०५ अभ्युदयेष्टिः

प्रजापतिऋषिः ।

सोम-याज्य्-अधिकारः

मूलम् (संयुक्तम्)

नासो॑मयाजी॒ सन्न॑ये॒दना॑गतव्ँ॒वा ए॒तस्य॒ पयो॒ योऽसो॑मयाजी॒ यदसो॑मयाजी स॒न्नये॑त्परिमो॒ष ए॒व सोऽनृ॑तङ्करो॒त्यथो॒ परै॒व सि॑च्यते सोमया॒ज्ये॑व सन्न॑येत् ।

विश्वास-प्रस्तुतिः

नासो॑मयाजी॒ सन्न॑येत् +++(अमावास्यासु दधि)+++।

Keith

No one who is not a Soma sacrificer should offer the Samnayya.

मूलम्

नासो॑मयाजी॒ सन्न॑येत् ।

पद-पाठः

न । असो॑मया॒जीत्यसो॑म-या॒जी॒ । समिति॑ । न॒ये॒त् ।

भट्टभास्कर-टीका

1नासोमयजी सं नयेदित्यादि ॥ दधिपयोभ्यां यागस्सन्नयनम् ।

सायण-टीका

तत्र तावत्सांनाय्याधिकारिणं विविनक्ति- नासोमयाजीति। सोमयागात्पुरा दर्शयागी सांनाय्यं नानुतिष्ठेत्।

विश्वास-प्रस्तुतिः

अना॑गतव्ँ॒ वा ए॒तस्य॒ पयो॒ योऽसो॑मयाजी।

Keith

For the milk of him who is not a Soma sacrificer is imperfect,

मूलम्

अना॑गतव्ँ॒ वा ए॒तस्य॒ पयो॒ योऽसो॑मयाजी।

पद-पाठः

अना॑गत॒मित्यना॑-ग॒त॒म् । वै । ए॒तस्य॑ । पयः॑ । यः । असो॑मया॒जीत्यसो॑म-या॒जी॒ ।

भट्टभास्कर-टीका

अनागतमिति । असोमयाजिनः पयस्सम्बन्धो नास्ति सर्वरसकारणेन सोमेन सम्बन्धाभावात् ।

सायण-टीका

असोमयाजिनः पयोऽनागतमप्राप्त। सोमस्यौषधिरसत्वेन तदभावे सत्योषधिरसविशेषस्य पयसः सुतरामभावात्।

विश्वास-प्रस्तुतिः

यद् असो॑मयाजी स॒न्नये॑त् -
परिमो॒ष ए॒व सो ऽनृ॑तङ् करोति ।
अथो॒ परै॒व सि॑च्यते ।

Keith

and if one who is not a Soma sacrificer offers the Samnayya
he is a thief
and does wrong,
and (his milk) is poured forth in vain.

मूलम्

यदसो॑मयाजी स॒न्नये॑त् ।
प॒रि॒मो॒ष ए॒व सोऽनृ॑तङ्करोति ।
अथो॒ परै॒व सि॑च्यते ।

पद-पाठः

यत् । असो॑मया॒जीत्यसो॑म-या॒जी॒ । स॒न्नये॒दिति॑ सम्-नये॑त् ।
प॒रि॒मो॒ष इति॑ परि-मो॒षः । ए॒व । सः । अनृ॑तम् । क॒रो॒ति॒ ।
अथो॒ इति॑ । परेति॑ । ए॒व । सि॒च्य॒ते॒ ।

भट्टभास्कर-टीका

तस्माद् असोमयाजी यदि सन्नयेत् स परिमोषः चौर्यमेव, अस्वेन यष्टुं प्रवृत्तत्वात् । तस्मादयम् अनृतं करोति व्रतचारिणो यत्प्रतिषिद्धं तदेवानृतं करोति ।

सायण-टीका

एवं सति यद्यसोमयाजी संनयेत्तर्ह्यसौ परिमोष एव तस्कर एव सन्ननृतं करोत्यन्याय्यं करोति। अपि च वह्नौ सिच्यमानं तत्सांनाय्यमन्वाय्यत्वात्परैव सिच्यते विनाश्यत एव।

विश्वास-प्रस्तुतिः

सो॒म॒या॒ज्ये॒॑व सन्न॑येत् ।

Keith

A Soma sacrificer only should offer the Samnayya.

मूलम्

सो॒म॒या॒ज्ये॑व सन्न॑येत् ।

पद-पाठः

। सो॒म॒या॒जीति॑ सोम-या॒जी । ए॒व । समिति॑ । न॒ये॒त् ।

भट्टभास्कर-टीका

अथो अपि च परैव सिच्यते एतद्यष्टव्यं परा सिच्यते अस्थाने विनाश्यत एव । तस्मात्सोमयाज्येव सन्नयेदिति ॥

सायण-टीका

तस्मात्सोमयाज्येव संनयेत्।

मूलम् (संयुक्तम्)

पयो॒ वै सोम॒ᳶ पय॑स्सान्ना॒य्यम्पय॑सै॒व पय॑ आ॒त्मन्ध॑त्ते

विश्वास-प्रस्तुतिः

पयो॒ वै सोमः॑ ।
पय॑स् सान्ना॒य्यम्।
पय॑सै॒व पय॑ आ॒त्मन् ध॑त्ते ।

Keith

Soma is milk, the Samnayya is milk;
verily with milk he places milk in himself.

पद-पाठः

पयः॑ । वै । सोमः॑ ।
पयः॑ । सा॒न्ना॒य्यमिति॑ साम्-ना॒य्यम् ।
पय॑सा । ए॒व । पयः॑ । आ॒त्मन् । ध॒त्ते॒ ।

मूलम्

पयो॒ वै सोमः॑ ।
पय॑स्सान्ना॒य्यम्पय॑सै॒व पय॑ आ॒त्मन्ध॑त्ते ।

भट्टभास्कर-टीका

2पयो वा इत्यादि ॥ उभयोः पयस्त्वात्पयसा सोमेन स आत्मनि पयस्सान्नाय्यं धत्ते स्थापयति ॥

सायण-टीका

न चास्येतरवत्पयोऽनागतं, सोमस्यौषधिरसत्वेन पयोरूपत्वात्। सांनाय्यमपि तथाविधम् अतः सोमयाजी सोमरूपेण पयसा सह सांनाय्यरूपं पय आत्मनि धारयीत।

मूलम् (संयुक्तम्)

वि वा ए॒तम्प्र॒जया॑ प॒शुभि॑रर्धयति व॒र्धय॑त्यस्य॒ भ्रातृ॑व्यय्ँ॒यस्य॑ ह॒विर्निरु॑प्तम्पु॒रस्ता॑च्च॒न्द्रमाः॑ [27] अ॒भ्यु॑देति॑ त्रे॒धा त॑ण्डु॒लान्वि भ॑जे॒द्ये म॑ध्य॒मास्स्युस्तान॒ग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पालङ्कुर्यात्

अभ्युदयः

विश्वास-प्रस्तुतिः

वि वा ए॒तम् प्र॒जया॑ प॒शुभि॑र् +++(वि←)+++अर्धयति,
व॒र्धय॑त्य् अस्य॒ भ्रातृ॑व्यम्,
यस्य॑ ह॒विर् निरु॑प्तम् पु॒रस्ता॑च् च॒न्द्रमा॑ अ॒भ्यु॒॑देति॑

Keith

The moon deprives him of offspring and cattle,
and makes his enemy wax great
on whose sacrifice, when offered, it rises in the east [1].

