प्रजापतिऋषिः ।
मूलम् (संयुक्तम्)
अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒माऽग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह रथन्त॒रस्यै॒ष वर्ण॒स्तन्त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह वामदे॒व्यस्यै॒ष वर्णो॑ बृ॒हद॑ग्ने सु॒वीर्य॒मित्या॑ह बृह॒त ए॒ष वर्णो॒ यदे॒तन्तृ॒चम॒न्वाह॑ य॒ज्ञमे॒व तत्साम॑न्वन्तङ्करोति
विश्वास-प्रस्तुतिः
अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒मा ।
अग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह ।
मूलम्
अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒मा ।
अग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह ।
पद-पाठः
अय॑ज्ञः । वै । ए॒षः । यः । अ॒सा॒मा ।
अग्ने॑ । एति॑ । या॒हि॒ । वी॒तये॑ । इति॑ । आ॒ह॒ ।
भट्टभास्कर-टीका
1अयज्ञो वा इत्यादि ॥ द्वितीयप्रभृतेः ऋचः स्तुतिः क्रियते ।
सायण-टीका
आसु सामिधेनीषु द्वितीयादिचतुर्थ्यन्तं तृचं प्रशंसति-
अयज्ञो वा इति। दर्शपूर्णमासयोः सामानि न सन्ति। तद्रहितश्च न मुख्ययज्ञः। अतोऽयं तृचः सामत्रयस्वरूपत्वेनात्र पठ्यते।
विश्वास-प्रस्तुतिः
र॒थ॒न्त॒रस्यै॒ष वर्णः॑ ।
तन्त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह ।
वा॒म॒दे॒व्यस्यै॒ष वर्णः॑ ।
मूलम्
र॒थ॒न्त॒रस्यै॒ष वर्णः॑ ।
तन्त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह ।
वा॒म॒दे॒व्यस्यै॒ष वर्णः॑ ।
पद-पाठः
र॒थ॒न्त॒रस्येति॑ रथम्-त॒रस्य॑ । ए॒षः । वर्णः॑ ।
तम् । त्वा॒ । स॒मिद्भि॒रिति॑ स॒मित्-भिः॒ । अ॒ङ्गि॒रः॒ । इति॑ । आ॒ह॒ । वा॒म॒दे॒व्यस्येति॑ वाम-दे॒व्यस्य॑ । ए॒षः । वर्णः॑ ।
भट्टभास्कर-टीका
रथन्तरस्येति । पूर्ववत्प्राथम्यादिना रथन्तरादिरूपत्वं तिसृणामृचाम् । ‘वामदेवाड्ड्यड्यौ’ ।
सायण-टीका
यद्यप्येता ऋचो रथंतरादिनां योनयो न भवन्ति तथाऽपि स्तुतित्वात्तद्रूपत्वमविरुद्धम्। शाखान्तरे वा तास्वृक्षु गीतानि सामानि द्रष्टव्यानि। एतेन तृचपाठेन दर्शपूर्णमासयज्ञं सामवन्तं करोति।
विश्वास-प्रस्तुतिः
बृ॒हद॑ग्ने सु॒वीर्य॒मित्या॑ह ।
बृह॒त ए॒ष वर्णः॑ ।
मूलम्
बृ॒हद॑ग्ने सु॒वीर्य॒मित्या॑ह ।
बृह॒त ए॒ष वर्णः॑ ।
पद-पाठः
बृ॒हत् । अ॒ग्ने॒ । सु॒वीर्य॒मिति॑ सु-वीर्य॑म् । इति॑ । आ॒ह॒ । बृ॒ह॒तः । ए॒षः । वर्णः॑ ।
भट्टभास्कर-टीका
बृहदग्न इति । बृहच्छब्दसम्बन्धेन बार्हतत्वं दर्शयितुं तृतीयस्य पदस्योपादानम् ।
सायण-टीका
बृहदग्न इति तृतीयपादोपादानं बृहत्सामद्योतकस्य बृहच्छब्दस्य प्रदर्शनार्थम्।
विश्वास-प्रस्तुतिः
यदे॒तन्तृ॒चम॒न्वाह॑ ।
मूलम्
यदे॒तन्तृ॒चम॒न्वाह॑ ।
पद-पाठः
यत् । ए॒तम् । तृ॒चम् । अ॒न्वाहेत्य॑नु-आह॑ ।
भट्टभास्कर-टीका
तृचमिति । तिसृणामृचां समाहारस्तृचम् । ‘ऋक्पूः’ इति समासान्तः । त्रेस्सम्प्रसारणं, उत्तरपदलोपश्च ।
विश्वास-प्रस्तुतिः
य॒ज्ञमे॒व तत्साम॑न्वन्तङ्करोति ।
मूलम्
य॒ज्ञमे॒व तत्साम॑न्वन्तङ्करोति ।
पद-पाठः
य॒ज्ञम् । ए॒व । तत् । साम॑न्वन्तम् । क॒रो॒ति॒ ।
भट्टभास्कर-टीका
सामन्वन्तमिति । ‘अनो नुट्’ इति नुट् ॥
मूलम् (संयुक्तम्)
अ॒ग्निर॒मुष्मिल्ँ॑ लो॒क आसी॑दादि॒त्यो॑ऽस्मिन्तावि॒मौ लो॒कावशा॑न्तौ [44] आ॒स्ता॒न्ते दे॒वा अ॑ब्रुव॒न्नेते॒मौ वि पर्यू॑हा॒मेत्यग्न॒ आ या॑हि वी॒तय॒ इत्य॒स्मिल्ँ लो॒के॑ऽग्निम॑दधुर्बृ॒हद॑ग्ने सु॒वीर्य॒मित्य॒मुष्मिल्ँ॑ लो॒क आ॑दि॒त्यन्ततो॒ वा इ॒मौ लो॒काव॑शाम्यताय्ँ॒यदे॒वम॒न्वाहा॒नयो॑र्लो॒कयो॒श्शान्त्यै॒ शाम्य॑तोऽस्मा इ॒मौ लो॒कौ य ए॒वव्ँ वेद
विश्वास-प्रस्तुतिः
अ॒ग्निर॒मुष्मिल्ँ॑ लो॒क आसी॑त् ।
आ॒दित्यो॑ऽस्मिन् ।
तावि॒मौ लो॒कावशा॑न्तावास्ताम् ।
पद-पाठः
अ॒ग्निः । अ॒मुष्मि॑न् । लो॒के । आसी॑त् ।
आ॒दि॒त्यः । अ॒स्मि॒न् ।
तौ । इ॒मौ । लो॒कौ । अशा॑न्तौ । आ॒स्ता॒म् ।
मूलम्
अ॒ग्निर॒मुष्मिल्ँ॑ लो॒क आसी॑त् ।
आ॒दित्यो॑ऽस्मिन् ।
तावि॒मौ लो॒कावशा॑न्तावास्ताम् ।
भट्टभास्कर-टीका
2अग्निरमुष्मिन्नित्यादि ॥ स्वर्लोके अग्निरासीत्, पृथिव्यामादित्यः । तत इमौ लोकौ अशान्तौ असुखौ आस्तां अभवताम् ।
