प्रजापतिऋषिः ।
त्वष्टुः सोमयागः
मूलम् (संयुक्तम्)
त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्रँ॒ सोम॒माह॑र॒त्तस्मि॒न्निन्द्र॑ उपह॒वमै॑च्छत॒ तन्नोपा॑ह्वयत पु॒त्रम्मे॑ऽवधी॒रिति॒ स य॑ज्ञवेश॒सङ्कृ॒त्वा प्रा॒सहा॒ सोम॑मपिब॒त्तस्य॒ यद॒त्यशि॑ष्यत॒ तत्त्वष्टा॑हव॒नीय॒मुप॒ प्राव॑र्तय॒त्स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॒ यदव॑र्तय॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वम्
विश्वास-प्रस्तुतिः
त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्रँ॒ सोम॒माह॑रत् ।
तस्मि॒न्न् इन्द्र॑ उपह॒वम् ऐ॑च्छत ।
तन् नोपा॑ह्वयत -
“पु॒त्रम् मे॑ऽवधी॒र्” इति॑ ।
Keith
Tvastr, his son being slain, offered Soma excluding Indra. Indra desired an invitation to the rite, but he did not invite him; (saying) ‘Thou hast slain my son.’
मूलम्
त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्रँ॒ सोम॒माह॑रत् ।
तस्मि॒न्निन्द्र॑ उपह॒वमै॑च्छत ।
तन्नोपा॑ह्वयत ।
पु॒त्रम्मे॑ऽवधी॒रिति॑ ।
विश्वास-प्रस्तुतिः
स य॑ज्ञ-वेश॒सङ् कृ॒त्वा प्रा॒सहा॒ सोम॑म् अपिबत् ।
तस्य॒ यद् अ॒त्यशि॑ष्यत॒ ..
तत् त्वष्टा॑हव॒नीय॒म् उप॒ प्राव॑र्तयत् ।
“स्वाहेन्द्र॑-शत्रुर्+++(=शातयिता)+++ वर्ध॒स्वे"ति॑ ।
Keith
He made a disturbance of the sacrifice, and forcibly drank the Soma. The remains of it Tvastr cast upon the Ahavaniya (fire), (saying), ‘Hail! wax great, Indra’s foe.’
मूलम्
स य॑ज्ञवेश॒सङ्कृ॒त्वा प्रा॒सहा॒ सोम॑मपिबत् ।
तस्य॒ यद॒त्यशि॑ष्यत॒ ..
तत्त्वष्टा॑हव॒नीय॒मुप॒ प्राव॑र्तयत् ।
स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॑ ।
भट्टभास्कर-टीका
1त्वष्टा हतपुत्र इत्यादि ॥ व्याख्यातम् ।
सायण-टीका
अथ द्वितीयानुवाकेऽ ग्नीषोमीयपुरोडाशं विधित्सुरादौ तस्योपोद्घातस्य विध्युपयोगं दर्शयति—
त्वष्टा हतपुत्र इति।
विश्वास-प्रस्तुतिः
यद् +++(आहवनीयम् पीत-शेषेण सोमेन)+++ अव॑र्तय॒त् तद् वृ॒त्रस्य॑ वृत्र॒त्वम् ।
Keith
In that he cast it (avartayat), Vrtra is Vrtra;
मूलम्
यदव॑र्तय॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वम् ।
भट्टभास्कर-टीका
यदिति । यस्माद् एनम् आहवनीयं त्वष्टा अवर्तयत् उपप्रावर्तयत् पीत-शेषेण सोमेनादीपयत् तस्मात्ततो जातः वृत्रः वृत्र इति व्यपदेश्यः भवति । वृतेर्ण्यन्तादौणादिकः कर्मणि रक्प्रत्ययः, ‘बहुलमन्यत्रापि’ इति णिलुक् ॥
सायण-टीका
यस्मात्कारणादस्योत्पत्त्यर्थमाहुतिमवर्तयदस्मात्कारणाद्वर्तयत्येतदर्थमिति व्युत्पत्त्या वृत्रत्वं संपन्नम्।
मूलम् (संयुक्तम्)
यदब्र॑वी॒त्स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॒तस्मा॑दस्य [8] इन्द्र॒श्शत्रु॑रभव॒त्स स॒म्भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भव॒त्स इ॑षुमा॒त्रमि॑षुमात्रव्ँ॒विष्व॑ङ्ङवर्धत॒ स इ॒माल्ँ लो॒कान॑वृणो॒द्यदि॒माल्ँ लो॒कानवृ॑णो॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वन्तस्मा॒दिन्द्रो॑ऽबिभेत्
वृत्र-जन्म
विश्वास-प्रस्तुतिः
यद् अब्र॑वी॒थ् - स्वाहेन्द्र॑-शत्रुर् वर्ध॒स्वेति॒,
तस्मा॑द् अ॒स्येन्द्र॒श् शत्रु॑र् अभवत् ।
Keith
in that he said, ‘Hail! wax great, Indra’s foe’, therefore [1] Indra became his foe.
मूलम्
यदब्र॑वी॒त्स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॑ ।
तस्मा॑दस्ये॑न्द्र॒श्शत्रु॑रभवत् ।
भट्टभास्कर-टीका
2यदब्रवीदिति ॥ इन्द्रस्य शत्रुर्वर्धस्व इति विवक्षन् अन्तोदात्तं इन्द्रशत्रुशब्दं आद्युदात्तम् । ततः [शदेर्ण्यन्तात्] औणादिके क्रुन्प्रत्यये ‘बहुलमन्यत्रापि’ इति णिलुक् । उक्तञ्च – ‘यथेन्द्रशत्रुस्स्वरतोपराधात्’ इति ।
सायण-टीका
यस्मात्कारणात्षष्ठासमासस्वरं विसृज्यबहुव्रीहिस्वरमुच्चारितवान्, तस्मात्कारणादिन्द्रः शातयिता यस्येति व्युत्पत्त्या वृत्रस्यास्येन्द्रो घातको ऽभूत्। शेषं पूर्वप्रपाठके व्याख्यातम्।
विश्वास-प्रस्तुतिः
स +++(वृत्रः)+++ स॒म्भव॑न्न् अ॒ग्नी-षोमा॑व् अ॒भि सम॑भवत् ।
स इ॑षु-मा॒त्रम् इ॑षु-मात्रव्ँ॒ विष्व॑ङ्ङ् अवर्धत ।
Keith
He sprang into life and came into union with Agni and Soma.
