१० नैमित्तिक्यः काम्याश्च सामिधेन्यः

प्रजापतिऋषिः ।

मूलम् (संयुक्तम्)

त्रीँ स्तृ॒चाननु॑ ब्रूयाद्राज॒न्य॑स्य॒ त्रयो॒ वा अ॒न्ये रा॑ज॒न्या॑त्पुरु॑षा ब्राह्म॒णो वैश्य॑श्शू॒द्रस्ताने॒वास्मा॒ अनु॑कान्करोति

विश्वास-प्रस्तुतिः

त्रीँ स्तृ॒चाननु॑ ब्रूयाद् राज॒न्य॑स्य ।
त्रयो॒ वा अ॒न्ये रा॑ज॒न्या॑त् पुरु॑षाः ।

ब्रा॒ह्म॒णो वैश्य॑श्शू॒द्रः ।

ताने॒वास्मा॒ अनु॑कान्करोति ।

मूलम्

त्रीँ स्तृ॒चाननु॑ ब्रूयाद् राज॒न्य॑स्य ।

त्रयो॒ वा अ॒न्ये रा॑ज॒न्या॑त् पुरु॑षाः।

ब्रा॒ह्म॒णो वैश्य॑श्शू॒द्रः ।

ताने॒वास्मा॒ अनु॑कान्करोति ।

पद-पाठः

त्रीन् । तृ॒चान् । अन्विति॑ । ब्रू॒या॒त् । रा॒ज॒न्य॑स्य ।

त्रयः॑ । वै । अ॒न्ये । रा॒ज॒न्या॑त् । पुरु॑षाः ।

ब्रा॒ह्म॒णः । वैश्यः॑ । शू॒द्रः ।

तान् । ए॒व । अ॒स्मै॒ । अनु॑का॒नित्यनु॑-का॒न् । क॒रो॒ति॒ ।

भट्टभास्कर-टीका

1पुनरपि सामिधेनीरेवाधिकृत्योच्यते - त्रींस्तृचानिति ॥ नवेत्यवचनादावृत्तौ एव नवर्चः । आद्यास्तिस्रः तिसृभिरुक्ता इत्येके । त्रित्वान्वयात् ब्राह्मणादीन् अस्यानुकान् कमितॄन् करोति । ‘अनुकाभिक’ इति निपात्यते ॥

सायण-टीका

तत्र राजन्यं निमित्तीकृत्य विधत्ते- त्री ँ स्तृचानिति।
प्र वो वाजा इत्येका त्रिरावृत्तत्वात् ( त्ता)।
अग्न आयाहीत्येकस्तृचः। त्वं वरुण इत्येका परिधानीया त्रिरावृत्ता। एवं त्रयस्तृचाः।
तेन तृचानां त्रित्वेन राजन्यव्यतिरिक्तान्ब्राह्मणादींस्त्रीन्वर्णान्राजन्यस्यानुकूलान्करोति।

मूलम् (संयुक्तम्)

पञ्च॑द॒शानु॑ ब्रूयाद्राज॒न्य॑स्य पञ्चद॒शो वै रा॑ज॒न्य॑स्स्व ए॒वैनँ॒ स्तोमे॒ प्रति॑ ष्ठापयति

विश्वास-प्रस्तुतिः

पञ्च॑द॒शानु॑ ब्रूयाद्राज॒न्य॑स्य ।
प॒ञ्च॒द॒शो वै रा॑ज॒न्यः॑ ।
स्व ए॒वैनँ॒ स्तोमे॒ प्रति॑ ष्ठापयति ।

मूलम्

पञ्च॑द॒शानु॑ ब्रूयाद्राज॒न्य॑स्य ।
प॒ञ्च॒द॒शो वै रा॑ज॒न्यः॑ ।
स्व ए॒वैनँ॒ स्तोमे॒ प्रति॑ ष्ठापयति ।

पद-पाठः

पञ्च॑द॒शेति॒ पञ्च॑-द॒श॒ । अन्विति॑ । ब्रू॒या॒त् । रा॒ज॒न्य॑स्य ।
प॒ञ्च॒द॒श इति॑ पञ्च-द॒शः । वै । रा॒ज॒न्यः॑ ।
स्वे । ए॒व । ए॒न॒म् । स्तोमे॑ । प्रतीति॑ । स्था॒प॒य॒ति॒ ।