सायण-टीका
अस्मिन्नेव तृच आद्यन्तौ पुनः प्रशंसति-
अग्निरमुष्मिन्निति। पुरा स्वर्गलोकेऽग्निः स्थित आदित्यस्तु भूलोके। तदानीं लेकद्वयमशान्तं क्षुब्धमासीत्। स्वर्गे ह्यमृर्तसेविनां पाक्रापेक्षा नास्ति। प्रकाशाय केवलमादित्योऽपेक्षित एव। भूलोकवासिनां तु पाको मुख्ये प्रयोजनम्। तदुभयासिद्धेर्लोकक्षोभः।
विश्वास-प्रस्तुतिः
ते दे॒वा अ॑ब्रुवन् ।
एते॒मौ वि पर्यू॑हा॒मेति॑ ।
अग्न॒ आ या॑हि वी॒तय॒ इत्य॒स्मिल्ँ लो॒के॑ऽग्निम॑दधुः ।
मूलम्
ते दे॒वा अ॑ब्रुवन् ।
एते॒मौ वि पर्यू॑हा॒मेति॑ ।
अग्न॒ आ या॑हि वी॒तय॒ इत्य॒स्मिल्ँ लो॒के॑ऽग्निम॑दधुः ।
पद-पाठः
ते । दे॒वाः । अ॒ब्रु॒व॒न् ।
एति॑ । इ॒त॒ । इ॒मौ । वि । परीति॑ । ऊ॒हा॒म॒ । इति॑ ।
अग्ने॑ । एति॑ । या॒हि॒ । वी॒तये॑ । इति॑ । अ॒स्मिन् । लो॒के । अ॒ग्निम् । अ॒द॒धुः॒ ।
भट्टभास्कर-टीका
अथ च ते तथा पश्यन्तो देवाः परस्परमब्रुवन् - एत आगच्छत सर्वेऽपि यूयमिमौ अग्न्यादित्यौ विपर्यूहाम विपरिवृत्तलोकौ स्थापयाम । अग्न आयहीति बर्हिषि निषीदेति लिङ्गं नीचैरवस्थानस्य । ऋचश्च प्रथमत्वात् प्रथमलोकपरिग्रहः । तत्र तृतीयदेशस्यापि प्रथमपादादावग्नि शब्दोपादानादग्नेः प्रथमलोकावस्थानं सूच्यते ।
सायण-टीका
तं क्षोभं दृष्ट्वा ते देवाः परस्परमिदमूचुः-
इमावग्न्यादित्यौ विपर्यूहाम विपरिवृत्तौ स्थापयाम्। तस्मादेते सर्वे यूयमागच्छतेति। अग्न आयाहीत्यस्यामृचि बर्हिषि निपीदेति लिङ्गादृचः प्राथम्याच्च प्रथमलोके स्थापनं तया संपद्यते।
विश्वास-प्रस्तुतिः
बृ॒हद॑ग्ने सु॒वीर्य॒मित्य॒मुष्मिल्ँ॑ लो॒क आ॑दि॒त्यम् ।
ततो॒ वा इ॒मौ लो॒काव॑शाम्यताम् ।
यदे॒वम॒न्वाहा॒नयो॑र्लो॒कयो॒श्शान्त्यै॒ शाम्य॑तः ।
अ॒स्मा इ॒मौ लो॒कौ य ए॒वव्ँ वेद।
मूलम्
बृ॒हद॑ग्ने सु॒वीर्य॒मित्य॒मुष्मिल्ँ॑ लो॒क आ॑दि॒त्यम् ।
ततो॒ वा इ॒मौ लो॒काव॑शाम्यताम् ।
यदे॒वम॒न्वाहा॒नयो॑र्लो॒कयो॒श्शान्त्यै॒ शाम्य॑तः ।
अ॒स्मा इ॒मौ लो॒कौ य ए॒वव्ँ वेद।
पद-पाठः
बृ॒हत् । अ॒ग्ने॒ । सु॒वीर्य॒मिति॑ सु-वीर्य॑म् । इति॑ । अ॒मुष्मि॑न् । लो॒के । आ॒दि॒त्यम् । 5 । ततः॑ । वै । इ॒मौ । लो॒कौ । अ॒शा॒म्य॒ता॒म् । 6 । यत् । ए॒वम् । अ॒न्वाहेत्य॑नु-आह॑ । अ॒नयोः॑ । लो॒कयोः॑ । शान्त्यै॑ । 7 । शाम्य॑तः । अ॒स्मै॒ । इ॒मौ । लो॒कौ । यः । ए॒वम् । वेद॑
भट्टभास्कर-टीका
बृहदग्न इति । विवासनकारित्वमादित्यात्मन एव । अग्नेरिति । तस्योच्चैरवस्थानलिङ्गविशेषः । ऋचस्तृतीयत्वात् तृतीयलोकपरिग्रहः । तत्र तृतीयदेशत्वम् ॥
सायण-टीका
बृहदग्ने सुवीर्यमित्यस्यामृचि विवाससीति विभातत्वोक्तिलिङ्गदृचस्तृतीयत्वाच्चास्यास्तृतीयलोके स्थापनहेतुत्वं गम्यते। यद्यप्यादित्यो नास्मिन्मन्त्रे श्रुतस्तथाऽप्युच्चैःस्थानवृत्तित्वकारित्वेन विभातत्वेनाऽऽदित्यः श्रूयते। किंच, हंसमन्त्रवसान ऋतं बृहदित्यादित्यमणडलपरत्वेन श्रुतो बृहच्छब्दोऽत्रापि श्रूयमाण आदित्यस्य प्रत्यभिज्ञापकः। तस्मात्तेन मम्त्रेणाऽऽदित्यस्थापनं सिध्यति। अनयोर्विपर्यावृत्त्या लोकयेः स्वस्वकार्यसिद्धेर्युक्ता शान्तिः। तस्मादनेन क्रमेण पाठो लोकयोः शान्त्यै भवति। तद्वेदितुश्च तदुभयशान्तिर्भवति।
मूलम् (संयुक्तम्)
पञ्च॑दश सामिधे॒नीरन्वा॑ह॒ पञ्च॑दश [45] वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शस्सव्ँ॑वत्स॒र आ॑प्यते॒ तासा॒न्त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्चा॒क्षरा॑णि॒ ताव॑तीस्सव्ँवत्स॒रस्य॒ रात्र॑योऽक्षर॒श ए॒व सव्ँ॑वत्स॒रमा॑प्नोति
विश्वास-प्रस्तुतिः
पञ्च॑दश सामिधे॒नीरन्वा॑ह ।
पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः ।
अ॒र्ध॒मा॒स॒शस्सव्ँ॑वत्स॒र आ॑प्यते ।
तासा॒न्त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्चा॒क्षरा॑णि ।
ताव॑तीस्सव्ँवत्स॒रस्य॒ रात्र॑यः ।
अ॒क्ष॒र॒श ए॒व सव्ँ॑वत्स॒रमा॑प्नोति।
मूलम्
पञ्च॑दश सामिधे॒नीरन्वा॑ह ।
पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः ।
अ॒र्ध॒मा॒स॒शस्सव्ँ॑वत्स॒र आ॑प्यते ।
