैन॑ङ्करो॒तीय॑न्तङ्गृह्णाति प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑तम्ब॒र्हिस्स्तृ॑णाति प्र॒जा वै ब॒र्हिᳶ पृ॑थि॒वी वेदिᳶ॑ प्र॒जा ए॒व पृ॑थि॒व्याम्प्रति॑ ष्ठापयति
विश्वास-प्रस्तुतिः
क्रू॒रम् इ॑व॒ वा ए॒तत् क॑रोति॒
यत् खन॑ति।
अ॒पो नि न॑यति॒ - शान्त्यै॑
Keith
Cruelly indeed does he act in that he digs.
He pours down the waters, for healing.
मूलम्
क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यत्खन॑त्य॒पो नि न॑यति॒ शान्त्यै॑
पद-पाठः
क्रू॒रम् । इ॒व॒ । वै । ए॒तत् । क॒रो॒ति॒ ।
यत् । खन॑ति । अ॒पः । नीति॑ । न॒य॒ति॒ । शान्त्यै॑ ।
भट्टभास्कर-टीका
4क्रूरमिवेत्यादि ॥ गतम् ॥
बर्हिर्-आस्तरणादि
विश्वास-प्रस्तुतिः
पु॒रस्ता॑त् प्रस्त॒रङ् गृ॑ह्णाति ।
मुख्य॑म् ए॒वैन॑ङ् करोति ।
Keith
He takes the bunch in front; verily he makes it the chief.
मूलम्
पु॒रस्ता॑त्प्रस्त॒रङ्गृ॑ह्णाति ।
मुख्य॑मे॒वैन॑ङ्करोति ।
पद-पाठः
पु॒रस्ता॑त् । प्र॒स्त॒रमिति॑ प्र-स्त॒रम् । गृ॒ह्णा॒ति॒ ।
मुख्य॑म् । ए॒व । ए॒न॒म् । क॒रो॒ति॒ ।
विश्वास-प्रस्तुतिः
इय॑न्तङ् गृह्णाति -
प्र॒जाप॑तिना यज्ञ-मु॒खेन॒ सम्मि॑तम्।
Keith
He takes so much as is measured by Prajapati as the mouth of the sacrifice.
मूलम्
इय॑न्तङ्गृह्णाति -
प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑तम्
पद-पाठः
इय॑न्तम् । गृ॒ह्णा॒ति॒ ।
प्र॒जाप॑ति॒नेति॑ प्र॒जा-प॒ति॒ना॒ । य॒ज्ञ॒मु॒खेनेति॑ यज्ञ-मु॒खेन॑ । सम्मि॑त॒मिति॒ सम्-मि॒त॒म् । ़
विश्वास-प्रस्तुतिः
ब॒र्हिस् स्तृ॑णाति ।
प्र॒जा वै ब॒र्हिᳶ, पृ॑थि॒वी वेदिᳶ॑,
प्र॒जा ए॒व पृ॑थि॒व्याम् प्रति॑ ष्ठापयति ।
Keith
He spreads the sacrificial strew,
the sacrificial strew is offspring,
the altar is the earth;
verily he places offspring on the earth.
मूलम्
ब॒र्हिस् स्तृ॑णाति ।
प्र॒जा वै ब॒र्हिᳶ, पृ॑थि॒वी वेदिᳶ॑, प्र॒जा ए॒व पृ॑थि॒व्याम् प्रति॑ ष्ठापयति ।
पद-पाठः
ब॒र्हिः । स्तृ॒णा॒ति॒ ।
प्र॒जा इति॑ प्र-जाः । वै । ब॒र्हिः ।
पृ॒थि॒वी । वेदिः॑ ।
प्र॒जा इति॑ प्र-जाः । ए॒व । पृ॒थि॒व्याम् । प्रतीति॑ । स्था॒प॒य॒ति॒ ।
मूलम् (संयुक्तम्)
अन॑तिदृश्ञँ स्तृणाति प्र॒जयै॒वैन॑म्प॒शुभि॒रन॑तिदृश्ञङ्करोति [25]
विश्वास-प्रस्तुतिः
अन्-अ॑तिदृश्ञँ स्तृणाति ।
प्र॒जयै॒वैन॑म् प॒शुभि॒र् अन॑तिदृश्ञङ् करोति ।
Keith
He strews it so as not to be very discernible;
verily he makes him not very discernible by offspring and cattle [2].
