०१ विश्वरूपः रजस्वला च

प्रजापतिः ऋषिः ।

विश्वरूपस् त्वाष्ट्रः

मूलम् (संयुक्तम्)

वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्रᳶ पु॒रोहि॑तो दे॒वाना॑मासीत्स्व॒स्रीयोऽसु॑राणा॒न्तस्य॒ त्रीणि॑ शी॒र्षाण्या॑सन्त्सोम॒पानँ॑ सुरा॒पान॑म॒न्नाद॑नँ॒ स प्र॒त्यक्ष॑न्दे॒वेभ्यो॑ भा॒गम॑वदत्प॒रोक्ष॒मसु॑रेभ्य॒स्सर्व॑स्मै॒ वै प्र॒त्यक्ष॑म्भा॒गव्ँव॑दन्ति॒ यस्मा॑ ए॒व प॒रोक्षव्ँ॒वद॑न्ति॒ तस्य॑ भा॒ग उ॑दि॒तस्तस्मा॒दिन्द्रो॑ऽबिभेदी॒दृङ्वै रा॒ष्ट्रव्ँवि प॒र्याव॑र्तय॒तीति

विश्वास-प्रस्तुतिः

वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्रᳶ पु॒रोहि॑तो दे॒वाना॑म् आसीत् ।

Keith

Viśvarupa, son of Tvastr, was the domestic priest of the gods,

मूलम्

वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्रᳶ पु॒रोहि॑तो दे॒वाना॑मासीत् ।

पद-पाठः

वि॒श्वरू॑प॒ इति॑ वि॒श्व-रू॒पः॒ । वै । त्वा॒ष्ट्रः । पु॒रोहि॑त॒ इति॑ पु॒रः-हि॒तः॒ । दे॒वाना॑म् । आ॒सी॒त् ।

भट्टभास्कर-टीका

1अथ दर्शपूर्णमासब्राह्मणं प्राजापत्यं काण्डं विश्वरूप इत्यादयः षडनुवाकाः । तत्राग्नीषोमीयमेकादशकपालं पूर्णमासे विधास्यन् तदर्थमर्थवादं प्रस्तौति - विश्वरूपो नाम त्वष्टुः पुत्रः देवानां पुरोहितः आसीत् । ‘पुरोऽव्ययम्’ इति गतित्वात् ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् ।

सायण-टीका

तत्र द्वितीयानुवाके पौर्णमासीगतमग्नीषोमीयपुरोडाशं विधित्सुस्तदुपोद्घातत्वेन प्रथमानुवाके कांचिदाख्यायिकामाह—

विश्वरूपो वै इति। विश्वानि बहुविधानि रूपाणि यस्यासौ विश्वरूपः। त्रिभिः शिरोभिरुपेतत्वाद्विश्वरूपत्वम्। या विश्वरूपनामकस्त्वष्टुः पुत्रः स देवानां पुरोहितो न तु शरीरसंबन्धी,

विश्वास-प्रस्तुतिः

स्व॒स्रीयो ऽसु॑राणाम् +++(आसीत्)+++।

Keith

and the sister’s son of the Asuras.

मूलम्

स्व॒स्रीयोऽसु॑राणाम् +++(आसीत्)+++।

पद-पाठः

स्व॒स्रीयः॑ । असु॑राणाम् ।

भट्टभास्कर-टीका

असुराणां स्वस्रीयः स्वसुः पुत्रः । ‘स्वसुश्छः’ इति छः, ईयादेशश्च ।

सायण-टीका

असुराणां तु भागिनेयः।

विश्वास-प्रस्तुतिः

तस्य॒ त्रीणि॑ शी॒र्षाण्य् आ॑सन् -
सोम॒-पानँ॑ सुरा॒-पान॑म् अ॒न्नाद॑नम् ।

Keith

He had three heads, one which drank Soma, one Sura, and one which ate food.

मूलम्

तस्य॒ त्रीणि॑ शी॒र्षाण्या॑सन् ।
सोम॒पानँ॑ सुरा॒पान॑म॒न्नाद॑नम् ।

पद-पाठः

तस्य॑ । त्रीणि॑ । शी॒र्षाणि॑ । आ॒स॒न् । सो॒म॒पान॒मिति॑ सोम-पान॑म् । सु॒रा॒पान॒मिति॑ सुरा-पान॑म् । अ॒न्नाद॑न॒मित्य॑न्न-अद॑नम् ।

भट्टभास्कर-टीका

तस्य सोमपानादीनि त्रीणि शीर्षाण्यासन् ‘शीर्षन् छन्दसि’ इति शीर्षादेशः ।
सोमः प्रीयते अनेन इति करणे ल्युट् । एवं सर्वत्र ।

सायण-टीका

स च सात्विकेन शिरसा सोमं पिबति। राजसेनान्नमत्ति। तापसेन सुरां पिबति।

वञ्चनम्

विश्वास-प्रस्तुतिः

स प्र॒त्यक्ष॑न् दे॒वेभ्यो॑ भा॒गम् अ॑वदत् ।

Keith

He promised openly the share to the gods,

मूलम्

स प्र॒त्यक्ष॑न्दे॒वेभ्यो॑ भा॒गम॑वदत् ।

पद-पाठः

3 । सः । प्र॒त्यक्ष॒मिति॑ प्रति-अक्ष॑म् । दे॒वेभ्यः॑ । भा॒गम् । अ॒व॒द॒त् ।

भट्टभास्कर-टीका

स देवेभ्यः प्रत्यक्षं भागमवदत् यूयमेव भागार्हा इति देवानां सन्निधौ देवानवदत् । प्रत्यक्षपरोक्षशब्दौ व्याख्यातौ ।

सायण-टीका

स च यज्ञमण्डपेषु गत्वा सर्वेषां श्रोत्रप्रत्यक्षं यथा भवति तथा देवेभ्यो हविर्भागो युक्त इति वदति।

विश्वास-प्रस्तुतिः

प॒रोक्ष॒म् असु॑रेभ्यः +++(भागमवदत्)+++ ।

Keith

secretly to the Asuras.

मूलम्

प॒रोक्ष॒मसु॑रेभ्यः +++(भागमवदत्)+++ ।

पद-पाठः

प॒रोक्ष॒मिति॑ परः-अक्ष॑म् । असु॑रेभ्यः ।

भट्टभास्कर-टीका

असुरेभ्यस्तु परोक्षं भागमवदत् स्वस्रीयत्वात्तेषामसन्निधावेवासुरा भागार्हा इत्यवदत् ।

सायण-टीका

सर्वेषां श्रोत्रप्रत्यक्षं यथा भवति तथा रहस्य ऋत्विग्भिः सहायं हविर्भागोऽसुरेभ्यो युक्तोऽतस्तानेवोद्दिश्य प्रयच्छतेति स एवं वदति।

विश्वास-प्रस्तुतिः

सर्व॑स्मै॒ वै प्र॒त्यक्ष॑म् भा॒गव्ँ व॑दन्ति +++(अपहृदयाः)+++। यस्मा॑ ए॒व प॒रोक्षव्ँ॒ वद॑न्ति॒-
तस्य॑ भा॒ग उ॑दि॒तः ।

Keith

Men promise openly the share to every one; if they promise any one secretly, his share is indeed promised.