He grew on all sides an arrow(shot),
मूलम्
स स॒म्भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भवत् ।
स इ॑षुमा॒त्रमि॑षुमात्रव्ँ॒विष्व॑ङ्ङवर्धत ।
भट्टभास्कर-टीका
स संभवन्नित्यादि । व्याख्यातम् ।
विश्वास-प्रस्तुतिः
स इ॒माल्ँ लो॒कान् अ॑वृणोत् ।
यद् इ॒माल्ँ लो॒कान् अवृ॑णो॒त् - तद् वृ॒त्रस्य॑ वृत्र॒त्वम् ।
Keith
he enveloped these worlds.
Because he enveloped these worlds, therefore is Vrtra, Vrtra.
मूलम्
स इ॒माल्ँ लो॒कान॑वृणोत् ।
यदि॒माल्ँ लो॒कानवृ॑णो॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वम् ।
भट्टभास्कर-टीका
वृत्रत्वमिति । वृणोतेः त्रप्रत्ययः । इदं द्वितीयं वृत्रत्वमस्य ॥
मूलम् (संयुक्तम्)
स प्र॒जाप॑ति॒मुपा॑धाव॒च्छत्रु॑र्मेऽज॒नीति॒ तस्मै॒ वज्रँ॑ सि॒क्त्वा प्राय॑च्छदे॒तेन॑ ज॒हीति॒ तेना॒भ्या॑यत॒ ताव॑ब्रूताम॒ग्नीषोमौ॒ मा [9] प्र हा॑रा॒वम॒न्तस्स्व॒ इति॒ मम॒ वै यु॒वँ स्थ॒ इत्य॑ब्रवी॒न्माम॒भ्येत॒मिति॒ तौ भा॑ग॒धेय॑मैच्छेता॒न्ताभ्या॑मे॒तम॑ग्नीषो॒मीय॒मेका॑दशकपालम्पू॒र्णमा॑से॒ प्राय॑च्छत्
प्रजापति-वज्रम्
विश्वास-प्रस्तुतिः
तस्मा॒द् इन्द्रो॑ऽबिभेत् ।
स प्र॒जाप॑ति॒म् उपा॑धावत् -
“शत्रु॑र् मेऽज॒नी"ति॑ ।
Keith
Indra feared him. He ran up to Prajapati, (saying), ‘A foe has sprung up for me.’
मूलम्
तस्मा॒द् इन्द्रो॑ऽबिभेत् ।
स प्र॒जाप॑ति॒मुपा॑धावत् ।
शत्रु॑र्मेऽज॒नीति॑ ।
भट्टभास्कर-टीका
3स प्रजापतिमित्यादि ॥ गतम् ।
सायण-टीका
तस्य वधोपायं दर्शयति—
स प्रजापतिमिति। इन्द्रो मम कश्चिच्छत्रुर्जात इति वदन्प्रजापतिमसेवत।
विश्वास-प्रस्तुतिः
तस्मै॒ वज्रँ॑ सि॒क्त्वा प्राय॑च्छद् -
“ए॒तेन॑ ज॒ही"ति॑ ।
Keith
He dipped his bolt and gave it to him, (saying), ‘Slay with it.’
मूलम्
तस्मै॒ वज्रँ॑ सि॒क्त्वा प्राय॑च्छत् ।
ए॒तेन॑ ज॒हीति॑ ।
भट्टभास्कर-टीका
सिक्त्वा तीक्ष्णं कृत्वा । उत्पाद्येत्येके ।
सायण-टीका
तस्मा इन्द्राय स प्रजापतिर्वज्रं सिक्त्वा वृत्रमुद्दिश्य कृत्याभिमन्त्रितजलेन प्रोक्ष्यैतेन जहीनि वदन्प्रायच्छत्। जहि मारयेत्यर्थः।
विश्वास-प्रस्तुतिः
तेना॒भ्या॑यत ।
Keith
He went against (him) with it.
मूलम्
तेना॒भ्या॑यत ।
भट्टभास्कर-टीका
अथेन्द्रस्तेन वज्रेण सह वृत्रमभ्यागच्छत् ।
सायण-टीका
तेन वज्रेण सहितः स इन्द्र एनं वृत्रं हन्तुमभिलक्ष्याऽऽयताऽऽगतवान्।
अग्नी-षोमौ
विश्वास-प्रस्तुतिः
ताव् अ॑ब्रूताम् अ॒ग्नी-षोमौ॒
“मा प्र हाः॑ ।
आ॒वम् अ॒न्तस् स्व॒” इति॑ ।
Keith
Agni and Soma said, ‘Hurl it not [2]; we are within.’
मूलम्
ताव॑ब्रूताम् ।
अ॒ग्नीषोमौ॒ मा प्र हाः॑ ।
आ॒वम॒न्तस्स्व॒ इति॑ ।
भट्टभास्कर-टीका
अथ यदग्नीषोमौ पूर्वं स संभवन् वृत्रोभिसमभवत् [तौ] अग्नीषोमौ प्रहर्तुकाममब्रूतां मा त्वमावां प्रहार्षीः, ।
यं त्वं प्रहर्तुम् आरभसे अत्रान्तर्भूतौ स्वः आवामिति । हरतेर्लुङि सिचि वृद्धौ ‘बहुलं छन्दसि’ इतीडभावः ।
सायण-टीका
इत्थमुपोद्घातं तदुपयोगं चोक्त्वाऽग्नीषोमीयपुरोडाशविधिमर्थंवादेनोन्नयति—
तावब्रूतामिति। हे इन्द्र मा प्रहाः, वृत्रं मा प्रहर। आवमन्तः स्वः, आवामुभावेतस्य मुखे तिष्ठावः।
विश्वास-प्रस्तुतिः
“मम॒ वै यु॒वँ स्थ॒” इत्य् अ॑ब्रवीत् ।
“माम् अ॒भ्येत॒म्” इति॑ ।
Keith
‘Ye are mine’, he replied, ‘come to me.’