मूलम्
अन॑तिदृश्ञँ स्तृणाति ।
प्र॒जयै॒वैन॑म्प॒शुभि॒रन॑तिदृश्ञङ्करोति ।
पद-पाठः
अन॑तिदृश्ञ॒मित्यन॑ति-दृ॒श्ञ॒म् । स्तृ॒णा॒ति॒ ।
प्र॒जयेति॑ प्र-जया॑ । ए॒व । ए॒न॒म् । प॒शुभि॒रिति॑ प॒शु-भिः॒ । अन॑तिदृश्ञ॒मित्यन॑ति-दृ॒श्ञ॒म् । क॒रो॒ति॒ ।
भट्टभास्कर-टीका
5अनतिदृश्नमिति ॥ अनति विरळम् ॥
मूलम् (संयुक्तम्)
उत्त॑रम्ब॒र्हिषᳶ॑ प्रस्त॒रँ सा॑दयति प्र॒जा वै ब॒र्हिर्यज॑मानᳶ प्रस्त॒रो यज॑मानमे॒वाऽय॑जमाना॒दुत्त॑रङ्करोति॒ तस्मा॒द्यज॑मा॒नोऽय॑जमाना॒दुत्त॑रो॒ऽन्तर्द॑धाति
विश्वास-प्रस्तुतिः
उत्त॑रम् ब॒र्हिषᳶ॑ प्रस्त॒रँ सा॑दयति ।
प्र॒जा वै ब॒र्हिर्, यज॑मानᳶ प्रस्त॒रो,
यज॑मानम् ए॒वाऽय॑जमाना॒द् उत्त॑रङ् करोति ।
तस्मा॒द् यज॑मा॒नो ऽय॑जमाना॒द् उत्त॑रः।
अ॒न्तर् द॑धाति॒ - व्यावृ॑त्त्यै।
Keith
He puts the bundle over the sacrificial strew,
the strew is offspring,
the bundle the sacrificer;
verily he makes the sacrificer superior to the non-sacrificer.
Therefore the sacrificer is superior to the non-sacrificer.
He puts (grass) between, for separation.
मूलम्
उत्त॑रम्ब॒र्हिषᳶ॑ प्रस्त॒रँ सा॑दयति ।
प्र॒जा वै ब॒र्हिर्, यज॑मानᳶ प्रस्त॒रो, यज॑मानमे॒वाऽय॑जमाना॒दुत्त॑रङ्करोति ।
तस्मा॒द्यज॑मा॒नोऽय॑जमाना॒दुत्त॑रः।
अ॒न्तर् द॑धाति॒ - व्यावृ॑त्त्यै।
पद-पाठः
उत्त॑र॒मित्युत्-त॒र॒म् । ब॒र्हिषः॑ । प्र॒स्त॒रमिति॑ प्र-स्त॒रम् । सा॒द॒य॒ति॒ ।
प्र॒जा इति॑ प्र-जाः । वै । ब॒र्हिः । यज॑मानः । प्र॒स्त॒र इति॑ प्र-स्त॒रः । यज॑मानम् । ए॒व । अय॑जमानात् । उत्त॑र॒मित्युत्-त॒र॒म् । क॒रो॒ति॒ ।
तस्मा॑त् । यज॑मानः । अय॑जमानात् । उत्त॑र॒ इत्युत्-त॒रः॒ ।
अ॒न्तः । द॒धा॒ति॒ । व्यावृ॑त्त्या॒ इति॑ वि-आवृ॑त्त्यै ।
भट्टभास्कर-टीका
6उत्तरं बर्हिष इत्यादि ॥ गतम् ॥
अञ्जनम्
मूलम् (संयुक्तम्)
अ॒नक्ति॑ ह॒विष्कृ॑तमे॒वैनँ॑ सुव॒र्गल्ँ लो॒कङ्ग॑मयति त्रे॒धाऽन॑क्ति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्यो॑ऽनक्ति
विश्वास-प्रस्तुतिः
अ॒नक्ति॑ ।
ह॒विष्-कृ॑तम् ए॒वैनँ॑ सुव॒र्गल्ँ लो॒कङ् ग॑मयति ।
Keith
He anoints it; verily he makes it into an offering and causes it to go to the world of heaven.
