प्रवरमन्त्रनिगदस्य, ९-१५ स्रुगादापननिगदस्य च व्याख्यानम्
प्रजापतिऋषिः ।
मूलम् (संयुक्तम्)
अग्ने॑ म॒हाँ अ॒सीत्या॑ह म॒हान्ह्ये॑ष यद॒ग्निर्ब्रा॑ह्म॒णेत्या॑ह ब्राह्म॒णो ह्ये॑ष भा॑र॒तेत्या॑है॒ष हि दे॒वेभ्यो॑ ह॒व्यम्भर॑ति
विश्वास-प्रस्तुतिः
अग्ने॑ म॒हाँ अ॒सीत्या॑ह ।
म॒हान्ह्ये॑षः ।
मूलम्
अग्ने॑ म॒हाँ अ॒सीत्या॑ह ।
म॒हान्ह्ये॑षः ।
पद-पाठः
अग्ने॑ । म॒हान् । अ॒सि॒ । इति॑ । आ॒ह॒ ।
म॒हान् । हि । ए॒षः ।
भट्टभास्कर-टीका
1अग्ने महानसीत्यादिना प्रवरमन्त्रपदानि व्याचष्टे ॥ महान् ह्येष इति । स्वभावत एवेति भावः ।
सायण-टीका
तत्र प्रवरमन्त्रार्थं दर्शयति- अग्ने महानिति। अग्निरिति यदेष यस्मात्सर्वाहुत्याधारत्वेन प्रहांस्तस्मान्मन्त्रे महानसीत्युच्यते। यस्माद्ब्राह्मणवर्णाभिमानी तस्मादब्रह्मणेति संबोध्यते।
विश्वास-प्रस्तुतिः
यद॒ग्निर्ब्रा॑ह्म॒णेत्या॑ह । ब्रा॒ह्म॒णो ह्ये॑षः ।
मूलम्
यद॒ग्निर्ब्रा॑ह्म॒णेत्या॑ह । ब्रा॒ह्म॒णो ह्ये॑षः ।
पद-पाठः
यत् । अ॒ग्निः ।ब्रा॒ह्म॒ण॒ । इति॑ । आ॒ह॒ । ब्रा॒ह्म॒णः । हि । ए॒षः ।
भट्टभास्कर-टीका
ब्राह्मणो ह्येष इति । यदग्निरेव जात्या ब्राह्मणः, ब्रह्मणो मुखाद्द्वयोरपि जातत्वात् । ब्रह्मणोपत्यत्वेन वा स्तुतिः । ‘ब्राह्मोऽजातौ’ इति व्यत्ययेन प्रवर्तते ।
विश्वास-प्रस्तुतिः
भा॑र॒तेत्या॑ह ।
ए॒ष हि दे॒वेभ्यो॑ ह॒व्यम्भर॑ति।
मूलम्
भा॑र॒तेत्या॑ह ए॒ष हि दे॒वेभ्यो॑ ह॒व्यम्भर॑ति।
पद-पाठः
भा॒र॒त॒ । इति॑ । आ॒ह॒ । ए॒षः । हि । दे॒वेभ्यः॑ । ह॒व्यम् । भर॑ति ।भट्टभास्कर-टीका
एष हीति । हविषां भरणात् भारतः, भरतानामृत्विजामपत्यत्वात् भारतः ॥
सायण-टीका
यस्मादेव देवेभ्यो हव्यं भरति धारयति तस्माद्भारतेति संबोध्यते। मन्त्रे येयमसावसाविति वीप्सा तेन (तया) भृग्वादीनामृषाणां नामनिर्देशोऽभिप्रेतः। स च भार्गवच्यावनेत्यादिना पूर्वानुवाक एवास्माभिरुदाहृतः।
मूलम् (संयुक्तम्)
दे॒वेद्ध॒ इत्या॑ह दे॒वा ह्ये॑तमैन्ध॑त॒ मन्वि॑द्ध॒ इत्या॑ह॒ मनु॒र्ह्ये॑तमुत्त॑रो दे॒वेभ्य॒ ऐन्द्धर्षि॑ष्टुत॒ इत्या॒हर्ष॑यो॒ ह्ये॑तमस्तु॑व॒न्विप्रा॑नुमदित॒ इत्या॑ह [51]
भास्करोक्त-विनियोगः
2अथ प्रवरमुक्त्वा निविदोन्वाह - देवेद्ध इत्याद्याः ॥
विश्वास-प्रस्तुतिः
दे॒वेद्ध॒ इत्या॑ह ।
दे॒वा ह्ये॑तमैन्ध॑त ।
मूलम्
दे॒वेद्ध॒ इत्या॑ह ।
दे॒वा ह्ये॑तमैन्ध॑त ।
पद-पाठः
दे॒वेद्ध॒ इति॑ दे॒व-इ॒द्धः॒ । इति॑ । आ॒ह॒ ।
दे॒वाः । हि । ए॒तम् । ऐन्ध॑त ।
भट्टभास्कर-टीका
ताः व्याचष्टे - देवा हीति । देवा ऋत्विज इन्द्रादयो वा एतमैन्धत दीपयन्ति, तस्माद् देवेद्धः । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।
प्रदीपसिंहः
ताः = निविदः व्याचष्टेसायण-टीका
निवित्पदेषु सप्तसु प्रथमस्यार्थं दर्शयति- देवेद्ध इति। यस्माद्देवाः स्वकीयेषु यागेष्वेतमग्निम् ऐन्धत प्रज्वलितवन्तस्तस्मादेव+ इद्ध इत्युच्यते।
विश्वास-प्रस्तुतिः
मन्वि॑द्ध॒ इत्या॑ह ।
मनु॒र्ह्ये॑तमुत्त॑रो दे॒वेभ्य॒ ऐन्ध॑ ।
मूलम्
मन्वि॑द्ध॒ इत्या॑ह ।
मनु॒र्ह्ये॑तमुत्त॑रो दे॒वेभ्य॒ ऐन्ध॑ ।
पद-पाठः
मन्वि॑द्ध॒ इति॒ मनु॑-इ॒द्धः॒ । इति॑ । आ॒ह॒ । मनुः॑ । हि । ए॒तम् । उत्त॑र॒ इत्युत्-त॒रः॒ । दे॒वेभ्यः॑ । ऐन्द्ध॑ ।
भट्टभास्कर-टीका
मनुर्ह्येतं इति । मनुर्ह्येतं देवतार्थमैन्ध । देवेभ्योऽपि वा मनुरुत्तरो मनुरेतस्मात् मन्विद्धः । पूर्ववत्स्वरः । एवं सर्वत्र ।
सायण-टीका
द्वितीयपदस्यार्थं दर्शयति- मन्विद्ध इति। देवेभ्य उत्तरो देवैरिन्धनादूर्ध्वं स्वकीययागे मनुरैन्ध।
विश्वास-प्रस्तुतिः
ऋषि॑ष्टुत॒ इत्या॑ह।