भट्टभास्कर-टीका

2पञ्चदशो वा इति ॥ प्रजापतेरुरोबाहुप्रभवत्वाद्द्वयोः । पूर्वेण सहास्य विकल्पः ॥

सायण-टीका

पक्षान्तरं विधत्ते- पञ्चादशानु ब्रूयादिति। प्रजापतेरुरसो बाहुभ्यां च पञ्चदशस्तोमस्य राजन्यस्य चोत्पन्नत्वादसौ स्तोमो राजन्यस्य स्वकीयः । यद्यपि पञ्चदश सामिधेनीरन्वाहेति वर्णत्रयसाधारणवचनेनैवायं पक्षः प्राप्तस्तथाऽपि त्रीँ स्तृचानित्यनेन विशेषवचननेन नित्यबाधप्राप्तौ विकल्पार्थं पञ्चदशेति प्रतिप्रसवो विधीयते।

मूलम् (संयुक्तम्)

त्रि॒ष्टुभा॒ परि॑ दध्यादिन्द्रि॒यव्ँ वै त्रि॒ष्टुगि॑न्द्रि॒यका॑म॒ᳵ खलु॒ वै रा॑ज॒न्यो॑ यजते त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यम्परि॑ गृह्णाति

विश्वास-प्रस्तुतिः

त्रि॒ष्टुभा॒ परि॑ दध्यत्।
इ॒न्द्रि॒यव्ँ वै त्रिष्टुक् ।
इ॑न्द्रि॒यका॑म॒ᳵ खलु॒ वै रा॑ज॒न्यो॑ यजते ।
त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यम्परि॑ गृह्णाति ।

मूलम्

त्रि॒ष्टुभा॒ परि॑ दध्यत्।
इ॒न्द्रि॒यव्ँ वै त्रिष्टुक् ।
इ॑न्द्रि॒यका॑म॒ᳵ खलु॒ वै रा॑ज॒न्यो॑ यजते ।
त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यम्परि॑ गृह्णाति ।

पद-पाठः

त्रि॒ष्टुभा॑ । परीति॑ । द॒ध्या॒त् ।
इ॒न्द्रि॒यम् । वै । त्रि॒ष्टुक् ।
इ॒न्द्रि॒यका॑म॒ इती॑न्द्रि॒य-का॒मः॒ । खलु॑ । वै । रा॒ज॒न्यः॑ । य॒ज॒ते॒ ।
त्रि॒ष्टुभा॑ । ए॒व । अ॒स्मै॒ । इ॒न्द्रि॒यम् । परीति॑ । गृ॒ह्णा॒ति॒ ।

भट्टभास्कर-टीका

3त्रिष्टुभेति ॥ ‘र्त्वं वरुण उत’ इति ।
इन्द्रिर्यं वा इति । तद्धेतुत्त्वात्ताच्छब्द्यम् ॥

सायण-टीका

त्वं वरुण इत्येतां परिधानीयां विधत्ते— त्रिष्टुभा परीति।
त्रिष्टुभ इन्द्रेण सहोत्पन्नत्वात्तत्संबन्धीन्द्रियरूपत्वम्। राजन्यस्य युयुत्सत्वादिन्द्रियसामर्थ्यकामः।

राजन्यस्य नित्यां परिधानीयां विधाय काम्यां विधत्ते—
यदि कामयेतेति।

मूलम् (संयुक्तम्)

यदि॑ का॒मये॑त [57] ब्र॒ह्म॒व॒र्च॒सम॒स्त्विति॑ गायत्रि॒या परि॑ दध्याद्ब्रह्मवर्च॒सव्ँ वै गा॑य॒त्री ब्र॑ह्मवर्च॒समे॒व भ॑वति

विश्वास-प्रस्तुतिः

यदि॑ का॒मये॑त ब्रह्मवर्च॒सम॒स्त्विति॑ । गायत्रि॒या परि॑ दध्यात् ।

ब्र॒ह्म॒व॒र्च॒सव्ँ वै गा॑य॒त्री ।
ब्र॒ह्म॒व॒र्च॒समे॒व भ॑वति ।

मूलम्

यदि॑ का॒मये॑त ब्रह्मवर्च॒सम॒स्त्विति॑ । गायत्रि॒या परि॑ दध्यात् ।

ब्र॒ह्म॒व॒र्च॒सव्ँ वै गा॑य॒त्री ।
ब्र॒ह्म॒व॒र्च॒समे॒व भ॑वति ।

पद-पाठः

यदि॑ । का॒मये॑त । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म-व॒र्च॒सम् । अ॒स्तु॒ । इति॑ ।
गा॒य॒त्रि॒या । परीति॑ । द॒ध्या॒त् ।

ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म-व॒र्च॒सम् । वै । गा॒य॒त्री ।
ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म-व॒र्च॒सम् । ए॒व । भ॒व॒ति॒ ।

भट्टभास्कर-टीका

4गायत्रियेति ॥ ‘आजुहोत’ इत्येतया । ‘पृथुपाजाः’ ‘तंसबाधः’ इत्येते धाय्यास्थाने निधेये ॥

सायण-टीका

राजन्यस्य नित्यां परिधानीयां विधाय काम्यां विधत्ते— यदि कामयेतेति।

सायण-टीका

आजुहोत दुवस्यतेत्येषा गायत्री। तत्सवितुरित्यस्या गायत्र्या उपदेशेन ब्रह्मवर्चसनिष्पत्तेस्तस्य गायत्रीरूपत्वम्।

मूलम् (संयुक्तम्)

स॒प्तद॒शानु॑ ब्रूया॒द्वैश्य॑स्य सप्तद॒शो वै वैश्य॒स्स्व ए॒वैनँ॒ स्तोमे॒ प्रति॑ ष्ठापयति

विश्वास-प्रस्तुतिः

स॒प्तद॒शानु॑ ब्रूया॒द्वैश्य॑स्य ।
स॒प्त॒द॒शो वै वैश्यः॑ ।
स्व ए॒वैनँ॒ स्तोमे॒ प्रति॑ ष्ठापयति।

मूलम्

स॒प्तद॒शानु॑ ब्रूया॒द्वैश्य॑स्य ।
स॒प्त॒द॒शो वै वैश्यः॑ । स्व ए॒वैनँ॒ स्तोमे॒ प्रति॑ ष्ठापयति।

पद-पाठः

स॒प्तद॒शेति॑ स॒प्त-द॒श॒ । अन्विति॑ । ब्रू॒या॒त् । वैश्य॑स्य । स॒प्त॒द॒श इति॑ सप्त-द॒शः । वै । वैश्यः॑ ।
स्वे । ए॒व । ए॒न॒म् । स्तोमे॑ । प्रतीति॑ । स्था॒प॒य॒ति॒ ।

भट्टभास्कर-टीका

5सप्तदशेति ॥ द्वयोरपि मध्यदेशप्रभवत्वात् प्रजापतेः ।

सायण-टीका

वैश्यं निमित्तीकृत्य विधत्ते— सप्तदशानु ब्रूयादिति।
“समिध्यमानो अध्वरे” “समिद्धो अग्नआहुत” इत्यनयोर्मध्ये “पृथुपाजा मर्त्यः” “तँ सबाधो यतस्रुचः” इत्येतयोर्धाय्ययोः प्रक्षेपेण सप्तदशसंख्यानिष्पत्तिः। प्रजापतेर्मध्यदेशात्सप्तदशस्तोमवैश्ययोरुत्पन्नत्वात्सप्तदशस्तोमस्तदीयः।

मूलम् (संयुक्तम्)

जग॑त्या॒ परि॑ दध्या॒ज्जाग॑ता॒ वै प॒शवᳶ॑ प॒शुका॑म॒ᳵ खलु॒ वै वैश्यो॑ यजते॒ जग॑त्यै॒वास्मै॑ प॒शून्परि॑ गृह्णाति

विश्वास-प्रस्तुतिः

जग॑त्या॒ परि॑ दध्यात् ।
जाग॑ता॒ वै प॒शवः॑ ।
प॒शुका॑म॒ᳵ खलु॒ वै वैश्यो॑ यजते ।
जग॑त्यै॒वास्मै॑ प॒शून्परि॑ गृह्णाति ।

मूलम्

जग॑त्या॒ परि॑ दध्यात् ।
जाग॑ता॒ वै प॒शवः॑ ।
प॒शुका॑म॒ᳵ खलु॒ वै वैश्यो॑ यजते ।
जग॑त्यै॒वास्मै॑ प॒शून्परि॑ गृह्णाति ।