मूलम्
अ॒नक्ति॑ ।
ह॒विष्-कृ॑तम् ए॒वैनँ॑ सुव॒र्गल्ँ लो॒कङ् ग॑मयति ।
पद-पाठः
अ॒नक्ति॑ ।
ह॒विष्कृ॑त॒मिति॑ ह॒विः-कृ॒त॒म् । ए॒व । ए॒न॒म् । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । ग॒म॒य॒ति॒ ।
विश्वास-प्रस्तुतिः
त्रे॒धाऽन॑क्ति ।
त्रय॑ इ॒मे लो॒का,
ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्यो॑ऽनक्ति ।
Keith
He anoints it in three places; these worlds are three; verily he anoints it for these worlds.
मूलम्
त्रे॒धाऽन॑क्ति ।
त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्यो॑ऽनक्ति ।
पद-पाठः
त्रे॒धा । अ॒न॒क्ति॒ ।
त्रयः॑ । इ॒मे । लो॒काः । ए॒भ्यः । ए॒व । ए॒न॒म् । लो॒केभ्यः॑ । अ॒न॒क्ति॒ ।
भट्टभास्कर-टीका
7अनक्ति - प्रहरणकाले स्रुक्षु ॥
मूलम् (संयुक्तम्)
न प्रति॑ शृणाति॒ यत्प्र॑तिशृणी॒यादनू॑र्ध्वम्भावुकय्ँ॒यज॑मानस्य स्यात्
विश्वास-प्रस्तुतिः
न प्रति॑ शृणाति ।
यत् प्र॑तिशृणी॒याद् - अनू॑र्ध्वम्-भावुकय्ँ॒ यज॑मानस्य +++(कृते)+++ स्यात् ।
Keith
He does not break off (its edges);
if he were to break them off,
it would not go aloft for the sacrificer.
मूलम्
न प्रति॑ शृणाति ।
यत्प्र॑तिशृणी॒यादनू॑र्ध्वम्भावुकय्ँ॒यज॑मानस्य स्यात् ।
पद-पाठः
न । प्रतीति॑ । शृ॒णा॒ति॒ ।
यत् । प्र॒ति॒शृ॒णी॒यादिति॑ प्रति-शृ॒णी॒यात् । अनू॑र्ध्वम्भावुक॒मित्यनू॑र्ध्वम्-भा॒वु॒क॒म् । यज॑मानस्य । स्यात् ।
भट्टभास्कर-टीका
8न प्रति शृणातीति = नाकृष्य पुनः प्रक्षिपति । अनूर्ध्वभावुकम् अनूर्ध्वलोके प्रभवम् । छान्दस उकञ् ।
प्रहरणम्
मूलम् (संयुक्तम्)
उ॒परी॑व॒ प्र ह॑रति [26] उ॒परी॑व॒ हि सु॑व॒र्गो लो॒को नि य॑च्छति॒ वृष्टि॑मे॒वास्मै॒ नि य॑च्छति॒ नात्य॑ग्र॒म्प्र ह॑रे॒द्यदत्य॑ग्रम्प्र॒हरे॑दत्यासा॒रिण्य॑ध्व॒र्योर्नाशु॑का स्या॒न्न पु॒रस्ता॒त्प्रत्य॑स्ये॒द्यत्पु॒रस्ता॑त्प्र॒त्यस्ये॑त्सुव॒र्गाल्लो॒काद्यज॑मान॒म्प्रति॑ नुदे॒त्प्राञ्च॒म्प्र ह॑रति॒ यज॑मानमे॒व सु॑व॒र्गल्ँ लो॒कङ्ग॑मयति॒ न विष्व॑ञ्चव्ँ॒वि यु॑या॒द्यद्विष्व॑ञ्चव्ँवियु॒यात् [27]
स्त्र्य॑स्य जायेतो॒र्ध्वमुद्यौ॑त्यू॒र्ध्वमि॑व॒ हि पुँ॒सᳶ पुमा॑ने॒वास्य॑ जायते॒
विश्वास-प्रस्तुतिः
उ॒परी॑व॒ प्र ह॑रति ।
उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः।
Keith
He pushes it upwards as it were [3], for the world of heaven is upwards as it were.