मूलम्
मम॒ वै यु॒वँ स्थ॒ इत्य॑ब्रवीत् ।
माम॒भ्येत॒मिति॑ ।
भट्टभास्कर-टीका
अथेन्द्रोऽब्रवीत् मदीया सृहृदौ युवां स्थः ।
इतिकरणो हेतौ । यस्मादेवं तस्मात् मामेवाभ्येतं त्यज्यतामयं जाल्म इति ।
सायण-टीका
तज्ज्ञात्वा स इन्द्रो ऽब्रवीत्-युवां मम स्थो वै खल्विति तस्मान्मामभ्येतं मामक्षिलक्ष्या ऽऽगच्छतम् (इति)।
विश्वास-प्रस्तुतिः
तौ भा॑ग॒धेय॑म् ऐच्छेताम् ।
Keith
They asked for a share;
मूलम्
तौ भा॑ग॒धेय॑मैच्छेताम् ।
भट्टभास्कर-टीका
अथाग्नीषोमौ भागधेयं किञ्चिदात्मीयं भागं इन्द्राल्लब्धुमैच्छताम् ।
सायण-टीका
ततो ऽग्नीषोमै त्वत्सकाशमागतयोरावयोः किं भागधेयेमिति पप्रच्छतुः।
विश्वास-प्रस्तुतिः
ताभ्या॑म् ए॒तम् अ॑ग्नीषो॒मीय॒म् एका॑दश-कपालम् पू॒र्णमा॑से॒ प्राय॑च्छत् ।
Keith
he gave them at the full moon this offering for Agni and Soma on eleven potsherds.
मूलम्
ताभ्या॑मे॒तम॑ग्नीषो॒मीय॒मेका॑दशकपालम्पू॒र्णमा॑से॒ प्राय॑च्छत् ।
भट्टभास्कर-टीका
अथ विदिताभिप्राय इन्द्रः ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे आग्नेयस्य अनुनिर्वाप्यं प्रायच्छत् प्रादात् ‘द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च’ इति छः । तस्मादग्नीषोमीयमेकादशकपालं पूर्णमासे प्रधानमेव कुर्यादिति विधिरनुमीयते ॥
सायण-टीका
स चेन्द्रः पूर्णमासे योग्नीऽषोमीयपुरोडाशः स युवयोर्भाग इति दत्तवान्। अग्नीषोमीयमेकादशपालं निर्वपेदिति विधिरत्र द्रष्टव्यः।
मूलम् (संयुक्तम्)
ताव॑ब्रूताम॒भि सन्द॑ष्टौ॒ वै स्वो॒ न श॑क्नुव॒ ऐतु॒मिति॒ स इन्द्र॑ आ॒त्मन॑श्शीतरू॒राव॑जनय॒त्तच्छी॑तरू॒रयो॒र्जन्म॒ य ए॒वँ शी॑तरू॒रयो॒र्जन्म॒ वेद॑ [10] नैनँ॑ शीतरू॒रौ ह॑त॒स्ताभ्या॑मेनम॒भ्य॑नय॒त्तस्मा॑ज्जञ्ज॒भ्यमा॑नाद॒ग्नीषोमौ॒ निर॑क्रामताम्
विश्वास-प्रस्तुतिः
ताव् अ॑ब्रूताम् -
“अ॒भि सन्द॑ष्टौ॒ वै स्वो॒, न श॑क्नुव॒ ऐतु॒म्” इति॑ ।
Keith
They said, ‘We are bitten all round, and cannot come.’
मूलम्
ताव॑ब्रूताम् ।
अ॒भि सन्द॑ष्टौ॒ वै स्वो॒ न श॑क्नुव॒ ऐतु॒मिति॑ ।
भट्टभास्कर-टीका
4अथाग्नीषोमौ लब्धभागावपि पुनरप्यब्रूतां आवामत्र वृत्रभोगे अभिसन्दष्टौ स्वः
लग्नाविव भवावः । तस्मादिमं हित्वा त्वामैतुमागन्तुं न शक्नुवः न क्षमावह इति ।
सायण-टीका
अग्नीषोमयोर्निर्गमनप्रकारं दर्शयति—
तावब्रूतामिति। वृत्रस्य मुखे दन्तपङक्तिभ्यामाभितः सम्यग्दष्टावेव वर्तावहे। तस्मादागन्तुं न शक्नुव इति उक्त
शीत-रूरौ
विश्वास-प्रस्तुतिः
स इन्द्र॑ आ॒त्मन॑श् शीत-रू॒राव् +++(=तापौ [रोगौ])+++ अ॑जनयत् ।
तच् छी॑त-रू॒रयो॒र् जन्म॑ ।
Keith
Indra produced from himself cold and fever heat;
that was the origin of cold and fever heat.
मूलम्
स इन्द्र॑ आ॒त्मन॑श्शीतरू॒राव॑जनयत् ।
तच्छी॑तरू॒रयो॒र्जन्म॑ ।
भट्टभास्कर-टीका
अथेन्द्र आत्मनश् शीतरूराख्यौ रोगविशेषौ मूलस्य जृंभणकारिणौ अजनयत् । देहस्यायासकरौ यत्नविशेषावित्येके ।
तदित्यादि । गतम् ।
सायण-टीका
इन्द्रस्तयोरागमनाय स्वात्मनः सकाशाच्छीतज्वरं तदनन्तरभाविसंतापं चोभावुत्पादितवान्।
विश्वास-प्रस्तुतिः
य ए॒वँ शी॑तरू॒रयो॒र् जन्म॒ वेद॒
नैनँ॑ शीतरू॒रौ ह॑तः।
Keith
Him who knows thus the origin of cold and fever heat [3] neither cold nor fever heat slays.
मूलम्
य ए॒वँ शी॑तरू॒रयो॒र्जन्म॒ वेद॑ ।
नैनँ॑ शीतरू॒रौ ह॑तः।
भट्टभास्कर-टीका
अथेन्द्रस्ताभ्यां शीतरूराभ्यामेनं वृत्रमभ्यनयत् अभिसंप्राप्तमकरोत् । यद्वा - अन्येनाविष्टस्य तन्मयत्वं प्रतिपन्नस्य तदात्मतया चेष्टा अभिनयः तत्कारिणं वृत्रमकरोत् । शीतरूरावावेश्य तद्भावापन्नं वृत्रमभिनयतिस्म ।
सायण-टीका
तदानीं शीतज्वरशब्दाभिधेययोर्ज्वरतापयोर्जन्म समुत्पन्नम्। तज्जन्मवेदिनं न शीतरूरौ हतो न मारयतः।
विश्वास-प्रस्तुतिः
ताभ्या॑म् एनम् अ॒भ्य॑नयत् ।
तस्मा॑ज् जञ्ज॒भ्यमा॑नाद्+++(=जृम्भमाणाद्)+++ अ॒ग्नी-षोमौ॒ निर॑क्रामताम् ।
Keith
By them he led him on, and as he gaped Agni and Soma went forth from him.