ऋष॑यो॒ ह्ये॑तमस्तु॑वन् ।
मूलम्
ऋषि॑ष्टुत॒ इत्या॑ह।
ऋष॑यो॒ ह्ये॑तमस्तु॑वन् ।
पद-पाठः
ऋषि॑ष्टुत॒ इत्यृषि॑-स्तु॒तः॒ । इति॑ । आ॒ह॒ । ऋष॑यः । हि । ए॒तम् । अस्तु॑वन् ।
भट्टभास्कर-टीका
ऋषयः दर्शनवन्तोप्येनमस्तुववन् ।
सायण-टीका
उत्तरेष्वपि पञ्चसु पदेषु प्रसिद्धार्थतां हिशब्दो द्योतयति- ऋषिष्टुत इति।
विश्वास-प्रस्तुतिः
विप्रा॑नुमदित॒ इत्या॑ह ।
विप्रा॒ ह्ये॑ते ।
मूलम्
विप्रा॑नुमदित॒ इत्या॑ह ।
विप्रा॒ ह्ये॑ते ।
पद-पाठः
विप्रा॑नुमदित॒ इति॒ विप्र॑-अ॒नु॒म॒दि॒तः॒ । इति॑ । आ॒ह॒ । विप्राः॑ । हि । ए॒ते ।
भट्टभास्कर-टीका
विप्रा हीति । विप्रा मेधाविनः ये शुश्रुवांसः श्रुतार्थाः गृहीतवेदार्थाः तैरप्य् अनुमदितः अनुमोदितः अनुक्रमेण वा स्तुतः । मद तृप्तियोगे; मन्दतेर्वा, छान्दसो नुमभावः ॥
सायण-टीका
शुश्रुवांसः श्रुताध्ययनसंपन्ना जात्या विप्रा विद्यया बिबुधाः कवयश्च भवन्ति। तैरयमनुमदितस्तोपितः शस्तः स्तुतश्च।
मूलम् (संयुक्तम्)
यच्छु॑श्रु॒वाँस॑ᳵ कविश॒स्त इत्या॑ह क॒वयो॒ ह्ये॑ते यच्छु॑श्रु॒वाँसो॒ ब्रह्म॑सँशित॒ इत्या॑ह॒ ब्रह्म॑सँशितो॒ ह्ये॑ष घृ॒ताह॑वन॒ इत्या॑ह घृताहु॒तिर्ह्य॑स्य प्रि॒यत॑मा प्र॒णीर्य॒ज्ञाना॒मित्या॑ह प्र॒णीर्ह्ये॑ष य॒ज्ञानाँ॑
विश्वास-प्रस्तुतिः
यच्छु॑श्रु॒वाँस॑ᳵ कविश॒स्त इत्या॑ह ।
क॒वयो॒ ह्ये॑ते यच्छु॑श्रु॒ववाँसः॑ ।
मूलम्
यच्छु॑श्रु॒वाँस॑ᳵ कविश॒स्त इत्या॑ह ।
क॒वयो॒ ह्ये॑ते यच्छु॑श्रु॒वाँसः॑ ।
पद-पाठः
यत् । शु॒श्रु॒वाँसः॑ । क॒वि॒श॒स्त इति॑ कवि-श॒स्तः । इति॑ । आ॒ह॒ ।
क॒वयः॑ । हि । ए॒ते । यत् । शु॒श्रु॒वाँसः॑ ।
भट्टभास्कर-टीका
3कवयो हीति ॥ कवयः क्रान्तदर्शनाः सूक्ष्मदृशः तेऽपि श्रुतवन्तः एव । तैरपि शस्तः स्तुतः ।
विश्वास-प्रस्तुतिः
ब्रह्म॑सँशित॒ इत्या॑ह॒
ब्रह्म॑सँशितो॒ ह्ये॑षः ।
मूलम्
ब्रह्म॑सँशित॒ इत्या॑ह॒
ब्रह्म॑सँशितो॒ ह्ये॑षः ।
पद-पाठः
ब्रह्म॑सँशित॒ इति॒ ब्रह्म॑-सँ॒शि॒तः॒ । इति॑ । आ॒ह॒ ।
ब्रह्म॑सँशित॒ इति॒ ब्रह्म॑-सँ॒शि॒तः॒ । हि । ए॒षः ।
भट्टभास्कर-टीका
ब्रह्मसंशितो हीति ॥ ब्रह्मणा ऋगादिना मन्त्रेण परवस्तुनैव वा संशितः सम्यक् तीक्ष्णीकृतः ।
सायण-टीका
ब्रह्मणा मन्वेण संशितस्तीक्ष्णीकृतः।
विश्वास-प्रस्तुतिः
घृ॒ताह॑वन॒ इत्या॑ह घृ॒ता॒हु॒तिर्ह्य॑स्य प्रि॒यत॑मा ।
मूलम्
घृ॒ताह॑वन॒ इत्या॑ह ।
घृ॒ता॒हु॒तिर्ह्य॑स्य प्रि॒यत॑मा ।
पद-पाठः
घृ॒ताह॑वन॒ इति॑ घृ॒त-आ॒ह॒व॒नः॒ । इति॑ । आ॒ह॒ ।
घृ॒ता॒हु॒तिरिति॑ घृत-आ॒हु॒तिः । हि । अ॒स्य॒ । प्रि॒यत॒मेति॑ प्रि॒य-त॒मा॒ ।
भट्टभास्कर-टीका
घृताहुतिर्हीति । घृतमाहवनमाहुतिः प्रीतिहेतुरस्येति घृताहवनः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ।
सायण-टीका
घृतरूपमाहवनमाहुतियस्यासौ घृताहवनः।
विश्वास-प्रस्तुतिः
प्र॒णीर् य॒ज्ञाना॒मित्या॑ह॒ प्र॒णीर् ह्ये॑ष य॒ज्ञाना॑म् ।
मूलम्
प्र॒णीर्य॒ज्ञाना॒मित्या॑ह ।
प्र॒णीर्ह्ये॑ष य॒ज्ञाना॑म् ।
पद-पाठः
प्र॒णीरिति॑ प्र-नीः । य॒ज्ञाना॑म् । इति॑ । आ॒ह॒ । प्र॒णीरिति॑ प्र-नीः । हि । ए॒षः । य॒ज्ञाना॑म् ।
भट्टभास्कर-टीका
प्रणीरिति । प्रकर्षेण यज्ञानां नेता उत्पादयिता ॥
सायण-टीका
अनुच्छ्वासेन पठनीयानां सप्तपदानामर्थं दर्शयित्वोच्छ्वासादूर्ध्यं पठनीयानां चतसृणां निविदामर्थं दर्शयति-
प्रणीर्यज्ञानामिति। यज्ञानां नेतृत्वमग्नौ प्रसिद्धम्।
मूलम् (संयुक्तम्)
र॒थीर॑ध्व॒राणा॒मित्या॑ह ए॒ष हि दे॑वर॒थो॑ऽतूर्तो॒ होतेत्या॑ह॒ न ह्ये॑तङ्कश्च॒न [52] तर॑ति॒ तूर्णि॑र्हव्य॒वाडित्या॑ह॒ सर्वँ॒ ह्ये॑ष तर॒त्यास्पात्र॑ञ्जु॒हूर्दे॒वाना॒मित्या॑ह जु॒हूर्ह्ये॑ष दे॒वाना॑ञ्चम॒सो दे॑व॒पान॒ इत्या॑ह