मूलम्

वि वा ए॒तम्प्र॒जया॑ प॒शुभि॑रर्धयति ।
व॒र्धय॑त्यस्य॒ भ्रातृ॑व्यम् ।
यस्य॑ ह॒विर्निरु॑प्तम्पु॒रस्ता॑च्च॒न्द्रमा॑ अ॒भ्यु॑देति॑ ।

पद-पाठः

वीति॑ । वै । ए॒तम् । प्र॒जयेति॑ प्र-जया॑ । प॒शुभि॒रिति॑ प॒शु-भिः॒ । अ॒र्ध॒य॒ति॒ ।
व॒र्धय॑ति । अ॒स्य॒ । भ्रातृ॑व्यम् ।
यस्य॑ । ह॒विः । निरु॑प्त॒मिति॒ निः-उ॒प्त॒म् । पु॒रस्ता॑त् । च॒न्द्रमाः॑ । अ॒भीति॑ । उ॒देतीत्यु॑त्-एति॑ ।

भट्टभास्कर-टीका

3वि वा एतमित्यादि ॥ यस्य निरुप्तुं हविरभिलक्ष्य निर्वापे कृते पुरस्तात् पूर्वस्यां दिशि चन्द्रमा उदेति एनं प्रजया पशुभिश्च व्यर्धयति ।

वर्धयति चास्य भ्रातृव्यं शत्रुं, तथोद्यंश्चन्द्रमाः । विनष्टचन्द्रमायां हि तिथौ कर्मैतद्दर्शाख्यं क्रियते । अनेन चेष्ट्वा प्रजावान् पशुमान् भ्रातृव्यवांश्च संपद्यते । हविरभ्युद्यंश्चायं विपरीतफलस्स्यात् । तस्मान्निर्वापयागयोर्मध्ये यथा चन्द्रमसः पुरस्तादुदयो न भवति तथा कालो ग्रह्यः ॥

भट्टभास्कर-टीका - ज्योतिषम्

अत्र ब्रूमः - अस्य चन्द्रमसो द्वादश दृश्यादृश्य-कला अंशाः,
एतैर् अंशैर् अयं दृश्यश् चादृश्यश् च भवति ।
तत्र स्फुट-जिज्ञासायां वखा[शून्यखा]ग्निभिः शत-त्रयेण द्वादश-भागान् सङ्गणय्य
पूर्वस्यां दिशि उदये ऽस्तमये च विचार्यमाणे
कर्म-द्वय-संस्कृतेनोदय-राशिना विभज्य
लब्धेनांशादिना युक्तस् स्फुटोर्क उदयार्को भवति ।

तद्-युक्तो यावान् स्फुटो ऽर्कः
तावान् यदा गणितानीतो ऽर्को भवति
तदा चन्द्रमा उदेति
अथ तेनैवांशादिना रहितस् स्फुटोऽर्को वा अस्तमयार्को वा भवति ।

तावान् यदा स्फुटोर्को भवति
तदा चन्द्रमा अस्तमेति ।
यदा पुनः प्राच्यां दिश्य् उदयोस्तमयो वा विचार्यते
तदा पूर्ववत् संगुणितान् द्वादश-भागान्
चन्द्र-कर्म-द्वय-संस्कृते ऽस्तमय-राशिना विभज्य
लब्धेनांशादिना स्फुटोर्क उदययुक्त उदयार्को भवति ।
तद्-रहितोस्तमयार्कः ।

तत्र चन्द्रस्य उदयार्केणास्तमयार्केण वा सह यद् अन्तरं
तस्मिन्न् अन्तरे यावान् कालः,
तेन कालेन घटिकादिना उदितो ऽस्तं गतो वा भवति ।
तत्र द्वेधा चन्द्रस्योदयास्तमयौ यथा प्रतिदिनं च भवतः
गोलका-प्राप्ति-परित्यागाभ्यां सूर्यस्येव ।
तथाऽऽदित्यस्यैव सन्निकर्षाद् विप्रकर्षाच् च अस्योदयास्तमयौ भवतः ।

तदपि कथ्यते - अयं चन्द्रश् शीघ्र-गतित्वात् प्रत्यहम् अर्क-समीपम् आगच्छति
यावत् प्राच्याम् अस्तं व्रजति ।
अस्तं गतश् च ततश् शीघ्र-गतित्वात् आदित्यम् अनुदिनं परित्यजति
यावत् प्रतीच्याम् उदेति ।

एवम् अस्यादित्य-सन्निकर्षात् विप्रकर्षाच् च
प्राच्याम् अस्त-मयः, प्रतीच्याम् उदयः ।+++(5)+++
तच् चन्द्रार्कयोर् भुक्त्य्-अन्ताः द्वादश-महा-भागाः अंशाः ।

तेन गोलार्ध-भागानाम् अशीति-शत-सङ्ख्य-भागे हृते
लब्धं पञ्च-दश प्रतिपद्-आदयस् तिथयः ।
तिथि-भाग-घटिके द्वे,
दृश्य-गोलार्ध-भागस्य त्रिंशत्-घटिकात्वात् ।
तत्र चन्द्रार्कयोः परो विप्रकर्षः पौर्णमासी,
परस् सन्निकर्षो ऽमावास्या ।

तत्राभीष्ट-काले स्फुट-भुक्त्य्-अन्तरं स्फुट-कालांशाद् अधिकं वा भवेत् तद्-अन्यूनं वा ;
अधिकत्वे पञ्चदश्यामपि चन्द्रो दृश्यस्स्यात् ।
न्यूनत्वे तु चतुर्दश्यां अपि न दृश्येत ।
तस्मात् तादृशः सूक्ष्म-गणना-कौशल-शालिना कालो ऽन्वेष्यः ॥

सायण-टीका

अथाभ्युदयेष्टिं विधत्ते- वि वा एतामिति।
चतुर्-दश्याम् अमावास्येयम् इति भ्रान्त्या संदिहानो
रात्रावेव हवींषि निर्वपेत्।
तथा च श्रुत्य्-अन्तरम् आम्नायते-

यदि बिभीयादभि मोदेष्यतीति
महारात्रे हवींषि निर्वपेत्
फलीकृतैस् तण्डुलैर् उपासीतार्धं दधि हविर् आतञ्चनस्य निदध्याद् अर्धं
न यद्य् उदियात्
तेनाऽऽतञ्च्य प्रचरेद्
येदि नाभ्युदियात् तेन ब्राह्मणान् भोजयेत्’

इति।

[[1300]]

अयम् अर्थः-

यदि चतुर्दश्यां प्रातर् अग्निहोत्राद् ऊर्ध्वम्
अमावास्या-भ्रान्त्या वत्सान् अपाकृत्य
सायं दुग्ध्वा दध्य्-अर्थम् आतञ्चनं विधाय
पश्चात् तिथौ संदिहानो
“मां प्रति चन्द्रोऽभ्युदेष्यती"ति भीतो भवेत्
तदा रात्रिय्-अमध्ये हवींषि निरुप्य
फली-करणान्तं विधाय
तादृशैस् तण्डलैर् युक्त-चन्द्रोदयं प्रतीक्षेत।
तत्-पूर्वातञ्चनेन निष्पन्नस्य दध्नो ऽर्धम्
उत्तरस्यां रात्रौ पुनरातञ्चनार्थम् अवस्थापयेत्।
इतस् त्व् अर्धं न पृथग् अवस्थापयेत्,
किंतु तण्डुलैः सह पुरतोऽवस्थाप्य
चन्द्रोदयं प्रतीक्षेत।

यदि चन्द्रोऽभ्युदियात्
तदानीं पृथग् अवस्थापितेनार्थेन परेद्युर् मुख्यामावास्यायां रात्रौ
सायं-दोहम् आतञ्च्य निष्पन्नेन दध्ना प्रतिपदि प्रातः प्रचरेत्।

यदि तु न चन्द्रो ऽभ्युदियात्
तदा तण्डुलैर् दध्य्-अर्धेन च दर्श-कर्म निष्पाद्य
पृथग् अवस्थापितार्धान्तरेण ब्राह्मणान् भोजयेद् इति।

एवं स्थिते सति
यस्य यजमानस्य रात्राव् एव फली-कृत-तण्डुल-पर्यन्तं हविर् निरुप्तं संपादितं भवति।
ततः प्रतीक्ष्यमाणश् चन्द्रमाः पूर्वस्यां दिशि अभ्युदेति।
चन्द्र एतं यजमानं प्रजया पशुभिश्च व्यर्धयत्य्, एवास्य भ्रातृव्यं च वर्धयति।

विश्वास-प्रस्तुतिः

त्रे॒धा त॑ण्डु॒लान् वि भ॑जेत् ।
ये म॑ध्य॒मास् स्युस्
तान् अ॒ग्नये॑ दा॒त्रे
पु॑रो॒डाश॑म् अ॒ष्टाक॑पालङ् कुर्या॒द्
ये स्थवि॑ष्ठा॒स् तान् इन्द्रा॑य प्रदा॒त्रे द॒धँश् च॒रुय्ँ
येऽणि॑ष्ठा॒स् तान् विष्ण॑वे शिपि+++(=किरण, गो)+++-वि॒ष्टाय॑ शृ॒ते च॒रुम्

Keith

He should divide the rice grains into three parts;
the mean size he should make into a cake on eight potsherds for Agni, the giver,
the largest lie should give as a mess to Indra, the bestower,
the smallest (he should give) as a mess in boiled (milk) to Visnu Śipivista.