मूलम्
ताभ्या॑मेनम॒भ्य॑नयत् ।
तस्मा॑ज्जञ्ज॒भ्यमा॑नाद॒ग्नीषोमौ॒ निर॑क्रामताम् ।
भट्टभास्कर-टीका
ततः तस्माज्जञ्जभ्यमानात् शीतरूरावेशनेन आस्यं व्यादाय जृम्भमाणगात्रात् वृत्रात् अग्नीषोमौ निरक्रामतां निष्क्रान्तौ । ‘लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम्’ इति यङ् ॥
सायण-टीका
तत स इन्द्रस्ताभ्यां शीतरूराभ्यामायुधसदृशाभ्यामेनं वृत्रमभिलक्ष्य प्रयुक्ताभ्यामनयदेनं वृत्रं संयोजितवान्। तदा शीतज्वरसंतापाभ्यां जञ्जभ्यमानान्मुखविदारणं कुर्वतस्तस्माद्वृत्रादग्नीषोमौ निर्गतौ।
जृम्भणे वचनम्
मूलम् (संयुक्तम्)
प्राणापा॒नौ वा ए॑न॒न्तद॑जहिताम्प्रा॒णो वै दक्षो॑ऽपा॒नᳵ क्रतु॒स्तस्मा॑ज्जञ्ज॒भ्यमा॑नो ब्रूया॒न्मयि॑ दक्षक्र॒तू इति॑ प्राणापा॒नावे॒वात्मन्ध॑त्ते॒ सर्व॒मायु॑रेति
विश्वास-प्रस्तुतिः
प्रा॒णा॒पा॒नौ वा ए॑न॒न् तद् अ॑जहिताम् ।
Keith
Then expiration and inspiration deserted him;
मूलम्
प्रा॒णा॒पा॒नौ वा ए॑न॒न्तद॑जहिताम् ।
भट्टभास्कर-टीका
5अथ प्रसङ्गात् इदं परमुच्यते । यदाऽग्नीषोमौ वृत्रमत्यजतां तत् तदा प्राणापानावेव खल्वेतं वृत्रमजहितां अत्यजताम् ।
सायण-टीका
प्रसङ्गान्मन्त्रनुत्पाद्य विनियुङ्क्ते—
प्राणापानाविति। अग्नीषोमौ यदा निर्गतौ तदानीं प्राणापानावेवैनं वृत्रं त्यक्तवन्तौ।
विश्वास-प्रस्तुतिः
प्रा॒णो वै दक्षो॑, ऽपा॒नᳵ क्रतुः॑ ।
Keith
skill is expiration, intelligence is inspiration;
मूलम्
प्रा॒णो वै दक्षो॑ऽपा॒नᳵ क्रतुः॑ ।
भट्टभास्कर-टीका
किञ्च - प्राणो दक्षः दक्षयिता । अपानः क्रतुः कारयिता ।
सायण-टीका
तयोश्च प्राणापानयोः क्रमेण दक्षः ऋतुरित्येव नामनी।
विश्वास-प्रस्तुतिः
तस्मा॑ज् जञ्ज॒भ्यमा॑नो ब्रूया॒न् -
“मयि॑ दक्षक्र॒तू” इति॑ ।
Keith
therefore one who gapes should say, ‘Skill and intelligence (remain) in me’;
मूलम्
तस्मा॑ज्जञ्ज॒भ्यमा॑नो ब्रूयात् ।
मयि॑ दक्षक्र॒तू इति॑ ।
भट्टभास्कर-टीका
तस्माज्जञ्जभ्यमानो ब्रूयान्मयि दक्षक्रतू इति न निष्क्रान्ताविति ।
सायण-टीका
यस्मात्कारणादतेस्तयोर्नामनी तस्मात्कारणात्ऋतुकाले जञ्जभ्यमानो मुखविदारणरूपं गात्रविनाशं कुर्वन्यजमानो पथि दक्षक्रतु इति मन्त्रं ब्रूयात्।
विश्वास-प्रस्तुतिः
प्रा॒णा॒पा॒नाव् ए॒वात्मन् ध॑त्ते ।
Keith
verily he places expiration and inspiration in himself
मूलम्
प्रा॒णा॒पा॒नावे॒वात्मन्ध॑त्ते ।
भट्टभास्कर-टीका
एवं ब्रुवन्प्राणापानावात्मनि स्थापयते ।
सायण-टीका
तिष्ठेतामिति मन्त्रवाक्यशेषस्याध्याहारः। तेन मन्त्रपाठेन प्राणापानावेव स्वात्मनि स्थिरौ धारितवान्भवति।
विश्वास-प्रस्तुतिः
सर्व॒म् आयु॑र् एति ।
Keith
and lives all his days.