मूलम्

सर्व॑स्मै॒ वै प्र॒त्यक्ष॑म्भा॒गव्ँव॑दन्ति । यस्मा॑ ए॒व प॒रोक्षव्ँ॒वद॑न्ति ।
तस्य॑ भा॒ग उ॑दि॒तः ।

पद-पाठः

सर्व॑स्मै । वै । प्र॒त्यक्ष॒मिति॑ प्रति-अक्ष॑म् । भा॒गम् । व॒द॒न्ति॒ । यस्मै॑ । ए॒व । प॒रोक्ष॒मिति॑ परः-अक्ष॑म् । वद॑न्ति । तस्य॑ । भा॒गः । उ॒दि॒तः ।

भट्टभास्कर-टीका

अथैवं कुर्वतोऽस्य दुष्टाभिप्रायत्वम् अस्तीत्याह - सर्वस्मा इति ।
यस्मै भागं दास्यन् भवति
तस्मै सर्वस्मा अप्रत्यक्षं भागं वदति लौकिकः ।
त्वमेव सर्वमर्हसि, इति सन्निधाव् अपहृदया एव वदन्ति ।

तस्माद्यस्मा एव परोक्षं वदन्ति असन्निधौ स्वयमेव भागभाक्त्वेन बहुमन्यते तस्य भागः उदितः उक्तः उद्भूतः सुनिश्चितः इति यावत्, अन्योऽनुक्तप्रायः । यद्वा - हस्तस्थप्रायः । ‘कर्षात्वतो घञोन्त उदात्तः’ इति भागशब्दः अन्तोदात्तः ।

सायण-टीका

तेषामृत्विजां तस्मिन्परोक्षवादेविश्वास उत्पन्नः तस्य परोक्षवादस्य हृदयपूर्वकत्वात्। लोकेऽपि तवायं भाग इति सर्वस्मै पुरुषाय प्रीतिमुत्पादयितुं तत्समीपे सर्वे वदन्ति। हृदयपूर्वकत्वाभावान्न स उदितो भवति। परोक्षं यदर्थं तु भाग उच्यते तस्यैव भागो हृदयपूर्वकत्वादुदितो भवति।

शिरश्-छेदः

विश्वास-प्रस्तुतिः

तस्मा॒द् इन्द्रो॑ऽबिभे॒द्-
“ई॒दृङ् वै रा॒ष्ट्रव्ँ वि प॒र्याव॑र्तय॒ती"ति॑ +++(असुरान् प्रति)+++।

Keith

Therefore Indra was afraid (thinking), ‘Such an one is diverting the sovereignty (from me).’

मूलम्

तस्मा॒दिन्द्रो॑ऽबिभेत् ।
ई॒दृङ्वै रा॒ष्ट्रव्ँवि प॒र्याव॑र्तय॒तीति॑ ।

पद-पाठः

तस्मा॑त् । इन्द्रः॑ । अ॒बि॒भे॒त् । 5 । ई॒दृङ्ङ् । वै । रा॒ष्ट्रम् । वीति॑ । प॒र्याव॑र्तय॒तीति॑ परि-आव॑र्तयति । इति॑ ।

भट्टभास्कर-टीका

तस्मात् तथा कुर्वतो विश्वरूपाद् इन्द्रोऽबिभेत् -
ईदृक् ईदृशम् आचरन् राष्ट्रम् अपि अस्माकम् अपि विपर्यावर्तयति
अस्मत्तोऽपहृत्य असुरेभ्यो दास्यतीति ॥

सायण-टीका

एवं वृत्तान्तं श्रुत्वा तस्माद्विश्वरूपादिन्द्रो ऽबिभेत्। किमिति, ईदृक्स्वामिद्रोहं सर्वथा कृत्वा राष्ट्रं विपर्यावर्तयतीति। अस्मत्तोऽपनीयासुरेभ्यसमर्पणं विपर्यावृत्तिः।

मूलम् (संयुक्तम्)

तस्य॒ वज्र॑मा॒दाय॑ शी॒र्षाण्य॑च्छिन॒द्यत्सो॑म॒पान॑म् [1] आसी॒त्स क॒पिञ्ज॑लोऽभव॒द्यत्सु॑रा॒पानँ॒ स क॑ल॒विङ्को॒ यद॒न्नाद॑नँ॒ स ति॑त्ति॒रिस्तस्या॑ञ्ज॒लिना॑ ब्रह्मह॒त्यामुपा॑गृह्णा॒त्ताँ सव्ँ॑वत्स॒रम॑बिभ॒स्तम्भू॒तान्य॒भ्य॑क्रोश॒न्ब्रह्म॑ह॒न्निति॒ स पृ॑थि॒वीमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृहा॒णेति॒ साब्र॑वी॒द्वरव्ँ॑वृणै खा॒तात्प॑राभवि॒ष्यन्ती॑ मन्ये॒ ततो॒ मा परा॑ भूव॒मिति॑ पु॒रा ते॑ [2] सव्ँ॒व॒त्स॒रादपि॑ रोहा॒दित्य॑ब्रवी॒त्तस्मा॑त्पु॒रा सव्ँ॑वत्स॒रात्पृ॑थि॒व्यै खा॒तमपि॑ रोहति॒ वारे॑वृतँ॒ ह्य॑स्यै॒ तृती॑यम्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णात्

विश्वास-प्रस्तुतिः

तस्य॒ वज्र॑म् आ॒दाय॑ शी॒र्षाण्य् अ॑च्छिनत् ।

Keith

He took his bolt and smote off his heads.

मूलम्

तस्य॒ वज्र॑मा॒दाय॑ शी॒र्षाण्य॑च्छिनत् ।

पद-पाठः

6 । तस्य॑ । वज्र॑म् । आ॒दायेत्या॑-दाय॑ । शी॒र्षाणि॑ । अ॒च्छि॒न॒त् ।

भट्टभास्कर-टीका

2तस्येत्यादि ॥ गतम् ।

सायण-टीका

ततस्तस्य द्रोहिण शिरःसु च्छिन्नेषु तानि शिरांसि पक्षिः त्रयरूपेणोत्पन्नानि।

विश्वास-प्रस्तुतिः

यत् सो॑म॒-पान॑म् आसी॑त्।
स क॒पिञ्ज॑लोऽभव॒द्,
यत् सु॑रा॒पानँ॒ स क॑ल॒विङ्को॑,
यद् अ॒न्नाद॑नँ॒ स ति॑त्ति॒रिः ।

Keith

(The head) which drank Soma [1] became a hazelcock; (the head) which drank Sura a sparrow; (the head) which ate food a partridge.

मूलम्

यत्सो॑म॒पान॑मासी॑त्।
स क॒पिञ्ज॑लोऽभवत् ।
यत्सु॑रा॒पानँ॒ स क॑ल॒विङ्कः॑ । यद॒न्नाद॑नँ॒ स ति॑त्ति॒रिः ।

पद-पाठः

यत् । सो॒म॒पान॒मिति॑ सोम-पान॑म् । [1]
1 । आसी॑त् । सः । क॒पिञ्ज॑लः । अ॒भ॒व॒त् । यत् । सु॒रा॒पान॒मिति॑ सुरा-पान॑म् । सः । क॒ल॒विङ्कः॑ । यत् । अ॒न्नाद॑न॒मित्य॑न्न-अद॑नम् । सः । ति॒त्ति॒रिः ।

भट्टभास्कर-टीका

कपिञ्जलः अपाश्वाति(??) ।

कलविङ्कश्चटकविशेषः ।

तित्तिरिः तिरश्चिदीनि [तित्तिरिति] कटुकरावीति ।

ब्रह्म-हत्या

विश्वास-प्रस्तुतिः

तस्या॑ञ्ज॒लिना॑ ब्रह्म-ह॒त्याम् उपा॑गृह्णात् ।

Keith

He seized with his hand the guilt of slaying him,

मूलम्

तस्या॑ञ्ज॒लिना॑ ब्रह्मह॒त्यामुपा॑गृह्णात् ।

पद-पाठः

तस्य॑ । अ॒ञ्ज॒लिना॑ । ब्र॒ह्म॒ह॒त्यामिति॑ ब्रह्म-ह॒त्याम् । उपेति॑ । अ॒गृ॒ह्णा॒त् ।

भट्टभास्कर-टीका

अञ्जलिनेति । बुद्धिपूर्वकृतत्वख्यापनार्थं अञ्जलिग्रहणम् । तस्येति संबन्धसामान्ये षष्ठी तत्सबन्धेन आत्मनः ब्रह्महत्येति । तस्य वधेनेति वा सामर्थ्याल्लभ्यते । ‘हनस्तच’ इति हन्तेः क्यंप् ।

सायण-टीका

तस्येन्द्रस्य प्रत्यवायं जनापवादं च दर्शयति—

तस्याञ्जलिनेति। तस्यासुरस्य वधेन निष्पन्ना या ब्रह्महत्या तामञ्जालिना स्वीचकार। पापिनां शिक्षायामीश्वरेण नियुक्तानां यमचित्रगुप्तादीनां पुरतोऽञ्जलिंकृत्वा निर्भयः सन्ब्रह्महत्या मया बुद्धिपूर्वकमेव कृतेत्येवमङ्गी चकारेत्यर्थः।

विश्वास-प्रस्तुतिः

ताँ +++(ब्रह्महत्यां)+++ सव्ँ॑वत्स॒रम् अ॑बिभः ।

Keith

and bore it for a year.