विश्वास-प्रस्तुतिः
र॒थीर॑ध्व॒राणा॒म् इत्या॑ह ।
ए॒ष हि दे॑वर॒थः ।
मूलम्
र॒थीर॑ध्व॒राणा॒म् इत्या॑ह ।
ए॒ष हि दे॑वर॒थः ।
पद-पाठः
र॒थीः । अ॒ध्व॒राणा॑म् । इति॑ । आ॒ह॒ ।
ए॒षः । हि । दे॒व॒र॒थ इति॑ देव-र॒थः ।
भट्टभास्कर-टीका
4देवरथ इति ॥ अध्वराणां देवान् प्रति रंहयिता देवरथः । रंहणात् रथिः। औणादिक इप्रत्ययो वर्णविकारः ।
सायण-टीका
रथीर्देवानां हविर्वहनायाध्वराणां संबन्धी रथोऽयमग्निः।
विश्वास-प्रस्तुतिः
अ॒तूर्तो॒ होतेत्या॑ह ।
न ह्ये॑तङ्कश्च॒न तर॑ति ।
मूलम्
अतूर्तो॒ होतेत्या॑ह ।
न ह्ये॑तङ्कश्च॒न तर॑ति ।
पद-पाठः
अ॒तूर्तः॑ । होता॑ । इति॑ । आ॒ह॒ । न । हि । ए॒तम् । कः । च॒न । तर॑ति ।
भट्टभास्कर-टीका
न हीति । कश्चिदप्येनं न तरति नातिक्रमते । तरतेः कर्मणि निष्ठायां छान्दसो नत्वाभावः । नञ्समासे ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । केन चिदप्यतिक्रमितुं न शक्तः । होता देवानामाह्वाता ।
सायण-टीका
यस्मादह्वातारमेतमग्निं कोऽपि देवो न तरति नातिक्रामति तस्मादयमतूर्तो होतेत्युच्यते।
विश्वास-प्रस्तुतिः
तूर्णि॑र्हव्य॒वाडित्या॑ह ।
सर्वँ॒ ह्ये॑ष तर॑ति ।
मूलम्
तूर्णि॑र्हव्य॒वाडित्या॑ह ।
सर्वँ॒ ह्ये॑ष तर॑ति ।
पद-पाठः
तूर्णिः॑ । ह॒व्य॒वाडिति॑ हव्य-वाट् । इति॑ । आ॒ह॒ ।
सर्व॑म् । हि । ए॒षः । तर॑ति ।
भट्टभास्कर-टीका
सर्वं हीति । तरतेः कर्तरि औणादिको निन्प्रत्ययः, क्तिन्येव वा ‘ऋकारल्वादिभ्यः क्तिन्निष्ठावद्भवति’ इति निष्ठावद्भावः, ‘रदाभ्यां’ इति णत्वम् । सर्वं तरितुमतिक्रमितुं समर्थो हविषां वोढारम् ।
सायण-टीका
यस्मात्सर्वमपि देवमयं हविर्वहनात्तरति प्राप्नोति तस्मात्तूर्णिर्हव्यवाडित्युच्यते।
विश्वास-प्रस्तुतिः
आ॒स्पा॒त्र॑ञ्जु॒हूर्दे॒वाना॒मित्या॑ह ।
जु॒हूर्ह्ये॑ष दे॒वाना॑म् ।
मूलम्
आ॒स्पा॒त्र॑ञ्जु॒हूर्दे॒वाना॒मित्या॑ह ।
जु॒हूर्ह्ये॑ष दे॒वाना॑म् ।
पद-पाठः
आस्पात्र॑म् । जु॒हूः । दे॒वाना॑म् । इति॑ । आ॒ह॒ ।
जु॒हूः । हि । ए॒षः ।दे॒वाना॑म् ।
भट्टभास्कर-टीका
जुहूर्हीति । जुहूस्थानीयोऽयं देवानां, यथा जुह्वाऽग्नौ हविः प्राप्यते एवमग्निना देवेषु हविः प्राप्स्यते इति । विशेषस्त्वस्यास्पात्रत्वम् । अयस्पात्रवत् दृढतरा अग्निलक्षणा जुहूरिति ॥
सायण-टीका
एताभ्यश्चतसृभ्यो निविद्भ्य ऊर्ध्वमुच्छ्वासं कृत्वा पश्चात्पठनीयानां चतसृणां निविदामर्थं दर्शयति-
आस्पात्रमिति।
एषोऽग्निर्देवानां जुहूसदृशो जुह्वामिवास्मिन्हविष्प्रक्षेपात्। न चास्य दारुमयजुहूवच्छैथिल्यं, किंत्वास्पात्रं लोहपात्रवद्दृढमित्यर्थेः।
मूलम् (संयुक्तम्)
च॒म॒सो दे॑व॒पान॒ इत्या॑ह चम॒सो ह्ये॑ष दे॑व॒पानो॒ऽराँ इ॑वाग्ने ने॒मिर्दे॒वाँ स्त्वम्प॑रि॒भूर॒सीत्या॑ह दे॒वान्ह्ये॑ष प॑रि॒भूःविश्वास-प्रस्तुतिः
च॒म॒सो दे॑व॒पान॒ इत्या॑ह ।
च॒म॒सो ह्ये॑ष दे॑व॒पानः॑ ।
मूलम्
च॒म॒सो दे॑व॒पान॒ इत्या॑ह ।
च॒म॒सो ह्ये॑ष दे॑व॒पानः॑ ।
पद-पाठः
च॒म॒सः । दे॒व॒पान॒ इति॑ देव-पानः॑ । इति॑ । आ॒ह॒ ।
च॒म॒सः । हि । ए॒षः । दे॒व॒पान॒ इति॑ देव-पानः॑ ।
भट्टभास्कर-टीका
5चमसो हीति ॥ देवा येन सोमं पिबन्ति स देवपानश्चमसः । तत्स्थनीयोऽयमग्निः ।
सायण-टीका
यथा मनुष्याणां सोमपानहेतुश्चमसस्तथादेवानां पानसाधनचमसस्तानीयोऽयमग्निः। हेऽग्ने त्वं यथा शकटचक्रास्थितान्कुलालचक्रस्थितान्वा तिर्यक्विलरूपानरान्नेभिः परितो व्याप्नोति
विश्वास-प्रस्तुतिः
अराँ इ॑वाग्ने ने॒मिः,
दे॒वाँ स्त्वम्प॑रि॒भूर॒सीत्या॑ह ।
दे॒वान्ह्ये॑ष प॑रि॒भूः ।
