प्रजापतिर्ऋषिः
स्फ्य-ग्रहणम्
मूलम् (संयुक्तम्)
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इति॒ स्फ्यमा द॑त्ते॒ प्रसू॑त्या अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म्पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह यत्यै॑
विश्वास-प्रस्तुतिः
“दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व” इति॒
स्फ्यम् आ द॑त्ते प्रसू॑त्यै,
Keith
(Saying) ‘On the impulse of the god Savitr thee’, he takes the sword, for impelling.
मूलम्
“दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व” इति॒ स्फ्यम् आ द॑त्ते प्रसू॑त्यै,
पद-पाठः
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र-स॒वे । इति॑ । स्फ्यम् । एति॑ । द॒त्ते॒ । प्रसू॑त्या॒ इति॒ प्र-सू॒त्यै॒ ।
भट्टभास्कर-टीका
1देवस्य त्वेत्यादि ॥ वेदिविधिः । प्रसूतिः सवितुरनुज्ञा । अपिच यतत्वाय प्रयत्यै वा ॥
अ॒श्विनो॑र् बा॒हुभ्या॒म् ...{Loading}...
विश्वास-प्रस्तुतिः
“अ॒श्विनो॑र् बा॒हुभ्या॒म्” इत्य् आ॑ह ।
अ॒श्विनौ॒ हि दे॒वाना॑म् अध्व॒र्यू आस्ता॑म् ।
Keith
‘With the arms of the Aśvins’, he says, for the Aśvins were the Adhvaryus of the gods.
मूलम्
“अ॒श्विनो॑र्बा॒हुभ्या॒"मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् ।
पद-पाठः
अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । इति॑ । आ॒ह॒ । अ॒श्विनौ॑ । हि । दे॒वाना॑म् । अ॒ध्व॒र्यू इति॑ । आस्ता॑म् ।
भट्टभास्कर-टीका
अध्वर्यू इति । अध्वरस्य नेतारौ मणिबन्धादुपरि वा स्तः ।
सायण-टीका
अश्विनोर्बाहुभ्यामित्याह। अश्विनौ हि देवानामध्वर्यू आस्ताम्।
विश्वास-प्रस्तुतिः
“पू॒ष्णो हस्ता॑भ्या॒"म् इत्य् आ॑ह॒ यत्यै॑ ।
Keith
‘With the hands of Pusan’, he says, for restraint.
मूलम्
“पू॒ष्णो हस्ता॑भ्या॒"मित्या॑ह॒ यत्यै॑ ।
पद-पाठः
पू॒ष्णः । हस्ता॑भ्याम् । इति॑ । आ॒ह॒ । यत्यै॑ । 4 ।
भट्टभास्कर-टीका
यत्यै यमनाय धारणाय ॥
सायण-टीका
पूष्णो हस्ताभ्यामित्याह यत्यै (ब्रा. का.३ प्र.२ अ.९) इति ।
मूलम् (संयुक्तम्)
श॒तभृ॑ष्टिरसि वानस्प॒त्यो द्वि॑ष॒तो व॒ध इत्या॑ह॒ वज्र॑मे॒व तत्सँ श्य॑ति॒
विश्वास-प्रस्तुतिः
“श॒त-भृ॑ष्टिर् असि वानस्प॒त्यो, द्वि॑ष॒तो व॒ध” इत्य् आ॑ह ।
वज्र॑म् ए॒व तत् सँ श्य॑ति
भ्रातृ॑व्याय प्रहरि॒ष्यन्।
Keith
‘Thou art a hundred-edged, of the tree, slayer of the foe’, he says; verily he sharpens the bolt, being about to hurl it at his enemy.