मूलम्
उ॒परी॑व॒ प्र ह॑रति ।
उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः।
पद-पाठः
उ॒परि॑ । इ॒व॒ । प्रेति॑ । ह॒र॒ति॒ ।
उ॒परि॑ । इ॒व॒ । हि । सु॒व॒र्ग इति॑ सुवः-गः । लो॒कः ।
विश्वास-प्रस्तुतिः
नि य॑च्छति ।
वृष्टि॑म् ए॒वास्मै॒ नि य॑च्छति ।
Keith
He depresses it; verily he brings down rain for him.
मूलम्
नि य॑च्छति ।
वृष्टि॑मे॒वास्मै॒ नि य॑च्छति ।
पद-पाठः
नीति॑ । य॒च्छ॒ति॒ । वृष्टि॑म् । ए॒व । अ॒स्मै॒ । नीति॑ । य॒च्छ॒ति॒ ।
भट्टभास्कर-टीका
9उपरीत्यादि ॥ गतम् । नियच्छति न्यञ्चं पातयति ।
विश्वास-प्रस्तुतिः
नात्य॑ग्र॒म् प्र ह॑रेत् ।
यद् अत्य॑ग्रम् प्र॒हरे॑द्
अत्यासा॒रिण्य् अ॑ध्व॒र्योर् नाशु॑का स्यात् ।
Keith
He should not put forward the points too much;
if he were to do so,
there would be a violent torrent to destroy the Adhvaryu.
मूलम्
नात्य॑ग्र॒म् प्र ह॑रेत् ।
यद् अत्य॑ग्रम् प्र॒हरे॑द्
अत्यासा॒रिण्य् अ॑ध्व॒र्योर् नाशु॑का स्यात् ।
पद-पाठः
न । अत्य॑ग्र॒मित्यति॑-अ॒ग्र॒म् । प्रेति॑ । ह॒रे॒त् ।
यत् । अत्य॑ग्र॒मित्यति॑-अ॒ग्र॒म् । प्र॒हरे॒दिति॑ प्र-हरे॑त् । अ॒त्या॒सा॒रिणीत्य॑ति-आ॒सा॒रिणी॑ । अ॒ध्व॒र्योः । नाशु॑का । स्या॒त् ।
भट्टभास्कर-टीका
अत्यग्रमिति । अग्रात्ययेन न प्रहरेत् ।
अत्यासारिणीति । अत्यासारशीला अध्वर्योर्नाशहेतुः वृष्टिस्स्यात् ।
विश्वास-प्रस्तुतिः
न +++(मूलापेक्षया)+++ पु॒रस्ता॒त् प्रत्य॑स्येत् ।
यत् पु॒रस्ता॑त् प्र॒त्यस्ये॑त् -
सुव॒र्गाल् लो॒काद् यज॑मान॒म् प्रति॑ नुदेत् ।
Keith
He should not throw it (so that the roots are) in front. If he were to do this, he would thrust the sacrificer from the world of heaven.
मूलम्
न पु॒रस्ता॒त्प्रत्य॑स्येत् ।
यत्पु॒रस्ता॑त्प्र॒त्यस्ये॑त् ।
सु॒व॒र्गाल्लो॒काद्यज॑मान॒म्प्रति॑ नुदेत् ।
पद-पाठः
न । पु॒रस्ता॑त् । प्रतीति॑ । अ॒स्ये॒त् । यत् । पु॒रस्ता॑त् । प्र॒त्यस्ये॒दिति॑ प्रति-अस्ये॑त् । सु॒व॒र्गादिति॑ सुवः-गात् । लो॒कात् । यज॑मानम् । प्रतीति॑ । नु॒दे॒त् ।
भट्टभास्कर-टीका
न पुरस्तादिति । पुरस्तात् प्रतीचीनं न प्रक्षिपेत् । ‘पराङिव हि सुवर्गः’ इति पुरस्तात् प्रत्यसनेन यजमानः स्वर्गात्प्रतिनिवर्तितो भवति ।
विश्वास-प्रस्तुतिः
प्राञ्च॒म् प्र ह॑रति ।
यज॑मानम् ए॒व सु॑व॒र्गल्ँ लो॒कङ् ग॑मयति ।
Keith
He puts it forward (with its points) to the east; verily he makes the sacrificer go to the world of heaven.