पद-पाठः

जग॑त्या । परीति॑ । द॒ध्या॒त् ।
जाग॑ताः । वै । प॒शवः॑ ।
प॒शुका॑म॒ इति॑ प॒शु-का॒मः॒ । खलु॑ । वै । वैश्यः॑ । य॒ज॒ते॒ ।
जग॑त्या । ए॒व । अ॒स्मै॒ । प॒शून् । परीति॑ । गृ॒ह्णा॒ति॒ ।

भट्टभास्कर-टीका

जगत्येति । ‘जनस्य गोपाः’ इत्येतया, जगतीशब्द उत्सादिः ॥

सायण-टीका

वैश्यस्य समिध्यमानो अमृतस्य राजसीत्येतां परिधानीयां विधत्ते- जगत्या परीति। जगत्यनुष्ठानलब्धत्वात्पशूनां जागतत्वम्। वैश्यस्य क्षीरदध्यादिविक्रयाय पशुकामत्वं प्रसिद्धम्।

मूलम् (संयुक्तम्)

एक॑विँशति॒मनु॑ ब्रूयात्प्रति॒ष्ठाका॑मस्यैकविँ॒शस्स्तोमा॑नाम्प्रति॒ष्ठा प्रति॑ष्ठित्यै [58]

विश्वास-प्रस्तुतिः

एक॑विँशति॒मनु॑ ब्रूयात् ।
प्र॒ति॒ष्ठाका॑मस्यैकविँ॒शः ।

ए॒क॒विँ॒शः स्तोमा॑नाम् प्रति॒ष्ठा प्रति॑ष्ठित्यै ।

मूलम्

एक॑विँशति॒मनु॑ ब्रूयात् ।
प्र॒ति॒ष्ठाका॑मस्य ।

ए॒क॒विँ॒शः स्तोमा॑नाम्प्रति॒ष्ठा प्रति॑ष्ठित्यै ।

पद-पाठः

एक॑विँशति॒मित्येक॑-विँ॒श॒ति॒म् । अन्विति॑ । ब्रू॒या॒त् ।
प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा-का॒म॒स्य॒ ।

ए॒क॒विँ॒श इत्ये॑क-विँ॒शः । स्तोमा॑नाम् । प्र॒ति॒ष्ठेति॑ प्रति-स्था । प्रति॑ष्ठित्या॒ इति॒ प्रति॑-स्थि॒त्यै॒ ।

भट्टभास्कर-टीका

6एकविंशतिमिति ॥ पञ्चदशत्वान्वयात् प्रथमोत्तमावृत्तिवत् एतासामेवावृत्त्या एकविंशत्याद्यभिमतसङ्ख्यापूरणमिति केचित् ।

‘युक्ष्वा हि’ इत्यादि नव सामिधेनीति केचित् ।

स्तोमानां प्रतिष्ठेति । त्रिवृत्पञ्चदशसप्तदशानां प्रधानस्तोमानां, तत्र अनुगतत्वात् ॥

सायण-टीका

नैमित्तिकीं विधाय काम्यां विधत्ते— एकवि ँ शतिमिति। अत्र संख्यापूरणं संप्रदायविद्भिरेवमुक्तम् –

एकाविंशत्यादिषु प्रथमाया उत्तरे द्वे ईडे अग्निमित्यादिके। अथाग्न आयाहीत्यादि।

अथ त्वामग्ने पुष्करादधि इति त्रयस्तृचाः।
अग्निमग्निमित्येकादश। पृथु पाजा इत्यष्टौ। अष्टाचत्वारिंशत्यक्षरस्य दाशतय्यास्तिस्र आगमयितव्याः। एकविंशत्यादिषु कार्येषु एतासां यथार्थमागम इति।

अस्यायमर्थः— यदा सामिधेनीबुद्धिरपेक्षिता तदाऽऽभ्नातायाः प्र वो वाजा इत्यस्या उपरीडे अग्निमित्यादिकं द्वयं प्रक्षेपणीयम्। तत ऊर्ध्वम् अग्न आयाहीत्यादिकं यथाम्नातं पठितम्। तत्र समिध्यमानसमिद्धवत्योर्मध्ये त्वामग्नइत्यादिका उदाहृताः प्रक्षेपणीयाः। यावतीनां प्रक्षेपेण संख्या पूर्यते तत्प्रमाणवतीनां प्रक्षेप इति।