मूलम्
श॒तभृ॑ष्टिरसि वानस्प॒त्यो द्वि॑ष॒तो व॒ध इत्या॑ह ।
वज्र॑मे॒व तत्सँ श्य॑ति भ्रातृ॑व्याय प्रहरि॒ष्यन्।
पद-पाठः
श॒तभृ॑ष्टि॒रिति॑ श॒त-भृ॒ष्टिः॒ । अ॒सि॒ । वा॒न॒स्प॒त्यः । द्वि॒ष॒तः । व॒धः । इति॑ । आ॒ह॒ ।
वज्र॑म् । ए॒व । तत् । समिति॑ । श्य॒ति॒ । भ्रातृ॑व्याय । प्र॒ह॒रि॒ष्यन्निति॑ प्र-ह॒रि॒ष्यन् । 6 ।
भट्टभास्कर-टीका
2शतभृष्टिरसीति ॥ स्फ्याभिमन्त्रणम् । शतपरिपाको वनस्पतिविकारो द्विषतां वधहेरुरिति वचनेन वज्रमेव भ्रातृव्याय प्रहर्तुं सम्यक् निशितं करोति ॥
मूलम् (संयुक्तम्)
भ्रातृ॑व्याय प्रहरि॒ष्यन्त्स्त॑म्बय॒जुर्ह॑रत्ये॒ताव॑ती॒ वै पृ॑थि॒वी याव॑ती॒ वेदि॒स्तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्य॒न्निर्भ॑जति [20] तस्मा॒न्नाभा॒गन्निर्भ॑जन्ति
स्तम्ब-यजुर्-हरणम्
विश्वास-प्रस्तुतिः
स्त॒म्ब॒-य॒जुर् ह॑रति ।
ए॒ताव॑ती॒ वै पृ॑थि॒वी,
याव॑ती॒ वेदिः॑ ।
तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्य॒न् निर्भ॑जति ।
तस्मा॒न् नाभा॒गन् निर्भ॑जन्ति ।
Keith
He throws away the grass with a Yajus.
The earth is the size of the altar;
verily he deprives his enemy of so much of that [1].
Therefore they do not deprive one who has no share.
मूलम्
स्त॑म्बय॒जुर्ह॑रति ।
ए॒ताव॑ती॒ वै पृ॑थि॒वी याव॑ती॒ वेदिः॑ ।
तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्य॒न्निर्भ॑जति ।
तस्मा॒न्नाभा॒गन्निर्भ॑जन्ति ।
पद-पाठः
स्त॒म्ब॒य॒जुरिति॑ स्तम्ब-य॒जुः । ह॒र॒ति॒ ।
ए॒ताव॑ती । वै । पृ॒थि॒वी । याव॑ती । वेदिः॑ ।
तस्याः॑ । ए॒ताव॑तः । ए॒व । भ्रातृ॑व्यम् । निरिति॑ । भ॒ज॒ति॒ ।
तस्मा॑त् । न । अ॒भा॒गम् । निरिति॑ । भ॒ज॒न्ति॒ ।
भट्टभास्कर-टीका
3स्तम्बयजुर् इति मन्त्रेण । तृणपुरीषहरणस्येयं संज्ञा ।
प्रदीपसिंहः
स्तम्बयजुरिति मन्त्रेण = स्तम्बयजुः इति प्रतीकग्रहणम् । इतिमन्त्रेण इति मूले पूरणीयम् । इयं नाम स्तम्बयजुः इत्यर्थः ।एतावतीत्यादि । वेदिव्यतिरिक्तपृथिव्यभावप्रतिपादनेन सर्वस्याः पृथिव्या वेदित्वं वेदिस्तुत्यर्थम् । दृष्टं च ‘सा वा इयं सर्वैव वेदिः’ इति ।
तस्यास्तादृश्या वेदेः एतावतः सर्वपृथिवीप्रमाणादवकाशात् भ्रातृव्यं भागवन्तं शत्रुं निर्भजति निभागं कृत्वा विप्रवासयति ।
तस्मात् अद्यत्वेऽपि अभागम् एकार्थाभिलाषरहितं नाभागं निर्भजन्ति निर्वासयन्ति विषयस्य नियन्तारः ॥
मूलम् (संयुक्तम्)
त्रिर्ह॑रति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्यो॒ निर्भ॑जति तू॒ष्णीञ्च॑तु॒र्थँ ह॑र॒त्यप॑रिमितादे॒वैन॒न्निर्भ॑जति
विश्वास-प्रस्तुतिः
त्रिर् ह॑रति॒,
त्रय॑ इ॒मे लो॒काः ।
ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्यो॒ निर्भ॑जति ।
तू॒ष्णीञ् च॑तु॒र्थँ ह॑रति ।
अप॑रिमिताद् ए॒वैन॒न् निर्भ॑जति।
Keith
He throws it away thrice;
these worlds are three; verily he excludes him from these worlds. He throws it silently a fourth time; verily he excludes him from the unmeasured.