मूलम्
सर्व॒मायु॑रेति ।
भट्टभास्कर-टीका
ततस्सर्वमायुः प्राप्नोति । इदं च क्रत्वङ्गमेवेति राद्धान्तितं - ‘अहीनवत्पुरुषधर्मस्तदर्थत्वात्’ इत्यत्र ॥
सायण-टीका
ततोऽपमृत्युपरिहारेण सर्वमायुः प्राप्नोति।
मूलम् (संयुक्तम्)
स दे॒वता॑ वृ॒त्रान्नि॒र्हूय॒ वार्त्र॑घ्नँ ह॒विᳶ पू॒र्णमा॑से॒ निर॑वप॒द्घ्नन्ति॒ वा ए॑नम्पू॒र्णमा॑स॒ आ [11] अ॒मा॒वा॒स्या॑याम्प्याययन्ति॒ तस्मा॒द्वार्त्र॑घ्नी पू॒र्णमा॒सेऽनू॑च्येते॒ वृध॑न्वती अमावा॒स्या॑याम्
वार्त्रघ्नी, वृधन्वती
विश्वास-प्रस्तुतिः
स +++(इन्द्रो)+++ दे॒वता॑ वृ॒त्रान् नि॒र्हूय॒
वार्त्र॑-घ्नँ ह॒विᳶ पू॒र्ण-मा॑से॒ निर॑वपत् ।
Keith
He, having called off the gods from Vrtra,
offered at the full moon the oblation to the Vrtra slayer;
मूलम्
स दे॒वता॑ वृ॒त्रान्नि॒र्हूय॒ वार्त्र॑घ्नँ ह॒विᳶ पू॒र्णमा॑से॒ निर॑वपत् ।
भट्टभास्कर-टीका
6अथाज्यभागयोर्वीशेष उच्यते - अथेन्द्रो देवता अग्नीषोमादीन् वृत्रान्निर्हूय निर्गतान् कृत्वा हन्तुं योग्यं वृत्रं कृत्वा पूर्णमासे वार्त्रर्घ्नं वृत्रहस्सम्बन्धि हविराज्यभागलक्षणम् । यद्वा - वृत्रहन्त्रर्थं हविराज्यं निरवपत् स्थाल्यां प्रथमं कृतवान् ।
सायण-टीका
अथानेन वृत्रवधप्रसङ्गेनाऽऽज्यभागमन्त्रयुगलयोः कालभेदेन व्यवस्थां विधत्ते—
स देवतेति। स इन्द्रो ऽ ग्नीषोमप्रमुखा वृत्रमुखे स्थिताः सर्वा देवतां वुत्रान्निर्हूय निःसार्य वृत्रहननहेतुभूतं हविराज्यभागद्रव्यरूपं पूर्णमासे संपादितवान्।
विश्वास-प्रस्तुतिः
घ्नन्ति॒ वा ए॑नम् पू॒र्णमा॑से ।
आमा॑वा॒स्या॑याम् प्याययन्ति ।
Keith
they slay him at the full moon [4],
but make him swell at the new moon;
मूलम्
घ्नन्ति॒ वा ए॑नम्पू॒र्णमा॑से ।
आमा॑वा॒स्या॑याम्प्याययन्ति ।
भट्टभास्कर-टीका
हेतुमाह - एनं हि वृत्रं पूर्णमासे देवा घ्नन्ति तमोरूपत्वाद्विनाशोपायस्तदा भवति ।
सायण-टीका
लोके ऽप्येनं वृत्रमावरणात्मकं वृत्रान्धकाररूपेणावस्थितं शत्रुं पूर्णिमादिने ज्योत्स्नया विनाशयन्ति। अमावस्यायां ज्योत्स्नाया अभावाद्वृत्ररूपमन्धकारमाप्याययन्ति सर्वतो वर्धयन्ति।
विश्वास-प्रस्तुतिः
तस्मा॒द् वार्त्र॑घ्नी पू॒र्णमा॒से ऽनू॑च्येते॒,
वृध॑न्वती अमावा॒स्या॑याम् ।
Keith
therefore verses are uttered at the full moon referring to the slaying of Vrtra,
at the new moon referring to his increase.
मूलम्
तस्मा॒द्वार्त्र॑घ्नी पू॒र्णमा॒सेऽनू॑च्येते॒ वृध॑न्वती अमावा॒स्या॑याम् ।
भट्टभास्कर-टीका
तस्माद्वार्त्रघ्नी वृत्रहन्तुः सम्बन्धिन्यौ तल्लिङ्गवत्यौ ऋचौ पूर्णमासेऽनूच्येते आज्यभागयोः पुरोनुवाक्ये क्रियेते [… ते ‘अग्निर्वृत्राणि’ ‘त्वं सोम’ इत्येते । वृधन्वती वृधिधातुयुक्ते अमावास्यायां] ‘अग्निः प्रत्नेन’ ‘सोम गीर्भिः’ इत्येते । वृधेरौणादिके कनिन्प्रत्यये मतुप्, अनो नुट्च । वार्त्रघ्न्योः वृत्रस्यैव वृद्धिश्शब्देनोच्यते । स एव पौर्णमासे हन्यते । वृधन्वत्योस्तु सोमस्य वृद्धिश्शब्देनोच्यते । तद्वृद्ध्या वृत्रस्य वृद्धिरित्यर्थात् गम्यते । वृत्रश्च तदानीं वर्धते इति समृद्धिः । उभयत्रापि ‘वाच्छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् ॥
सायण-टीका
यस्मादेवं तस्माद्वृत्रहननशब्दलाञ्छिते ऋचावाज्यभागयोः पूर्णमासे पुरोनुवाक्ये कर्तव्ये। वृधिधातुयुक्ते ऋचावमावास्यायां पुरोनुवाक्ये कर्तव्ये अग्निर्वृत्राणि जङ्घमत्व ँ राजोत वृत्रहेत्यनयोर्वृत्रहननप्र तीतेतेरे ऋचौ वार्त्रघ्न्यौ कविर्विप्रेण वावृधे वर्धयामो वचोविद इत्येते ऋचौ वधिधातुयुक्तत्वाद्वृधन्वत्यो।
मूलम् (संयुक्तम्)
तत्सँ॒स्थाप्य॒ वार्त्र॑घ्नँ ह॒विर्वज्र॑मा॒दाय॒ पुन॑र॒भ्या॑यत॒ ते अ॑ब्रूता॒न्द्यावा॑पृथि॒वी मा प्र हा॑रा॒वयो॒र्वै श्रि॒त इति॒ ते अ॑ब्रूताव्ँ॒वरव्ँ॑वृणावहै॒ नक्ष॑त्रविहिता॒ऽहमसा॒नीत्य॒साव॑ब्रवीच्चि॒त्रवि॑हिता॒ऽहमिती॒यन्तस्मा॒न्नक्ष॑त्रविहिता॒ऽसौ चि॒त्रवि॑हिते॒यय्ँय ए॒वन्द्यावा॑पृथि॒व्योः [12]
वरव्ँ॒वेदैनव्ँ॒वरो॑ गच्छति॒ स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्रम॑ह॒न्ते दे॒वा वृ॒त्रँ ह॒त्वाऽग्नीषोमा॑वब्रुवन्ह॒व्यन्नो॑ वहत॒मिति॒ ताव॑ब्रूता॒मप॑तेजसौ॒ वै त्यौ वृ॒त्रे वै त्ययो॒स्तेज॒ इति॒ ते॑ऽब्रुव॒न्क इ॒दमच्छै॒तीति॒ गौरित्य॑ब्रुव॒न्गौर्वाव सर्व॑स्य मि॒त्रमिति
विश्वास-प्रस्तुतिः
तत् सँ॒स्थाप्य॒ वार्त्र॑घ्नँ ह॒विर्,
वज्र॑म् आ॒दाय॒ पुन॑र् अ॒भ्या॑यत।
Keith
Having performed the oblation to the Vrtra slayer, he took his bolt and again went against (him).