मूलम्

ताँ सव्ँ॑वत्स॒रम॑बिभः ।

पद-पाठः

ताम् । सव्ँ॒व॒त्स॒रमिति॑ सम्-व॒त्स॒रम् । अ॒बि॒भः॒ ।

भट्टभास्कर-टीका

तामिति । अकृतप्रायश्चित्त एव तां ब्रह्महत्यां संवत्सरं भृतवान् ।

सायण-टीका

प्रायश्चित्तमकृत्वा संवत्सरं निरन्तरं ब्रह्महत्यामङ्गीकृत्यैव तस्थौ।

विश्वास-प्रस्तुतिः

तम् भू॒तान्य् अ॒भ्य॑क्रोश॒न् ब्रह्म॑ह॒न्न् इति॑ ।

Keith

Creatures called out upon him, ‘Thou art a Brahman slayer.’

मूलम्

तम्भू॒तान्य॒भ्य॑क्रोश॒न्ब्रह्म॑ह॒न्निति॑ ।

पद-पाठः

तम् । भू॒तानि॑ । अ॒भीति॑ । अ॒क्रो॒श॒न् ।

भट्टभास्कर-टीका

ब्रह्महन् इति ब्राह्मणं हतवानिति । किंरूपमिदं तवेति तं भूतानि भूतजातान्यनिन्दन् । यद्वा - तस्याभिमुखे स्थित्वा भूतानि ब्रह्महन्नित्याक्रोशमकुर्वन् ।

सायण-टीका

आत्मतत्त्वज्ञानेः पापलेपाभावाद्भीत्यभावस्तस्य युक्तः। अत एव कौषीतकिन इन्द्रवाक्यमेतदामनन्ति “यन्मां हि विजानीयास्त्रीशीर्षाणं त्वाष्ट्रमहमहनमरुन्मुखान्यतीन्सालावृकेभ्यः प्रायच्छ” इत्यादि। दुरिताभावेऽपि सर्वप्राणिनस्तमिन्द्रं ब्रह्महन्नित्येवं संबोध्याभितस्तस्याऽऽक्रोशं कृतवन्तः।

मार्जनम् - पृथिव्याम्

विश्वास-प्रस्तुतिः

स पृ॑थि॒वीम् उपा॑सीदत् -
“अ॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म् प्रति॑ गृहा॒णे"ति॑ ।

Keith

He appealed to the earth, ‘Take a third part of my guilt.’

मूलम्

स पृ॑थि॒वीमुपा॑सीदत् ।
अ॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म् प्रति॑ गृहा॒णेति॑ ।

पद-पाठः

2 । ब्रह्म॑ह॒न्निति॒ ब्रह्म॑-ह॒न् । इति॑ । सः । पृ॒थि॒वीम् । उपेति॑ । अ॒सी॒द॒त् ।

3 । अ॒स्यै । ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म-ह॒त्यायै॑ । तृती॑यम् । प्रतीति॑ । गृ॒हा॒ण॒ । इति॑ ।

भट्टभास्कर-टीका

ततः स इन्द्रः पृथिवीमुपासीदत् ।

उपसन्न आह - अस्या ब्रह्महत्यायास्तृतीयं भागं प्रतिगृहाण इति । ‘पूरणाद्भागे तीयादन्’ इति स्वार्थिकोऽन् प्रत्ययः । षष्ठ्यर्थे चतुर्थी ।

सायण-टीका

ततस्तस्य जनापवादस्य परिहारायेन्द्रेणानुष्ठितमुपायविशेषं दर्शयति—
स पृथिवीमिति। उपासीददुपेत्य प्रार्थितवान्।

विश्वास-प्रस्तुतिः

साब्र॑वीत् -
“वरव्ँ॑ वृणै -
खा॒तात् प॑राभवि॒ष्यन्ती॑ मन्ये । ततो॒ मा परा॑ भूव॒म्” इति॑ ।

Keith

She said, ‘Let me choose a boon. I deem that I shall be overcome through digging. Let me not be overcome by that.’

मूलम्

साब्र॑वीत् ।
वरव्ँ॑वृणै खा॒तात्प॑राभवि॒ष्यन्ती॑ मन्ये । ततो॒ मा परा॑ भूव॒म् इति॑ ।

पद-पाठः

। सा । अ॒ब्र॒वी॒त् । 5 । वर॑म् । वृ॒णै॒ । खा॒तात् । प॒रा॒भ॒वि॒ष्यन्तीति॑ परा-भ॒वि॒ष्यन्ती॑ । म॒न्ये॒ । ततः॑ । मा । परेति॑ । भू॒व॒म् । इति॑ । 6 ।

भट्टभास्कर-टीका

सेत्यादि । किं वृणौ । प्राप्तकाले लोट् ।

खातात् भूमेः यत्र मृदं खनति, पराभवो विनाशः, पराभविष्यामीति मन्ये ।

ततो निमित्तात् अहं मा पराभूवमिति ।

सायण-टीका

खातात्पराभविष्यन्तीमन्ये, जनाः स्वेच्छया तत्र तत्र भूमिं खनन्ति तदुपद्रवात्पराभूता पीडिता भविष्यामीति मनसा चिन्तयामि।

विश्वास-प्रस्तुतिः

“पु॒रा ते सव्ँ॒व॒त्स॒राद् अपि॑ रोहा॒द्” इत्य् अ॑ब्रवीत् ।

Keith

He replied, ‘Before [2] a year is out it will grow up for thee.’

मूलम्

पु॒रा ते सव्ँ॒व॒त्स॒रादपि॑ रोहा॒दित्य॑ब्रवीत् ।

पद-पाठः

पु॒रा । ते॒ । [2]
1 । सव्ँ॒व॒त्स॒रादिति॑ सम्-व॒त्स॒रात् । अपीति॑ । रो॒हा॒त् । इति॑ । अ॒ब्र॒वी॒त् ।

भट्टभास्कर-टीका

अथेन्द्रोऽब्रवीत् - संवत्सरसमाप्तेः प्राक् तव खातमपि रोहात् विरोहति । लेट्याडागमः ।

सायण-टीका

खातप्रदेशः संपूरणमन्तरेण पांसुप्रक्षेपात्तृणाद्युत्पत्तेर्वाऽपिरोहात्पुरितो भूयादिति वरः।

विश्वास-प्रस्तुतिः

तस्मा॑त् पु॒रा सव्ँ॑वत्स॒रात् पृ॑थि॒व्यै खा॒तम् अपि॑ रोहति -
वारे॑-वृतँ॒ ह्य् अ॑स्यै

Keith

Therefore before the year is out the dug-out portion of earth grows up again, for that was what she chose as a boon.