मीमांसकास्तु *धाय्यासंज्ञकानामेव समिध्यमानसमिद्धवत्योर्मध्ये प्रक्षेपः। इतरानां त्वन्ते प्रक्षेपमाहुः। तत्रापि परिधानीयाया उत्तमायाः प्रागेवेत्ययं विशेषो द्रष्टव्यः। त्रिवृत्पञ्चदशसप्तदशानां संख्या चतुर्थ एकविंशस्तोमेऽन्तर्भूतेति स स्तोमः इतरेषां स्तोमानां प्रतिष्ठा


  • अत्र ख. पुस्तके याज्यासंज्ञकानामिति पाठान्तरम्।
मूलम् (संयुक्तम्)

चतु॑र्विँशति॒मनु॑ ब्रूयाद्ब्रह्मवर्च॒सका॑मस्य॒ चतु॑र्विँशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गायत्रि॒यैवास्मै॑ ब्रह्मवर्च॒समव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

चतु॑र्विँशति॒मनु॑ ब्रूयाद् ब्रह्मवर्च॒सका॑मस्य ।

चतु॑र्विँशत्यक्षरा गाय॒त्री ।

गा॑य॒त्री ब्र॑ह्मवर्च॒सम् ।
गा॒य॒त्रि॒यैवास्मै॑ ब्रह्मवर्च॒समव॑ रुन्द्धे ।

मूलम्

चतु॑र्विँशति॒मनु॑ ब्रूयाद् ब्रह्मवर्च॒सका॑मस्य ।

चतु॑र्विँशत्यक्षरा गाय॒त्री ।

गा॑य॒त्री ब्र॑ह्मवर्च॒सम् ।
गा॒य॒त्रि॒यैवास्मै॑ ब्रह्मवर्च॒समव॑ रुन्द्धे ।

पद-पाठः

चतु॑र्विँशति॒मिति॒ चतुः॑-विँ॒श॒ति॒म् । अन्विति॑ । ब्रू॒या॒त् ।
ब्र॒ह्म॒व॒र्च॒सका॑म॒स्येति॑ ब्रह्मवर्च॒स-का॒म॒स्य॒ । चतु॑र्विँशत्यक्ष॒रेति॒ चतु॑र्विँशति-अ॒क्ष॒रा॒ । गा॒य॒त्री ।

गा॒य॒त्री । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म-व॒र्च॒सम् ।

गा॒य॒त्रि॒या । ए॒व । अ॒स्मै॒ । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म-व॒र्च॒सम् । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

7चतुर्विंशतिमित्यादि ॥ गतम् ॥

सायण-टीका

फलान्तराय विधत्ते— चतुर्वि ँ शतिमिति।

मूलम् (संयुक्तम्)

त्रिँ॒शत॒मनु॑ ब्रूया॒दन्न॑कामस्य त्रिँ॒शद॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राजै॒वास्मा॑ अ॒न्नाद्य॒मव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

त्रिँ॒शत॒म् अनु॑ ब्रूयाद् अन्न॑कामस्य।
त्रिँ॒शद॑क्षरा वि॒राट् ।
अन्नव्ँ॑ वि॒राड् ।
वि॒राजै॒वास्मा॑ अ॒न्नाद्य॒म् अव॑ रुन्द्धे ।

मूलम्

त्रिँ॒शत॒म् अनु॑ ब्रूयाद् अन्न॑कामस्य ।
त्रिँ॒शद॑क्षरा वि॒राट् ।
अन्नव्ँ॑ वि॒राड् । वि॒राजै॒वास्मा॑ अ॒न्नाद्य॒मव॑ रुन्द्धे ।

पद-पाठः

त्रिँ॒शत॑म् । अन्विति॑ । ब्रू॒या॒त् । अन्न॑काम॒स्येत्यन्न॑-का॒म॒स्य॒ । त्रिँ॒शद॑क्ष॒रेति॑ त्रिँ॒शत्-अ॒क्ष॒रा॒ । वि॒राडिति॑ वि-राट् ।

अन्न॑म् । वि॒राडिति॑ वि-राट् ।
वि॒राजेति॑ वि-राजा॑ । ए॒व । अ॒स्मै॒ । अ॒न्नाद्य॒मित्य॑न्न-अद्य॑म् । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