मूलम्

त्रे॒धा त॑ण्डु॒लान् वि भ॑जेत् ।
ये म॑ध्य॒मास्स्युस्तान॒ग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पालङ्कुर्या॒त्,
ये स्थवि॑ष्ठा॒स् तानिन्द्रा॑य प्रदा॒त्रे द॒धँश् च॒रुम् ।
येऽणि॑ष्ठा॒स्तान् विष्ण॑वे शिपिवि॒ष्टाय॑ शृ॒ते च॒रुम् ।

पद-पाठः

त्रे॒धा । त॒ण्डु॒लान् । वीति॑ । भ॒जे॒त् ।
ये । म॒ध्य॒माः । स्युः । तान् । अ॒ग्नये॑ । दा॒त्रे । पु॒रो॒डाश॑म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा-क॒पा॒ल॒म् । कु॒र्या॒त् ।
ये । स्थवि॑ष्ठाः । तान् । इन्द्रा॑य । प्र॒दा॒त्र इति॑ प्र-दा॒त्रे । द॒धन् । च॒रुम् ।
ये । अणि॑ष्ठाः । तान् । विष्ण॑वे । शि॒पि॒वि॒ष्टायेति॑ शिपि-वि॒ष्टाय॑ । शृ॒ते । च॒रुम् ।

भट्टभास्कर-टीका

प्रमादाच् चेद् दुष्टः काल आपतेत्
तदा त्रेधा तण्डुलानित्यादि कर्माचरेत् ।
तत्र निरुप्तम् अनिरुप्तं वा प्रवृत्तं हविर् यदा ऽभ्युदेति
तदेदं कर्म कर्तव्यम् इति मीमांसकाः;
यथोक्तम् - ‘निरुप्ते स्यात् तत्संयोगात्’ इत्यत्र ।
तथा हि ‘अभिरभागे’ इत्य् अभेदलक्षणे कर्मप्रवचनीयत्वम् ।

लक्षणं च ज्ञापकम् ।
तथा प्रवृत्तं ज्ञापकम् इति यस्य निरुप्तं हविर् अभ्युदेतीति विधीयते ।
तदा निरुप्तम् इति यागावयवानामुपलक्षणं वाक्यं,
उभयविधाने वाक्यभेदप्रसङ्गात् ।
ततश्चाग्न्य्-अन्वाधान-प्रभृति यावद्-ब्राह्मण-भोजनम् उदयोऽस्य परिहर्तव्यः इत्युक्तं भवति । +++(5)+++

तत्र च ‘अभ्युदये कालापराधाद् इज्या-चोदना स्यात् यथा पञ्च-शरावे’
इति त्रेधेत्यादिकं न कर्मान्तरविधानं,
अपि तु अपनीत-देवताकं तद् एव प्राकृतं
शूर्पे राशीकृतं हविर् देवतान्तरैः संयुज्यत इति राद्धान्तितम् ।

तत्राप्यनिरुप्तेऽभ्युदिते प्राकृतीभ्य एव देवताभ्यो निर्वापः कार्यः
तण्डुलभूतेषु देवतापनयस्य विधानाद् इति सिद्धान्तितम्
‘अनिरुप्तेऽभ्युदिते प्राकृतीभ्यो निर्वपेत्’ इत्यादौ ॥

स्थविष्ठाः स्थूलराशिगताः ॥ ‘स्थूलदूर’ इति लोपो गुणश्च अणिष्ठा अणुराशिगताः । ‘टेः’ इति टिलोपः ।
एवं दातृत्वादिगुणेभ्योग्न्यादिभ्यो मध्यमादिभिरष्टाकपालादयः कार्याः ।
दधन्निति ‘सुपां सुलुक्’ इति सप्तम्या लुक् । अनङादेशे ‘विभाषा ङिश्योः’ इति लोपाभावः ।
शृतं पक्वं पयः ॥

सायण-टीका

अतोऽभ्युदयं निमित्तीकृत्य+ एतत्तण्डुलान्
मध्यम-स्थविष्ठ-अणिष्ठ-रूपैस् त्रेधा भिन्नांस् तान्
पूर्व-देवताभ्यो विभजेत्

विभज्य च दात्रादि-गुणकाग्न्य्-आदि-देवताभ्यो हविः कुर्यात्।

मूलम् (संयुक्तम्)

अग्निरे॒वास्मै॑ प्र॒जाम्प्र॑ज॒नय॑ति वृ॒द्धामिन्द्र॒ᳶ प्र य॑च्छति य॒ज्ञो वै विष्णुᳶ॑ प॒शव॒श्शिपि॑र्य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति

विश्वास-प्रस्तुतिः

अ॒ग्निर् ए॒वास्मै॑ प्र॒जाम् प्र॑ज॒नय॑ति +++(←चादिषु च)+++।
वृ॒द्धाम् इन्द्र॒ᳶ प्र य॑च्छति ।

Keith

Agni thus generates offspring for him;
Indra gives it in crease;

मूलम्

अ॒ग्निरे॒वास्मै॑ प्र॒जाम्प्र॑ज॒नय॑ति ।
वृ॒द्धामिन्द्र॒ᳶ प्र य॑च्छति ।

पद-पाठः

अ॒ग्निः । ए॒व । अ॒स्मै॒ । प्र॒जामिति॑ प्र-जाम् । प्र॒ज॒नय॒तीति॑ प्र-ज॒नय॑ति ।
वृ॒द्धाम् । इन्द्रः॑ । प्रेति॑ । य॒च्छ॒ति॒ ।

भट्टभास्कर-टीका

5अग्निरेवेत्यादि ॥ गतम् ।

विश्वास-प्रस्तुतिः

य॒ज्ञो वै विष्णुः॑।
प॒शव॒श् शिपिः॑ ।
य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति ।

Keith

Visnu is the sacrifice,
and Śipi cattle;
verily on the sacrifice and cattle he rests.

मूलम्

य॒ज्ञो वै विष्णुः॑।
प॒शव॒श्शिपिः॑ ।
य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति ।

पद-पाठः

य॒ज्ञः । वै । विष्णुः॑ ।
प॒शवः॑ । शिपिः॑ ।
य॒ज्ञे । ए॒व । प॒शुषु॑ । प्रतीति॑ । ति॒ष्ठ॒ति॒ ।

भट्टभास्कर-टीका

पशवश्शिपिरिति । शिपयो रश्मयः तैर्विशिष्टः प्रविष्टः शिपिविष्टः । निर्वेष्टितशेपश्शिपिविष्टः । इत्यन्ये । तत्र पशुहेतुत्वात् ताच्छब्द्यम् । यज्ञे पशुषु च प्रतिष्ठितो भवतीत्येव ॥

सुमना

मूलम् (संयुक्तम्)

न द्वे [28] य॒जे॒त॒ यत्पूर्व॑या सम्प्र॒ति यजे॒तोत्त॑रया छ॒म्बट्कु॑र्या॒द्यदुत्त॑रया सम्प्र॒ति यजे॑त॒ पूर्व॑या छ॒म्बट्कु॑र्या॒न्नेष्टि॒र्भव॑ति॒ न य॒ज्ञस्तदनु॑ ह्रीतमु॒ख्य॑पग॒ल्भो जा॑यत॒ एका॑मे॒व य॑जेत प्रग॒ल्भो॑ऽस्य जाय॒तेऽना॑दृत्य॒ तद्द्वे ए॒व य॑जेत यज्ञमु॒खमे॒व पूर्व॑या॒लभ॑ते॒ यज॑त॒ उत्त॑रया दे॒वता॑ ए॒व पूर्व॑यावरु॒न्द्ध इ॑न्द्रि॒यमुत्त॑रया देवलो॒कमे॒व [29] पूर्व॑याभि॒जय॑ति मनुष्यलो॒कमुत्त॑रया॒ भूय॑सो यज्ञक्र॒तूनुपै॑त्ये॒षा वै सु॒मना॒ नामेष्टि॒र्यम॒द्येजा॒नम्प॒श्चाच्च॒न्द्रमा॑ अ॒भ्यु॑देत्य॒स्मिन्ने॒वास्मै॑ लो॒केऽर्धु॑कम्भवति

विश्वास-प्रस्तुतिः

न द्वे +++(इष्टी)+++ य॑जेत ।
यत् पूर्व॑या सम्प्र॒ति यजे॑त -
उत्त॑रया छ॒म्बट् कु॑र्यात् ।

यद् उत्त॑रया सम्प्र॒ति यजे॑त
पूर्व॑या छ॒म्बट् कु॑र्यात् ।
नेष्टि॒र् भव॑ति ।
न य॒ज्ञः।
तद् अनु॑ ह्रीत-मु॒ख्य् अ॑पग॒ल्भो जा॑यते ।

Keith

He should not offer twice [2].
If he were to offer now with the first
he would make a failure with the second;
if with the second now,
he would make a failure with the first;
there is no offering at all and no sacrifice,
for that cause a son is born shamefaced and retiring.