मूलम्
त्रिर्ह॑रति॒, त्रय॑ इ॒मे लो॒काः ।
ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्यो॒ निर्भ॑जति ।
तू॒ष्णीञ्च॑तु॒र्थँ ह॑रति ।
अप॑रिमितादे॒वैन॒न्निर्भ॑जति।
पद-पाठः
त्रिः । ह॒र॒ति॒ । त्रयः॑ । इ॒मे । लो॒काः ।
ए॒भ्यः । ए॒व । ए॒न॒म् । लो॒केभ्यः॑ । निरिति॑ । भ॒ज॒ति॒ ।
तू॒ष्णीम् । च॒तु॒र्थम् । ह॒र॒ति॒ ।
अप॑रिमिता॒दित्यप॑रि-मि॒ता॒त् । ए॒व । ए॒न॒म् । निरिति॑ । भ॒ज॒ति॒ ।
भट्टभास्कर-टीका
4त्रिर्हरति इत्यादि ॥ गतम् । अपरिमिताल्लोकत्रयाभ्यधिकादपि ॥
उद्धननम्
मूलम् (संयुक्तम्)
उद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒ध्यन्तदप॑ ह॒न्त्युद्ध॑न्ति॒ तस्मा॒दोष॑धय॒ᳶ परा॑ भवन्ति॒ मूल॑ञ्छिनत्ति॒ भ्रातृ॑व्यस्यै॒व मूल॑ञ्छिनत्ति पितृदेव॒त्याति॑खा॒तेय॑तीङ्खनति प्र॒जाप॑तिना [21] य॒ज्ञ॒मु॒खेन॒ सम्मि॑ता॒मा प्र॑ति॒ष्ठायै॑ खनति॒ यज॑मानमे॒व प्र॑ति॒ष्ठाङ्ग॑मयति
विश्वास-प्रस्तुतिः
उद्ध॑न्ति।
यद् ए॒वास्या॑ अमे॒ध्यन्
तद् अप॑ हन्ति।
Keith
He uproots it; verily what of it is impure he cuts off.
मूलम्
उद्ध॑न्ति।
यद् ए॒वास्या॑ अमे॒ध्यन् तद् अप॑ हन्ति।
पद-पाठः
उदिति॑ । ह॒न्ति॒ । यत् । ए॒व । अ॒स्याः॒ । अ॒मे॒ध्यम् । तत् । अपेति॑ । ह॒न्ति॒ ।
भट्टभास्कर-टीका
5उद्धन्तीत्यादि ॥ मेधं नार्हतीति अमेध्यम् । ‘दण्डादिभ्यो यः’ ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् ।
विश्वास-प्रस्तुतिः
उद्ध॑न्ति।
तस्मा॒द् ओष॑धय॒ᳶ परा॑ भवन्ति ।
Keith
He uproots it; therefore the plants perish.
मूलम्
उद्ध॑न्ति।
तस्मा॒दोष॑धय॒ᳶ परा॑ भवन्ति ।
पद-पाठः
उदिति॑ । ह॒न्ति॒ । तस्मा॑त् । ओष॑धयः । परेति॑ । भ॒व॒न्ति॒ ।
भट्टभास्कर-टीका
पराभवन्ति पुनःपुनर्विनश्यन्ति स्थानस्योद्धननादल्पेनैव कालेन च्यवन्ते ।
विश्वास-प्रस्तुतिः
मूल॑ञ् छिनत्ति ।
भ्रातृ॑व्यस्यै॒व मूल॑ञ् छिनत्ति ।
Keith
He cuts the root; verily he cuts the root of the enemy.