मूलम्
अराँ इ॑वाग्ने ने॒मिः,
दे॒वाँ स्त्वम्प॑रि॒भूर॒सीत्या॑ह ।
दे॒वान्ह्ये॑ष प॑रि॒भूः ।
पद-पाठः
अ॒रान् । इ॒व॒ । अ॒ग्ने॒ । ने॒मिः ।
दे॒वान् । त्वम् । प॒रि॒भूरिति॑ परि-भूः । अ॒सि॒ । इति॑ । आ॒ह॒ ।
दे॒वान् । हि । ए॒षः । प॒रि॒भूरिति॑ परि-भूः ।
भट्टभास्कर-टीका
देवान् हीति । एष हि देवान् परितः सर्वतो भवति परिगृह्णाति व्याप्नोति अरानिव नेमिः, तस्माद्देवान् परिभूरसीत्युच्यते । ‘अभितःपरितः’ इति द्वितीया; छान्दसस्तसिलोपः ॥
सायण-टीका
यथा मनुष्याणां सोमपानहेतुश्चमसस्तथादेवानां पानसाधनचमसस्तानीयोऽयमग्निः।
हेऽग्ने त्वं यथा शकटचक्रास्थितान्कुलालचक्रस्थितान्वा तिर्यक्विलरूपानरान्नेभिः परितो व्याप्नोति
तथा देवानां परिभूः परितो व्याप्तवानसि।
मूलम् (संयुक्तम्)
यद्ब्रू॒यादा व॑ह दे॒वान्दे॑वय॒ते यज॑माना॒येति॒ भ्रातृ॑व्यमस्मै [53] ज॒न॒ये॒दा व॑ह दे॒वान्यज॑माना॒येत्या॑ह॒ यज॑मानमे॒वैतेन॑ वर्धयत्य॒ग्निम॑ग्न॒ आ व॑ह॒ सोम॒मा व॒हेत्या॑ह दे॒वता॑ ए॒व तत्
विश्वास-प्रस्तुतिः
यद्ब्रू॒यात् ..
आ व॑ह दे॒वान्दे॑वय॒ते यज॑माना॒येति॑।
भ्रातृ॑व्यमस्मै जनयेत् ।
आ व॑ह दे॒वान्यज॑माना॒येत्या॑ह ।
यज॑मानमे॒वैतेन॑ वर्धयति ।
अ॒ग्निम॑ग्न॒ आ व॑ह॒ सोम॒मा व॒हेत्या॑ह ।
दे॒वता॑ ए॒व तत् ।
मूलम्
यद्ब्रू॒यात् ..
आ व॑ह दे॒वान्दे॑वय॒ते यज॑माना॒येति॑।
भ्रातृ॑व्यमस्मै जनयेत् ।
आ व॑ह दे॒वान्यज॑माना॒येत्या॑ह ।
यज॑मानमे॒वैतेन॑ वर्धयति ।
अ॒ग्निम॑ग्न॒ आ व॑ह॒ सोम॒मा व॒हेत्या॑ह ।
दे॒वता॑ ए॒व तत् ।
पद-पाठः
यत् । ब्रू॒यात् ।
एति॑ । व॒ह॒ । दे॒वान् । दे॒व॒य॒त इति॑ देव-य॒ते । यज॑मानाय । इति॑ ।
भ्रातृ॑व्यम् । अ॒स्मै॒ । ज॒न॒ये॒त् ।
एति॑ । व॒ह॒ । दे॒वान् । यज॑मानाय । इति॑ । आ॒ह॒ ।
यज॑मानम् । ए॒व । ए॒तेन॑ । व॒र्ध॒य॒ति॒ ।
अ॒ग्निम् । अ॒ग्ने॒ । एति॑ । व॒ह॒ । सोम॑म् । एति॑ । व॒ह॒ । इति॑ । आ॒ह॒ ।
दे॒वताः॑ । ए॒व । तत् ।
भट्टभास्कर-टीका
6यद्ब्रूयादिति ॥ आवह देवान् यजमानाय इत्यन्ता निवित् ।
शाखान्तरेषु तु ‘आवह देवान् देवयते यजमानाय’ इति पाठः ।
सोऽनेन निन्द्यते । यदि ब्रूयात् देवयते यजमानायेति भ्रातृव्यमस्मै यजमानाय जनयेत् । तथाहि - यजमानाय देवानावहेत्येव यावद्देवानामुपादाने सिद्धे पुनः देवानात्मन इच्छते यजमानायेति विशेषणोपादानं देवव्यतिरिक्तानामनिष्यमाणतया यजमानस्य भ्रातृव्यवत्त्वं सूचयति । ततश्च भ्रातृव्यवान् यजमानश्च स्यात् ।तस्माद्देवयते इति पदं नोपादेयम् । ततश्च भ्रातृव्यशङ्काया अभावात् यजमानं वर्धयत्येवैश्वर्येण ॥
सायण-टीका
चतुर्थ्यां निविदि देवयत इति पदं शाखान्तरे पठ्यते। तदेव यदि ब्रूयात्तदा होता यजमानस्य भ्रातृव्यं जनयेत्। देवानिच्छतीति देवयत्त (यस्त) स्मै देवयते यजमानाय। एतत्पदप्रयोगेणान्यः कश्चिदेतदीयान्देवानिच्छतीति प्रतिभा भवति। तदेतद्भ्रातृव्यस्योत्पादनम्। तस्मात्तत्पदं परित्यज्यास्मै यजमानाय देवानावहेत्येतावदेव वाक्यशेषात्तेनैवैतेन यजमानं वर्धयति वृद्धिं प्रापयति।
कल्पः-“देवतां देवतामावाह्य व्यनित्यग्निमग्न आवह सोममावहाग्निमावह प्रजापतिमित्युपांश्वावहेत्युच्चैर्यद्देवत्यो वा भवत्यग्नीषोमावावहेन्द्राग्नी आवहेन्द्रमावह महेन्द्रमावह देपाँ आज्यवाँ आवहाग्निं होत्रायाऽऽवह स्वं महिमानमावहेति न स्वं महिमानमावहेदा चाग्ने देवान्वह सुयजा च यज जातवेद इत्युक्त्वा” इति।
अत्राऽऽवाहननिगदो मन्त्रकाण्डे समाम्नातः सर्वोऽपि सूत्रकारेण पठितः।
- तस्य सर्वस्य तात्पर्यं दर्शयति-
अग्निमग्न आवह सोममावहेत्याह देवता एव तद्यथापूर्वमुपह्वयते, इति।