तासा॒न्त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्चा॒क्षरा॑णि ।
ताव॑तीस्सव्ँवत्स॒रस्य॒ रात्र॑यः ।
अ॒क्ष॒र॒श ए॒व सव्ँ॑वत्स॒रमा॑प्नोति।
पद-पाठः
पञ्च॑द॒शेति॒ पञ्च॑-द॒श॒ । सा॒मि॒धे॒नीरिति॑ साम्-इ॒धे॒नीः । अन्विति॑ । आ॒ह॒ । 9 ।
पञ्च॑द॒शेति॒ पञ्च॑-द॒श॒ । [45]
1 । वै । अ॒र्ध॒मा॒सस्येत्य॑र्ध-मा॒सस्य॑ । रात्र॑यः ।
अ॒र्ध॒मा॒स॒श इत्य॑र्धमास-शः । सव्ँ॒व॒त्स॒र इति॑ सम्-व॒त्स॒रः । आ॒प्य॒ते॒ । 3 । तासा॑म् । त्रीणि॑ । च॒ । श॒तानि॑ । ष॒ष्टिः । च॒ । अ॒क्षरा॑णि । 4 । ताव॑तीः । सव्ँ॒व॒त्स॒रस्येति॑ सम्-व॒त्स॒रस्य॑ । रात्र॑यः । 5 । अ॒क्ष॒र॒श इत्य॑क्षर-शः । ए॒व । सव्ँ॒व॒त्स॒रमिति॑ सम्-व॒त्स॒रम् । आ॒प्नो॒ति॒ ।
भट्टभास्कर-टीका
3अर्धमासशः [अर्धमासेन] अक्षरशः अक्षरेण संवत्सरमाप्नोति ।
अक्षराणां रात्रीणां च समसङ्ख्याकारेण संवत्सरावाप्तिः । पूर्ववच्छस् ॥
सायण-टीका
संख्या विधत्ते-
पञ्चदशेति। यद्यपि द्वादश पठितास्तथाऽप्येकादशैव। एकस्याः पुरुषभेदेन विकल्पितत्वात्। तासु च प्रथमोत्तमयोस्त्रिरावृत्त्या पञ्चदशत्वसंपत्तिः। अर्धमासस्य रात्रीणां पञ्चदशत्वात्तद्रूपत्वमपि संपद्यते। एकैकस्मिन्नर्धमासे पञ्चदशस्वन्तर्भूतासु तासामर्धमासमानां चतुर्विशतिवारमावृत्त्या संवत्सरप्राप्तिश्च संपद्यते।
इदानीमक्षरसंख्या संवत्सरसंपत्त्या प्रशंसति- तासां त्रीणीति। तासां सामिधेनीनां पञ्चदशसंख्यानां गायत्रीछन्दस्कत्वादेकैका चतुर्विशत्यक्षरा। तथा सति मिलित्वाऽक्षरसंख्या संवत्सररात्रिसंख्या च समति कृत्वाऽक्षरद्वारा तदेवं संवत्सरप्राप्तिर्भवति। यद्यपि वासिष्ठानां परिधानीयायास्त्रिष्टुप्त्वादधिकान्यक्षराणि तथाऽपीतरगोत्रापेक्षयाऽयमर्थवाद इत्यविरोधः।
मूलम् (संयुक्तम्)
नृ॒मेध॑श्च॒ परु॑च्छेपश्च ब्रह्म॒वाद्य॑मवदेताम॒स्मिन्दारा॑वा॒र्द्रे॑ऽग्निञ्ज॑नयाव यत॒रो नौ॒ ब्रह्मी॑या॒निति॑
विश्वास-प्रस्तुतिः
नृ॒मेध॑श्च॒ परु॑च्छेपश्च ब्रह्म॒वाद्य॑मवदेताम् ।
अ॒स्मिन्दारा॑वा॒र्द्रे॑ऽग्निञ्ज॑नयाव ।
मूलम्
नृ॒मेध॑श्च॒ परु॑च्छेपश्च ब्रह्म॒वाद्य॑मवदेताम् ।
अ॒स्मिन्दारा॑वा॒र्द्रे॑ऽग्निञ्ज॑नयाव ।
पद-पाठः
नृ॒मेध॒ इति॑ नृ-मेधः॑ । च॒ । परु॑च्छेपः । च॒ । ब्र॒ह्म॒वाद्य॒मिति॑ ब्रह्म-वाद्य॑म् । अ॒व॒दे॒ता॒म् । 7 । अ॒स्मिन् । दारौ॑ । आ॒र्द्रे । अ॒ग्निम् । ज॒न॒या॒व॒ ।
भट्टभास्कर-टीका
4नृमेधश्चेत्यादिना ॥ ब्रह्मवादित्वं ब्रह्मवाद्यम् । ब्रह्म वेदं वदितुमिष्टे विषये नियोक्तुं सामर्थ्यं ब्रह्मवादः, तदेव ब्रह्मवाद्यम् । स्वार्थिको यत् ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । यद्वा - ब्रह्मणो वदनसामर्थ्यं ब्रह्मवाद्यम् । ‘वदस्सुपि क्यप्च’ इति यत्, वर्णविकारश्छान्दसः, कृदुत्तरपदप्रकृतिस्वरत्वेन ‘यतोऽनावः’ इत्याद्युदात्तत्वम् । श्यन्वा व्यत्ययेन प्रवर्तते । पूर्वं नृमेधपरुच्छेपनामानावृषी ब्रह्मवाद्ये विप्रतिपन्नावभवताम्, अहं ब्रह्मतरोऽहं ब्रह्मतर इति । तौ तथा विप्रतिपन्नौ इत्थं ब्रह्मवाद्यमवदेतां वैमत्येन अवदताम् । ‘भासन’ इत्यादिना विमतावात्मनेपदम् ।
सायण-टीका
आसु सामिधेनीषु “तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि” इत्येतं मन्त्रविशेषं प्रशंसति-
नृमेधश्चेति। नृमेधपरुच्छेपनामानावृत्विजौ परस्परं ब्रह्मवाद्यमवदेता मन्त्रसामर्थ्यविषयं वादमकुरुताम्।
विश्वास-प्रस्तुतिः
यत॒रो नौ॒ ब्रह्मी॑या॒निति॑ ।
मूलम्
यत॒रो नौ॒ ब्रह्मी॑या॒निति॑ ।
पद-पाठः
य॒त॒रः । नौ॒ । ब्रह्मी॑यान् । इति॑ ।
भट्टभास्कर-टीका
कथमित्याह - नौ आवयोर्मध्ये यतरो ब्रह्मीयान् ब्रह्मतरः अस्मिन्नार्द्रे दारौ अग्निं जनयाव अहं वा त्वं वा । तन्त्रेण द्वयोरभिधानं, यतरो नौ ब्रह्मीयान् त्वं वाऽहं वा तावावामत्राग्निं जनयावेति । विशिष्टज्ञाननिमित्तत्वेन ब्रह्मशब्दस्य गुणवचनत्वात् ‘अजादी गुणवचनादेव’ इति ईयसुन् प्रत्यये अलोपः । ‘किंयत्तदो निर्धारणे’ इति यच्छब्दात् डतरच्प्रत्ययः ॥
सायण-टीका