8त्रिंशदक्षरा विराडिति ॥ त्रिभिः दशकैः विराडिति ॥

सायण-टीका

पुनरपि फलान्तराय विधत्ते— त्रि ँ शतमिति। दशाक्षरैस्त्रिभिः पादैर्विराजस्त्रिंशदक्षरत्वम्। तच्छान्दोनुष्ठानेनान्नस्य लभ्यत्वात्तस्य च्छन्दसोऽन्नत्वम्।

मूलम् (संयुक्तम्)

द्वात्रिँ॑शत॒मनु॑ब्रूयात्प्रति॒ष्ठाका॑मस्य॒ द्वात्रिँ॑शदक्षराऽनु॒ष्टु॑गनु॒ष्टुप्छन्द॑साम्प्रति॒ष्ठा प्रति॑ष्ठित्यै

विश्वास-प्रस्तुतिः

द्वात्रिँ॑शत॒मनु॑ब्रूयात् प्रति॒ष्ठाका॑मस्य।
द्वात्रिँ॑शदक्षराऽनु॒ष्टु॑ग् ,
अनु॒ष्टुप्छन्द॑साम् प्रति॒ष्ठा प्रति॑ष्ठित्यै ।

मूलम्

द्वात्रिँ॑शत॒मनु॑ब्रूयात् प्रति॒ष्ठाका॑मस्य।
द्वात्रिँ॑शदक्षराऽनु॒ष्टु॑ग् ,
अनु॒ष्टुप्छन्द॑साम् प्रति॒ष्ठा प्रति॑ष्ठित्यै । ।

पद-पाठः

द्वात्रिँ॑शतम् । अन्विति॑ । ब्रू॒या॒त् । प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा-का॒म॒स्य॒ ।

द्वात्रिँ॑शदक्ष॒रेति॒ द्वात्रिँ॑शत्-अ॒क्ष॒रा॒ । अ॒नु॒ष्टुगित्य॑नु-स्तुक् ।

अ॒नु॒ष्टुबित्य॑नु-स्तुप् । छन्द॑साम् । प्र॒ति॒ष्ठेति॑ प्रति-स्था । प्रति॑ष्ठित्या॒ इति॒ प्रति॑-स्थि॒त्यै॒ ।

भट्टभास्कर-टीका

9छन्दसां प्रतिष्ठेति ॥ ‘वाग्वा अनुष्टुप्’ इति तस्याः सर्ववाङ्मयत्वात् ॥

सायण-टीका

पुनः फलान्तराय विधत्ते— द्वात्रि ँ शतमिति।

अन्यत्र वाग्वा अनुष्टुगिति श्रवणाद्वाग्रूपत्वमनुष्टुभः।
वाचि सर्वेवां छन्दसामन्तर्भावादनुष्टुवितरच्छन्दसां प्रतिष्ठा।

मूलम् (संयुक्तम्)

षट्त्रिँ॑शत॒मनु॑ ब्रूयात्प॒शुका॑मस्य॒ षट्त्रिँ॑शदक्षरा बृह॒ती बार्ह॑ताᳶ प॒शवो॑ बृह॒त्यैवास्मै॑ प॒शून् [59] अव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

षट्त्रिँ॑शत॒म् अनु॑ ब्रूयात् प॒शुका॑मस्य । षट्त्रिँ॑शदक्षरा बृह॒ती
बार्ह॑ताᳶ प॒शवः॑ ।
बृह॒त्यैवास्मै॑ प॒शून् अव॑ रुन्द्धे ।

मूलम्

षट्त्रिँ॑शत॒मनु॑ ब्रूयात् प॒शुका॑मस्य । षट्त्रिँ॑शदक्षरा बृह॒ती
बार्ह॑ताᳶ प॒शवः॑ ।
बृह॒त्यैवास्मै॑ प॒शून् अव॑ रुन्द्धे ।

पद-पाठः

षट्त्रिँ॑शत॒मिति॒ षट्-त्रिँ॒श॒त॒म् । अन्विति॑ । ब्रू॒या॒त् । प॒शुका॑म॒स्येति॑ प॒शु-का॒म॒स्य॒ ।
षट्त्रिँ॑शदक्ष॒रेति॒ षट्त्रिँ॑शत्-अ॒क्ष॒रा॒ । बृ॒ह॒ती । बार्ह॑ताः । प॒शवः॑ ।
बृ॒ह॒त्या । ए॒व । अ॒स्मै॒ । प॒शून् । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