मूलम्
प्राञ्च॒म्प्र ह॑रति ।
यज॑मानमे॒व सु॑व॒र्गल्ँ लो॒कङ्ग॑मयति ।
पद-पाठः
प्राञ्च॑म् । प्रेति॑ । ह॒र॒ति॒ ।
यज॑मानम् । ए॒व । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । ग॒म॒य॒ति॒ ।
भट्टभास्कर-टीका
प्राञ्चमित्यादि । गतम् ।
वियवनम्
विश्वास-प्रस्तुतिः
न विष्व॑ञ्चव्ँ॒ वि यु॑यात् ।
यद् विष्व॑ञ्चव्ँ वियु॒यात्
स्त्र्य् अ᳙स्य जायेत ।
Keith
He should not spread (the bunch) in all directions. If he were to spread (it) in all directions [4], a daughter would be born to him.
मूलम्
न विष्व॑ञ्चव्ँ॒वि यु॑यात् ।
यद् विष्व॑ञ्चव्ँवियु॒यात् स्त्र्य॑स्य जायेत ।
पद-पाठः
न । विष्व॑ञ्चम् । वीति॑ । यु॒या॒त् ।
यत् । विष्व॑ञ्चम् । वि॒यु॒यादिति॑ वि-यु॒यात् । स्त्री । अ॒स्य॒ । जा॒ये॒त॒ ।
भट्टभास्कर-टीका
न विष्वञ्चमिति । विषूचीनाग्रं न विश्लेषयेत् ।
स्त्र्यस्येति । विषूचीनत्वात् स्त्रीव्यञ्जनस्य ।
विश्वास-प्रस्तुतिः
ऊ॒र्ध्वम् उद्यौ॑ति ।
ऊ॒र्ध्वम् इ॑व॒ हि पुँ॒सᳶ।
पुमा॑न् ए॒वास्य॑ जायते ।
Keith
He strews it upwards, for upwards is as it were connected with a man; verily a male child is born to him.
मूलम्
ऊ॒र्ध्वमुद्यौ॑ति ।
ऊ॒र्ध्वमि॑व॒ हि पुँ॒सᳶ पुमा॑ने॒वास्य॑ जायते ।
पद-पाठः
ऊ॒र्ध्वम् । उदिति॑ । यौ॒ति॒ ।
ऊ॒र्ध्वम् । इ॒व॒ । हि । पुँ॒सः । पुमा॑न् । ए॒व । अ॒स्य॒ । जा॒य॒ते॒ । 4 ।
भट्टभास्कर-टीका
ऊर्ध्वमेवेति । पुंव्यञ्जनस्योर्ध्वत्वात् ॥
मूलम् (संयुक्तम्)
यत्स्फ्येन॑ वोपवे॒षेण॑ वा योयु॒प्येत॒ स्तृति॑रे॒वास्य॒ सा हस्ते॑न योयुप्यते॒ यज॑मानस्य गोपी॒थाय॑
मसृणीकरणम्
विश्वास-प्रस्तुतिः
यत् स्फ्येन॑ वोपवे॒षेण॑ वा योयु॒प्येत॒
स्तृति॑र् ए॒वास्य॒ सा ।
Keith
If he were to smooth it with the sword or the poking-stick, that would be his ruin.
मूलम्
यत्स्फ्येन॑ वोपवे॒षेण॑ वा योयु॒प्येत॒ स्तृति॑रे॒वास्य॒ सा ।
पद-पाठः
यत् । स्फ्येन॑ । वा॒ । उ॒प॒वे॒षेणेत्यु॑प-वे॒षेण॑ । वा॒ । यो॒यु॒प्येत॑ । स्तृतिः॑ । ए॒व । अ॒स्य॒ । सा ।
भट्टभास्कर-टीका
10यदिति ॥ योयुप्येत विह्वलीक्रियेत ।स्तृतिः छादनम् ।
स्फ्याद्युपादानेन हस्तादितिरोधानात् हिंसया स्तृतिः वज्रस्थानीयस्फ्यादिस्पर्शनात् । ह्रस्वान्तधात्वन्तरमिदम् ।
विश्वास-प्रस्तुतिः
हस्ते॑न योयुप्यते ।
यज॑मानस्य गोपी॒थाय॑ ।
Keith
He smooths it with his hand, for the protection of the sacrificer.