तत्रानयोरियं प्रतिज्ञा— आवयोरुभयोर्मध्ये यतरो ब्रह्मीयान्ब्रह्मणि सामिधेनीमन्त्रे ऽत्यतं कुशलस्तादृशं निश्चेतुं स्वस्वमनसि सामिधेनीमन्त्रमनुस्मरन्तावस्मिन्नार्द्रे काष्ठे मथनेनाग्निं जनयावेति।
मूलम् (संयुक्तम्)
नृ॒मेधो॒ऽभ्य॑वद॒त्स धू॒मम॑जनय॒त्परु॑च्छेपो॒ऽभ्य॑वद॒त्सो॒॑ऽग्निम॑जनय॒दृष॒ इत्य॑ब्रवीत् [46] यत्स॒माव॑द्वि॒द्व क॒था त्वम॒ग्निमजी॑जनो॒ नाहमिति॑ सामिधे॒नीना॑मे॒वाहव्ँवर्णव्ँ॑वे॒देत्य॑ब्रवीत्
विश्वास-प्रस्तुतिः
नृ॒मेधो॒ऽभ्य॑वदत् ।
स धू॒मम॑जनयत् ।
मूलम्
नृ॒मेधो॒ऽभ्य॑वदत् ।
स धू॒मम॑जनयत् ।
पद-पाठः
नृ॒मेध॒ इति॑ नृ-मेधः॑ । अ॒भीति॑ । अ॒व॒द॒त् ।
सः । धू॒मम् । अ॒ज॒न॒य॒त् ।
भट्टभास्कर-टीका
5नृमेधोऽभ्यवदत् ॥ आर्द्रं दारुमभिलक्ष्य अग्निं जनयितुकामो ब्रह्म वदन् स धूममेवाजनयत् नाग्निम् ।
सायण-टीका
तदा प्रथमं नृमेध आर्द्र काष्ठमभिलक्ष्य मन्त्रमवदत् स तन्मन्त्रसामर्थ्याद्धुममुत्पादितवान्।
विश्वास-प्रस्तुतिः
परु॑च्छेपो॒ऽभ्य॑वदत् ।
सो॒॑ऽग्निम॑जनयत् ।
मूलम्
परु॑च्छेपो॒ऽभ्य॑वदत् ।
सो॒॑ऽग्निम॑जनयत् ।
पद-पाठः
परु॑च्छेपः । अ॒भीति॑ । अ॒व॒द॒त् । सः । अ॒ग्निम् । अ॒ज॒न॒य॒त् ।
भट्टभास्कर-टीका
परुच्छेपस्त्वग्निमजनयत् ।
सायण-टीका
परुच्छेपो मन्त्रं पठित्वाऽग्निमजनयत्।
विश्वास-प्रस्तुतिः
ऋृष॒ इत्य॑ब्रवीत् ।
मूलम्
ऋृष॒ इत्य॑ब्रवीत् ।
पद-पाठः
ऋषे॑ । इति॑ । अ॒ब्र॒वी॒त् ।
भट्टभास्कर-टीका
अथ तं दृष्टातिशयप्रतिपत्यर्थं ऋषिशब्देन प्रेम्णाऽऽमन्त्र्य नृमेधोब्रवीत् ।
सायण-टीका
तदिदानीं नृमेधः परुच्छेपं प्रति हे ऋषे त्वमतीन्द्रियद्रष्टाऽसीत्यपिरेत्य संबोधितवान्।
विश्वास-प्रस्तुतिः
यत्स॒माव॑द्वि॒द्व क॒था त्वम॒ग्निमजी॑जनो॒ नाहमिति॑ ।
मूलम्
यत्स॒माव॑द्वि॒द्व क॒था त्वम॒ग्निमजी॑जनो॒ नाहमिति॑ ।
पद-पाठः
यत् । स॒माव॑त् । वि॒द्व । क॒था । त्वम् । अ॒ग्निम् । अजी॑जनः । न । अ॒हम् । इति॑ ।
भट्टभास्कर-टीका
यत् यदा समावत् विद्व सममेवावयोर्वेदनं सर्वत्र तदा कथा केन हेतुना त्वमग्निमजीजनः नाहमिति । समादावतुप् स्वार्थीकः, ‘था हेतौ च’ इति थाप्रत्ययः ।
सायण-टीका
संबोध्य चैवं पप्रच्छ यद्यस्मात्कारणात्समावद्विद्वाऽऽवयोः सामिधेनीवेदनं समानमेव, तथा सति कथं त्वमग्निमुत्पादितवान्न त्वहमिति।
विश्वास-प्रस्तुतिः
सा॒मि॒धे॒नीना॑मे॒वाहव्ँवर्णव्ँ॑वे॒देत्य॑ब्रवीत् ।
मूलम्
सा॒मि॒धे॒नीना॑मे॒वाहव्ँवर्णव्ँ॑वे॒देत्य॑ब्रवीत् ।
पद-पाठः
सा॒मि॒धे॒नीना॒मिति॑ साम्-इ॒धे॒नीना॑म् । ए॒व । अ॒हम् । वर्ण॑म् । वे॒द॒ । इति॑ । अ॒ब्र॒वी॒त् ।
भट्टभास्कर-टीका
अथ परुच्छेपोऽब्रवीत् - सामिधेनीनां वर्णं स्वरूपमहं वेद जानामि न त्वमिति ॥
सायण-टीका
तत्र परुच्छेप उत्तरमुवाच यद्यप्यावयोः सामिधेनीपाठस्तदर्थज्ञानं च समान तथाऽप्यहं तासामेव सामिधेनीनां वर्ण रहस्यं तेजो वेद त्वं तु न वेत्सि।
मूलम् (संयुक्तम्)
यद्घृ॒तव॑त्प॒दम॑नू॒च्यते॒ स आ॑साव्ँ॒वर्ण॒स्तन्त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह सामिधे॒नीष्वे॒व तज्ज्योति॑र्जनयति॒ स्त्रिय॒स्तेन॒ यदृच॒स्स्त्रिय॒स्तेन॒ यद्गा॑य॒त्रिय॒स्स्त्रिय॒स्तेन॒ यत्सा॑मिधे॒न्यो॑
विश्वास-प्रस्तुतिः
यद्घृ॒तव॑त्प॒दम॑नू॒च्यते॒ स आ॑साव्ँ॒वर्णः॑ ।
मूलम्
यद्घृ॒तव॑त्प॒दम॑नू॒च्यते॒ स आ॑साव्ँ॒वर्णः॑ ।
पद-पाठः
यत् । घृ॒तव॒दिति॑ घृ॒त-व॒त् । प॒दम् । अ॒नू॒च्यत॒ इत्य॑नु-उ॒च्यते॑ । सः । आ॒सा॒म् । वर्णः॑ ।
भट्टभास्कर-टीका
6इदानीं तं वार्णं स्वयमेव परुच्छेप आह - यदिति ॥ घृतेनाभिधेयेन तद्वत्पदं घृतवत् घृतशब्द एव । यद्वा - घृतशब्दवत्पदं ‘तं त्वा समिद्भिः’ इत्यस्याः द्वितीयः पादः । तस्य यदनुवचनं स एव तासां एको वर्णः ।
सायण-टीका
किं तत्तेज इति तदुच्यते- घृतशब्दोपेतः पादोऽनूच्यत इति सोऽयमनुच्यमानः पादः सामिधेनीनां वर्णः सारभूतं तेजः।
विश्वास-प्रस्तुतिः
तन्त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह ।
सा॒मि॒धे॒नीष्वे॒व तज्ज्योति॑र्जनयति ।
मूलम्
तन्त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह ।