10बृहतीशब्दोऽप्युत्सादिः । वृहत्याः पशव्यत्वात् बार्हतत्वं पशूनाम् ॥

सायण-टीका

पुनः फलान्तराय विधत्ते— षट्त्रिँ शतमिति। पशूनां बृहतीच्छन्दसोऽनुष्ठानेन लभ्यत्वाब्दार्हतत्वम्।

मूलम् (संयुक्तम्)

चतु॑श्चत्वारिँशत॒मनु॑ ब्रूयादिन्द्रि॒यका॑मस्य॒ चतु॑श्चत्वारिँशदक्षरा त्रि॒ष्टुगि॑न्द्रि॒यन्त्रि॒ष्टुप्त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यमव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

चतु॑श्चत्वारिँशत॒म् अनु॑ ब्रूयाद् इन्द्रि॒यका॑मस्य ।
चतु॑श्चत्वारिँशद् अक्षरा त्रि॒ष्टुक् .. ,
इ॑न्द्रि॒यन् त्रि॒ष्टुप्, .. त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यम् अव॑ रुन्द्धे।

मूलम्

चतु॑श्चत्वारिँशत॒मनु॑ ब्रूयाद् इन्द्रि॒यका॑मस्य ।
चतु॑श्चत्वारिँशदक्षरा त्रि॒ष्टुक् .. ,
इ॑न्द्रि॒यन्त्रि॒ष्टुप्, .. त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यमव॑ रुन्द्धे।

पद-पाठः

चतु॑श्चत्वारिँशत॒मिति॒ चतुः॑-च॒त्वा॒रिँ॒श॒त॒म् । अन्विति॑ । ब्रू॒या॒त् । इ॒न्द्रि॒यका॑म॒स्येती॑न्द्रि॒य-का॒म॒स्य॒ ।
चतु॑श्चत्वारिँशदक्ष॒रेति॒ चतु॑श्चत्वारिँशत्-अ॒क्ष॒रा॒ । त्रि॒ष्टुक् ।
इ॒न्द्रि॒यम् । त्रि॒ष्टुप् । त्रि॒ष्टुभा॑ । ए॒व । अ॒स्मै॒ । इ॒न्द्रि॒यम् । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

11इन्द्रिर्यं त्रिष्टुबिति ॥ इन्द्रियत्रिष्टुभोस्समानप्रभवत्वात् ॥

सायण-टीका

फलान्तराय विधत्ते— चतुश्चत्वारि ँ शतमिति।

मूलम् (संयुक्तम्)

अष्टाच॑त्वारिँशत॒मनु॑ ब्रूयात्प॒शुका॑मस्या॒ष्टाच॑त्वारिँशदक्षरा॒ जग॑ती॒ जाग॑ताᳶ प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

अष्टाच॑त्वारिँशत॒म् अनु॑ ब्रूयात् प॒शुका॑मस्य ।
अ॒ष्टाच॑त्वारिँशद् अक्षरा॒ जग॑ती ।
जाग॑ताᳶ प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्द्धे ।

मूलम्

अष्टाच॑त्वारिँशत॒मनु॑ ब्रूयात् प॒शुका॑मस्य ।
अ॒ष्टाच॑त्वारिँशदक्षरा॒ जग॑ती ।
जाग॑ताᳶ प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्द्धे ।

पद-पाठः

अ॒ष्टाच॑त्वारिँशत॒मित्य॒ष्टा-च॒त्वा॒रिँ॒श॒त॒म् । अन्विति॑ । ब्रू॒या॒त् । प॒शुका॑म॒स्येति॑ प॒शु-का॒म॒स्य॒ ।
अ॒ष्टाच॑त्वारिँशदक्ष॒रेत्य॒ष्टाच॑त्वारिँशत्-अ॒क्ष॒रा॒ । जग॑ती ।
जाग॑ताः । प॒शवः॑ ।
जग॑त्या । ए॒व । अ॒स्मै॒ । प॒शून् । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

12जगत्या इति ॥ जगत्याः पशव्यत्वात् ॥

सायण-टीका

पुनः फलान्तराय विधत्ते- अष्टाचत्वारि ँ शतमिति।

मूलम् (संयुक्तम्)