मूलम्

तस्मा॑त्पु॒रा सव्ँ॑वत्स॒रात्पृ॑थि॒व्यै खा॒तमपि॑ रोहति वारे॑-वृतँ॒ ह्य् अ॑स्यै

पद-पाठः

तस्मा॑त् । पु॒रा । सव्ँ॒व॒त्स॒रादिति॑ सम्-व॒त्स॒रात् । पृ॒थि॒व्यै । खा॒तम् । अपीति॑ । रो॒ह॒ति॒ । वारे॑वृत॒मिति॒ वारे॑-वृ॒त॒म् । हि । अ॒स्यै॒ ।

भट्टभास्कर-टीका

तस्मादित्यादि । गतम् ।

सायण-टीका

तदिदमस्य वारेवृत्तमस्याः पृथिव्याः खातपूरणंवरेण लब्धम्।

विश्वास-प्रस्तुतिः

तृती॑यम् ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णात् ।

Keith

She took a third of his guilt.

मूलम्

तृती॑यम् ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णात् ।

पद-पाठः

तृती॑यम् । ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म-ह॒त्यायै॑ । प्रतीति॑ । अ॒गृ॒ह्णा॒त् ।

भट्टभास्कर-टीका

वरे हितः वरणकालः । ततस्तृतीयं प्रत्यगृह्णात् पृथिवी ब्रह्महत्यायाः ॥

स्वकृतम् इरिणम्

मूलम् (संयुक्तम्)

तत्स्वकृ॑त॒मिरि॑णमभव॒त्तस्मा॒दाहि॑ताग्निश्श्र॒द्धादे॑व॒स्स्वकृ॑त॒ इरि॑णे॒ नाव॑ स्येद्ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्णः

विश्वास-प्रस्तुतिः

तत् स्वकृ॑त॒म् इरि॑णम् अभवत् ।

Keith

That became a natural fissure;

मूलम्

तत्स्वकृ॑त॒मिरि॑णमभवत् ।

पद-पाठः

तत् । स्वकृ॑त॒मिति॒ स्व-कृ॒त॒म् । इरि॑णम् । अ॒भ॒व॒त् ।

भट्टभास्कर-टीका

3तदित्यादि ॥ स्वेनैव कृतेन कारणान्तरेण कृतं स्वकृतम् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।

सायण-टीका

पृथिव्याः स्वीकृतस्तृतीयो ब्रह्महत्याया भागः स्वकृतमिरिणमभवत्। इतस्तत आनीय प्रक्षिप्तं न भवतीति स्वतःसिद्धमूषरक्षेत्त्रमासीत्।

विश्वास-प्रस्तुतिः

तस्मा॒द् आहि॑ताग्निश् श्र॒द्धा-दे॑व॒स् स्वकृ॑त॒ इरि॑णे॒ नाव॑स्येत्+++(←वस्)+++ ।

Keith

therefore one who has piled up a fire-altar and whose deity is faith should not choose a natural fissure,

मूलम्

तस्मा॒दाहि॑ताग्निश्श्र॒द्धादे॑व॒स्स्वकृ॑त॒ इरि॑णे॒ नाव॑स्येत् ।

पद-पाठः

तस्मा॑त् । आहि॑ताग्नि॒र् इत्याहि॑त-अ॒ग्निः॒ । श्र॒द्धादे॑व॒ इति॑ श्र॒द्धा-दे॒वः॒ । स्वकृ॑त॒ इति॒ स्व-कृ॒ते॒ । इरि॑णे । न । अवेति॑ । स्ये॒त् ।

भट्टभास्कर-टीका

इरिणं ऊषरं श्रद्धादेवः धार्मिकः नावस्येत् न वसेत् । कश्चिदाह – श्रद्धावान्यष्टुकः श्रद्धादेवः सः स्वकृते इरिणे देव-यजनाध्यवसानं न कुर्यादिति ।

सायण-टीका

तस्मादिरिणं ब्रह्महत्यायाः स्वरूपं तस्मादाहिताग्निः श्रद्धादेवस्तस्मिन्निरिणे कदाचिदपि न तिष्ठेत्। यद्वा, देवयजनत्वेन नाध्यवस्येत्। श्रद्धैव देवो यस्यासौ श्रद्धावानित्यर्थः।

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒ह॒त्यायै॒+++(या)+++ ह्य् ए॒॑ष वर्णः॑ ।

Keith

for that is the colour of guilt.

मूलम्

ब्र॒ह्म॒ह॒त्यायै॒ ह्ये॑ष वर्णः॑ ।

पद-पाठः

ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म-ह॒त्यायै॑ । हि । ए॒षः । वर्णः॑ ।

भट्टभास्कर-टीका

अत्रैव हेतुः ‘ब्रह्महत्यायै ह्येष वर्णः’ इति ॥

मूलम् (संयुक्तम्)

स वन॒स्पती॒नुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृह्णी॒तेति॒ ते॑ऽब्रुव॒न्वरव्ँ॑वृणामहै वृ॒क्णात् [3] प॒रा॒भ॒वि॒ष्यन्तो॑ मन्यामहे॒ ततो॒ मा परा॑ भू॒मेत्या॒व्रश्च॑नाद्वो॒ भूयाँ॑स॒ उत्ति॑ष्ठा॒नित्य॑ब्रवी॒त्तस्मा॑दा॒व्रश्च॑नाद्वृ॒क्षाणा॒म्भूयाँ॑स॒ उत्ति॑ष्ठन्ति॒ वारे॑वृतँ॒ ह्ये॑षा॒न्तृती॑यम्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्त्स नि॑र्या॒सो॑ऽभव॒त्तस्मा॑न्निर्या॒सस्य॒ नाश्य॑म्ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्णः

मार्जनम् - वनस्पतिषु

विश्वास-प्रस्तुतिः

स वन॒स्पती॒न् उपा॑सीत् -
“अ॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म् प्रति॑ गृह्णी॒ते"ति॑ ।

Keith

He appealed to the trees, ‘Take a third part of my guilt.’

मूलम्

स वन॒स्पती॒नुपा॑सीत् ।
अ॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृह्णी॒तेति॑ ।

पद-पाठः

सः । वन॒स्पती॑न् । उपेति॑ । अ॒सी॒द॒त् । 3 । अ॒स्यै । ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म-ह॒त्यायै॑ । तृती॑यम् । प्रतीति॑ । गृ॒ह्णी॒त॒ । इति॑ ।

भट्टभास्कर-टीका

4स वनस्पतीनित्यादि ॥ गतम् ।

सायण-टीका

एकस्य ब्रह्महत्याभागस्य परिहारोपायमुक्त्वाऽपरस्य तं दर्शयति— स वनस्पतीनिति।

विश्वास-प्रस्तुतिः

ते॑ऽब्रुवन् -
“वरव्ँ॑ वृणामहै ।
वृ॒क्णात्+++(←वृश् छेदे)+++ प॑राभवि॒ष्यन्तो॑ मन्यामहे ।
ततो॒ मा परा॑ भू॒मे"ति॑ ।

Keith

They said, ‘Let us choose a boon. We deem that we shall be overcome through pruning [3]. Let us not be overcome by that.’

मूलम्

ते॑ऽब्रुवन् ।
वरव्ँ॑वृणामहै ।
वृ॒क्णात् प॑राभवि॒ष्यन्तो॑ मन्यामहे ।
ततो॒ मा परा॑ भू॒मेति॑ ।

पद-पाठः

। ते । अ॒ब्रु॒व॒न् ।
वर॑म् । वृ॒णा॒म॒है॒ । वृ॒क्णात् ।
प॒रा॒भ॒वि॒ष्यन्त॒ इति॑ परा-भ॒वि॒ष्यन्तः॑ । म॒न्या॒म॒हे॒ ।
ततः॑ । मा । परेति॑ । भू॒म॒ । इति॑ ।

भट्टभास्कर-टीका

वृक्णादिति । छिन्नात् तद्-अवयवात् । वृश्चतेः निष्ठायां ‘ओदितश्च’ इति निष्ठानत्वं, तस्यासिद्धत्वात् ‘स्कोस्संयोगाद्योरन्ते च’ इति सलोपः, ‘खरि च’ इति चर्त्वम् ॥

सायण-टीका

वृक्णात् च्छेदनात्।

विश्वास-प्रस्तुतिः

“आ॒व्रश्च॑नाद् वो॒ भूयाँ॑स॒ उत्ति॑ष्ठा॒न्” इत्य् अ॑ब्रवीत् ।
तस्मा॑द् आ॒व्रश्च॑नाद् वृ॒क्षाणा॒म् भूयाँ॑स॒ उत्ति॑ष्ठन्ति॒ - वारे॑वृतँ॒ ह्य् ए॑षा॒म्

Keith

He replied, ‘From pruning shall more (shoots) spring up for you.’