सा॒मि॒धे॒नीष्वे॒व तज्ज्योति॑र्जनयति ।
पद-पाठः
तम् । त्वा॒ । स॒मिद्भि॒रिति॑ स॒मित्-भिः॒ । अ॒ङ्गि॒रः॒ । इति॑ । आ॒ह॒ । सा॒मि॒धे॒नीष्विति॑ साम्-इ॒धे॒नीषु॑ । ए॒व । तत् । ज्योतिः॑ । ज॒न॒य॒ति॒ ।
भट्टभास्कर-टीका
तमेवार्थं समर्थयते - तं त्वेति । ज्योतिष्मत्त्वमासां घृतसम्बन्धेन क्रियते तेजो घृतमिति ।
सायण-टीका
सा पादः कस्यामृचि वर्तत इति चेत्तदुच्यते-
तं त्वा समिद्भिरङ्गिरः इत्येतामृचं पठेत्। तस्यामृचि ‘घृतेन वर्धयामसि’ इत्ययं पादो वर्तते। ततोऽनेन पठितेन पादेन सामिधेनीष्वेव ज्योतिर्जनयति। तेन त्वं पादं पठन्नपि महिमानं न जानासि। अहं तु जानामि। तस्मादार्द्रकाष्ठे मयाऽग्निरुत्पादितः।
विश्वास-प्रस्तुतिः
स्त्रिय॒स्तेन॒ यदृचः॑ ।
स्त्रिय॒स्तेन॒ यद्गा॑य॒त्रियः॑ ।
स्त्रिय॒स्तेन॒ यत्सा॑मिधे॒न्यः॑ ।
मूलम्
स्त्रिय॒स्तेन॒ यदृचः॑ ।
स्त्रिय॒स्तेन॒ यद्गा॑य॒त्रियः॑ ।
स्त्रिय॒स्तेन॒ यत्सा॑मिधे॒न्यः॑ ।
पद-पाठः
स्त्रियः॑ । तेन॑ । यत् । ऋचः॑ । स्त्रियः॑ । तेन॑ । यत् । गा॒य॒त्रियः॑ । स्त्रियः॑ । तेन॑ । यत् । सा॒मि॒धे॒न्य॑ इति॑ साम्-इ॒धे॒न्यः॑ ।
भट्टभास्कर-टीका
अथ वर्णान्तराण्याह - स्त्रियस्तेनेत्यादि । ऋक्त्वेन गायत्रीत्वेन सामिधेनीत्वेन त्रिप्रकारं स्त्रीत्वमासाम् ॥
सायण-टीका
वृषणं त्वा वयमित्येतामृचं विशेषतः प्रशंसति-
स्त्रियस्तेनेति। ऋग्गायत्रीसामिधेनीशब्दैः स्त्रीलिङ्गैरभिधीयमानत्वात्स्त्रीत्वमेव।
मूलम् (संयुक्तम्)
वृष॑ण्वती॒मन्वा॑ह [47] तेन॒ पुँस्व॑ती॒स्तेन॒ सेन्द्रा॒स्तेन॑ मिथु॒ना
विश्वास-प्रस्तुतिः
वृष॑ण्वती॒मन्वा॑ह ।
तेन॒ पुँस्व॑तीः ।
तेन॒ सेन्द्राः॑ ।
तेन॑ मिथु॒नाः ।
मूलम्
वृष॑ण्वती॒मन्वा॑ह ।
तेन॒ पुँस्व॑तीः ।
तेन॒ सेन्द्राः॑ ।
तेन॑ मिथु॒नाः ।
पद-पाठः
वृष॑ण्वती॒मिति॒ वृषण्ण्॑-व॒ती॒म् । अन्विति॑ । आ॒ह॒ । [47]
1 । तेन॑ । पुँस्व॑तीः । तेन॑ । सेन्द्रा॒ इति॒ स-इ॒न्द्राः॒ । तेन॑ । मि॒थु॒नाः ।
भट्टभास्कर-टीका
7वृषण्वतीमिति ॥ ‘वृषणं त्वा वयं वृषन्’ इत्येतत्सम्बन्धेनैताः पुंस्त्ववत्यः सेन्द्रा मिथुनाश्च भवन्ति । वृषा सेक्ता पुमान् । ‘तसौ मत्वर्थ्’ इति भत्वम् । वृषा इन्द्रः प्रधानत्वाद्देवतानाम् । स्त्रीत्वात् पुंसि योगाच्च मिथुनत्वमासामस्तीति मिथुनाः । पामादित्वान्नप्रत्ययः ।
केचिदाहुः - ‘स नः पृथु श्रवाय्यम्’ इत्यन्तानां चतसृणां पूर्वं स्तुतिः कृता । ‘अग्निं दूतं’ इत्यादीनां स्तुतिः क्रियते । ‘ईडेन्यः’ इत्यादीनां तिसृणां वृषण्वतीमन्वाहेत्यादिका स्तुतिः क्रियते इति । ‘अनो नुट्’ इति नुट् । अयस्मयादित्वेन भत्वात्पदकालेऽपि तस्य णत्वं न निवर्तते ॥
सायण-टीका
अतः पुरुषत्वाय वृषञ्शब्दवतीमृचं ब्रूयात्। तेन पाठेन पुंस्वतीः पुरुषवत्यः सेन्द्रा इन्द्रिययुक्ताः स्त्रीपुरुषमिथुनरूपाः संपद्यन्ते। ईडेन्य इत्येषाऽपि वृषण्वती। समाग्निरिध्यने वृषेत्यन्ते पठितत्वात। वृषो अग्निरित्येषाऽपि वृषशब्दोपेतत्वाद्वृषण्वती। तयोरप्येषा प्रशंसा द्रष्टव्या।
मूलम् (संयुक्तम्)
अ॒ग्निर्दे॒वाना॑न्दू॒त आसी॑दु॒शना॑ का॒व्योऽसु॑राणा॒न्तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ताँ॒ स प्र॒जाप॑तिर॒ग्निन्दू॒तव्ँवृ॑णीमह॒ इत्य॒भि प॒र्याव॑र्तत॒ ततो॑ दे॒वा अभ॑वन्प॒रासु॑रा॒
विश्वास-प्रस्तुतिः
अ॒ग्निर्दे॒वाना॑न्दू॒त आसी॑त् ।
मूलम्
अ॒ग्निर्दे॒वाना॑न्दू॒त आसी॑त् ।
पद-पाठः
अ॒ग्निः । दे॒वाना॑म् । दू॒तः । आसी॑त् ।
भट्टभास्कर-टीका
8अग्निर्देवानामित्यादि ॥ दूतो हविषां देवसकाशं प्रापयिता । देवानामग्निर्दूतोऽभवत् ।
सायण-टीका
अथाग्निं दूतमित्येतामृचं विशेषतः प्रशंसति-
अग्निर्देवानामिति।
विश्वास-प्रस्तुतिः
उ॒शना॑ का॒व्योऽसु॑राणाम् +++(दूत आसीत्)+++।
मूलम्
उ॒शना॑ का॒व्योऽसु॑राणाम् +++(दूत आसीत्)+++।
पद-पाठः
उ॒शना॑ । का॒व्यः । असु॑राणाम् ।
भट्टभास्कर-टीका
असुराणां कवेः पुत्र उशना शुक्रो दूतोऽभवत् । अवन्ती [असीदिति?] छान्दसमन्तोदात्तत्वम् । ‘ऋदुशनस्पुरदंशः’ इत्युशनसोऽनङादेशः ।
सायण-टीका