सर्वा॑णि॒ छन्दाँ॒स्यनु॑ ब्रूयाद्बहुया॒जिन॒स्सर्वा॑णि॒ वा ए॒तस्य॒ छन्दाँ॒स्यव॑रुन्द्धानि॒ यो ब॑हुया॒ज्यप॑रिमित॒मनु॑ ब्रूया॒दप॑रिमित॒स्याव॑रुद्ध्यै ॥ [60]

विश्वास-प्रस्तुतिः

सर्वा॑णि॒ छन्दाँ॒स्यनु॑ ब्रूयाद्बहुया॒जिनः॑ ।

सर्वा॑णि॒ वा ए॒तस्य॒ छन्दाँ॒स्यव॑रुन्द्धानि ।

मूलम्

सर्वा॑णि॒ छन्दाँ॒स्यनु॑ ब्रूयाद्बहुया॒जिनः॑ ।

सर्वा॑णि॒ वा ए॒तस्य॒ छन्दाँ॒स्यव॑रुन्द्धानि ।

पद-पाठः

सर्वा॑णि । छन्दाँ॑सि । अन्विति॑ । ब्रू॒या॒त् । ब॒हु॒या॒जिन॒ इति॑ बहु-या॒जिनः॑ ।

सर्वा॑णि । वै । ए॒तस्य॑ । छन्दाँ॑सि । अव॑रुद्धा॒नीत्यव॑-रु॒द्धा॒नि॒ ।

भट्टभास्कर-टीका

13बहुयाजिन इति ॥ सोमयाजी बहूयाजी, तस्य सर्वाणि गायत्र्यादीनि जगत्यन्तानि छन्दांस्यवरुद्धानि ।

सायण-टीका

सोमयाजिनमधिकृत्य विधत्ते— सर्वाणि छन्दा ँ सीति।

बहुभिदर्क्षिणीयादिभिरिष्टिभिरग्नीषोमीयादिपशुभिरैन्द्रवायवादिग्रहैश्च यजत इति बहुयाजी। एतस्य बहुयाजिनः सवनत्रयेगायत्र्युष्णिगनुष्टुब्जगतीरूपाणि सर्वाणि च्छन्दांस्यवरुद्धानि भवन्ति। तस्मात्सोमयाजी यदा दर्शपूर्णमासावनुतिष्ठति तदा तस्य त्रीणि च्छन्दांस्यनुब्रुयात्।
‘समिध्यमानः प्रथमोऽनुधर्मः’ इत्येषा त्रिष्टुप्। ‘त्वामग्ने प्र दिव आहुतं घृतेन’ इत्येषा जगती। एतदुभयं समिद्धवत्याः पूर्वं पठनीयम्।

विश्वास-प्रस्तुतिः

यो ब॑हुया॒ज्यप॑रिमित॒मनु॑ ब्रूया॒दप॑रिमित॒स्याव॑रुद्ध्यै ॥

मूलम्

यो ब॑हुया॒ज्यप॑रिमित॒मनु॑ ब्रूया॒दप॑रिमित॒स्याव॑रुद्ध्यै ॥

पद-पाठः

यः । ब॒हु॒या॒जीति॑ बहु-या॒जी । अप॑रिमित॒मित्यप॑रि-मि॒त॒म् । अन्विति॑ । ब्रू॒या॒त् ।
अप॑रिमित॒स्येत्यप॑रि-मि॒त॒स्य॒ । अव॑रुद्ध्या॒ इत्यव॑-रु॒द्ध्यै॒ ॥

भट्टभास्कर-टीका

अपरिमितमिति । नवाद्यष्टाचत्वारिंशदन्तोक्तसङ्ख्यापरिच्छेदरहितं अपरिच्छिन्नस्य फलस्याप्यै भवति ॥

इति द्वितीये पञ्चमे दशमोऽनुवाकः ॥

सायण-टीका

तस्य सोमयाजिनस्त्री ँ स्तृचानित्यनुवाकेऽष्टाचत्वारि ँशतमनुब्रुयादित्यन्तेयः संख्याविशेषस्तत्र स्वेच्छैव नियामिका, न तु वाचनिको नियमोऽस्तीत्येतद्विधत्ते- अपरिमितमिति। अपरिमितस्याधिकस्य फलस्येत्यर्थः।

इति द्वितीये पञ्चमे दशमोऽनुवाकः ॥