मूलम्
तत्सँ॒स्थाप्य॒ वार्त्र॑घ्नँ ह॒विर्वज्र॑मा॒दाय॒ पुन॑र॒भ्या॑यत।
भट्टभास्कर-टीका
7तत्संस्थाप्येत्यादि ॥ गतम् ।
सायण-टीका
प्रासङ्गिकीमाज्यभागव्यवस्थां विधाय प्रकृतं वृत्रवधप्रकारं दर्शयति—
तत्स ँ स्थाप्येति। स इन्द्रो वृत्रहननहेतुभूतमाज्यभागरूपं हविः संपूर्णंकृत्वा पूर्ववद्वज्रमादाय पुनरपि वृत्रमभिलक्ष्य हन्तुमागतवान्।
नक्षत्र-चित्र-विहितत्वम्
विश्वास-प्रस्तुतिः
ते अ॑ब्रूताम् द्यावा॑पृथि॒वी -
“मा प्र हाः॑ - आ॒वयो॒र् वै श्रि॒त” इति॑ ।
Keith
Sky and earth said, ‘Hurl it not; he rests in us two.’
मूलम्
ते अ॑ब्रूताम् ।
द्यावा॑पृथि॒वी मा प्र हा॑रा॒वयो॒र्वै श्रि॒त इति॑ ।
भट्टभास्कर-टीका
ते इत्यादि । पूर्वं वर्धमानो वृत्रो ये द्यावापृथिव्यौ अभिसमभवत् ते अब्रूतां मा आवां प्रहाः प्रहार्षीः आवयोः खल्वसौ वृत्रः श्रितः तस्मादस्मदाश्रयं प्रहर्तुं नार्हसीति ।
विश्वास-प्रस्तुतिः
ते अ॑ब्रूता॒म् -
“वरव्ँ॑ वृणावहै ।”
“नक्ष॑त्र-विहिता॒ऽहम् असा॒नी"त्य् अ॒साव् अ॑ब्रवीत् ,
“चि॒त्र-वि॑हिता॒ऽहम्” इती॒यम्।
Keith
They said, ‘Let us choose a boon.’
‘May I be adorned with the Naksatras’, said yonder (sky);
‘May I be adorned with variegated things’, said this (earth).
मूलम्
ते अ॑ब्रूताम् ।
वरव्ँ॑वृणावहै ।
नक्ष॑त्रविहिता॒ऽहमसा॒नीत्य॒साव॑ब्रवीत् ।
चि॒त्र-वि॑हिता॒ऽहमिती॒यम् ।
भट्टभास्कर-टीका
पुनश्च ते अब्रूतां - वरमित्यादि । नक्षत्रविहिता नक्षत्रैर्विविधं विहिता स्थापिता नक्षत्राधीनस्थितिः । यद्वा - नक्षत्रैः विशिष्टावस्थानशरीरा ।
सायण-टीका
तदानीं द्यावापृथिव्याविन्द्रब्रूताम् अयं वृत्रो भूमिमारभ्य द्युलोकपर्यन्तं व्याप्याऽऽ वयोराश्रितो वर्तते। तस्मान्म (दस्म) दीयमेनं न प्रहरेति। तत इन्द्रस्यानङ्गीकारमवलोक्य प्रहारमभ्यनुज्ञातुमुत्कोचत्वेन वरं वृतवत्यौ। नक्षत्रैर्विहिता ऽलंकृता स्यामिति दिवो वरः।
विश्वास-प्रस्तुतिः
तस्मा॒न् नक्ष॑त्र-विहिता॒ऽसौ, चि॒त्रवि॑हिते॒यम् ।
य ए॒वन् द्यावा॑पृथि॒व्योः वरव्ँ॒ वेदै॑नव्ँ॒ वरो॑ गच्छति
Keith
Therefore yonder (sky) is adorned with the Naksatras, this (earth) with variegated things. He who knows thus the boon of sky and earth [5] attains a boon.
मूलम्
चि॒त्रवि॑हिता॒ऽहमिती॒यम् ..
तस्मा॒न्नक्ष॑त्रविहिता॒ऽसौ चि॒त्रवि॑हिते॒यम् ।
य ए॒वन्द्यावा॑पृथि॒व्योः वरव्ँ॒वेदैनव्ँ॒ (/वेदै॑नं॒) वरो॑ गच्छति।
भट्टभास्कर-टीका
चित्रविहिता चित्रैः नानाविधैः पूजितैर्वा कुलशैलैः समुद्रादिभिः विहिता तदधीनस्थितिः, तद्वित्शिष्टावस्थाना वा । उभयत्रापि ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।
सायण-टीका
मनुष्यपशुवृक्षनगतदीसमुद्रादिरूपेण विचित्रेण विहिता ऽ लंकृत स्यामिति पृथिव्या वरः। तेन वरेण ते तथैव स्याताम्। एतद्वराभिज्ञो ऽ पि स्वाभीष्टं वरं प्राप्नोति।
विश्वास-प्रस्तुतिः
स आ॒भ्याम् ए॒व प्रसू॑त॒
इन्द्रो॑ वृ॒त्रम् अ॑हन् ।
Keith
Indra thus impelled by these two slew Vrtra.
मूलम्
स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्रम॑हन् ।
भट्टभास्कर-टीका
स इत्यादि । तत्र इन्द्रः द्यावापृथिवीभ्यां प्रसूतः अनुज्ञातः वृत्रं हतवान् ।
सायण-टीका
ततः स इन्द्रो द्यावापृथिवीभ्यामनुज्ञातो वृत्रं हतवान्।
अग्नीषोमयोस् तेजसी
विश्वास-प्रस्तुतिः
ते दे॒वा वृ॒त्रँ ह॒त्वा ऽग्नीषोमा॑व् अब्रुवन् ।
ह॒व्यन् नो॑ वहत॒म् इति॑ ।
Keith
The gods having slain Vrtra said to Agni and Soma, ‘Bear the offering for us.’