मूलम्

न द्वे य॑जेत ।
यत्पूर्व॑या सम्प्र॒ति यजे॒तोत॑रया छ॒म्बट्कु॑र्यात् ।

यदुत्त॑रया सम्प्र॒ति यजे॑त ..
पूर्व॑या छ॒म्बट्कु॑र्यात् ।
नेष्टि॒र्भव॑ति ।
न य॒ज्ञः।
तदनु॑ ह्रीतमु॒ख्य॑पग॒ल्भो जा॑यते ।

पद-पाठः

न । द्वे इति॑ । य॒जे॒त॒ ।
यत् । पूर्व॑या । सम्प्र॒तीति॒ सम्-प्र॒ति॒ । यजे॑त । ..
उत्त॑र॒येत्युत्-त॒र॒या॒ । छ॒म्बट् । कु॒र्या॒त् ।
यत् । उत्त॑र॒येत्युत्-त॒र॒या॒ । सम्प्र॒तीति॒ सम्-प्र॒ति॒ । यजे॑त । ..
पूर्व॑या । छ॒म्बट् । कु॒र्या॒त् । न । इष्टिः॑ । भव॑ति ।
न । य॒ज्ञः ।
तत् । अन्विति॑ । ह्री॒त॒मु॒खीति॑ ह्रीत-मु॒खी । अ॒प॒ग॒ल्भ इत्य॑प-ग॒ल्भः । जा॒य॒ते॒ ।

सायण-टीका

यदुक्तं सूत्रकारेण-

‘‘द्वे पौर्णिमास्यौ द्वे अमावस्ये यजेत
यः कामयेतर्ध्युवाम् इत्य् उक्त्वा ऽऽहैकाम् एव यजेत’

इति।

अस्यायम् अर्थः-
पौर्णमास्याम् अन्वाधाय
प्रतिपदी पौर्णमासयागं कृत्वा
तदानीम् एवान्वाधाय
द्वितीयायां पुनः पौर्णमास-यागं कुर्यात्।
एवम् अमावास्यायाम् अपि।

सेयम् ऋद्धिकामस्येष्टिः सुमना इत्यभिधीयते।

तामेतां सुमनसमिष्टिं पूर्वोत्तरपक्षाभ्यां विचार्य विधातुमादौ पूर्वपक्षी सिद्धान्तं निराकृत्य स्वपक्षं विधते-
न द्वे यजेतेति।
सिद्धान्तिना यदुच्यते द्वे यजेतेति तन्न युक्तम्।
यदि तत्र पूर्वया पौर्णमास्या संप्रति यजेत
सम्यगनुतिष्ठेत्तदानीमुत्तरया छम्बट्कुर्यात् यदुत्तरा सम्यगनुष्ठिता तदा पूर्ववैयर्थ्यम्।
तथासति द्विरनुष्ठिता सेयमिष्टिरित्यपि वक्तुं न शक्यते,
इष्टावधिकावृत्तेर् अविहितत्वात्।
नाप्य् अग्निष्टोमादि-यज्ञं इति वक्तुं शक्यते
ऽधिक-प्रयोगे सत्य् अपि प्रातः-सवनादीनाम् अभावात्।
अत उभय-भ्रष्टत्वात् तद्-अनुष्ठाता यजमानः
सभायां ह्रीतमुखी भवति।
तैः पृष्टः सन्नुत्तरं वक्तुं न प्रगल्भो भवेत्।

विश्वास-प्रस्तुतिः

एका॑म् ए॒व य॑जेत ।
प्र॒ग॒ल्भो॑ऽस्य जायते ।

Keith

One offering only should one make;
a valiant son is born to him.

मूलम्

एका॑मे॒व य॑जेत ।
प्र॒ग॒ल्भो॑ऽस्य जायते ।

पद-पाठः

एका॑म् । ए॒व । य॒जे॒त॒ ।
प्र॒ग॒ल्भ इति॑ प्र-ग॒ल्भः । अ॒स्य॒ । जा॒य॒ते॒ ।
एका॑म् । ए॒व । य॒जे॒त॒ । प्र॒ग॒ल्भ इति॑ प्र-ग॒ल्भः । अ॒स्य॒ । जा॒य॒ते॒ ।

सायण-टीका

तस्माद् ऋद्धिकाम्यावृत्तिं परित्यज्यैकामेव पौर्णमासीममावास्यायां च यजेत।

तथा सत्य्
अस्य यजमानस्य पुत्रोऽपि सभायां प्रगल्भो जायते।
किमु वक्तव्यमयमिति।

विश्वास-प्रस्तुतिः

अना॑दृत्य॒ तद्
द्वे ए॒व य॑जेत ।

य॒ज्ञ॒मु॒खम् ए॒व पूर्व॑या॒ऽऽलभ॑ते +++(←चादिषु च)+++ ।
यज॑त॒ उत्त॑रया ।

दे॒वता॑ ए॒व पूर्व॑याऽवरुन्द्धे
इन्द्रि॒यमुत्त॑रया ।

दे॒व॒लो॒कम् ए॒व पूर्व॑याऽभि॒जय॑ति,
मनुष्यलो॒कम् उत्त॑रया ।

Keith

One should disregard this and offer twice.
With the first (offering) one grasps the mouth of the sacrifice,
and sacrifices with the second.
Verily one wins the gods with the first,
power with the second;
verily one conquers the world of the gods [3] with the first;
the world of men with the second;

मूलम्

अना॑दृत्य॒ तद्द्वे ए॒व य॑जेत ।
य॒ज्ञ॒मु॒खमे॒व पूर्व॑या॒ऽऽलभ॑ते ।
यज॑त॒ उत्त॑रया ।
दे॒वता॑ ए॒व पूर्व॑याऽवरुन्द्धे
इन्द्रि॒यमुत्त॑रया ।
दे॒व॒लो॒कमे॒व पूर्व॑याऽभि॒जय॑ति
मनुष्यलो॒कमुत्त॑रया ।

पद-पाठः

अना॑दृ॒त्येत्यना॑-दृ॒त्य॒ । तत् । द्वे इति॑ । ए॒व । य॒जे॒त॒ ।
य॒ज्ञ॒मु॒खमिति॑ यज्ञ-मु॒खम् । ए॒व । पूर्व॑या । आ॒लभ॑त॒ इत्या॑-लभ॑ते ।
यज॑ते । उत्त॑र॒येत्युत्-त॒र॒या॒ ।
दे॒वताः॑ । ए॒व । पूर्व॑या । अ॒व॒रु॒न्द्ध इत्य॑व-रु॒न्द्धे ।
इ॒न्द्रि॒यम् । उत्त॑र॒येत्युत्-त॒र॒या॒ ।

दे॒व॒लो॒कमिति॑ देव-लो॒कम् । ए॒व । पूर्व॑या । अ॒भि॒जय॒तीत्य॑भि-जय॑ति ।
म॒नु॒ष्य॒लो॒कमिति॑ मनुष्य-लो॒कम् । उत्त॑र॒येत्युत्-त॒र॒या॒ ।

सायण-टीका

[[1301]]