तत्तेनाऽऽवाहननिगद आवहेति पाठेनाऽऽज्यभागादिसर्वयागदेवता अनुक्रमेण ह्वयते)।
हे आहुत्याधारभूताग्ने प्रथमाज्यभागदेवतामग्निमावह।
द्वितीयाज्यभागदेवं सोममावह।
पौर्णमास्याममावास्यायांच प्रथमपुरोडाशदेवमग्निमावह।
पौर्णमास्यामुपांशुयागदेवं प्रजापतिमावह ।
प्रजापतिपदं शनैरुच्चार्याऽऽवहेतिपद मुच्चैरुच्चारयेत्।
पौर्णमास्यां द्वितीयपुरोडाशदेवमग्नीषोमरूपमावह।
अमावास्यायामसांनाय्यिनो द्वितीयपुरोडाशदेवत्वेनेन्द्राग्नी आवह।
अगतश्रियः सांनाय्य देवमिन्द्रमावह। गतश्रियो महेन्द्रमावह।
आज्यापान्प्रयाजानूयाजदेवानावह।
अग्निं होत्राय होमस्य स्विष्टकरणाय। आवाहनविषयाणामुक्तानां देवानां यो यस्य देवस्य स्वकीयो महिमा सामर्थ्यतिशयस्तं महिमानमावह। अत्र हविर्भुज एव देवानभिप्रेत्य स्वं महिमानमित्युच्यते, न त्वामावाहनकर्तुरग्नेर्महिमानं तस्याऽऽवाहनविषयत्वाभावात्, इति कल्पसूत्रस्यार्थः।
जातानि वेदांसि ज्ञानानि यस्मादसौ जातवेदाः सर्वज्ञोऽयं सर्वदेवमहिमाभिज्ञत्वादित्यर्थः। तादृश हेऽग्ने त्वं देवानावह च सुयजा शोभनेन यज्ञेन यज च। न केवलमावाहनं कर्तव्यं किंतु हविष्प्रापणलक्षणो यागोऽपि त्वयैव कर्तव्यः। अत्र सूत्रे प्रजापतिमित्युपांश्वावहेत्युच्चैर्यद्देवत्यो वा भवतीत्युक्तं तच्चोपांशुयाजे प्रजापतिविष्ण्वग्नीषोमाणां विकल्पाभिप्रायेण द्रष्टव्यम्।
एतस्याऽऽवाहननिगदस्य तात्पर्यं संक्षेपेण दर्शयति- अग्निमग्न इति।
मूलम् (संयुक्तम्)
य॑थापू॒र्वमुप॑ ह्वयत॒ आ चा॑ग्ने दे॒वान्वह॑ सु॒यजा॑ च यज जातवेद॒ इत्या॑हा॒ग्निमे॒व तत्सँ श्य॑ति॒ सो॑ऽस्य॒ सँशि॑तो दे॒वेभ्यो॑ ह॒व्यव्ँव॑हत्य॒ग्निर्होता॑ [54] इत्या॑हा॒ग्निर्वै दे॒वानाँ॒ होता॒ य ए॒व दे॒वानाँ॒ होता॒ तव्ँवृ॑णीते॒ स्मो व॒यमित्या॑हा॒त्मान॑मे॒व स॒त्त्वङ्ग॑मयति
विश्वास-प्रस्तुतिः
य॑थापू॒र्वमुप॑ ह्वयते ।
मूलम्
य॑थापू॒र्वमुप॑ ह्वयते ।
पद-पाठः
य॒था॒पू॒र्वमिति॑ यथा-पू॒र्वम् । उपेति॑ । ह्व॒य॒ते॒ ।
भट्टभास्कर-टीका
7अथ निविद उक्त्वा अग्निमग्न आवहेत्यादिना देवता आवाहयति - यथापूर्वमिति ॥ अग्न्याद्या यागदेवता अनुक्रमेणाग्निनाऽऽवाहयति ।
सायण-टीका
तत्तेनाऽऽवाहननिगदेनाज्यभागादिस्विष्टकृदन्तदेवताः सर्वाः क्रमेण हूतवान्भवति। प्रथमाज्यभागदेवौ तथा प्रधानदेवता इत्यादिक्रमो यथा पूर्वमित्यादिनोच्यते।
विश्वास-प्रस्तुतिः
आ चा॑ग्ने दे॒वान्वह॑ , सु॒यजा॑ च यज जातवेद॒ इत्या॑ह ।
अ॒ग्निमे॒व तत्सँ श्य॑ति ।
सो॑ऽस्य॒ सँशि॑तो दे॒वेभ्यो॑ ह॒व्यव्ँव॑हति ।
मूलम्
आ चा॑ग्ने दे॒वान्वह॑ , सु॒यजा॑ च यज जातवेद॒ इत्या॑ह ।
अ॒ग्निमे॒व तत्सँ श्य॑ति ।
सो॑ऽस्य॒ सँशि॑तो दे॒वेभ्यो॑ ह॒व्यव्ँव॑हति ।
पद-पाठः
एति॑ । च॒ । अ॒ग्ने॒ । दे॒वान् । वह॑ ।
सु॒यजेति॑ सु-यजा॑ । च॒ । य॒ज॒ । जा॒त॒वे॒द॒ इति॑ जात-वे॒दः॒ । इति॑ । आ॒ह॒ ।
अ॒ग्निम् । ए॒व । तत् । समिति॑ । श्य॒ति॒ ।
सः । अ॒स्य॒ । सँशि॑त॒ इति॒ सम्-शि॒तः॒ । दे॒वेभ्यः॑ । ह॒व्यम् । व॒ह॒ति॒ ।
भट्टभास्कर-टीका
आचाग्न इति । आवह देवान् सुयजा त्वं अभिन्नेन च शोभनेन च यागेन च देवान् यज हे जातवेदः त्वं खलु जातानां वेदिता जातवेदा जातधनो वेत्येवं उपश्लोकनेनाग्निं संश्यति सम्यक् तीक्ष्णीकरोतीत्येव ।
सायण-टीका
आवाहननिगदावसाने यदेतन्निगमनवाक्यं तस्य तात्पर्यं दर्शयति- आ चाग्न इति। तत्तेन वाक्यपाठेनाग्निमेव संश्यति तीक्ष्णी करोति। सोऽग्निस्तीक्ष्णीकृतोऽप्रमत्तः संस्तस्य यजमानस्य हव्यं देवेभ्यः क्रमेण वहति।
कल्पः—-“अथ स्रुगादापनेन स्रुचावादापयत्यग्निर्होता वेत्त्वित्यनुवाकेनाध्वर्युर्जुहूपभृतौ स्रुचावादत्ते” इति।