Therefore from the pruning of trees more (shoots) spring up, for that was what they chose as a boon.

मूलम्

आ॒व्रश्च॑नाद् वो॒ भूयाँ॑स॒ उत्ति॑ष्ठा॒नित्य॑ब्रवीत् ।
तस्मा॑दा॒व्रश्च॑नाद्वृ॒क्षाणा॒म्भूयाँ॑स॒ उत्ति॑ष्ठन्ति॒ वारे॑वृतँ॒ ह्य् ए॑षा॒म्

पद-पाठः

आ॒व्रश्च॑ना॒दित्या॑-व्रश्च॑नात् । वः॒ । भूयाँ॑सः । उदिति॑ । ति॒ष्ठा॒न् । इति॑ । अ॒ब्र॒वी॒त् ।
तस्मा॑त् । आ॒व्रश्च॑ना॒दित्या॑-व्रश्च॑नात् । वृ॒क्षाणा॑म् । भूयाँ॑सः । उदिति॑ । ति॒ष्ठ॒न्ति॒ । वारे॑वृत॒मिति॒ वारे॑-वृ॒त॒म् । हि । ए॒षा॒म् ।

सायण-टीका

आव्रश्चनाच्छिन्नप्रदेशाद्भूयांसो बह्वंकुरा उत्तिष्ठन्त्विति वरः। वृक्षान्निर्गत्य घनीभूत रसो निर्यासः। ब्रह्महत्याया स्वरूपत्वानिर्यासस्य स्वरूपं न भोज्यं भवति।
अपि च पक्षान्तरमस्ति। न सर्वोऽपि निर्यासो निषिद्धः, किंतु यो लोहितवर्णो यश्च च्छिन्नवृक्षप्रदेशान्निर्गतस्तदेवोभयं निषिद्धम्। अन्यस्य तु निर्यासस्य स्वरूपमाश्यमिच्छायां सत्यामशितुं योग्यम्।

निर्यासः

विश्वास-प्रस्तुतिः

तृती॑यम् ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णन् ।
स नि॑र्या॒सो॑ऽभवत् ।
तस्मा॑न् निर्या॒सस्य॒ नाश्य॑म्।
ब्र॒ह्म॒ह॒त्यायै॒ ह्य् ए॒॑ष वर्णः॑।

Keith

They took a third part of his guilt, it became sap; therefore one should not partake of sap, for it is the colour of guilt.

मूलम्

तृती॑यम् ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णन् ।
स नि॑र्या॒सो॑ऽभवत् ।
तस्मा॑न्निर्या॒सस्य॒ नाश्य॑म्।
ब्र॒ह्म॒ह॒त्यायै॒ ह्ये॑ष वर्णः॑।

पद-पाठः

तृती॑यम् । ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म-ह॒त्यायै॑ । प्रतीति॑ । अ॒गृ॒ह्ण॒न् ।
सः । नि॒र्या॒स इति॑ निः-या॒सः । अ॒भ॒व॒त् ।
तस्मा॑त् । नि॒र्या॒सस्येति॑ निः-या॒सस्य॑ । न । आ॒श्य॑म् ।
ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म-ह॒त्यायै॑ । हि । ए॒षः । वर्णः॑ ।

विश्वास-प्रस्तुतिः

अथो॒ खलु॒ य ए॒व लोहि॑तो॒ यो वा॒ऽऽव्रश्च॑नान् नि॒र्येष॑ति॒ तस्य॒ नाश्य॒म् [4] काम॑म् अ॒न्यस्य॑

Keith

Or rather of the sap which is red or which comes from the pruning one should not partake [4], but of other sap at will.

मूलम्

अथो॒ खलु॒ य ए॒व लोहि॑तो॒ यो वा॒ऽऽव्रश्च॑नान्नि॒र्येष॑ति॒ तस्य॒ नाश्य॑म् [4] काम॑म॒न्यस्य॑

पद-पाठः

अथो॒ इति॑ । खलु॑ । यः । ए॒व । लोहि॑तः । यः । वा॒ । आ॒व्रश्च॑ना॒दित्या॑-व्रश्च॑नात् । नि॒र्येष॒तीति॑ निः-येष॑ति । तस्य॑ । न । आ॒श्य॑म् । काम॑म् । अ॒न्यस्य॑ ।

भट्टभास्कर-टीका

5अथो खलु अस्ति पक्षान्तरं लोहितो लोहितवर्णः यो वाव्रश्चनान् निर्येषति निर्गच्छति ।
येषु प्रयत्ने अनुदात्तेत्, व्यत्ययेन परस्मैपदम् ।

अन्यस्येति । अलोहितस्य अनाव्रश्चनान्निर्गतस्य निर्यासस्य, कामं आश्यं नाश्यं वा ।
काम्यत इति कामम् ॥

मार्जनं स्त्रीषु

मूलम् (संयुक्तम्)

स स्त्री॑षँसा॒दमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृह्णी॒तेति॒ ता अ॑ब्रुव॒न्वरव्ँ॑वृणामहा॒ ऋत्वि॑यात्प्र॒जाव्ँवि॑न्दामहै॒ काम॒मा विज॑नितो॒स्सम्भ॑वा॒मेति॒ तस्मा॒दृत्वि॑या॒त्स्त्रियᳶ॑ प्र॒जाव्ँवि॑न्दन्ते॒ काम॒मा विज॑नितो॒स्सम्भ॑वन्ति

विश्वास-प्रस्तुतिः

स स्त्री॑-षँसा॒दम् उपा॑सीदत् -
“अ॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म् प्रति॑ गृह्णी॒ते"ति॑ ।

Keith

He appealed to a concourse of women, ‘Take the third of my guilt.’

मूलम्

स स्त्री॑षँसा॒दमुपा॑सीदत् ।
अ॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृह्णी॒तेति॑ ।

पद-पाठः

सः । स्त्री॒षँ॒सा॒दमिति॑ स्त्री-सँ॒सा॒दम् । उपेति॑ । अ॒सी॒द॒त् । 2 । अ॒स्यै । ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म-ह॒त्यायै॑ । तृती॑यम् । प्रतीति॑ । गृ॒ह्णी॒त॒ । इति॑ ।

भट्टभास्कर-टीका

6स स्त्रीषंसादमित्यादि ॥ स्त्रियः सह सीदन्त्यस्मिन्निति स्त्रीषंसादं स्त्रीसमूहः ।
छान्दसं सांहितिकं षत्वम् ॥

सायण-टीका

त्रिषु ब्रह्महत्याभागेषु द्वयोः परिहारमुक्त्वा तृतीयस्यावशिष्टस्य परिहारं दर्शयति— स स्त्रीष ँ सादमिति। स्त्रियः सम्यक्सीदन्ति विश्रम्भेणोपविशन्ति यस्यां सभायामिति स्त्रीसभाविशेषः स्त्रीष ँ सादः।

विश्वास-प्रस्तुतिः

ता अ॑ब्रुवन् ।
वरव्ँ॑ वृणामहै ।
“ऋत्वि॑यात् प्र॒जाव्ँ वि॑न्दामहै ।
+++(गर्भहानिं विना)+++ काम॒म् आ विज॑नितो॒स्+++(=प्रसवतः [सम्भोगे])+++ सम्भ॑वा॒मे"ति॑ ।

Keith

They said, ‘Let us choose a boon; let us obtain offspring from after the menses; let us enjoy intercourse at will up to birth.’