तम् इमं पूर्वपक्षं निराकृत्य सिद्धान्तं विधत्ते–अनादृत्येति। एकामेवेति यदुक्तं तदनादृत्य द्वे एव यजेत, तत्र पूर्वयेष्ट्या सम्यगनुष्ठितया यज्ञमुखरूपयज्ञोपक्रमस्याऽऽलम्भनं देवतावरोधो देवलोकजयश्चेति प्रयोजनत्रयं संपद्यते।
उत्तरया सम्यगनुष्ठितया प्रकृतयज्ञसंपूर्तिर् इन्द्रियावरोधो मनुष्यलोकजयश्चेति संपद्यते त्रीणि प्रयोजनानि।
अतो नैकस्या अपि वैयर्थ्यम् नापीष्टियज्ञत्वयोरभावः, प्रत्येकमिष्टित्त्रेऽपि संमूहितस्य प्रौढयज्ञत्वात्।

विश्वास-प्रस्तुतिः

भूय॑सो यज्ञक्र॒तून् उपै॑ति ।
ए॒षा वै सु॒मना॒ नामेष्टिः॑ ।

Keith

he performs several forms of sacrifice.
This offering is called ’the friendly’;

मूलम्

भूय॑सो यज्ञक्र॒तूनुपै॑ति ।
ए॒षा वै सु॒मना॒ नामेष्टिः॑ ।

पद-पाठः

भूय॑सः । य॒ज्ञ॒क्र॒तूनिति॑ यज्ञ-क्र॒तून् । उपेति॑ । ए॒ति॒ ।
ए॒षा । वै । सु॒मना॒ इति॑ सु-मनाः॑ । नाम॑ । इष्टिः॑ ।

भट्टभास्कर-टीका - ज्योतिषम्

6अथ शाखान्तरे ऋद्धिकामम् अधिकृत्योक्तम् -

‘द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत यः कामयेत’

?? भवतः ।

तत्र च

यावद् एवम् उपपद्यते
तावान् प्रकर्षस् सोप्य(?)

इति चतुर्थोंशो दुष्टः । तत्र

`यदीष्ट्या यदि पशुना यदि सोमेन यजेतामावास्यायां पौर्णमास्यां वा यजेत’

इत्य् उच्यते । तथा -

‘पक्षान्तेऽन्वाधानं पक्षादौ यागः’

‘पूर्वेद्युर् अन्वाधानम् उत्तरेद्युर्यागः’

इति च ।

अन्वाधानादि-यावद्-इष्ट्य्-अन्तं चन्द्रोदये ऽभ्युदयेष्ट्या भाव्यम् ।

तथा “पर्वसन्धेः पूर्वम् इष्टि-समाप्तौ पुनर् यष्टव्यम्” इत्य् आहुः ।
तत्र पर्वणः सूक्ष्मत्वात् प्रत्यासन्न-तिथि-द्वय-लक्षणायां
पञ्च-दशी–प्रतिपदौ पर्वणी उच्येते ।
तस्मात् स्फुटी-करणेन तिथि-दृश्यांश एवानीय कालोन्वेष्टव्यः ।
तत्र पञ्चदश्यां प्रथमेंऽशे तिथि-दृश्यांश-क्षये चन्द्रोदय-सम्भावना ।
तत्रोत्तरयोश् चन्द्रांशयोस् सन्धेः पूर्वं यागसमाप्तिस् स्यात् ।
चतुर्थे तु दोष-द्वयाप्रसङ्गः ।

प्रतिपदाद्य्-अंशे सर्व-दोषाभावः ।
चतुर्थे तु तिथि-दृश्यांशे भिभाय [श्व एव] चन्द्रोदय-सम्भावना ।

अथ यदि पूर्वेद्युश् च पञ्च-दश-घटिका चतुर्दशी
उत्तरेद्युरष्टौ घटिकाः पर्व,
यदा च पूर्वेद्युर् अष्टादश घटिकाः पर्व
उत्तरेद्युर्दश घटिकाः प्रतिपत् -
तत्र गत्य्-अभावात् यष्टव्यमित्येके ।

ननु ‘यमद्येजानं’ इत्यादिदर्शनात् द्वितीयायामपि तत् सम्भवाद् यागो ऽनुमीयते,
मैवं श्वो दृश्यां क्षये प्रतिपद्य् एवोदय-सम्भवाकाक्षासभवात् ।

एवं पश्वादिष्व् अपि निपुणं निरूपणीयम् इति ग्रन्थविस्तरभयादुपरम्यते ॥

सायण-टीका

अत एतदनुष्ठानेन भूयसो बहुतेकाहाहीनसत्ररूपान्यज्ञक्रतूनुपैति।

विश्वास-प्रस्तुतिः

यम् अ॒द्येजा॒नम् प॒श्चाच् च॒न्द्रमा॑ अ॒भ्यु॑देति +++(सूर्यास्त-समये)+++,
अ॒स्मिन्न् ए॒वास्मै॑ लो॒के ऽर्धु॑कम् भवति ।

Keith

for him there is in this world prosperity
on whom the moon rises in the west
after he has sacrificed on that day.

मूलम्

यम॒द्येजा॒नम्प॒श्चाच्च॒न्द्रमा॑ अ॒भ्यु॑देति ।
अ॒स्मिन्ने॒वास्मै॑ लो॒केऽर्धु॑कम्भवति ।

पद-पाठः

यम् । अ॒द्य । ई॒जा॒नम् । प॒श्चात् । च॒न्द्रमाः॑ । अ॒भीति॑ ।
उ॒देतीत्यु॑त्-एति॑ । अ॒स्मिन् । ए॒व । अ॒स्मै॒ । लो॒के । अर्धु॑कम् । भ॒व॒ति॒ ।

सायण-टीका

किंचाद्य द्वितीयायामिष्टवन्तं यजमानमभिलक्ष्य पश्चाच्चन्द्रमा अभ्युदेति तस्येयमिष्टिर्नाम्ना सुमना इत्युच्यते। वर्धिष्णुचन्द्रोदयस्य सौमनस्यहेतुत्वात्। ततोऽस्मिन्नेव लोके तस्य समृद्धिर्धनं भवति।

स्वर्गकामस्य दाक्षायणयज्ञः

मूलम् (संयुक्तम्)

दाक्षायणय॒ज्ञेन॑ सुव॒र्गका॑मो यजेत पू॒र्णमा॑से॒ सन्न॑येन्मैत्रावरु॒ण्याऽऽमिक्ष॑यामावा॒स्या॑याय्ँयजेत

विश्वास-प्रस्तुतिः

दा॒क्षा॒य॒ण॒-य॒ज्ञेन॑ सुव॒र्ग-का॑मो यजेत ।

Keith

He who desires heaven should sacrifice with the Daksayana sacrifice.

मूलम्

दा॒क्षा॒य॒ण॒य॒ज्ञेन॑ सुव॒र्गका॑मो यजेत ।

पद-पाठः

दा॒क्षा॒य॒ण॒य॒ज्ञेनेति॑ दाक्षायण-य॒ज्ञेन॑ । सु॒व॒र्गका॑म॒ इति॑ सुव॒र्ग-का॒मः॒ । य॒जे॒त॒ ।

भट्टभास्कर-टीका

7दाक्षायणयज्ञेनेति ॥ येन दाक्षायणा यजन्ते । दक्षात् ‘अत इङ्’ ‘यञञोश्च’ इति फक् ।

सायण-टीका

यथेयं सुमना नामेष्टिर् दर्शपूर्णमासयोर् गुणविकृतिस्थेवान्यां गुणविकृतिं विधत्ते- दाक्षायणयज्ञेनेति।

विश्वास-प्रस्तुतिः

+++(द्वे)+++ पू॒र्णमा॑से॒ सन्न॑येन् मैत्रावरु॒ण्या ।
+++(द्वे)+++ आ॒मिक्ष॑या ऽमावा॒स्या॑याय्ँ यजेत ।

Keith

On the full moon he should offer the Samnayya;
on the new moon he should sacrifice with clotted curds for Mitra and Varuna.