मूलम्
मूल॑ञ्छिनत्ति ।
भ्रातृ॑व्यस्यै॒व मूल॑ञ्छिनत्ति ।
पद-पाठः
मूल॑म् । छि॒न॒त्ति॒ । भ्रातृ॑व्यस्य । ए॒व । मूल॑म् । छि॒न॒त्ति॒ । 7 ।
खननादि
विश्वास-प्रस्तुतिः
पि॒तृ॒दे॒व॒त्या ऽति॑खा॒ता,
इय॑तीङ् खनति,
प्र॒जाप॑तिना यज्ञमु॒खेन॑ सम्मि॑ताम्।
Keith
If dug too deep, it has the Pitrs for its deity;
so much does he dig as is measured [2] by Prajapati as the mouth of the sacrifice.
मूलम्
पि॒तृ॒दे॒व॒त्याऽति॑खा॒तेय॑तीङ्खनति प्र॒जाप॑तिना यज्ञमु॒खेन॑ सम्मि॑ताम्।
पद-पाठः
पि॒तृ॒दे॒व॒त्येति॑ पितृ-दे॒व॒त्या॑ । अति॑खा॒तेत्यति॑-खा॒ता॒ । इय॑तीम् । ख॒न॒ति॒ । प्र॒जाप॑ति॒नेति॑ प्र॒जा-प॒ति॒ना॒ । य॒ज्ञ॒मु॒खेनेति॑ यज्ञ-मु॒खेन॑ । सम्मि॑ता॒मिति॒ सम्-मि॒ता॒म् ।
भट्टभास्कर-टीका
मूलमित्यादि । अतिखाताप्रतिष्ठाम् एतीत्यखाता ।
इयती प्रादेशमात्री ।
‘यज्ञमुखं वै प्रजापृतिः’ इति प्राजापत्येन प्रादेशेन परिच्छिन्ना भवति ।
विश्वास-प्रस्तुतिः
आ प्र॑ति॒ष्ठायै॑ खनति ।
यज॑मानम् ए॒व प्र॑ति॒ष्ठाङ् ग॑मयति ।
Keith
He digs until (he reaches) support; verily he causes the sacrificer to reach support.
मूलम्
आ प्र॑ति॒ष्ठायै॑ खनति ।
यज॑मानमे॒व प्र॑ति॒ष्ठाङ्ग॑मयति ।
पद-पाठः
एति॑ । प्र॒ति॒ष्ठाया॒ इति॑ प्रति-स्थायै॑ । ख॒न॒ति॒ ।
यज॑मानम् । ए॒व । प्र॒ति॒ष्ठामिति॑ प्रति-स्थाम् । ग॒म॒य॒ति॒ ।
भट्टभास्कर-टीका
आप्रतिष्ठाया इति । ‘चतुरङ्गुले ह्योषधयः प्रति तिष्ठन्ति’ इति यावच्चतुरङ्गुलं खनति ॥
मूलम् (संयुक्तम्)
दक्षिण॒तो वर्षी॑यसीङ्करोति देव॒यज॑नस्यै॒व रू॒पम॑क॒ᳶ पुरी॑षवतीङ्करोति प्र॒जा वै प॒शव॒ᳶ पुरी॑षम्प्र॒जयै॒वैन॑म्प॒शुभि॒ᳶ पुरी॑षवन्तङ्करोति
विश्वास-प्रस्तुतिः
द॒क्षि॒ण॒तो वर्षी॑यसीङ् करोति ।
दे॒व॒यज॑नस्यै॒व रू॒पम् अ॑कः।
Keith
He makes it higher on the south;
verily he makes it the form of the sacrificial ground.
मूलम्
द॒क्षि॒ण॒तो वर्षी॑यसीङ्करोति ।
दे॒व॒यज॑नस्यै॒व रू॒पम॑कः ।
पद-पाठः
द॒क्षि॒ण॒तः । वर्षी॑यसीम् । क॒रो॒ति॒ ।
दे॒व॒यज॑न॒स्येति॑ देव-यज॑नस्य । ए॒व । रू॒पम् । अ॒कः॒ ।
भट्टभास्कर-टीका
6वर्षीयसीमिति ॥ प्रवृद्धतराम् । प्रियस्थिरादिना वर्षादेशः ।
एवं देवयजनस्य रूपं अकः करोति । छान्दसे लुङि ‘मन्त्रे घस’ इति च्लेर्लुक् ।
पूरीषोत्पादनम्
विश्वास-प्रस्तुतिः
पुरी॑षवतीङ् करोति ।
प्र॒जा वै प॒शव॒ᳶ पुरी॑षम्
प्र॒जयै॒वैन॑म् प॒शुभि॒ᳶ पुरी॑षवन्तङ् करोति ।
Keith
He makes it full of loose earth;
loose earth is offspring and cattle;
verily he makes him full of offspring and cattle.