मूलम्

ता अ॑ब्रुवन् ।
वरव्ँ॑वृणामहै ।
ऋत्वि॑यात्प्र॒जाव्ँवि॑न्दामहै ।
काम॒मा विज॑नितो॒स्सम्भ॑वा॒मेति॑ ।

पद-पाठः

ताः । अ॒ब्रु॒व॒न् ।
वर॑म् । वृ॒णा॒म॒है॒ ।
ऋत्वि॑यात् । प्र॒जामिति॑ प्र-जाम् । वि॒न्दा॒म॒है॒ ।
काम॑म् । एति॑ । विज॑नितो॒रिति॒ वि-ज॒नि॒तोः॒ । समिति॑ । भ॒वा॒म॒ । इति॑ ।

भट्टभास्कर-टीका

ऋत्वियादिति । ऋतुः प्राप्तोऽस्येति ऋत्वियं आर्तवं उच्यते । ‘छन्दसि घस्’ इति घस्प्रत्ययः, वृषादिः द्रष्टव्यः ।

सायण-टीका

ऋत्वियाद् ऋतुसंबन्धाद्वीर्यात्प्रथमसंभोगादेव गर्भे जातेऽपि काममुद्दिश्याऽऽविजनितोरा प्रसवात्पुरुषेण संगच्छेमहि। गर्भोपद्रूवः प्रत्यवायश्च निषिद्धदिनकृतोऽस्माकं मा भूदिति वरः।

विश्वास-प्रस्तुतिः

तस्मा॒द् ऋत्वि॑या॒त् स्त्रियᳶ॑ प्र॒जाव्ँ वि॑न्दन्ते ।
काम॒म् आ विज॑नितो॒स् सम्भ॑वन्ति।

Keith

Therefore women obtain offspring from after the menses, and enjoy intercourse at will up to birth, for that was what they chose as a boon.

मूलम्

तस्मा॒दृत्वि॑या॒त्स्त्रियᳶ॑ प्र॒जाव्ँवि॑न्दन्ते ।
काम॒मा विज॑नितो॒स्सम्भ॑वन्ति।

पद-पाठः

तस्मा॑त् । ऋत्वि॑यात् । स्त्रियः॑ । प्र॒जामिति॑ प्र-जाम् । वि॒न्द॒न्ते॒ । काम॑म् । एति॑ । विज॑नितो॒रिति॒ वि-ज॒नि॒तोः॒ । समिति॑ । भ॒व॒न्ति॒ ।

भट्टभास्कर-टीका

विजननं प्रसवः । ‘भावलक्षणे स्थेण्’ इति जनेस्तोसुन् प्रत्ययः । संभवः संयोगः ।

प्रथमसंयोगे गर्भो भवतीति
यद्यपि द्वितीयादिप्रवृत्तिः अप्रजार्था,
तथापि कामानुरूपं आविजनितोः संभवाम, गर्भस्सुखं वर्धतामिति ॥

मूलम् (संयुक्तम्)

वारे॑वृतँ॒ ह्या॑सा॒न्तृती॑यम्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्त्सा मल॑वद्वासा अभव॒त्तस्मा॒न्मल॑वद्वाससा॒ न सव्ँव॑देत [5] न स॒हासी॑त॒ नास्या॒ अन्न॑मद्याद्ब्रह्मह॒त्यायै॒ ह्ये॑षा वर्ण॑म्प्रति॒मुच्यास्तेऽथो॒ खल्वा॑हुर॒भ्यञ्ज॑नव्ँ॒ वाव स्त्रि॒या अन्न॑म॒भ्यञ्ज॑नमे॒व न प्र॑ति॒गृह्य॒ङ्काम॑म॒न्यदिति

रजः

विश्वास-प्रस्तुतिः

वारे॑वृतँ॒ ह्य् आ॑सान्, तृती॑यम् ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णन् ।
सा मल॑वद्वासा अभवत् ।

Keith

They took a third of his guilt, it became (a woman) with stained garments;

मूलम्

वारे॑वृतँ॒ ह्या॑सा॒न्तृती॑यम् ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णन् ।
सा मल॑वद्वासा अभवत् ।

पद-पाठः

वारे॑वृत॒मिति॒ वारे॑-वृ॒त॒म् । हि । आ॒सा॒म् । तृती॑यम् । ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म-ह॒त्यायै॑ । प्रतीति॑ । अ॒गृ॒ह्ण॒न् ।
सा । मल॑वद्वासा॒ इति॒ मल॑वत्-वा॒साः॒ । अ॒भ॒व॒त् ।

भट्टभास्कर-टीका

7मलवद्वासा रजस्वला । वासोग्रहणं वाससि रजस्पर्शात्प्रभृति अज्ञातेप्यप्रायत्यमस्तीति सूचनार्थम् । तेन वासस्यस्पृष्टे ज्ञानादूर्ध्वमेवाशुद्धिः ।

सायण-टीका

अत एव जाज्ञवल्क्यस्मृतिः-
“यथाकामी भवेद्वा ऽपि स्त्रीणां वरमनुस्मरन्” इति।

यो ब्रह्महत्यायास्तृतीयो भागः सा मलवद्वासा रजस्वला योषिदभवत् ।

विश्वास-प्रस्तुतिः

तस्मा॒न् मल॑वद्वाससा॒ न सव्ँव॑देत ।
+++(मलवद्वाससा)+++न स॒हासी॑त ।

Keith

therefore one should not converse with (a woman) with stained garments [5], one should not sit with her,

मूलम्

तस्मा॒न्मल॑वद्वाससा॒ न सव्ँव॑देत ।
+++(मलवद्वाससा)+++न स॒हासी॑त ।

पद-पाठः

तस्मा॑त् । मल॑वद्वास॒सेति॒ मल॑वत्-वा॒स॒सा॒ । न । समिति॑ । व॒दे॒त॒ ।
न । स॒ह । आ॒सी॒त॒ ।

भट्टभास्कर-टीका

तस्मादिति । सहभाषणं संवादः । तस्य प्रतिषेधः पुरुषार्थः प्रासङ्गिकः । एवं सर्वत्र ।

सायण-टीका

यस्मादियं ब्रह्महत्याया रूपं शरीरे कञ्चुकवत्प्रतिमुच्या ऽस्ते तस्मात्तया सह संभाषणं न कुर्यात्। तया सहैकास्मिन्गृहे वासो न कर्तव्यः।

विश्वास-प्रस्तुतिः

नास्या॒ अन्न॑म् अद्यात् ।

Keith

nor eat her food,

मूलम्

नास्या॒ अन्न॑मद्यात् ।

पद-पाठः

न । अ॒स्याः॒ । अन्न॑म् । अ॒द्या॒त् ।

भट्टभास्कर-टीका

नास्या इति । अनया स्पर्शादिना दूषितं नाद्यात् । अनया वा दत्तं न गृह्णीयात् ।

सायण-टीका

तत्स्वामिकं तत्स्पृष्टं वाऽन्नं नाश्नीयात्।

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒ह॒त्यायै॒ ह्य् ए॒॑षा वर्ण॑म् प्रति॒मुच्यास्ते॑ ।

Keith

for she keeps emitting the colour of guilt.