मूलम्

पू॒र्णमा॑से॒ सन्न॑येन् मैत्रावरु॒ण्या ।
आ॒मिक्ष॑याऽमावा॒स्या॑याय्ँयजेत ।

पद-पाठः

पू॒र्णमा॑स॒ इति॑ पू॒र्ण-मा॒से॒ । समिति॑ । न॒ये॒त् । मै॒त्रा॒व॒रु॒ण्येति॑ मैत्रा-व॒रु॒ण्या ।
आ॒मिक्ष॑या । अ॒मा॒वा॒स्या॑या॒मित्य॑मा-वा॒स्या॑याम् । य॒जे॒त॒ ।

भट्टभास्कर-टीका

पूर्णमास इति । द्वे पूर्णमास्यौ द्वे अमावास्ये यजेत । तत्र पौर्णमास्यां पूर्वेद्युराग्नेयोष्टाकपाल [ल अग्नीषोमीय एकादशकपालः । आग्नेयोष्टाकपालः] ऐन्द्रं दध्युत्तरेद्युः । अमावास्यायां पूर्वेद्युराग्नेयोष्टाकपालः ऐन्द्राग्न एकादशकपालः आग्नेयोष्टाकपालो मैत्रावरुण्यामिक्षा द्वितीयोत्तरेद्युः ॥

सायण-टीका

एतस्य यज्ञस्य स्वरूपं सूत्रकारेण स्पष्टीकृतम्-
‘दाक्षायणयज्ञेन सुवर्गकामो द्वे पौर्णमास्यौ द्वे अमावास्ये यजेताऽऽग्नेयोऽष्टाकपालोऽग्नीषोमीय एकादशकपालः ।
पूर्वस्यां पौर्णमास्यामाग्नेयोऽष्टाकपाल ऐन्द्रं दधि, उत्तरस्यामाग्नेयोऽष्टाकपाल ऐन्दाग्न एकादशकपालः,
पूर्वस्याम् अमावास्यायाम् आग्नेयोऽष्टाकपालो मैत्रावरुण्यामिक्षा,
द्वितीया उत्तरस्याम्’ इति।

तत्रोत्तरस्यां पौर्णमास्यामुत्तरस्याममावास्यायां चैकैकं विधत्ते- पूर्णमासे समिति।

मूलम् (संयुक्तम्)

पू॒र्णमा॑से॒ वै दे॒वानाँ॑ सु॒तस्तेषा॑मे॒तम॑र्धमा॒सम्प्रसु॑त॒स्तेषा॑म्मैत्रावरु॒णी व॒शामा॑वा॒स्या॑यामनूब॒न्ध्या॑

विश्वास-प्रस्तुतिः

पू॒र्णमा॑से॒ वै दे॒वानाँ॑ सु॒तः

Keith

On the full moon (the Soma) is pressed for the gods;

मूलम्

पू॒र्णमा॑से॒ वै दे॒वानाँ॑ सु॒तः

पद-पाठः

पू॒र्णमा॑स॒ इति॑ पू॒र्ण-मा॒से॒ । वै । दे॒वाना॑म् । सु॒तः ।

भट्टभास्कर-टीका

8पूर्णमासे वा इत्यादि ॥ देवानां सोमयागत्वेनायं स्तूयते । तत्र यो देवानां सोमयागः तत्स्वरूपं तावदाह ।

सायण-टीका

तत्रैन्द्रं दधिरूपं यदुत्तरस्मिन्पौर्णमासे सांनाय्यं तत्प्रशंसति- पूर्णमासे वा इति।
यदैन्द्रं दध्यनुष्ठित, तेन पौर्णमास एव देवानां सोमेऽभिषुतो भवति | पयो वै सोमः पय सांनाय्यमित्युक्तत्वात्।

विश्वास-प्रस्तुतिः

तेषा॑म् ए॒तम् अ॑र्धमा॒सम् प्रसु॑तः ।

Keith

during this half-month it is pressed forth for them,

मूलम्

तेषा॑मे॒तम॑र्धमा॒सम्प्रसु॑तः ।

पद-पाठः

तेषा॑म् । ए॒तम् । अ॒र्ध॒मा॒समित्य॑र्ध-मा॒सम् । प्रसु॑त॒ इति॒ प्र-सु॒तः॒ ।

भट्टभास्कर-टीका

देवा येन सोमेन यजन्ते तत्र पूर्णमासे सुतः अभिषुतः सोमः तेषां देवानां सोमः, एतमनन्तरभाविनमर्धमासं सर्वः प्रसुतो भवति । तस्य प्रकृष्टा गतिर्यागः । यद्वा - प्रकर्षेणानुज्ञातः प्रसुतः हुतो भवति ।

सायण-टीका

तेषां देवानां पौर्णमासीमारभ्यामावास्यापर्यन्तमर्धमासं नैरन्तर्येण सोमः प्रकर्षेण सुतो भवति। प्रतिदिनमनुष्ठिताभिः सोमविकृतिभिर्या प्रीतिः सा तेन सांनाय्येन संपद्यत इत्यर्थः।

विश्वास-प्रस्तुतिः

तेषा॑म् मैत्रावरु॒णी व॒शा+++(=वन्ध्या गौः)+++ ऽमा॑वा॒स्या॑याम् अनूब॒न्ध्या॑ ।

Keith

and a cow for Mitra and Varuna is to be slaughtered for them at the new moon.

मूलम्

तेषा॑म्मैत्रावरु॒णी व॒शाऽमा॑वा॒स्या॑यामनूब॒न्ध्या॑ ।

पद-पाठः

तेषा॑म् । मै॒त्रा॒व॒रु॒णीति॑ मैत्रा-व॒रु॒णी । व॒शा । अ॒मा॒वा॒स्या॑या॒मित्य॑मा-वा॒स्या॑याम् । अ॒नू॒ब॒न्ध्येत्य॑नु-ब॒न्ध्या॑ ।

भट्टभास्कर-टीका

अथ तेषां देवानाम् अमावास्यायां मैत्रावरुणी वशाऽनूबन्ध्या भवति । एवं देवा अयजन्त इति ॥

सायण-टीका

अथोत्तरस्याममावास्यायां विहितामामिक्षां प्रशंसति- तेषां मैत्रावरुणीति। येयममावास्यायामनुष्ठिता मैत्रावरुण्यामिक्षा सा तेषां देवानां वशाऽनूबन्ध्या संपद्यते।

मूलम् (संयुक्तम्)

यत् [30] पू॒र्वे॒द्युर्यज॑ते॒ वेदि॑मे॒व तत्क॑रोति॒ यद्व॒त्सान॑पाक॒रोति॑ सदोहविर्धा॒ने ए॒व सम्मि॑नोति॒ यद्यज॑ते दे॒वैरे॒व सु॒त्याँ सम्पा॑दयति॒ स ए॒तम॑र्धमा॒सँ स॑ध॒माद॑न्दे॒वैस्सोम॑म्पिबति॒ यन्मै॑त्रावरु॒ण्यामि॑क्षयामावा॒स्या॑याय्ँ॒यज॑ते॒ यैवासौ दे॒वानाव्ँ॑व॒शानू॑ब॒न्ध्या॑

विश्वास-प्रस्तुतिः

यत् पूर्वे॒द्युर् यज॑ते॒
वेदि॑म् ए॒व तत् क॑रोति।

Keith

In that [4] he sacrifices on the day before, he makes the sacrificial enclosure.

मूलम्

यत् पू॒र्वे॒द्युर्यज॑ते ।
वेदि॑मे॒व तत्क॑रोति।

पद-पाठः

यत् । पू॒र्वे॒द्युः । यज॑ते ।
वेदि॑म् । ए॒व । तत् । क॒रो॒ति॒ ।

भट्टभास्कर-टीका

9इदानीं दाक्षायणयज्ञं तद्भावेन रूपयति ॥ पूर्वस्मिन् दिने यदग्नीषोमाभ्यां यजते उत्तरवेदिकरणस्थानीयं तत् ।

सायण-टीका

तत्कथमिति तदुच्यते- पूर्वेद्युः शुक्लप्रतिपदि यजत इति यत्तेन सौमिकीं वेदिमेव कृतवान्भवति।

विश्वास-प्रस्तुतिः

यद् व॒त्सान् अ॑पाक॒रोति॑ -
सदो-हविर्-धा॒ने ए॒व सम्मि॑नोति

यद् यज॑ते दे॒वैर् ए॒व सु॒त्याँ सम्पा॑दयति

Keith

In that he drives away the calves,
he metes out the seat and the oblation holder.