मूलम्
पुरी॑षवतीङ्करोति ।
प्र॒जा वै प॒शव॒ᳶ पुरी॑षम्प्र॒जयै॒वैन॑म्प॒शुभि॒ᳶ पुरी॑षवन्तङ्करोति ।
पद-पाठः
पुरी॑षवती॒मिति॒ पुरी॑ष-व॒ती॒म् । क॒रो॒ति॒ ।
प्र॒जेति॑ प्र-जा । वै । प॒शवः॑ । पुरी॑षम् ।
प्र॒जयेति॑ प्र-जया॑ । ए॒व । ए॒न॒म् । प॒शुभि॒रिति॑ प॒शु-भिः॒ । पुरी॑षवन्त॒मिति॒ पुरी॑ष-व॒न्त॒म् । क॒रो॒ति॒ ।
भट्टभास्कर-टीका
पुरीषवतीमिति । पूरिका मृत् पुरीषं प्रजासाधनत्वात्ताच्छब्द्यम् ॥
उत्तर-परिग्रहः
मूलम् (संयुक्तम्)
उत्त॑रम्परिग्रा॒हम्परि॑ गृह्णात्ये॒ताव॑ती॒ वै पृ॑थि॒वी याव॑ती॒ वेदि॒स्तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्यन्नि॒र्भज्या॒त्मन॒ उत्त॑रम्परिग्रा॒हम्परि॑ गृह्णाति क्रू॒रमि॑व॒ वै [22] ए॒तत्क॑रोति॒ यद्वेदि॑ङ्क॒रोति
विश्वास-प्रस्तुतिः
उत्त॑रम् परिग्रा॒हम् परि॑ गृह्णाति ।
Keith
He performs the second drawing of a boundary.
मूलम्
उत्त॑रम्परिग्रा॒हम्परि॑ गृह्णाति ।
पद-पाठः
उत्त॑र॒मित्युत्-त॒र॒म् । प॒रि॒ग्रा॒हमिति॑ परि-ग्रा॒हम् । परीति॑ । गृ॒ह्णा॒ति॒ ।
भट्टभास्कर-टीका
7उत्तरमित्यादि ॥ वेद्या उत्तरं परिग्राहं करोतीत्यर्थः । ‘परौ यज्ञे’ इति घञ् ।
विश्वास-प्रस्तुतिः
ए॒ताव॑ती॒ वै पृ॑थि॒वी, याव॑ती॒ वेदिः॑ ।
तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्यन् नि॒र्भज्य॑
+आ॒त्मन॒ उत्त॑रम् परिग्रा॒हम् परि॑ गृह्णाति ।
Keith
The earth is the size of the altar;
verily having excluded his enemy from so much of it,
he performs the second drawing of a boundary for himself.
मूलम्
ए॒ताव॑ती॒ वै पृ॑थि॒वी याव॑ती॒ वेदिः॑ ।
तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्यन्नि॒र्भज्या॒त्मन॒ उत्त॑रम्परिग्रा॒हम्परि॑ गृह्णाति ।
पद-पाठः
ए॒ताव॑ती । वै । पृ॒थि॒वी । याव॑ती । वेदिः॑ ।
तस्याः॑ । ए॒ताव॑तः । ए॒व । भ्रातृ॑व्यम् । नि॒र्भज्येति॑ निः-भज्य॑ । आ॒त्मने॑ । उत्त॑र॒मित्युत्-त॒र॒म् । प॒रि॒ग्रा॒हमिति॑ परि-ग्रा॒हम् । परीति॑ । गृ॒ह्णा॒ति॒ ।
भट्टभास्कर-टीका
एतावतीत्यादि । गतम् ।
मसृणी-कृतिः
विश्वास-प्रस्तुतिः
क्रू॒रम् इ॑व॒ वा ए॒तत् क॑रोति॒
यद् वेदि॑ङ् क॒रोति॑
Keith
Cruelly he acts [3] in making an altar.
