दे॒वा॒सु॒रास् सय्ँय॑त्ता आस॒न्।
ते दे॒वा अ॑ब्रुव॒न्- यो नो॑ वी॒र्या॑वत्तम॒स् तमनु॑ स॒मार॑भामहा॒ इति।
त इन्द्र॑मब्रुव॒न् - त्वव्ँ वै नो॑ वी॒र्या॑वत्तमो ऽसि। त्वामनु॑ स॒मार॑भामहा॒ इति।
सो॑ऽब्रवीत्ति॒स्रो म॑ इ॒मास्त॒नुवो॑ वी॒र्या॑वती॒स्, ताᳶ प्री॑णी॒ताथासु॑रान॒भि भ॑विष्य॒थेति।
ता वै ब्रू॒हीत्य॑ब्रुवन्न्, इ॒यम् अँ॑हो॒मुग् इ॒यव्ँ वि॑मृ॒धेयमि॑न्द्रि॒याव॑ती इत्य॑ब्रवी॒त्।
त इन्द्रा॑याँहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपाल॒न् निर॑वप॒न्न्, इन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॑ते।
यदिन्द्रा॑याँहो॒मुचे॑ नि॒रव॑प॒न्नँह॑स ए॒व तेना॑मुच्यन्त।
यदिन्द्रा॑य वैमृ॒धाय॒ मृध॑+++(?)+++ ए॒व तेनापा॑घ्नत।
यदिन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यमे॒व तेना॒त्मन्न॑दधत।
त्रय॑स्त्रिँशत् कपालम् पुरो॒डाश॒न् निर॑वप॒न्। त्रय॑स्त्रिँश॒द्वै दे॒वता॒स्, ता इन्द्र॑ आ॒त्मन्न् अनु॑ स॒मार॑म्भयत॒ भूत्यै॑।
ताव्ँ वाव दे॒वा विजि॑तिम् उत्त॒माम् असु॑रै॒र्व्य॑जयन्त।
यो भ्रातृ॑व्यवा॒न्त् स्यात्, स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजे॒त-
इन्द्रा॑याँहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपाल॒न् निर्व॑पे॒द्, इन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॒ते।
अँह॑सा॒ वा ए॒ष गृ॑ही॒तो यस्मा॒च् छ्रेया॒न् भ्रातृ॑व्यो॒ - यदिन्द्रा॑याँहो॒मुचे॑ नि॒र्वप॒त्य् अँह॑स ए॒व तेन॑ मुच्यते।
मृ॒धा वा ए॒षो॑ ऽभिष॑ण्णो॒ यस्मा॑त् समा॒नेष्व॒न्यश् श्रेया॑नु॒त अभ्रा॑तृव्यो॒, यदिन्द्रा॑य वैमृ॒धाय॒ - मृध॑ ए॒व तेनाप॑ हते।
यदिन्द्रा॑येन्द्रि॒याव॑त - इन्द्रि॒यमे॒व तेना॒त्मन् ध॑त्ते।
त्रय॑स्त्रिँशत्कपालम्पुरो॒डाश॒न् निर्व॑पति॒- त्रय॑स्त्रिँश॒द्वै दे॒वता॒स् - ता ए॒व यज॑मान आ॒त्मन्न् अनु॑ स॒मार॑म्भयते॒ भूत्यै॑।
सा वा ए॒षा विजि॑ति॒र्नामेष्टि॒र् - य ए॒वव्ँवि॒द्वान् ए॒तयेष्ट्या॒ यज॑त - उत्त॒मामे॒व विजि॑ति॒म् भ्रातृ॑व्येण॒ वि ज॑यते ॥ [8]
विस्वरपाठः
देवासुरास्सय्ँयत्ता आसन्ते देवा अब्रुवन्यो नो वीर्यावत्तमस्तमनु समारभामहा इति त इन्द्रमब्रुवन्त्वव्ँ वै नो वीर्यावत्तमोऽसि त्वामनु समारभामहा इति सोऽब्रवीत्तिस्रो म इमास्तनुवो वीर्यावतीस्ताᳶ प्रीणीताथासुरानभि भविष्यथेति ता वै ब्रूहीत्यब्रुवन्नियमँहोमुगियव्ँविमृधेयमिन्द्रियावती [5] इत्यब्रवीत्त इन्द्रायाँहोमुचे पुरोडाशमेकादशकपालन्निरवपन्निन्द्राय वैमृधायेन्द्रायेन्द्रियावते यदिन्द्रायाँहोमुचे निरवपन्नँहस एव तेनामुच्यन्त यदिन्द्राय वैमृधाय मृध एव तेनापाघ्नत यदिन्द्रायेन्द्रियावत इन्द्रियमेव तेनात्मन्नदधत त्रयस्त्रिँशत्कपालम्पुरोडाशन्निरवपन्त्रयस्त्रिँशद्वै देवतास्ता इन्द्र आत्मन्ननु समारम्भयत भूत्यै [6] ताव्ँ वाव देवा विजितिमुत्तमामसुरैर्व्यजयन्त यो भ्रातृव्यवान्त्स्यात्स स्पर्धमान एतयेष्ट्या यजेतेन्द्रायाँहोमुचे पुरोडाशमेकादशकपालन्निर्वपेदिन्द्राय वैमृधायेन्द्रायेन्द्रियावतेऽँहसा वा एष गृहीतो यस्माच्छ्रेयान्भ्रातृव्यो यदिन्द्रायाँहोमुचे निर्वपत्यँहस एव तेन मुच्यते मृधा वा एषोऽभिषण्णो यस्मात्समानेष्वन्यश्श्रेयानुत [7] अभ्रातृव्यो यदिन्द्राय वैमृधाय मृध एव तेनाप हते यदिन्द्रायेन्द्रियावत इन्द्रियमेव तेनात्मन्धत्ते त्रयस्त्रिँशत्कपालम्पुरोडाशन्निर्वपति त्रयस्त्रिँशद्वै देवतास्ता एव यजमान आत्मन्ननु समारम्भयते भूत्यै सा वा एषा विजितिर्नामेष्टिर्य एवव्ँविद्वानेतयेष्ट्या यजत उत्तमामेव विजितिम्भ्रातृव्येण वि जयते ॥ [8]