In that he sacrifices, he produces with the gods the pressing day.

मूलम्

यद्व॒त्सान॑पाक॒रोति॑ ।
स॒दो॒ह॒वि॒र्धा॒ने ए॒व सम्मि॑नोति ।
यद्यज॑ते दे॒वैरे॒व सु॒त्याँ सम्पा॑दयति।

पद-पाठः

यत् । व॒त्सान् । अ॒पा॒क॒रोतीत्य॑प-आ॒क॒रोति॑ ।
स॒दो॒ह॒वि॒र्धा॒ने इति॑ सदः-ह॒वि॒र्धा॒ने । ए॒व । समिति॑ । मि॒नो॒ति॒ ।
यत् । यज॑ते । दे॒वैः । ए॒व । सु॒त्याम् । समिति॑ । पा॒द॒य॒ति॒ ।

भट्टभास्कर-टीका

यद्वत्सापाकरणं सदोहविर्धानयोस्सम्मितिस्थानीयं तत् । यदुत्तरस्मिन्नह्नि सान्नाय्येन यजते तत् देवैस्सहेन्द्रस्य सुत्यां यागं सम्पादयति, सुत्यास्थानीयोर्धमासः ।

सायण-टीका

तस्मिन्नेव दिने पुनरेव वत्सानपाकरोतीति यत्तेन सदोहविर्धाने ‘द्वौ मण्डपौ संपादितवान्भवति। द्वितीयायां प्रातराग्नेयेनाष्टाकपालेन यजत इति यत्तेन देवैरिष्यभाणां सूत्यामेव संपादितवान्भवति।

विश्वास-प्रस्तुतिः

स ए॒तम् अ॑र्धमा॒सँ स॑ध॒माद॑न्
दे॒वैस् सोम॑म् पिबति

Keith

He drinks for the half-month Soma in carouse with the gods.

मूलम्

स ए॒तम॑र्धमा॒सँ स॑ध॒माद॑न्दे॒वैस्सोम॑म्पिबति ।

पद-पाठः

सः । ए॒तम् । अ॒र्ध॒मा॒समित्य॑र्ध-मा॒सम् । स॒ध॒माद॒मिति॑ सध-माद॑म् । दे॒वैः । सोम॑म् । पि॒ब॒ति॒ ।

भट्टभास्कर-टीका

यस्माद् एवं तस्मात् स इन्द्रः एतमागामिनमर्धमासं सर्वं देवैस्सधमादं सोमं पिबति । देवैस्सह मादयतीति सधमात् । ‘सधमादस्थयोः’ इति सधादेशः । यद्वा - सह मदित्वा ।

सायण-टीका

स तादृशो यजमान एतमर्धमासं शुक्लपक्षं नैरन्तर्येण देवैः सधमादं सहर्षोपेतं सोमं पीतवान्भवति।

विश्वास-प्रस्तुतिः

यन् मै॑त्रावरु॒ण्या ऽमि॑क्षया ऽमावा॒स्या॑याय्ँ॒ यज॑ते॒
यैवासौ दे॒वानाव्ँ॑ व॒शाऽनू॑ब॒न्ध्या॒॑
सो ए॒वैषैतस्य॑।

Keith

In that he sacrifices at the new moon with clotted curds for Mitra and Varuna,
the cow which is slaughtered for the gods
becomes his also.

मूलम्

यन्मै॑त्रावरु॒ण्यामि॑क्षयामावा॒स्या॑याय्ँ॒यज॑ते ।
यैवासौ दे॒वानाव्ँ॑व॒शानू॑ब॒न्ध्या॒ सो ए॒वैषैतस्य॑

पद-पाठः

यत् । मै॒त्रा॒व॒रु॒ण्येति॑ मैत्रा-व॒रु॒ण्या । आ॒मिक्ष॑या । अ॒मा॒वा॒स्या॑या॒मित्य॑मा-वा॒स्या॑याम् । यज॑ते ।
या । ए॒व । अ॒सौ । दे॒वाना॑म् । व॒शा । अ॒नू॒ब॒न्ध्येत्य॑नु-ब॒न्ध्या॑ । सो इति॑ । ए॒व । ए॒षा । ए॒तस्य॑ ।

भट्टभास्कर-टीका

मैत्रावरुण्यामिक्षा या सा देवानामनूबन्ध्यास्थानीया ॥

सायण-टीका

तस्मादाग्नेयादूर्ध्वं तस्मन्द्वितीयामावास्याकर्मणि मैत्रावरुण्याऽऽमिक्षया यजत इति यत्सो एवाऽऽमिक्षा यजमानस्य वशा संपद्यते। काऽसौ वशेति तदुच्यते- सोमयागावसाने देवानामर्थ एव या वशाऽनूबन्ध्या क्रियते सैवेयमामिक्षेत्यर्थः।

मूलम् (संयुक्तम्)

सा॒क्षाद्वा ए॒ष दे॒वान॒भ्यारो॑हति॒ य ए॑षाय्ँ य॒ज्ञम् [31]
अ॒भ्या॒रोह॑ति॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढᳵ का॒मय॑ते॒ तथा॑ करोति

विश्वास-प्रस्तुतिः

सा॒क्षाद् वा ए॒ष दे॒वान् अ॒भ्यारो॑हति॒
य ए॑षाय्ँ य॒ज्ञम् अ॑भ्या॒रोह॑ति ।

Keith

He mounts upon the gods in truth
who mounts upon their sacrifice [5].

मूलम्

सो ए॒वैषैतस्य॑ सा॒क्षाद्वा ए॒ष दे॒वान॒भ्यारो॑हति ।
य ए॑षाय्ँ य॒ज्ञम॑भ्या॒रोह॑ति ।

पद-पाठः

सा॒क्षादिति॑ स-अ॒क्षात् । वै । ए॒षः । दे॒वान् । अ॒भ्यारो॑ह॒तीत्य॑भि-आरो॑हति ।
यः । ए॒षा॒म् । य॒ज्ञम् ।
1 । अ॒भ्या॒रोह॒तीत्य॑भि-आ॒रोह॑ति ।

भट्टभास्कर-टीका

10साक्षाद्वा इत्यादि ॥ इत्थमयमव्यवधानेन देवानभ्यारोहति देवसमूहमनुप्रविशति य एषां देवानां यज्ञम् अभ्यारोहति अनुष्ठानेनाक्रमति ।

सायण-टीका

दाक्षायणयज्ञानुष्ठानं प्रशंसति- साक्षाद्वा इति। यो यजमान एषां विधिवाक्योक्तानामग्न्यादिनां देवानां यज्ञम् अभ्यारोहति सम्यगनुतिष्ठति एषां साक्षादेव तानग्न्यादिदेवानभ्यारोहति प्राप्नोति। बहुकालं (ल) व्यवधानमन्तरेणैव देवसदृशं भोगं प्राप्नोतीत्यर्थः।

विश्वास-प्रस्तुतिः

यथा॒ खलु॒ वै श्रेया॑न् अ॒भ्यारू॑ढᳵ का॒मय॑ते॒
तथा॑ करोति ।

Keith

Just as a great man who has attained (fortune) desires (and does), so he does.

मूलम्

यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढᳵ का॒मय॑ते॒ तथा॑ करोति ।

पद-पाठः

यथा॑ । खलु॑ । वै । श्रेया॑न् । अ॒भ्यारू॑ढ॒ इत्य॑भि-आरू॑ढः । का॒मय॑ते । तथा॑ । क॒रो॒ति॒ ।

भट्टभास्कर-टीका

यथेत्यादि । यथा लोके श्रेयान् अश्रेयांसमभ्यारूढमात्मानं कामयते इतोप्यहं श्रेयान् भूयासमिति तथाऽयं दाक्षायणयज्ञयाजी करोति ॥

सायण-टीका

प्राप्य च यथा लोके श्रेयान्राजामात्यादिरुत्तमं पदमभ्यारूढः स्वकीयभृत्यानामग्रे ममेदं भोगसाधनमानयेति पुनः पुनः कामयते तथाऽयं यजमान आवृत्तयाजी पुनः पुनः फलसंपादने करोति।

मूलम् (संयुक्तम्)

यद्य॑व॒विध्य॑ति॒ पापी॑यान्भवति॒ यदि॒ नाव॒विध्य॑ति स॒दृङ्व्या॒वृत्का॑म ए॒तेन॑ य॒ज्ञेन॑ यजेत क्षु॒रप॑वि॒र्ह्ये॑ष य॒ज्ञस्ता॒जक्पुण्यो॑ वा॒ भव॑ति॒ प्र वा॑ मीयते

व्यावृत्-कामस्य

विश्वास-प्रस्तुतिः

यद्य् अ॑व॒विध्य॑ति॒
पापी॑यान् भवति॒
यदि॒ नाव॒विध्य॑ति स॒दृङ् ।

Keith

If he misses the mark
he becomes worse;
if he does not, he remains the same.