मूलम्
हस्ते॑न योयुप्यते ।यज॑मानस्य गोपी॒थाय॑ ।
पद-पाठः
हस्ते॑न । यो॒यु॒प्य॒ते॒ ।
यज॑मानस्य । गो॒पी॒थाय॑ ।
भट्टभास्कर-टीका
हस्तेनेत्यादि । गतम् । गोपीथाय रक्षणाय भवति ॥
प्रस्तरस्य यजमानत्वम्
मूलम् (संयुक्तम्)
ब्रह्मवा॒दिनो॑ वदन्ति॒ किय्ँ य॒ज्ञस्य॒ यज॑मान॒ इति॑ प्रस्त॒र इति॒ तस्य॒ क्व॑ सुव॒र्गो लो॒क इत्या॑हव॒नीय॒ इति॑ ब्रूया॒द्यत्प्र॑स्त॒रमा॑हव॒नीये॑ प्र॒हर॑ति॒ यज॑मानमे॒व [28] सु॒व॒र्गल्ँ लो॒कङ्ग॑मयति
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
“किय्ँ य॒ज्ञस्य॒ यज॑मान॒” इति॑।
“प्र॒स्त॒र” इति॑ ।
“तस्य॒ क्व᳙ सुव॒र्गो लो॒क” इति॑।
“आ॒ह॒व॒नीय॒” इति॑ ब्रूयात् ।
Keith
The theologians say, ‘What in the sacrifice is the sacrificer’
‘The bundle’ (is the reply).
‘Where in it is the world of heaven?’
‘The Ahavaniya (fire)’ he should reply.
In that he puts the bundle on the Ahavaniya, he makes the sacrificer [5] go to the world of heaven.
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
किय्ँ य॒ज्ञस्य॒ यज॑मान॒ इति॑, प्रस्त॒र इति॑ ।
तस्य॒ क्व॑ सुव॒र्गो लो॒क इति॑ , आ॒ह॒व॒नीय॒ इति॑ ब्रूयात् ।
यत्प्र॑स्त॒रमा॑हव॒नीये॑ प्र॒हर॑ति॒
यज॑मानमे॒व सु॑व॒र्गल्ँ लो॒कङ्ग॑मयति ।
पद-पाठः
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।
किम् । य॒ज्ञस्य॑ । यज॑मानः । इति॑ ।
प्र॒स्त॒र इति॑ प्र-स्त॒रः । इति॑ । तस्य॑ । क्व॑ । सु॒व॒र्ग इति॑ सुवः-गः । लो॒कः । इति॑ । आ॒ह॒व॒नीय॒ इत्या॑-ह॒व॒नीयः॑ । इति॑ । ब्रू॒या॒त् ।
भट्टभास्कर-टीका
11ब्रह्मवादिन इत्यादि ॥ यज्ञसम्बन्धि किमङ्गं यजमानः यजमानस्थानीयामिति ब्रह्मवादिनः पृच्छन्ति ।
तत्र प्रस्तरो यजमान इत्युत्तरं ब्रूयात् ।
तस्य यजमानस्य स्वर्गो लोकः सर्वाभिमतसिद्धिः ।
क्वेति पुनः पृच्छन्ति ब्रह्मवादिनः । तत्राप्याहवनीय इति प्रब्रूयात् ।
विश्वास-प्रस्तुतिः
यत् प्र॑स्त॒रम् आ॑हव॒नीये॑ प्र॒हर॑ति॒
यज॑मानम् ए॒व सु॑व॒र्गल्ँ लो॒कङ् ग॑मयति ।
Keith
In that he puts the bundle on the Ahavaniya, he makes the sacrificer [5] go to the world of heaven.