घृतवतीशब्दे जुहूपभृतावादायेत्याध्वर्यवसूत्रे दर्शितवान्। होता तु घृतवतीमध्वर्योः स्रुचमास्यस्वेत्यनेन शब्देन युक्तमनुवाकं पठति। तदिदं स्रुचोरादापनम्। सोऽयमनुवाको मन्त्रकाण्डे समाम्नातः।
तस्य पाठस्तु—
“अग्निर्होता वेत्त्वग्निः। होत्रं वेत्त प्रावित्रम्। स्मो वयम्। साधु ते यजमान देवता। घृतवतीमध्वर्यो स्रुचमास्यस्व। देवायुवं विश्ववाराम्। ईडामहै देवा ँ ईडेन्यान्। नमस्याम नमस्यान्। यजाम यज्ञियान्” (ब्रा. का. ३प. ५अ. ४) इति।
अयमग्निर्होता होमस्य कर्ता। तथा चान्यत्र मन्त्रब्राह्मण आम्नातम्-
“अग्ने यष्टरिदं नम इत्याह। अग्निर्वै देवानां यष्टा ” इति। अतोऽयमग्निर्वेत्तु होमक्रमं जानातु। तदेव वेदनमुत्तरवाक्येन (ण) स्पष्टी क्रियते प्रकृष्टमवित्रं फलदानरूपमस्पद्रक्षणं यस्मिन्होमानुष्ठाने तदिदं प्रावित्रम्। तादृशं होत्रहोमानुष्ठानं वेत्तु होमक्रमं जानातु। न केवलं दैव्यस्य होतुरग्नेरुपरि भारः प्रक्षिप्यते किंतु वयं स्मो मनुष्यहोतारो वयमप्यत्र वर्तामहे। अतो वयमपि होमक्रमज्ञानवन्तस्तिष्ठामः। हे यजमान ते तव हविःस्वीकर्त्री देवता साधु फलं ददात्विति शेषः। हेऽध्वर्यो घृतपूर्णा स्रुचं जुहूमास्यस्वाऽऽक्षिप स्वी कुर्वित्यर्थः। कीदृशीं स्रुचं, देवायुवं देवान्यौति मिश्रयतीति देवायुस्तादृशीम्। विश्ववारां विश्वान्सर्वान्राक्षसकृतान्विघ्नान्वारयतीति विश्ववारा तादृशीम्। ईडेन्यान्स्तुतिप्रियान्मनुष्यान्वयं स्तुमः। नमस्यान्नमस्कारप्रियान्पितृन्नमस्कुर्मः। यज्ञियान्यज्ञप्रियान्देवान्यजाम।
विश्वास-प्रस्तुतिः
अ॒ग्निर्होता॑ इत्या॑ह ।
अ॒ग्निर्वै दे॒वानाँ॒ होता॑ ।
य ए॒व दे॒वानाँ॒ होता॑ ।
तव्ँवृ॑णीते॒ स्मो व॒यमित्या॑ह ।
आ॒त्मान॑मे॒व स॒त्त्वङ्ग॑मयति ।
मूलम्
अ॒ग्निर्होता॑ इत्या॑ह ।
अ॒ग्निर्वै दे॒वानाँ॒ होता॑ ।
य ए॒व दे॒वानाँ॒ होता॑ ।
तव्ँवृ॑णीते॒ स्मो व॒यमित्या॑ह ।
आ॒त्मान॑मे॒व स॒त्त्वङ्ग॑मयति ।
पद-पाठः
अ॒ग्निः । होता॑ । इति॑ । आ॒ह॒ ।
अ॒ग्निः । वै । दे॒वाना॑म् । होता॑ ।
यः । ए॒व । दे॒वाना॑म् । होता॑ । तम् । वृ॒णी॒ते॒ ।
स्मः । व॒यम् । इति॑ । आ॒ह॒ । आ॒त्मान॑म् । ए॒व । स॒त्त्वम् । ग॒म॒य॒ति॒ ।
भट्टभास्कर-टीका
स चाग्निः तथोज्ज्वलीकृतः तुष्टो देवस्थानं प्रापयति ॥
सायण-टीका
अग्नेर्होतृत्वं वेदेषु प्रसिद्धमित्येतद्दर्शयति— अग्निर्होतेति।
दैव्यस्य होतुः साहाय्यमाचरितुं मानुषस्य स्वस्य सद्भाव इत्येतद्दर्शयति— स्मो वयमिति।
मूलम् (संयुक्तम्)
सा॒धु ते॑ यजमान दे॒वतेत्या॑हा॒शिष॑मे॒वैतामा शा॑स्ते॒ यद्ब्रू॒याद्यो॑ऽग्निँ होता॑र॒मवृ॑था॒ इत्य॒ग्निनो॑भ॒यतो॒ यज॑मान॒म्परि॑ गृह्णीयात्प्र॒मायु॑कस्स्यात्
विश्वास-प्रस्तुतिः
सा॒धु ते॑ यजमान दे॒वतेत्या॑ह ।
आ॒शिष॑मे॒वैतामा शा॑स्ते ।
यद्ब्रू॒याद् यो॑ऽग्निँ होता॑र॒मवृ॑था॒ इति॑ ।
मूलम्
सा॒धु ते॑ यजमान दे॒वतेत्या॑ह ।
आ॒शिष॑मे॒वैतामा शा॑स्ते ।
यद्ब्रू॒याद् यो॑ऽग्निँ होता॑र॒मवृ॑था॒ इति॑ ।
पद-पाठः
सा॒धु । ते॒ । य॒ज॒मा॒न॒ । दे॒वता॑ । इति॑ । आ॒ह॒ ।
आ॒शिष॒मित्या॑-शिष॑म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ ।
यत् । ब्रू॒यात् ।
यः । अ॒ग्निम् । होता॑रम् । अवृ॑थाः । इति॑ ।
भट्टभास्कर-टीका
8स्मः स्याम वयं होतारः सर्वदा तवेति मन्त्रार्थं दर्शयति - आशिषमिति ॥ हे यजमान इज्यमाना देवता तव साधयित्री अभिमतानां इत्येतामाशिषमनेनाशास्ते । भवत्येव च तत्फलमिति । अत्र ‘साधु ते यजमान देवता योऽग्निं होतारमवृथाः’ इत्यध्वर्युप्रवरानुवाकेन शाखान्तरीयपाठः । सोनेन निन्द्यते ।