मूलम्
ते दे॒वा वृ॒त्रँ ह॒त्वाऽग्नीषोमा॑वब्रुवन् ।
ह॒व्यन्नो॑ वहत॒मिति॑ ।
भट्टभास्कर-टीका
अथ ते देवा इन्द्रेण राज्ञा वृत्रं हत्वा ।
अग्नीषोमावित्यादि । गतम् ।
सायण-टीका
अथाभिहितस्याग्नीषोमीयपुरोडाशस्य देवो प्रशंसति—
ते देवा इति। इन्द्रयुक्ताः पार्श्ववर्तिनः सर्वे देवा वृत्रं हत्वा तन्मुखान्निसृतावग्नीषोमौ प्रति हव्यमस्मदर्थे वहतमित्यब्रुवन्।
विश्वास-प्रस्तुतिः
ताव् अ॑ब्रूताम् -
“अप॑तेजसौ॒ वै त्यौ +++(=इमाव् [आवाम्])+++ ।
वृ॒त्रे वै त्ययो॒स् तेज॒” इति॑।
Keith
They said, ‘We two have lost our brilliance, our brilliance is in Vrtra.’
मूलम्
ताव॑ब्रूताम् ।
अप॑तेजसौ॒ वै त्यौ ।
वृ॒त्रे वै त्ययो॒स् तेज॒ इति॑।
भट्टभास्कर-टीका
त्याविति । ताव् इमौ वाम् अपगत-तेजस्कौ स्वः
सायण-टीका
ततस्तावग्नीषोमौ तान्देवान्प्रत्येवमब्रूताम् त्यौ तथाविधौ वृत्रेण चिरं दंशनादपगततेजस्कावेव संपन्नौ, त्ययोस्तथाविधयोस्तेजः सामर्थ्यं वृत्र एव स्थितमिति।
विश्वास-प्रस्तुतिः
ते॑ऽब्रुव॒न् -
“क इ॒दम् +++(ततो लब्धुम्)+++ अच्छै॒ती"ति॑ ।
“गौर्” इत्य् अ॑ब्रुवन् ।
“गौर् वाव सर्व॑स्य मि॒त्रम्” इति॑ ।
Keith
They said, ‘Who is there to go for it?’
‘The cow’, they said,
‘The cow is the friend of all.’
मूलम्
वृ॒त्रे वै त्ययो॒स्तेज॒ इति॒ ते॑ऽब्रुवन् ।
क इ॒दमच्छै॒तीति॑ ।
गौरित्य॑ब्रुवन् ।
गौर्वाव सर्व॑स्य मि॒त्रमिति॑ ।
भट्टभास्कर-टीका
वृत्रे खलु त्ययोस्तेज इति । ते देवा अब्रुवन् को नामेदं तेन आप्तुं गच्छतीति।
पुनः स्वयमेव देवा अब्रुवन् ननु गौः सर्वस्य मित्रं भवति तस्मात् सर्वत्र गच्छन्तीमिमां न कश्चिन्निवारयति तस्मादियमेव गत्वा तत्तेज आहरत्विति ॥
सायण-टीका
ते देवा अब्रुवन्परस्परं को नामेदं तेज आप्तुं गच्छतीति। तत्र बुद्धिमन्तो गोः सर्वमित्रत्वेन द्वैराभावाद्गौरेव वृत्रशरीरे गत्वा तेजः समानेष्यतित्युक्तवन्तः।
मूलम् (संयुक्तम्)
साऽब्र॑वीत् [13] वरव्ँ॑वृणै॒ मय्ये॒व स॒तोभये॑न भुनजाध्वा॒ इति॒ तद्गौराह॑र॒त्तस्मा॒द्गवि॑ स॒तोभये॑न भुञ्जत ए॒तद्वा अ॒ग्नेस्तेजो॒ यद्घृ॒तमे॒तत्सोम॑स्य॒ यत्पयो॒ य ए॒वम॒ग्नीषोम॑यो॒स्तेजो॒ वेद॑ तेज॒स्व्ये॑व भ॑वति
विश्वास-प्रस्तुतिः
साऽब्र॑वी॒द् -
“वरव्ँ॑ वृणै ।
मय्य् ए॒व स॒तोभये॑न +++(→घृतेन पयसा च)+++ भुनजाध्वा॒”
इति॑ ।
Keith
She said [6], ‘Let me choose a boon; ye shall feed off both when they are in me.’
मूलम्
साऽब्र॑वीत् ।
वरव्ँ॑वृणै ।
मय्ये॒व स॒तोभये॑न भुनजाध्वा॒ इति॑ ।
भट्टभास्कर-टीका
8साऽब्रवीदित्यादि ॥ यथाऽऽज्ञापितं देवैः तदिदं क्रियत एव मया, अहमपि किञ्चित् वरं वृणै वरितुं प्राप्तकालाऽहम् ।
किं तदिति चेत्?
इदं विज्ञाप्यते - मय्येव सता उभयेन घृतेन पयसा च भुनजाध्वै सुहिता भवितुमर्हथ ।
भोगेन सौहित्यं लक्ष्यते ।
लेटि आडागमः, ‘वैतोन्यत्र’ इत्यैकारः, ‘छन्दस्युभयथा’ इति लेटि आर्धधातुकत्वेन ङित्त्वाभावात् ‘श्नसोरल्लोपः’ इति न प्रवर्तते ।
सायण-टीका
साऽपि गौरुत्कोचत्वेन वरमेवमयाचत- अनयोः संबन्धि घृतपयोरूपं तेजो वृत्रशरीरदानेष्यामि, आनीतं च तन्मय्येत सर्वदा तिष्टतु, मय्येव स्थितेन तेजोभयेन तदा तदा स्वीकृतेन भोजनं निर्वर्तयध्वामिति।
विश्वास-प्रस्तुतिः
तद् गौर् आह॑रत् ।
तस्मा॒द् गवि॑ स॒तोभये॑न भुञ्जते ।
Keith
The cow brought the (brilliance); therefore they feed off both things that are in the cow;
मूलम्
तद् गौर् आह॑रत् ।
तस्मा॒द् गवि॑ स॒तोभये॑न भुञ्जते ।
सायण-टीका
तमिमं वरं लब्ध्वा तत्तेजो गौरानयत् तस्माद्वरवृतत्वाल्लोके ऽ पि निरन्तरं गवि तिष्ठतैव तेजसा बृतपयोरूपेणोभयेन तदा तदा स्वीकृतेन सर्वे भोजनं निष्पादयन्ति।
विश्वास-प्रस्तुतिः
ए॒तद्वा अ॒ग्नेस् तेजो॒ यद् घृ॒तम्,
ए॒तत् सोम॑स्य॒ यत् पयः॑ ,
Keith
ghee indeed is the brilliance of Agni, milk the brilliance of Soma.