मूलम्
यत्प्र॑स्त॒रमा॑हव॒नीये॑ प्र॒हर॑ति ।
यज॑मानमे॒व सु॑व॒र्गल्ँ लो॒कङ्ग॑मयति ।
पद-पाठः
यत् । प्र॒स्त॒रमिति॑ प्र-स्त॒रम् । आ॒ह॒व॒नीय॒ इत्या॑-ह॒व॒नीये॑ । प्र॒हर॒तीति॑ प्र-हर॑ति ।
यज॑मानम् । ए॒व । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । ग॒म॒य॒ति॒ ।
भट्टभास्कर-टीका
यदित्यादि । गतम् ॥
अनुप्रहरणम्
मूलम् (संयुक्तम्)
वि वा ए॒तद्यज॑मानो लिशते॒ यत्प्र॑स्त॒रय्ँयो॑यु॒प्यन्ते॑ ब॒र्हिरनु॒ प्रह॑रति॒ शान्त्यै
विश्वास-प्रस्तुतिः
वि वा ए॒तद् यज॑मानो लिशते॒
यत् प्र॑स्त॒रय्ँ यो॑यु॒प्यन्ते॑ ।
ब॒र्हिर् अनु॒ प्रह॑रति॒ शान्त्यै॑ ।
Keith
The sacrificer is rent in that they smooth the bundle;
he throws the strew along after it, for calming.
मूलम्
वि वा ए॒तद्यज॑मानो लिशते ।
यत्प्र॑स्त॒रय्ँयो॑यु॒प्यन्ते॑ ।
ब॒र्हिरनु॒ प्रह॑रति॒ शान्त्यै॑ ।
पद-पाठः
वीति॑ । वै । ए॒तत् । यज॑मानः । लि॒श॒ते॒ ।
यत् । प्र॒स्त॒रमिति॑ प्र-स्त॒रम् । यो॒यु॒प्यन्ते॑ ।
ब॒र्हिः । अनु॑ । प्रेति॑ । ह॒र॒ति॒ । शान्त्यै॑ ।
भट्टभास्कर-टीका
12वि वा एतदिति ॥ प्रस्तरस्य यजमानत्वात् तस्य विश्लथनेन यजमानो लिशते विबाध्यते । लिश अल्पीभावे, तौदादिकः ।
तत्र बर्हिरनुप्रहरणेन स्वस्य परिहृतत्वात् तच्छान्तिः सुखं यजमानस्य ॥
अवेपनम्
मूलम् (संयुक्तम्)
अनारम्भ॒ण इ॑व॒ वा ए॒तर्ह्य॑ध्व॒र्युस्स ई॑श्व॒रो वे॑प॒नो भवि॑तोर् ध्रु॒वासीती॒माम॒भि मृ॑शती॒यव्ँ वै ध्रु॒वाऽस्यामे॒व प्रति॑ तिष्ठति॒ न वे॑प॒नो भ॑व॒त्यगा(३)न॑ग्नी॒दित्या॑ह॒ यद्ब्रू॒यादग॑न्न॒ग्निरित्य॒ग्नाव॒ग्निङ्ग॑मये॒न्निर्यज॑मानँ सुव॒र्गाल्लो॒काद्भ॑जे॒दग॒न्नित्ये॒व ब्रू॑या॒द्यज॑मानमे॒व सु॑व॒र्गल्ँ लो॒कङ्ग॑मयति ॥ [29]
विश्वास-प्रस्तुतिः
अ॒ना॒र॒+++(←ल)+++म्भ॒ण इ॑व॒ वा ए॒तर्ह्य् अ॑ध्व॒र्युः ।
स ई॑श्व॒रो वे॑प॒नो भवि॑तोः।
“ध्रु॒वासी"ती॒माम् अ॒भि मृ॑शति ।
इ॒यव्ँ वै ध्रु॒वा, ऽस्याम् ए॒व प्रति॑ तिष्ठति ।
न वे॑प॒नो भ॑वति ।
Keith
The Adhvaryu has no support, and he is liable to be seized by shivering. (With the words), ‘Thou art firm (dhruva)’, he strokes it; the Dhruva is this (earth); verily he finds support in it, and shivers not.