सायण-टीका
ददात्वित्येतादृशेनाऽऽशीरर्थेन वाक्यपूरणाय तात्पयार्थं दर्शयति— साधु त इति।
शाखान्तरे साधु ते यजमान देवतेत्यस्योपरि योऽग्निं होतारमवृथा इति किंत्तिद्वाक्यमाम्नातम्। तस्यायमर्थः- हे यजमान यस्त्वमग्निं होतारमवृथा होतृत्वेन वृतवानसि तस्य तव साधु ददात्विति।
तमिमं शाखान्तरपाठं दूषयति— यद्ब्रूयादिति।
विश्वास-प्रस्तुतिः
अ॒ग्निनो॑भ॒यतो॒ यज॑मान॒म् परि॑ गृह्णीयात् ।
प्र॒मायु॑कस् स्यात् ।
मूलम्
अ॒ग्निनो॑भ॒यतो॒ यज॑मान॒म् परि॑ गृह्णीयात् ।
प्र॒मायु॑कस्स्यात् ।
पद-पाठः
अ॒ग्निना॑ । उ॒भ॒यतः॑ । यज॑मानम् । परीति॑ । गृ॒ह्णी॒या॒त् ।
प्र॒मायु॑क॒ इति॑ प्र-मायु॑कः । स्यात् ।
भट्टभास्कर-टीका
एवं हि ब्रुवन्नग्निना यजमानमुभयतः परिगृह्णीयात् ‘अग्निर्होता वेत्वग्निः’ ‘अग्निं होतारमवृथाः’ इत्येतयोर्मध्ये यजमानस्य श्रवणात्; ततोयं प्रमायुकः मरणशीलः स्यात् । तस्मात्तथा न कर्तव्यमिति ।
मीयतेश्छान्दस उकञ् ॥
सायण-टीका
अग्निर्होता वेत्त्वग्निरित्युपक्रमे पठितं साधु ते यजमानदेवतेत्यस्गादप्यूर्ध्वं यद्यग्नि ँ होतारमिति ब्रूयात्तदोभयोः पार्श्वयोर्यजमानोऽग्निनापरिगृहीतो भवेत्। ततो दाहाधिक्येन म्रियेत। तस्माच्छाखान्तरपाठो नाऽऽदर्तव्यः।
मूलम् (संयुक्तम्)
यजमानदेव॒त्या॑ वै जु॒हूर्भ्रा॑तृव्यदेव॒त्यो॑प॒भृत् [55] यद्द्वे इ॑व ब्रू॒याद्भ्रातृ॑व्यमस्मै जनयेद्घृ॒तव॑तीमध्वर्यो॒ स्रुच॒मास्य॒स्वेत्या॑ह॒ यज॑मानमे॒वैतेन॑ वर्धयति
विश्वास-प्रस्तुतिः
य॒ज॒मा॒न॒ दे॒व॒त्या॑ वै जु॒हूः ।
भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् ।
यद्द्वे इ॑व ब्रू॒याद् भ्रातृ॑व्यमस्मै जनयेत् ।
घृ॒तव॑तीमध्वर्यो॒ स्रुच॒मास्य॒ स्वेत्या॑ह ।
यज॑मानमे॒वैतेन॑ वर्धयति ।
मूलम्
य॒ज॒मा॒न॒ दे॒व॒त्या॑ वै जु॒हूः ।
भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् ।
यद्द्वे इ॑व ब्रू॒याद् भ्रातृ॑व्यमस्मै जनयेत् ।
घृ॒तव॑तीमध्वर्यो॒ स्रुच॒मास्य॒ स्वेत्या॑ह ।
यज॑मानमे॒वैतेन॑ वर्धयति ।
पद-पाठः
य॒ज॒मा॒न॒दे॒व॒त्येति॑ यजमान-दे॒व॒त्या॑ । वै । जु॒हूः ।
भ्रा॒तृ॒व्य॒दे॒व॒त्येति॑ भ्रातृव्य-दे॒व॒त्या॑ । उ॒प॒भृदित्यु॑प-भृत् ।
यत् । द्वे इति॑ । इ॒व॒ । ब्रू॒यात् । भ्रातृ॑व्यम् । अ॒स्मै॒ । ज॒न॒ये॒त् ।
घृ॒तव॑ती॒मिति॑ घृ॒त-व॒ती॒म् । अ॒ध्व॒र्यो॒ इति॑ । स्रुच॑म् । एति॑ । अ॒स्य॒स्व॒ । इति॑ । आ॒ह॒ ।
यज॑मानम् । ए॒व । ए॒तेन॑ । व॒र्ध॒य॒ति॒ ।
भट्टभास्कर-टीका
9यजमानदेवत्येत्यादि ॥ अत्र ‘घृतवतीमध्वर्यो स्रुचम्’ इत्येकवचनेन स्रुक् निर्दिश्यते । ‘द्वे’ इति जुहूपभृतौ आदीयेते । तस्माद्द्वित्वादानस्याभिप्रायं ब्राह्मणमिदमिति दर्शयति - यद्द्वे इव ब्रूयात् सामान्यविवक्षां कृत्वा घृतवत्यौ स्रुचाविति । यदि द्वे एव जुहूपभृतौ पृथङ्निर्दिशेत्तदा भ्रातृव्यदेवत्याया उपभृतोप्युद्भूतरूपत्वाद्यजमानाय भ्रातृव्यं जनयेत् । एकवचनेन निर्देशात् यजमानदेवत्या वै जुहूरेव उद्भूतरूपा भवतीति भ्रातृव्याभावादैश्वर्येणैनं वर्धयतीति ।
नन्वेकवचनेन सामान्याद्द्वयोरपि निर्देशात्पुनरप्युद्भूतैवोपभृत्स्यात् ।
यद्यपि गुणभूतत्वादुपपभृतः स्वातन्त्र्येण ग्रहणं नास्ति । तथाऽपि तुल्यप्रतिपत्ती स्याताम् । नैष दोषः । द्वे इति द्विवचनान्तस्यैव प्रतिषेधो विवक्षितः । इवशब्देन हि शब्दप्रतिपन्नयोः द्वयोस्समत्वं प्रतिद्योत्यते; तस्माद्धोमसाधनभूता जुहूरेव उपभृता गृह्यते ॥
सायण-टीका
यद्यपि जुहूपभूतौ द्वे अपि आदातव्ये तथाऽपि तयोः समं प्राधान्यं निर्वायजुह्वा एव प्राधान्यं द्योतयितुं स्रुचमित्येकवचनमेव पठनीयमित्येतद्दर्शयति— यजमानदेवत्येति।