मूलम्

ब्र॒ह्म॒ह॒त्यायै॒ ह्ये॑षा वर्ण॑म्प्रति॒मुच्यास्ते॑ ।

पद-पाठः

ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म-ह॒त्यायै॑ । हि । ए॒षा । वर्ण॑म् । प्र॒ति॒मुच्येति॑ प्रति-मुच्य॑ । आस्ते॑ ।

भट्टभास्कर-टीका

एषा हि ब्रह्महत्याया वर्णं प्रतिमुच्य देहे बद्ध्वाऽऽस्ते ।

विश्वास-प्रस्तुतिः

अथो॒ खल्व् आ॑हुर् - अ॒भ्यञ्ज॑नव्ँ॒+++(→तैलादि)+++ वाव स्त्रि॒या अन्न॑म् , अ॒भ्यञ्ज॑नम् ए॒व न +++(स्त्रिया)+++ प्र॑ति॒गृह्य॒ङ् काम॑म् अ॒न्यद् इति॑ ।

Keith

Or rather they say, ‘Woman’s food is unguent, and there fore one should not accept (from her) unguent, but anything else (can be accepted) at will.’

मूलम्

अथो॒ खल्वा॑हुः । अ॒भ्यञ्ज॑नव्ँ॒ वाव स्त्रि॒या अन्न॑म् , अ॒भ्यञ्ज॑नमे॒व न प्र॑ति॒गृह्य॒ङ्काम॑म॒न्यदिति॑ ।

पद-पाठः

अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । अ॒भ्यञ्ज॑न॒मित्य॑भि-अञ्ज॑नम् । वाव । स्त्रि॒याः । अन्न॑म् । अ॒भ्यञ्ज॑न॒मित्य॑भि-अञ्ज॑नम् । ए॒व । न । प्र॒ति॒गृह्य॒मिति॑ प्रति-गृह्य॑म् । काम॑म् । अ॒न्यत् । इति॑ ।

भट्टभास्कर-टीका

अथो अपि खल्वाहुस्तद्विदः ।

अभ्यज्यते परिष्क्रियते शरीरम् अनेनेत्यभ्यञ्जनं तैलादि ।
तच्चान्नं स्त्रीणां प्रियतमत्वात्, तस्मात् तदेव तस्या अन्नं न प्रतिग्राह्यम् ।

केचिदाहुः - तया अभ्यञ्जनं न कर्तव्यमिति ।
ब्रह्महत्यात्मिकायास् तस्या अभिमततमं सर्वदा वर्ज्यमिति विवक्षितम् ॥+++(5)+++

सायण-टीका

अपि चाभिज्ञाः केचिदेवमाहुः स्त्रियाः शृङ्गारोपयोगित्वेनाभ्याञ्जनमेवान्नस्थानीयं तदीयं तैलादिकमेव न गृह्णीयात्। तया वा स्वशरीराभ्यञ्जनं न कारयेत्।

अन्यदन्नं सत्यामिच्छायां भोक्तव्यमिति।

मूलम् (संयुक्तम्)

याम्मल॑वद्वाससँ स॒म्भव॑न्ति॒ यस्ततो॒ जाय॑ते॒ सो॑ऽभिश॒स्तो यामर॑ण्ये॒ तस्यै॑ स्ते॒नो याम्परा॑ची॒न्तस्यै॑ ह्रीतमु॒ख्य॑पग॒ल्भो या स्नाति॒ तस्या॑ अ॒प्सु मारु॑को॒ या [6] अ॒भ्य॒ङ्क्ते तस्यै॑ दु॒श्चर्मा॒ या प्र॑लि॒खते॒ तस्यै॑ खल॒तिर॑पमा॒री याऽऽङ्क्ते तस्यै॑ का॒णो या द॒तो धाव॑ते॒ तस्यै॑ श्या॒वद॒न्या न॒खानि॑ निकृ॒न्तते॒ तस्यै॑ कुन॒खी या कृ॒णत्ति॒ तस्यै॑ क्ली॒बो या रज्जुँ॑ सृ॒जति॒ तस्या॑ उ॒द्बन्धु॑को॒ या प॒र्णेन॒ पिब॑ति॒ तस्या॑ उ॒न्मादु॑को॒ या ख॒र्वेण॒ पिब॑ति॒ तस्यै॑ ख॒र्वस्ति॒स्रो रात्री॑र्व्र॒तञ्च॑रेदञ्ज॒लिना॑ वा॒ पिबे॒दख॑र्वेण वा॒ पात्रे॑ण प्र॒जायै॑ गोपी॒थाय॑ ॥ [7]

विश्वास-प्रस्तुतिः

याम् मल॑वद्वाससँ स॒म्भव॑न्ति॒ -
यस् ततो॒ जाय॑ते॒ सो॑ऽभिश॒स्तः।
याम् अर॑ण्ये॒ तस्यै॑ स्ते॒नः ।

Keith

The son born of intercourse with (a woman) with stained garments is accursed;
(the son born) of intercourse in the forest is a thief;

मूलम्

याम्मल॑वद्वाससँ स॒म्भव॑न्ति ।
यस्ततो॒ जाय॑ते॒ सो॑ऽभिश॒स्तः।
यामर॑ण्ये॒ तस्यै॑ स्ते॒नः ।

पद-पाठः

याम् । मल॑वद्वासस॒मिति॒ मल॑वत्-वा॒स॒स॒म् । स॒म्भव॒न्तीति॑ सम्-भव॑न्ति । यः । ततः॑ । जाय॑ते । सः । अ॒भि॒श॒स्त इत्य॑भि-श॒स्तः । याम् । अर॑ण्ये । तस्यै॑ । स्ते॒नः ।

भट्टभास्कर-टीका

8यामित्यादि ॥ अभिशस्तः मिथ्यारोपित-पातकेन दूषितः गृहे अभिशस्तः,
अरण्ये स्तेनः चोरः ।

सायण-टीका

प्रसङ्गाद्रजस्वलाव्रतानि विधत्ते— यां मलवद्वाससमिति। **अभिशस्तो **मिथ्यापवादयुक्तः। यामरण्ये, मलावद्वासस ँ संभवन्तीत्यनुवर्तते।

विश्वास-प्रस्तुतिः

याम् +++(अशनादिना)+++ परा॑ची॒न्,
तस्यै॑ ह्रीत-मु॒ख्य् अ॑पग॒ल्भः ।

Keith

(the son born) of intercourse with a (woman) who turns away is shamefaced and retiring;

मूलम्

याम्परा॑ची॒न्तस्यै॑ ह्रीतमु॒ख्य॑पग॒ल्भः ।

पद-पाठः

याम् । परा॑चीम् । तस्यै॑ । ह्री॒त॒मु॒खीति॑ ह्रीत-मु॒खी । अ॒प॒ग॒ल्भ इत्य॑प-ग॒ल्भः ।

भट्टभास्कर-टीका

पराचीं स्वापाशनादिना अन्यपराम् ।
अवाङ्मुखं शयानामित्येके । ह्रीतमुखी लज्जावनतवदनः । कर्मधारयादिनिः । अप्रगल्भोऽपगतगल्भः ।

सायण-टीका

पराचीम् उच्चारणभीत्या लज्जया वा पराङ्मुखीम्। सभायामवाङ्मुखो वक्तुमशक्तो ह्रीतमुख्यपगल्भ इत्युच्यते।

विश्वास-प्रस्तुतिः

या स्नाति॒ तस्या॑ अ॒प्सु मारु॑कः ।

Keith

(the son born) of intercourse with a woman bathing is fated to drown;

मूलम्

या स्नाति॒ तस्या॑ अ॒प्सु मारु॑कः ।

पद-पाठः

या । स्नाति॑ । तस्याः॑ । अ॒प्स्वित्य॑प्-सु । मारु॑कः ।

भट्टभास्कर-टीका

अप्सु मारुकः अप्सु मरणशीलः । छान्दस उकञ् ।

सायण-टीका

मारुको मरणशीलः।

विश्वास-प्रस्तुतिः

या ऽभ्य॒ङ्क्ते तस्यै॑ दु॒श्चर्मा॑ ।

Keith

(the son born) of one who [6] anoints herself has a skin disease;