मूलम्

यद्य॑व॒विध्य॑ति॒ पापी॑यान्भवति
यदि॒ नाव॒विध्य॑ति स॒दृङ् ।

पद-पाठः

यदि॑ । अ॒व॒विध्य॒तीत्य॑व-विध्य॑ति । पापी॑यान् । भ॒व॒ति॒ ।
यदि॑ । न । अ॒व॒विध्य॒तीत्य॑व-विध्य॑ति । स॒दृङ्ङिति॑ स-दृङ्ङ् ।

भट्टभास्कर-टीका

11इदानीं यज्ञान्तरेभोस्य वैलक्षण्यं दर्शयितुमाह - यदीति ॥ यागान्तरेषु यदि अवविध्यति विकलानुष्ठायी स्यात् । पापीयान् पापतरो भवति ।

यदि वा नावविध्यति सदृङ् सदृश एव यजमानान्तरैः स्यात् न तु विशेषैश्वर्यस्स्यात् ।

सायण-टीका

पूर्वं स्वर्गकामस्यायं यज्ञ उक्तः, इदानीं व्यावृत्कामस्य स एवोच्यते- यद्यवविध्यतीति। अन्येषु यज्ञेषु यदि अवविध्यति किंचिद्वैकल्यं करोति तदानीं पापीयान्भवति, अन्ययजमानापेक्षयाऽतिनिकृष्टो भवति। यदि नावविध्यति वैकल्यं न करोति तदानीमन्यैः सदृङ् समान एव भवति न तु तेभ्य आधिक्यलक्षणा व्यावृत्तिः सिध्यति।

विश्वास-प्रस्तुतिः

व्या॒वृत्-का॑म ए॒तेन॑ य॒ज्ञेन॑ यजेत ।

Keith

One who desires distinction should sacrifice with it,

मूलम्

व्या॒वृत्का॑म ए॒तेन॑ य॒ज्ञेन॑ यजेत ।

पद-पाठः

व्या॒वृत्का॑म॒ इति॑ व्या॒वृत्-का॒मः॒ । ए॒तेन॑ । य॒ज्ञेन॑ । य॒जे॒त॒ ।

भट्टभास्कर-टीका

तस्मादन्येभ्यो यजमानेभ्यो व्यावृत्कामः एतेन यजेत । व्यावृत्तिर्व्यावृत् । सम्पदादिलक्षणः क्विप् ।

सायण-टीका

अतो व्यावृत्काम एतेन दाक्षायणयज्ञेन यजत।

विश्वास-प्रस्तुतिः

क्षु॒र-प॑वि॒र् ह्य् ए॒॑ष य॒ज्ञस्
ता॒जक् पुण्यो॑ वा॒ भव॑ति॒
प्र वा॑ मीयते ।

Keith

for this sacrifice has a razor edge,
and swiftly he becomes holy or perishes.

मूलम्

क्षु॒रप॑वि॒र्ह्ये॑ष य॒ज्ञस्ता॒जक्पुण्यो॑ वा॒ भव॑ति॒ प्र वा॑ मीयते ।

पद-पाठः

क्षु॒रप॑वि॒रिति॑ क्षु॒र-प॒विः॒ । हि । ए॒षः । य॒ज्ञः । ता॒जक् । पुण्यः॑ । वा॒ । भव॑ति । प्रेति॑ । वा॒ । मी॒य॒ते॒ ।

भट्टभास्कर-टीका

कोस्य विशेष इत्याह - क्षुरपविः निश्चितफलः यथा अङ्कुरच्छेदेन पविर्वज्रं सद्यः प्रत्ययकृदेवम् अयं यज्ञः ताजक् तदानीमेव प्रमीयते ॥

सायण-टीका

यस्यादेष यज्ञः क्षुरवद् वज्रवच्च+ अतितीक्ष्णस्तस्मादेतदनुष्ठायी ताजक्पुण्यो वा भवति तदानीमेवेतरेभ्यो व्यावृत्त एव भवति। एतद्विरोधी ताजक्प्रमीयत एव। अथवा यजमान एव सम्यगनुष्ठानादुत्तमो भवति वैकल्यात्प्रमीयते वा।

मूलम् (संयुक्तम्)

तस्यै॒तद्व्र॒तन्नानृ॑तव्ँवदे॒न्न माँ॒सम॑श्ञीया॒न्न स्त्रिय॒मुपे॑या॒न्नास्य॒ पल्पू॑लनेन॒ वासᳶ॑ पल्पूलयेयुरे॒तद्धि दे॒वास्सर्व॒न्न कु॒र्वन्ति॑ ॥ [32]

विश्वास-प्रस्तुतिः

तस्यै॒तद् व्र॒तम् -
नानृ॑तव्ँ वदेत् ।
न माँ॒सम् अ॑श्ञीयात् ।
न स्त्रिय॒म् उपे॑यात् ।
नास्य॒ पल्पू॑लनेन॒ वासᳶ॑ पल्पूलयेयुः।
ए॒तद् +धि दे॒वास् सर्व॒न् न कु॒र्वन्ति॑ ॥

Keith

His vow is: he shall not speak untruth;
he shall not eat meat;
he shall not approach for all a woman;
they shall not clean his raiment with cleansing stuff;
for all these things the gods do not do.

मूलम्

तस्यै॒तद्व्र॒तम् ।
नानृ॑तव्ँवदेत् ।
न माँ॒सम॑श्ञीयात् ।
न स्त्रिय॒मुपे॑यात् ।
नास्य॒ पल्पू॑लनेन॒ वासᳶ॑ पल्पूलयेयुः।

ए॒तद्धि दे॒वास्सर्व॒न्न कु॒र्वन्ति॑ ॥

पद-पाठः

तस्य॑ । ए॒तत् । व्र॒तम् ।
न । अनृ॑तम् । व॒दे॒त् ।
न । माँ॒सम् । अ॒श्ञी॒या॒त् ।
न । स्त्रिय॑म् । उपेति॑ । इ॒या॒त् ।
न । अ॒स्य॒ । पल्पू॑लनेन । वासः॑ । प॒ल्पू॒ल॒ये॒युः॒ ।

ए॒तत् । हि । दे॒वाः । सर्व॑म् । न । कु॒र्वन्ति॑ ॥

भट्टभास्कर-टीका

12तस्येत्यादि ॥ गतम् । अनृतौ स्त्रियं नोपेयादित्येके । पल्पूलनं शोधनं उषादि, तेनास्य वासो न पल्पूलयेयुः । अनेनाश्मपीडनादिकमपि निषिध्यत इत्येके । पल्पूलयतिः स्नानकर्मा ॥

इति द्वितीये पञ्चमे पञ्चमोनुवाकः ॥

सायण-टीका

अतो वैकल्यपरिहाराय व्रतविशेषान्विधत्ते- तस्यैतद्व्रतमिति।
पल्पूलनं वस्त्रशुद्धिसाधनमूषादि तेनास्य वासो न शोययेयुः।
यस्माद्देवाः पूज्या एतत्सर्वमनृतवदनादि न कुर्वन्ति तस्मादयमपि न कुर्यात्।
अस्य दाक्षायणयज्ञस्याऽऽधानादूर्ध्वं दर्शपूर्णमासाभ्यां सह विकल्पो द्रष्टव्यः।

तथा च सूत्रकार आह- ‘(*दर्शपूर्णमासयोः प्रक्रमे विकल्पते, एतेन दर्शपूर्णमासाभ्यां वा यजते, एतेन पञ्चदश वर्षाणीष्ट्वा वा विरमेद्यजेत वा) संतिष्ठते दाक्षायणयज्ञः इति’ ।