देवाःस्वकार्येष्वग्निं दूतत्वेन प्रेषयन्ति। असुरास्तु कवेः पुत्रमुशनसम्।
विश्वास-प्रस्तुतिः
तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ताम् ।
मूलम्
तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ताम् ।
पद-पाठः
तौ । प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । प्र॒श्ञम् । ऐ॒ता॒म् ।
भट्टभास्कर-टीका
अथ तौ प्रजापतिं प्रश्नमैतां आवयोः को यागे दूत्यमर्हतीति प्रजापतिसकाशमगच्छताम् । ‘यजयाच’ इति कर्मणि नङ्प्रत्ययः । विभक्तिव्यत्ययो वा प्रश्नार्थं प्रजापतिमैतामिति ।
सायण-टीका
तावुभावपि प्रजापतिमुपेत्य पृष्टवन्तौ—आवयोर्मध्ये संधिविग्रहादिकार्येषु कस्य दौत्यमुचितमिति।
विश्वास-प्रस्तुतिः
स प्र॒जाप॑तिर॒ग्निन्दू॒तव्ँवृ॑णीमह॒ इत्य॒भि प॒र्याव॑र्तत ।
मूलम्
स प्र॒जाप॑तिर॒ग्निन्दू॒तव्ँवृ॑णीमह॒ इत्य॒भि प॒र्याव॑र्तत ।
पद-पाठः
सः । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । अ॒ग्निम् । दू॒तम् । वृ॒णी॒म॒हे॒ । इति॑ । अ॒भीति॑ । प॒र्याव॑र्त॒तेति॑ परि-आव॑र्तत ।
भट्टभास्कर-टीका
अथ पृच्छ्यमानः प्रजापतिः ‘अग्निं दूतं वृणीमहे’ इतीमामृचं ब्रुवन्, अग्निमेवाभिपर्यावर्तत अग्निमेवालक्ष्य पर्यावृत्तोऽभवत् ।
सायण-टीका
तदानी प्रजापतिरग्निं दूतं वृणीमह इति मन्त्रेणोत्तरमुवाच। उक्त्वा चोशनसः सकाशात्परावृत्याग्नेरभिमुखोऽभूत्।
विश्वास-प्रस्तुतिः
ततो॑ दे॒वा अभ॑वन्प॒रासु॑राः ।
मूलम्
ततो॑ दे॒वा अभ॑वन्प॒रासु॑राः ।
पद-पाठः
ततः॑ । दे॒वाः । अभ॑वन् । परेति॑ । असु॑राः ।
भट्टभास्कर-टीका
ततोऽग्नेरेव दूत्यार्हत्वात् तद्दूतका एवाभवन्, असुराश्च पराभूताः ॥
सायण-टीका
ततो देवानां विजयोऽभूदसुराश्च पराभूताः।
मूलम् (संयुक्तम्)
यस्यै॒वव्ँवि॒दुषो॒ऽग्निन्दू॒तव्ँवृ॑णीमह॒ इत्य॒न्वाह॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति
विश्वास-प्रस्तुतिः
यस्यै॒वव्ँवि॒दुषो॒ऽग्निन्दू॒तव्ँवृ॑णीमह॒ इत्य॒न्वाह॑ ।
भव॑त्या॒त्मना॑ ।
परा॑स्य॒ भ्रातृ॑व्यो भवति ।
मूलम्
यस्यै॒वव्ँवि॒दुषो॒ऽग्निन्दू॒तव्ँवृ॑णीमह॒ इत्य॒न्वाह॑ ।
भव॑त्या॒त्मना॑ ।
परा॑स्य॒ भ्रातृ॑व्यो भवति ।
पद-पाठः
यस्य॑ । ए॒वम् । वि॒दुषः॑ । अ॒ग्निम् । दू॒तम् । वृ॒णी॒म॒हे॒ । इति॑ । अ॒न्वाहेत्य॑नु-आह॑ । भव॑ति । आ॒त्मना॑ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
9यस्यैवमित्यादि ॥ गतम् ॥
सायण-टीका
एवं विदुषो यजमानस्याप्यनेन मन्त्रेण स्वविजयः शत्रुपराजयश्च भवति।
मूलम् (संयुक्तम्)
अध्व॒रव॑ती॒मन्वा॑ह॒ भ्रातृ॑व्यमे॒वैतया॑ [48] ध्व॒र॒ति॒ शो॒चिष्के॑श॒स्तमी॑मह॒ इत्या॑ह प॒वित्र॑मे॒वैतद्यज॑मानमे॒वैतया॑ पवयति॒ समि॑द्धो अग्न आहु॒तेत्या॑ह
विश्वास-प्रस्तुतिः
अ॒ध्व॒रव॑ती॒मन्वा॑ह ।
भ्रातृ॑व्यमे॒वैतया॑ ध्वरति ।
शो॒चिष्के॑श॒स्तमी॑मह॒ इत्या॑ह ।
मूलम्
अ॒ध्व॒रव॑ती॒मन्वा॑ह ।
भ्रातृ॑व्यमे॒वैतया॑ ध्वरति ।
शो॒चिष्के॑श॒स्तमी॑मह॒ इत्या॑ह ।
पद-पाठः
अ॒ध्व॒रव॑ती॒मित्य॑ध्व॒र-व॒ती॒म् । अन्विति॑ । आ॒ह॒ ।
भ्रातृ॑व्यम् । ए॒व । ए॒तया॑ । ध्व॒र॒ति॒ ।
शो॒चिष्के॑श॒ इति॑ शो॒चिः-के॒शः॒ । तम् । ई॒म॒हे॒ । इति॑ । आ॒ह॒ ।
भट्टभास्कर-टीका
10अध्वरवतीमिति ॥ ‘समिध्यमानो अध्वरे’ इत्येताम् । ध्वरति हिनस्तीति ध्वृ मूर्छने ।
सायण-टीका
समिध्यमानो अध्वर इत्येतामृचं विशेषतः प्रशंसति-
अध्वरवतीमिति। हिनस्तित्यर्थः।
तस्यामृचि तृतीयपादं प्रशंसति-
शोचिष्केश इति। मध्यपादेऽग्निः पावक ईड्य इति पावकशब्देनवै पवित्रत्वं विस्पष्टम्।
विश्वास-प्रस्तुतिः
प॒वित्र॑मे॒वैतद्यज॑मानमे॒वैतया॑ पवयति ।
समि॑द्धो अग्न आहु॒तेत्या॑ह ।
मूलम्
प॒वित्र॑मे॒वैतद्यज॑मानमे॒वैतया॑ पवयति ।
समि॑द्धो अग्न आहु॒तेत्या॑ह ।
पद-पाठः
प॒वित्र॑म् । ए॒व । ए॒तत् । यज॑मानम् । ए॒व । ए॒तया॑ । प॒व॒य॒ति॒ ।
समि॑द्ध॒ इति॒ सम्-इ॒द्धः॒ । अ॒ग्ने॒ । आ॒हु॒तेत्या॑-हु॒त॒ । इति॑ । आ॒ह॒ ।
भट्टभास्कर-टीका
पवित्रमिति । शोचिस्सम्बन्धेन शुचित्वात् पवित्रमियमृक् ॥
सायण-टीका