मूलम्
क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यद्वेदि॑ङ्क॒रोति॑
पद-पाठः
क्रू॒रम् । इ॒व॒ । वै । ए॒तत् । क॒रो॒ति॒ । यत् । वेदि॑म् । क॒रोति॑ ।
भट्टभास्कर-टीका
क्रूरमिति । हिंसारूपत्वात् ॥
विश्वास-प्रस्तुतिः
“धा अ॑सि, स्व॒धा अ॒सी"ति॑ योयुप्यते॒+++(=मसृणं करोति)+++ शान्त्यै॑ । [23] ।
Keith
(With the words) ‘Thou art the holder, thou art the self holder’, it is made smooth, for healing.
मूलम्
धा अ॑सि, स्व॒धा अ॒सीति॑ योयुप्यते॒ शान्त्यै॑ । [23] ।
पद-पाठः
धाः । अ॒सि॒ । स्व॒धेति॑ स्व-धा । अ॒सि॒ । इति॑ । यो॒यु॒प्य॒ते॒ । शान्त्यै॑ ।
भट्टभास्कर-टीका
8योयुप्यते समीकरोति । युप विमोहने ।
शान्त्या इति समीकरणानाख्यानं तुल्यत्वापादनात् । धा असीत्यादिस्तुतेश्च ॥
प्रोक्षण्यः
मूलम् (संयुक्तम्)
प्रोक्ष॑णी॒रा सा॑दय॒त्यापो॒ वै र॑क्षो॒घ्नी रक्ष॑सा॒मप॑हत्यै॒ स्फ्यस्य॒ वर्त्म॑न्त्सादयति य॒ज्ञस्य॒ सन्त॑त्यै॒ यन्द्वि॒ष्यात्तन्ध्या॑येच्छु॒चैवैन॑मर्पयति ॥
विश्वास-प्रस्तुतिः
प्रोक्ष॑णी॒र् आ सा॑दयति ।
आपो॒ वै र॑क्षो॒घ्नी, रक्ष॑सा॒म् अप॑हत्यै ।
स्फ्यस्य॒ वर्त्म॑न्त् सादयति
य॒ज्ञस्य॒ सन्त॑त्यै ।
यन् द्वि॒ष्यात् तन् ध्या॑येत् , शु॒चैवैन॑म् अर्पयति ॥+++(5)+++
Keith
He places the sprinkling waters; the waters are Raksas-slaying; (verily they serve) for slaying the Raksases. He places them in the path made by the sword, for the continuity of the sacrifice. He should think of any one whom he hates; verily does he inflict trouble upon him.
मूलम्
प्रोक्ष॑णी॒रा सा॑दयति ।
आपो॒ वै र॑क्षो॒घ्नी, रक्ष॑सा॒मप॑हत्यै ।
स्फ्यस्य॒ वर्त्म॑न्त्सादयति य॒ज्ञस्य॒ सन्त॑त्यै ।
यन्द्वि॒ष्यात् तन्ध्या॑येत् ,
शु॒चैवैन॑मर्पयति ॥
प्रोक्ष॑णी॒रिति॑ प्र-उक्ष॑णीः । एति॑ । सा॒द॒य॒ति॒ ।
आपः॑ । वै । र॒क्षो॒घ्नीरिति॑ रक्षः-घ्नीः । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ ।
स्फ्यस्य॑ । वर्त्म॑न् । सा॒द॒य॒ति॒ । य॒ज्ञस्य॑ । सन्त॑त्या॒ इति॒ सम्-त॒त्यै॒ ।
यम् । द्वि॒ष्यात् । तम् । ध्या॒ये॒त् ।
शु॒चा । ए॒व । ए॒न॒म् । अ॒र्प॒य॒ति॒ ॥ [23]
भट्टभास्कर-टीका
9प्रोक्षणीरासादयतीति ॥ गतम् ।
अर्पयति । ‘अर्तिर्ही’ इत्यादिना पुक् ॥
इति द्वितीये षष्ठे चतुर्थोऽनुवाकः ॥