मूलम्
ए॒तद्वा अ॒ग्नेस्तेजो॒ यद्घृ॒तम्,
ए॒तत्सोम॑स्य॒ यत्पयः॑ ,
भट्टभास्कर-टीका
तदित्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
य ए॒वम् अ॒ग्नीषोम॑यो॒स् तेजो॒ वेद॑ -
तेज॒स्व्ये॒॑व भ॑वति ।
Keith
He who knows thus the brilliance of Agni and Soma becomes brilliant.
मूलम्
य ए॒वम॒ग्नीषोम॑यो॒स्तेजो॒ वेद॑ ।
ते॒ज॒स्व्ये॑व भ॑वति ।
सायण-टीका
तत्र यद्घृतमेतदेवाग्नेस्तेजो यत्पय एतदेव सोमस्य तेजस्तदुभयवेदनेन तेजस्वी भवतीति।
देवता
मूलम् (संयुक्तम्)
ब्रह्मवा॒दिनो॑ वदन्ति किन्देव॒त्य॑म्पौर्णमा॒समिति॑ प्राजाप॒त्यमिति॑ ब्रूया॒त्तेनेन्द्र॑ञ्ज्ये॒ष्ठम्पु॒त्रन्नि॒रवा॑सायय॒दिति॒ तस्मा॑ज्ज्ये॒ष्ठम्पु॒त्रन्धने॑न नि॒रव॑साययन्ति ॥ [14]
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति -
“किन्-दे॒व॒त्य॑म् पौर्णमा॒सम्” इति॑ ।
Keith
The theologians say, ‘What is the deity of the full moon (rite)?’
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
कि॒न्दे॒व॒त्य॑म्पौर्णमा॒समिति॑ ।
भट्टभास्कर-टीका
9आज्यभागयोर्वीधिः - ब्रह्मवादिन इत्यादि ॥ कस्यै देवतायै इदम् । ‘देवतान्तात्तादर्थ्ये यत्’ । पौर्णमास्यां कार्यं कर्म पौर्णमासम् ।
सायण-टीका
तदिदमग्नीषोमीयपुरोडाशरूपं पौर्णमासकर्म प्रजापतिसंबन्धित्वेनेन्द्रसंबन्धित्वेनं च प्रशंसति—
ब्रह्मवादिन इति। नात्र प्रजापतेर्हविर्भोक्तृत्वेन पौर्णमासदेवतात्वं, किंतु तत्कर्मस्रष्ष्टृत्वेन।
विश्वास-प्रस्तुतिः
प्रा॒जा॒प॒त्यम् इति॑ ब्रूयात् -
तेनेन्द्र॑ञ् ज्ये॒ष्ठम् पु॒त्रन् नि॒रवा॑सायय॒द्
इति॑ ।
Keith
He should reply, ‘Prajapati; by means of it he established his eldest son, Indra.’
मूलम्
कि॒न्दे॒व॒त्य॑म्पौर्णमा॒समिति॑ ।
प्रा॒जा॒प॒त्यमिति॑ ब्रूयात् ।
तेनेन्द्र॑ञ्ज्ये॒ष्ठम्पु॒त्रन्नि॒रवा॑सायय॒दिति॑ ।
भट्टभास्कर-टीका
तदिदं किंदेवत्यमिति यावद्ब्रह्मवादिनः पृच्छेयुः तदा ब्रूयादुत्तरं - प्राजापत्यमिति । प्रदर्शनार्थत्वात् आमावास्यमपि गृह्यते ।
यदुक्तं ‘परमेष्ठिनो वा एष यज्ञोग्र आसीत्’ इति । तदवसरे स्मारयति । इन्द्रग्रहणं चोपलक्षणं तत्रोक्तानां त्रयाणां इन्द्राग्निसोमानाम् । एतदुक्तं भवति - प्रशस्ततमान् पुत्रान् इन्द्राग्निसोमान् प्रजापतिरनेन कर्मणा निरवासाययत् देवान्तरेभ्यो व्यावृत्तानकरोत् प्रशस्ततमान् मन्यमानो ज्येष्ठभागमिन्द्राग्न्यादिभ्यः कर्मैतदुक्तवानिति ।
सायण-टीका
तच्च पूर्वकाण्ड उदाहृतम्–“प्रजापतिर्यज्ञानसृजताग्निहोत्रं चाग्निष्टोमं च पौर्णमासीं चोक्थ्यं च” इत्यादि। स च प्रजापतिस्तेन पौर्णमासकर्मणा स्वकीयं ज्येष्ठं पुत्रमिदं निरवासाययन्निःशेषवित्तदानेन स्थिरानिवासमकरोत्।
एतदपि पूर्वकाण्ड एव स्पष्टमुदाहृतम् “तेनेन्द्रं निरवासाययत्तेनेन्द्र परमां काष्ठामगच्छत्” इति। यथा प्रजापतिर्यज्ञान्तसर्ज तथेन्द्रोऽप्यग्नीषोमौ वृत्रान्निःसार्य ताभ्यामिमं पुरोडाशं दत्तवानिति अस्ति प्रजापतेरिवेन्द्रस्यापि संबन्धः।
विश्वास-प्रस्तुतिः
तस्मा॑ज् ज्ये॒ष्ठम् पु॒त्रन् धने॑न नि॒रव॑साययन्ति ॥
Keith
Therefore they establish their eldest sons with wealth.
मूलम्
तस्मा॑ज्ज्ये॒ष्ठम्पु॒त्रन्धने॑न नि॒रव॑साययन्ति ॥
भट्टभास्कर-टीका
तस्मादित्यादि । वयसा विद्यादिना वा प्रशस्यतमं पुत्रं धनेन निरवसाययन्ति पुत्रान्तरेभ्यो व्यावृत्तमधिकधनं कुर्वन्ति पितरः । ‘शाच्छासाह्वाव्यावेपाम्’ इति युक्, ‘गतिर्गतौ’ इति पूर्वस्य निघाताभावः ‘उदात्तवता तिङा’ इति समासः ॥
इति द्वितीये पञ्चमे द्वितीयोऽनुवाकः ॥
सायण-टीका
अस्मात्प्रजापतिरिन्द्रं निरवासाययत्तस्माल्लोके ऽ पि ज्येष्ठं पुत्रं धनेन निरवसाययन्ति निःशेषमायुषो ऽ वसानं धनेन युक्तो यथा प्राप्नोति तथा कुर्वन्तीत्यर्थः।