स्रुचावित्येव द्विवचनेन द्वे इव द्वे अपि समप्रधाने इव यदि ब्रूयात्तदा यजमानसमानं भ्रातृव्यमुत्पादयेत्। तस्मादुपभृतमुपेक्षितामिव तिरस्कर्तुं जुहूप्रधान्यायैकवचनाभिधानेन यजमानं वधितवान्भवति। नहिजुह्वा इवोपभृतः क्वचिदपि साक्षाद्धोमसाधनत्वमस्ति। तस्मादुपसर्जनत्वं तस्या युक्तम्।
देवमिश्रेण देवरक्षणं विघ्ननिवारणेन विश्वरक्षणमभिप्रेतमित्येतद्दर्शयति- देवायुवमिति।
मूलम् (संयुक्तम्)
दे॒वा॒युव॒मित्या॑ह दे॒वान्ह्ये॑षाव॑ति वि॒श्ववा॑रा॒मित्या॑ह॒ विश्वँ॒ ह्ये॑षाव॒तीडा॑महै दे॒वाँ ई॒डेन्या॑न्नम॒स्याम॑ नम॒स्या॑न्यजा॑म य॒ज्ञिया॒नित्या॑ह मनु॒ष्या॑ वा ई॒डेन्याः॑ पि॒तरो॑ नम॒स्या॑ दे॒वा य॒ज्ञिया॑ दे॒वता॑ ए॒व तद्य॑थाभा॒गय्ँय॑जति ॥ [56]
विश्वास-प्रस्तुतिः
दे॒वा॒युव॒मित्या॑ह ।
दे॒वान् ह्ये॑षाव॑ति ।
मूलम्
दे॒वा॒युव॒मित्या॑ह ।
दे॒वान् ह्ये॑षाव॑ति
पद-पाठः
दे॒वा॒युव॒मिति॑ देव-युव॑म् । इति॑ । आ॒ह॒ ।
दे॒वान् । हि । ए॒षा । अव॑ति ।
भट्टभास्कर-टीका
10देवान् ह्येषेति ॥ देवानात्मन इच्छति रक्षितुमेवेति भावः ।
सायण-टीका
देवमिश्रेण देवरक्षणं विघ्ननिवारणेन विश्वरक्षणमभिप्रेतमित्येतद्दर्शयति- देवायुवमिति।
विश्वास-प्रस्तुतिः
वि॒श्ववा॑रा॒मित्या॑ह ।
विश्वँ॒ ह्ये॑षाव॒तीडा॑महै ।
मूलम्
वि॒श्ववा॑रा॒मित्या॑ह ।
विश्वँ॒ ह्ये॑षाव॒ति ।
ईडा॑महै दे॒वाँ ई॒डेन्या॑न्नम॒स्याम॑ ।
न॒म॒स्या॑न्, यजा॑म य॒ज्ञिया॒नित्या॑ह ।
पद-पाठः
वि॒श्ववा॑रा॒मिति॑ वि॒श्व-वा॒रा॒म् । इति॑ । आ॒ह॒ ।
विश्व॑म् । हि । ए॒षा । अव॑ति ।
ईडा॑महै । दे॒वान् । ई॒डेन्या॑न् । न॒म॒स्याम॑ ।
न॒म॒स्या॑न् । यजा॑म । य॒ज्ञिया॑न् । इति॑ । आ॒ह॒ ।
भट्टभास्कर-टीका
विश्वं हीति । विश्वकालप्रतिपत्तित्वात् विश्वमियं रक्षति ।
विश्वास-प्रस्तुतिः
ईडा॑महै दे॒वान्, ई॒डे अन्या॑न्, नम॒स्याम॑ न॒म॒स्या॑न्, यजा॑म य॒ज्ञिया॒न् इत्या॑ह ।
मूलम्
ईडा॑महै दे॒वाँ ई॒डेन्या॑न् नम॒स्याम॑ न॒म॒स्या॑न्, यजा॑म य॒ज्ञिया॒नित्या॑ह ।
पद-पाठः
ईडा॑महै । दे॒वान् ।
ई॒डेन्या॑न् ।
न॒म॒स्याम॑ । न॒म॒स्या॑न् ।
यजा॑म । य॒ज्ञिया॑न् । इति॑ । आ॒ह॒ ।
सायण-टीका
ईडेन्यादिशब्दैर्विवक्षितं दर्शयति- ईडामहा इति। देवता यजतीत्येदुपलक्षणम्।
विश्वास-प्रस्तुतिः
मनु॒ष्या॑ वा ई॒डेन्याः॑ ।
मूलम्
मनु॒ष्या॑ वा ई॒डेन्याः॑ ।
पद-पाठः
म॒नु॒ष्याः॑ । वै । ई॒डेन्याः॑ । पि॒तरः॑ । न॒म॒स्याः॑ । दे॒वाः । य॒ज्ञियाः॑ ।
भट्टभास्कर-टीका
मनुष्या वा इत्यादि । मनुष्यादयोपि देवताः । तत्र मनुष्यात्मिका ईडेन्याः स्तुत्याः । औणादिक एन्यप्रत्ययः ।
सायण-टीका
मनुष्यान्स्तौति पितृन्नमस्यतीत्येतदपि द्रष्टव्यम्।
विश्वास-प्रस्तुतिः
पि॒तरो॑ नम॒स्याः॑ ।
मूलम्
पि॒तरो॑ नम॒स्याः॑ ।
भट्टभास्कर-टीका
पित्रात्मिका नमस्याः । ‘नमोवरिवश्चित्रङः क्यच्’, तदन्तादचो यत् ।
विश्वास-प्रस्तुतिः
दे॒वा य॒ज्ञियाः॑ ।
मूलम्
दे॒वा य॒ज्ञियाः॑ ।
भट्टभास्कर-टीका
देवतात्मिका यज्ञियाः यज्ञार्हा यष्टव्याः । ‘यज्ञर्त्विग्भ्यां घखञौ’ ।
विश्वास-प्रस्तुतिः
दे॒वता॑ ए॒व तद्य॑थाभा॒गय्ँय॑जति ॥
मूलम्
दे॒वता॑ ए॒व तद्य॑थाभा॒गय्ँय॑जति ॥
पद-पाठः
दे॒वताः॑ । ए॒व । तत् । य॒था॒भा॒गमिति॑ यथा-भा॒गम् । य॒ज॒ति॒ ॥
भट्टभास्कर-टीका
यथाभागमिति । या देवता यस्यां प्रतिपत्तौ तत्तदनतिक्रमेण तां यजति पूरयति ॥
इति द्वितीये पञ्चमे नवमोनुवाकः ॥
सायण-टीका
एवं च सति यस्य मनुष्यादेयो भागः स्तुत्यादिरूप उपचरितस्तं भागमनतिक्रम्यानुष्ठितवान्भवति। इति द्वितीये पञ्चमे नवमोनुवाकः ॥