अत्र शोचिःशब्देन शुचिहेतुनां रश्मीनामुक्तिमभिप्रेत्य पवित्रमेतद्वाक्यमित्यभिधीयते। तस्मादेतयचां यजमानमेव शोधयति। ‘समिद्धो अग्नि आहुत’ इत्येषा काचिदध्वरवती। देवान्यक्षि स्वध्वरेत्युक्तत्वात्। आ जुहोत इत्यसावप्यध्वरवती। अग्निं प्रयत्यध्वर इत्युक्तत्वात्। तयोरप्यृचोरुक्तप्रशंसा योजनीया। तदेवं सर्वासामृचां सामान्यतो विशेषतश्च प्रशंसा दर्शिता।
यदुक्तं सूत्रकारेण- “समिद्धो अग्न आहुतेत्यभिज्ञायैकामनूयाजसमिधमवशिष्य सर्वमिध्यशेषमभ्यादधाति” इति। तदेतद्धृदि निधाय समिद्धो अग्न इति मन्त्रं पुनः प्रशंसति-
समिद्धो अग्न इति। समिद्धो अग्न इत्यनेन भूतार्थवाचिना क्तप्रत्ययेन सामिधेनीसाध्यस्याग्निसमिन्धनस्य समाप्तिः सूच्यते।
मूलम् (संयुक्तम्)
परि॒धिमे॒वैतम्परि॑ दधा॒त्यस्क॑न्दाय॒ यदत॑ ऊ॒र्ध्वम॑भ्याद॒ध्याद्यथा॑ बहिᳶपरि॒धि स्कन्द॑ति ता॒दृगे॒व तत्
विश्वास-प्रस्तुतिः
प॒रि॒धिमे॒वैतम्परि॑ दधाति ।
अस्क॑न्दाय॒ यदत॑ ऊ॒र्ध्वम॑भ्याद॒ध्यात् ।
यथा॑ बहिᳶपरि॒धि स्कन्द॑ति , ता॒दृगे॒व तत् ।
मूलम्
प॒रि॒धिमे॒वैतम्परि॑ दधाति ।
अस्क॑न्दाय॒ यदत॑ ऊ॒र्ध्वम॑भ्याद॒ध्यात् ।
यथा॑ बहिᳶपरि॒धि स्कन्द॑ति , ता॒दृगे॒व तत् ।
पद-पाठः
प॒रि॒धिमिति॑ परि-धिम् । ए॒व । ए॒तम् । परीति॑ । द॒धा॒ति॒ ।
अस्क॑न्दाय । यत् । अतः॑ । ऊ॒र्ध्वम् । अ॒भ्या॒द॒ध्यादित्य॑भि-आ॒द॒ध्यात् ।
यथा॑ । ब॒हि॒ᳶप॒रि॒धीति॑ बहिः-प॒रि॒धि । स्कन्द॑ति ।
ता॒दृक् । ए॒व । तत् ।
भट्टभास्कर-टीका
11परिधिमिति ॥ ‘समिद्धो अग्न आहुत’ इतीयमृक्परिधिस्थानीया । परिधानं विधानसमापनम् । समिद्ध इति च समाप्तिलिङ्गम् । अत एवानूयाजे वेदितव्या । परिधेर्बहिः बहिःपरिधि । ‘अपपरिबहिरञ्चवः’ इत्यव्ययीभावः ॥
सायण-टीका
परिसमाप्तये धीयमानः प्रक्षिप्यमाणाः काष्ठविशेषः परिधिः। तथा सति समिद्ध इति समाप्तिसूचनादेतं मन्त्रं परिधित्वेन स्थापितवान्भवति। स च परिधिः प्रक्षिप्यमाणसमिघामस्कन्दायाविनाशाय भवति। यद्येतस्मान्मन्त्रपाठादूर्ध्वमा जुहोतेति मन्त्रे समिधोऽभ्यादध्यात्। यथाऽऽज्यपुरोडाशादिहविष परिधेर्बहीः पतनं विनाशाय संपद्यते तादृगेव तद्द्रष्टव्यम्। एवं च प्रणवे प्रणवे समिधमादधातीति सूत्रकारेण प्रतिमन्त्रमवसानकालीने प्रणवे समिदाधानस्योक्तत्वात्समिद्ध इति मन्त्रावसाने समिदेका स्वतः प्रक्षेपणीया प्राप्ता। आजुहोतेत्यस्य त्रिरावृत्त्या तिस्रः समिधस्तत्र प्रक्षेपणीयाः प्राप्ताः। तदेतच्चतुष्टयं समिद्धो अग्न इत्येतस्य पादस्य पाठकाल एव प्रक्षिपेदिति विधिरुन्नेयः।
मूलम् (संयुक्तम्)
त्रयो॒ वा अ॒ग्नयो॑ हव्य॒वाह॑नो दे॒वाना॑ङ्कव्य॒वाह॑नᳶ पितृ॒णाँ स॒हर॑क्षा॒ असु॑राणा॒न्त ए॒तर्ह्या शँ॑सन्ते॒ माव्ँव॑रिष्यते॒ माम् [49] इति॑ वृणी॒ध्वँ ह॑व्य॒वाह॑न॒मित्या॑ह
विश्वास-प्रस्तुतिः
त्रयो॒ वा अ॒ग्नयः॑ ।
हव्य॒वाह॑नो दे॒वाना॑म् , कव्य॒वाह॑नᳶ पितृ॒णाम् , स॒हर॑क्षा असु॑राणाम् ।
मूलम्
त्रयो॒ वा अ॒ग्नयः॑ ।
हव्य॒वाह॑नो दे॒वाना॑म् , कव्य॒वाह॑नᳶ पितृ॒णाम् , स॒हर॑क्षा असु॑राणाम् ।
पद-पाठः
त्रयः॑ । वै । अ॒ग्नयः॑ ।
ह॒व्य॒वाह॑न॒ इति॑ हव्य-वाह॑नः । दे॒वाना॑म् । क॒व्य॒वाह॑न॒ इति॑ कव्य-वाह॑नः । पि॒तृ॒णाम् ।
स॒हर॑क्षा॒ इति॑ स॒ह-र॒क्षाः॒ । असु॑राणाम् ।
भट्टभास्कर-टीका
12त्रयो वा इत्यादि ॥ ‘हव्येनन्तःपादम्’ इत्युभयत्र ञ्युट् ‘कव्यपुरीषपुरीष्येषु ञ्युट्’ ।
सायण-टीका
चरमायामृचि हव्यवाहनमित्यग्निविशेषणं प्रशंसति- त्रयो वा इति।
विश्वास-प्रस्तुतिः
त ए॒तर्ह्या शँ॑सन्ते -
“माव्ँ व॑रिष्यते, माम्” इति॑।
“वृणी॒ध्वँ ह॑व्य॒वाह॑न॒म्” इत्या॑ह ।
य ए॒व दे॒वाना॒न्, तव्ँ वृ॑णीते ।
मूलम्
त ए॒तर्ह्या शँ॑सन्ते -
“माव्ँ व॑रिष्यते, माम्” इति॑।
“वृणी॒ध्वँ ह॑व्य॒वाह॑न॒म्” इत्या॑ह ।
य ए॒व दे॒वाना॒न्, तव्ँ वृ॑णीते ।
पद-पाठः
ते । ए॒तर्हि॑ । एति॑ । शँ॒स॒न्ते॒ ।
माम् । व॒रि॒ष्य॒ते॒ । माम् । इति॑ ।
वृ॒णी॒ध्वम् । ह॒व्य॒वाह॑न॒मिति॑ हव्य-वाह॑नम् । इति॑ । आ॒ह॒ ।
यः । ए॒व । दे॒वाना॑म् । तम् । वृ॒णी॒ते॒ ।
भट्टभास्कर-टीका