मूलम्

याऽभ्य॒ङ्क्ते तस्यै॑ दु॒श्चर्मा॑ ।

पद-पाठः

या । अ॒भ्य॒ङ्क्त इत्य॑भि-अ॒ङ्क्ते । तस्यै॑ । दु॒श्चर्मेति॑ दुः-चर्मा॑ ।

भट्टभास्कर-टीका

दुश्चर्मा कुष्ठी ।खलतिः केशशून्यमस्तकः ।

सायण-टीका

दुश्चर्मा कुष्टी। प्रलिखते भित्तौ चित्रादिकं करोति।

विश्वास-प्रस्तुतिः

या प्र॑लि॒खते॒ तस्यै॑ खल॒तिर् अ॑पमा॒री ।

Keith

(the son born) of one who combs her hair is bald and feeble;

मूलम्

या प्र॑लि॒खते॒ तस्यै॑ खल॒तिर॑पमा॒री ।

पद-पाठः

या । प्र॒लि॒खत॒ इति॑ प्र-लि॒खते॑ । तस्यै॑ । ख॒ल॒तिः । अ॒प॒मा॒रीत्य॑प-मा॒री ।

भट्टभास्कर-टीका

अपमारी अपमृत्युमान् । यद्वा - कुत्सितमरणः ।

सायण-टीका

खलतिः केशशून्यः। अपमारी दुर्मरणयुक्तः।

विश्वास-प्रस्तुतिः

याऽऽङ्क्ते तस्यै॑ का॒णः ।

Keith

(the son born) of one who anoints (her eyes) is blind;

मूलम्

याऽऽङ्क्ते तस्यै॑ का॒णः ।

पद-पाठः

या । आ॒ङ्क्त इत्या॑-अ॒ङ्क्ते । तस्यै॑ । का॒णः ।

भट्टभास्कर-टीका

काणः कुण्ठिताक्षः ।

सायण-टीका

काणः कुण्ठिताक्षः।

विश्वास-प्रस्तुतिः

या द॒तो धाव॑ते॒ - तस्यै॑ श्या॒वद॑न् ।

Keith

(the son born) of one who cleans her teeth has dirty teeth;

मूलम्

या द॒तो धाव॑ते॒ तस्यै॑ श्या॒वद॑न् ।

पद-पाठः

या । द॒तः । धाव॑ते । तस्यै॑ । श्या॒वद॒न्निति॑ श्या॒व-द॒न् ।

भट्टभास्कर-टीका

श्यावदन् व्याध्यापन्नदन्तः, मलिनदन्तो वा । ‘विभाषा श्यावारोकाभ्याम्’ दाति दतृभावः ।

सायण-टीका

श्यावदन् मलिनदन्तः ।

विश्वास-प्रस्तुतिः

या न॒खानि॑ निकृ॒न्तते॒ - तस्यै॑ कुन॒खी ।

Keith

(the son born) of one who cuts her nails has bad nails;

मूलम्

या न॒खानि॑ निकृ॒न्तते॒ तस्यै॑ कुन॒खी ।

पद-पाठः

या । न॒खानि॑ । नि॒कृ॒न्तत॒ इति॑ नि-कृ॒न्तते॑ । तस्यै॑ । कु॒न॒खी ।

भट्टभास्कर-टीका

कुनखी कुत्सितनखः । कृणत्ति कटं सृजति । विकरणव्यत्ययेन श्नम् ।

विश्वास-प्रस्तुतिः

या कृ॒णत्ति॒ - तस्यै॑ क्ली॒बः ।

Keith

(the son born) of one who spins is a eunuch;

मूलम्

या कृ॒णत्ति॒ तस्यै॑ क्ली॒बः ।

पद-पाठः

या । कृ॒णत्ति॑ । तस्यै॑ । क्ली॒बः ।

भट्टभास्कर-टीका

क्लीबः यो न स्त्री न पुमान् ।

सायण-टीका

कृणत्ति तृणादि च्छिनत्ति।

विश्वास-प्रस्तुतिः

या रज्जुँ॑ सृ॒जति॒ - तस्या॑ उ॒द्बन्धु॑कः ।

Keith

(the son born) of one who weaves ropes is unrestrained;

मूलम्

या रज्जुँ॑ सृ॒जति॒ तस्या॑ उ॒द्बन्धु॑कः +++(उ॒द्बन्धू॑कः इति सात्वलेकर-पाठः)+++ ।

पद-पाठः

या । रज्जु॑म् । सृ॒जति॑ । तस्याः॑ । उ॒द्बन्धु॑क॒ इत्यु॑त्-बन्धु॑कः ।

भट्टभास्कर-टीका

उद्बन्धुकः यो रज्ज्वा उद्बध्य आत्मानं व्यापादयति । पर्णेन पद्मदळादिना ।

सायण-टीका

उद्बन्धुको रज्जुं बद्ध्वा मरणशीलः।

विश्वास-प्रस्तुतिः

या प॒र्णेन॒ पिब॑ति॒ - तस्या॑ उ॒न्मादु॑कः ।

Keith

(the son born) of one who drinks from a leaf is drunken;

मूलम्

या प॒र्णेन॒ पिब॑ति॒ तस्या॑ उ॒न्मादु॑कः ।

पद-पाठः

या । प॒र्णेन॑ । पिब॑ति । तस्याः॑ । उ॒न्मादु॑क॒ इत्यु॑त्-मादु॑कः ।

भट्टभास्कर-टीका

उन्मादुकः उन्मदनशीलः । पूर्ववदुकञ् ।

विश्वास-प्रस्तुतिः

या ख॒र्वेण॒ - पिब॑ति॒ तस्यै॑ ख॒र्वः ।

Keith

(the son born) of one who drinks from a mutilated (vessel) is mutilated.

मूलम्

या ख॒र्वेण॒ पिब॑ति॒ तस्यै॑ ख॒र्वः ।

पद-पाठः

या । ख॒र्वेण॑ । पिब॑ति । तस्यै॑ । ख॒र्वः ।

भट्टभास्कर-टीका

खर्वः खरैनसोर्वर्तते(?) खण्डिताङ्गः खर्व इति केचित् ।

सायण-टीका

खर्वेण वह्नि पकेन शरावादिना। खर्वो वामनः।

विश्वास-प्रस्तुतिः

ति॒स्रो रात्री॑र् व्र॒तञ् च॑रेत् ।
अ॒ञ्ज॒लिना॑ वा॒ पिबे॒द् -
अख॑र्वेण वा॒ पात्रे॑ण प्र॒जायै॑ गोपी॒थाय॑ ॥

Keith

For three nights he should keep a vow and should drink from his hand or from a perfect vessel, to guard his offspring.

मूलम्

ति॒स्रो रात्री॑र्व्र॒तञ्च॑रेत् ।
अ॒ञ्ज॒लिना॑ वा॒ पिबे॑त् ।
अख॑र्वेण वा॒ पात्रे॑ण प्र॒जायै॑ गोपी॒थाय॑ ॥

पद-पाठः

ति॒स्रः । रात्रीः॑ । व्र॒तम् । च॒रे॒त् ।
अ॒ञ्ज॒लिना॑ । वा॒ । पिबे॑त् ।
अख॑र्वेण । वा॒ । पात्रे॑ण । प्र॒जाया॒ इति॑ प्र-जायै॑ । गो॒पी॒थाय॑ ॥

भट्टभास्कर-टीका

व्रतं यथोक्तस्वरूपं प्रजाया रक्षणार्थम् । औणादिकस्थप्रत्ययः, इडागमश्च ॥

इति द्वितीये पञ्चमे प्रथमोऽनुवाकः ॥

सायण-टीका

यस्मादुक्ता दोषा वर्तन्ते तस्मात्तत्परिहाराय रजस्वलाव्रतं संभवादिवर्जनरूपं नियममाचरेत्। भोजनेऽञ्जलिरदग्धशरावादिर्वा साधनमस्तु। व्रताचरणमुत्पत्स्यमानायाः प्रजाया रक्षणार्थं भवति।