मूलम्
अ॒ना॒र॒म्भ॒ण इ॑व॒ वा ए॒तर्ह्य॑ध्व॒र्युः ।
स ई॑श्व॒रो वे॑प॒नो भवि॑तोर्ध्रु॒वासीति॑ ।
इ॒माम॒भि मृ॑शति ।
इ॒यव्ँ वै ध्रु॒वाऽस्यामे॒व प्रति॑ तिष्ठति ।
न वे॑प॒नो भ॑वति ।
पद-पाठः
अ॒ना॒र॒म्भ॒ण इत्य॑ना-र॒म्भ॒णः । इ॒व॒ । वै । ए॒तर्हि॑ । अ॒ध्व॒र्युः ।
सः । ई॒श्व॒रः । वे॒प॒नः । भवि॑तोः ।
ध्रु॒वा । अ॒सि॒ । इति॑ । इ॒माम् । अ॒भीति॑ । मृ॒श॒ति॒ ।
इ॒यम् । वै । ध्रु॒वा ।
अ॒स्याम् । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ ।
न । वे॒प॒नः । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
13अनारम्भण इवेत्यादि ॥ अध्वरस्य नेतृत्वाच्चलितत्वादप्रतिष्ठितत्वं वेपनत्वम् ॥
अगान् अग्नीद्
विश्वास-प्रस्तुतिः
“अगा(३)न्+++(←प्रश्ने उदात्तप्लुतः)+++ अ॑ग्नी॒द्?” इत्या॑ह ।
Keith
‘Has he gone, O Agnidh? he says.
मूलम्
अगा(३)न॑ग्नी॒दित्या॑ह ।
पद-पाठः
अगा(३)न् । अ॒ग्नी॒दित्य॑ग्नि-इत् । इति॑ । आ॒ह॒ ।
भट्टभास्कर-टीका
14अगानग्नीदिति ॥ हे अग्नीत् किम् अगान् अगमत् प्रस्तरम् इति पृच्छत्य् अध्वर्युर् आग्नीध्रम् । गमेर् लुङि ‘मन्त्रे घस’ इति च्लेर्लुक् ।
‘मोनो धातोः’ । प्रश्ने उदात्तप्लुतः । तस्यासिद्धत्वादट उदात्तत्वेन समावेशः ।
अग्नीदित्यामन्त्रितानुदात्तत्वम् ।
विश्वास-प्रस्तुतिः
यद् ब्रू॒याद् “अग॑न्न् अ॒ग्निर्” इति॑
अ॒ग्नाव् अ॒ग्निङ् ग॑मये॒न्
निर् यज॑मानँ सुव॒र्गाल् लो॒काद् भ॑जेत् ।
Keith
If (the Agnidh) were to say, ‘Agni has gone?’ he would make Agni go into the fire, and exclude the sacrificer from the world of heaven.
मूलम्
यद्ब्रू॒यादग॑न्न॒ग्निरिति॑ ।
अ॒ग्नाव॒ग्निङ्ग॑मयेत् ।
निर्यज॑मानँ सुव॒र्गाल्लो॒काद्भ॑जेत् ।
पद-पाठः
यत् । ब्रू॒यात् । अग॑न् । अ॒ग्निः । इति॑ ।
अ॒ग्नौ । अ॒ग्निम् । ग॒म॒ये॒त् ।
निरिति॑ । यज॑मानम् । सु॒व॒र्गादिति॑ सुवः-गात् । लो॒कात् । भ॒जे॒त् ।
भट्टभास्कर-टीका
अथाग्नीध्रो यदि प्रतिब्रूयात् अगन्नग्निः प्रस्तरजन्मा । यद्वा - अग्निः प्रस्तरं परिगतवानिति । तदा प्रस्तराग्निमग्नौ प्रवेशयेत् ।
विश्वास-प्रस्तुतिः
“अग॒न्न्” इत्ये॒व ब्रू॑यात् ।
यज॑मानम् ए॒व सु॑व॒र्गल्ँ लो॒कङ् ग॑मयति ॥
Keith
So he should say only ‘Has he gone?’ Verily he makes the sacrificer go to the world of heaven.
मूलम्
अग॒न्नित्ये॒व ब्रू॑यात् ।
यज॑मानमे॒व सु॑व॒र्गल्ँ लो॒कङ्ग॑मयति ॥
पद-पाठः
अग॑न् । इति॑ । ए॒व । ब्रू॒या॒त् । यज॑मानम् । ए॒व । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । ग॒म॒य॒ति॒ ॥
भट्टभास्कर-टीका
ततश्च यजमानः स्वर्गाल्लोकान्निर्भजेत्तस्मादगन्नित्येव ब्रूयात् विनैवाग्निशब्दम् । यजमानं स्वर्गं गमयति ॥
इति द्वितीये षष्ठे पञ्चमोनुवाकः ॥