त्रयो ऽप्य् एते ऽग्नयो ऽस्मिन्काले आशंसन्ते प्रार्थयन्ते मामयं वरिष्यते इति । तत्र ‘वृणीध्वं हव्यवाहनम्’ इति वचनेन कव्यवाहादिव्युदासेन देवानामग्निर्हव्यवाहन एव वृतो भवति ॥
सायण-टीका
देवादीनां संबन्धिनोऽग्नयः प्रत्येकं मामेव वरिष्यत इत्येवमपेक्षन्ते। अतो देवा अग्नेरेवंगुणसिद्ध्यर्थं हव्यवाहनं वृणीध्वमित्युच्यते। यदुक्तमाश्वलायनेन – “सामिधेनीनामुत्तमेन प्रणवेनाग्ने महा असि ब्राह्मण भारतेति निगदेऽवसाय यजमानस्याऽऽर्षेयान्प्रवृणीते यावन्तः स्युः परं परं प्रथमम्” इति।
मूलम् (संयुक्तम्)
आर्षे॒यव्ँवृ॑णीते॒ बन्धो॑रे॒व नैत्यथो॒ सन्त॑त्यै
विश्वास-प्रस्तुतिः
आ॒र्षे॒यव्ँ वृ॑णीते ।
मूलम्
आ॒र्षे॒यव्ँ वृ॑णीते ।
प्रदीपसिंहः
अत्र पदपाठः नास्ति ।
भट्टभास्कर-टीका
13आर्षेयमिति ॥ ऋषेरपत्यमार्षेयम् । ‘इतश्चानिञः’ इति ढक् । आत्मीय-गोत्र ऋषिः । तद्धितप्रत्ययान्तानामामन्त्रितविभक्त्या यथाप्रवरं वृणीते सामिधेन्यनन्तरम् । यथा भृगूणां ‘अग्ने महाँ असि ब्राह्मण भारत भार्गवच्यावनाप्नुवानौर्वजामदग्न्य’ इति पञ्चार्षेयः प्रवरः व्रियते । अत्र भृग्वादिभिरिष्टोऽग्निरेव तत्तदपत्यतयोपचर्यते ।
सायण-टीका
तदेतद्विधत्ते- आर्षेयमिति। ऋषेरपत्यमार्षेयमात्पीयगोत्रर्षींस्तद्धित प्रत्ययान्तानामन्त्रितविभक्त्या यथाप्रवरं वृणीते। यथा, अग्ने महाँ असि ब्राह्मण भारत। भार्गवच्याव नाप्नवानौर्वजामदग्न्येति भृगुगोत्राणां पञ्चार्षेयः प्रवर इति। अनेन तत्तदपत्यतयाऽग्निरुपचर्यते।
विश्वास-प्रस्तुतिः
बन्धो॑र् ए॒व नैति॑ ।
मूलम्
बन्धो॑र् ए॒व नैति॑ ।
पद-पाठः
बन्धोः॑ । ए॒व । न । ए॒ति॒ ।
भट्टभास्कर-टीका
बन्धोरिति । बन्धुभ्यो भृग्वादिभ्य एवं वृणानो नैति न च्युतो भवति ।
सायण-टीका
एवं वृणानः पुरुषो बन्धोर्भृग्वादेः सकाशान्नैति नापगच्छति।
विश्वास-प्रस्तुतिः
अथो॒ सन्त॑त्यै ।
मूलम्
अथो॒ सन्त॑त्यै ।
पद-पाठः
अथो॒ इति॑ । सन्त॑त्या॒ इति॒ सम्-त॒त्यै॒ ।
भट्टभास्कर-टीका
अथो अपि च इदमार्षेयवरणं अस्य पुत्रादिसन्तानसमृद्ध्यै भवति । यद्वा - ‘ऋषिणा हि देवाः पुरुषम् अनुबुद्ध्यन्ते’ इति भृग्वादिभिः प्रसिद्धैः मन्त्रकृद्भिः बन्धुभिः व्रीयमाणैर् अयं बन्धुमान् भवति । ततो देवैर् अनुबुद्धो भवति, सन्तान-वृद्धिश् च भवति ॥
सायण-टीका
अपि चेदमार्षेयवरणमस्य पुत्रादिसंतानाय भवति।
मूलम् (संयुक्तम्)
प॒रस्ता॑द॒र्वाचो॑ वृणीते॒ तस्मा॑त्प॒रस्ता॑द॒र्वाञ्चो॑ मनु॒ष्या॑न्पित॒रोऽनु॒ प्र पि॑पते ॥ [50]
विश्वास-प्रस्तुतिः
प॒रस्ता॑द् अ॒र्वाचो॑ वृणीते ।
मूलम्
प॒रस्ता॑द् अ॒र्वाचो॑ वृणीते ।
पद-पाठः
प॒रस्ता॑त् । अ॒र्वाचः॑ । वृ॒णी॒ते॒ ।
भट्टभास्कर-टीका
14परस्तादिति ॥ परस्तात् पुरुषाद् आरभ्य अर्वाचः अधस्ताद् अवस्थितान् ऋषीन् वृणीते यथा - भृग्वादयो जमदग्न्यन्ताः । परशब्दात्पञ्चम्यन्तात् ‘दिक्छन्ब्देभ्यः’ इत्यादिना अस्तातिप्रत्ययः ।
सायण-टीका
अस्मिन्वरणे प्रकारविशेषं विधत्ते- परस्तादर्वांच इति ।
वर्तमानं यजमानमपेक्ष्य पूर्वभावी यो गोत्रप्रवर्तकस्तमारभ्य तदपत्यपरम्परयाऽर्वाचो नीचान्वृणीते। तथैव पूर्वमुदाहृतं भृगोरपत्यं च्यवनस्तस्यापत्यमप्नवानत्तस्यापत्यमौर्वस्तस्यापत्यं जमदग्निस्तस्य संततिर्यजमान इति। तदेतदर्वाक्त्वम्।
विश्वास-प्रस्तुतिः
तस्मा॑त् प॒रस्ता॑द् अ॒र्वाञ्चो॑ मनु॒ष्या॑न् पित॒रो ऽनु॒ प्र पि॑पते ॥
पद-पाठः
तस्मा॑त् । प॒रस्ता॑त् । अ॒र्वाञ्चः॑ । म॒नु॒ष्या॑न् । पि॒तरः॑ । अनु॑ । प्रेति॑ । पि॒प॒ते॒ ॥
मूलम्
तस्मा॑त् प॒रस्ता॑द् अ॒र्वाञ्चो॑ मनु॒ष्या॑न् पित॒रो ऽनु॒ प्र पि॑पते ॥
भट्टभास्कर-टीका
तस्मादिति । परस्ताद् अर्वाञ्चः पितरो मनुष्यान् प्रपिपते प्रकर्षेण विद्याभागितया अनुक्रमेण रक्षन्ति ।
अपरे परे पुरुषान् भजन्ते, अपरे परित्यजन्ति । छान्दसश् श्लुर् आत्मनेपदं च ॥
इति द्वितीये पञ्चमे अष्टमोऽनुवाकः ॥
सायण-टीका
यस्माद्धोता पूर्वभाविनमारभ्यार्वाचो वृणीते तस्मादेव कारणाल्लोकेऽपि पूर्वपूर्वभाविनः पितर उत्तरोत्तरभाविनः पुत्राननुक्रमेण पालयन्ति ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।