दे॒वा म॑नु॒ष्याः॑ पि॒तर॒स् - ते॑ ऽन्यत॑ आस॒न्न्,
असु॑रा॒ रक्षाँ॑सि पिशा॒चास् ते॑ऽन्यत॒स्,
तेषा॑न्दे॒वाना॑मु॒त यदल्पल्ँ॒ लोहि॑त॒मकु॑र्व॒न्, तद्रक्षाँ॑सि॒ रात्री॑भिर् असुभ्न॒न्। तान्त्सु॒ब्धान्मृ॒तान॒भि व्यौ॑च्छ॒त्।
ते दे॒वा अ॑विदु॒र् - यो वै नो॒ ऽयम्म्रि॒यते॒ रक्षाँ॑सि॒ वा इ॒मङ् घ्न॒न्तीति।
ते रक्षाँ॒स्युपा॑मन्त्रयन्त। तान्य् अ॑ब्रुव॒न् वरव्ँ॑ वृणामहै॒ - यत् असु॑रा॒ञ् जया॑म॒ तन् न॑स् स॒हास॒दिति।
ततो॒ वै दे॒वा असु॑रान् अजय॒न्। तेऽसु॑राञ् जि॒त्वा रक्षाँ॒स्यपा॑नुदन्त।
तानि॒ रक्षाँ॒स्यनृ॑तम् अक॒र्तेति॑ सम॒न्तन् दे॒वान् पर्य॑विश॒न्।
ते दे॒वा अ॒ग्नाव॑नाथन्त।
ते॑ ऽग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न् निर॑वपन्न्, अ॒ग्नये॑ विबा॒धव॑ते॒, ऽग्नये॒ प्रती॑कवते।
यद॒ग्नये॒ प्रव॑ते नि॒रव॑प॒न् - यान्ये॒व पु॒रस्ता॒द् रक्षाँ॑सि आस॒न्, तानि॒ तेन॒ प्राणु॑दन्त।
यद॒ग्नये॑ विबा॒धव॑ते॒ - यान्य् ए॒वाभितो॒ रक्षाँ॒स्यास॒न्, तानि॒ तेन॒ व्य॑बाधन्त।
यद॒ग्नये॒ प्रती॑कवते॒ - यान्ये॒व प॒श्चाद् रक्षाँ॒स्यास॒न् तानि॒ तेनापा॑नुदन्त।
ततो॑ दे॒वा अभ॑व॒न् परासु॑रा।
यो भ्रातृ॑व्यवा॒न्त् स्यात्, स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेता॒ग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न् निर्व॑पेद्, अ॒ग्नये॑ विबा॒धव॑ते, अ॒ग्नये॒ प्रती॑कवते।
यद॒ग्नये॒ प्रव॑ते नि॒र्वप॑ति॒ - य ए॒वास्मा॒च् छ्रेया॒न् भ्रातृ॑व्य॒स्, तन् तेन॒ प्र णु॑दते।
यद॒ग्नये॑ विबा॒धव॑ते॒ - य ए॒वैने॑न स॒दृङ्, तन् तेन॒ वि बा॑धते।
यद॒ग्नये॒ प्रती॑कवते॒ - य ए॒वास्मा॒त् पापी॑या॒न् तन् तेनाप॑ नुदते।
प्र श्रेयाँ॑स॒म् भ्रातृ॑व्यन् नुद॒ते, ऽति॑ स॒दृश॑ङ्क्रामति॒, नैन॒म्पापी॑यान् आप्नोति॒ - य ए॒वव्ँवि॒द्वान् ए॒तयेष्ट्या॒ यज॑ते ॥ [4]
विस्वरपाठः
देवा मनुष्याः पितरस्तेऽन्यत आसन्नसुरा रक्षाँसि पिशाचास्तेऽन्यतस्तेषान्देवानामुत यदल्पल्ँलोहितमकुर्वन्तद्रक्षाँसि रात्रीभिरसुभ्नन्तान्त्सुब्धान्मृतानभि व्यौच्छत्ते देवा अविदुर्यो वै नोऽयम्म्रियते रक्षाँसि वा इमङ्घ्नन्तीति ते रक्षाँस्युपामन्त्रयन्त तान्यब्रुवन्वरव्ँवृणामहै यत् [1] असुराञ्जयाम तन्नस्सहासदिति ततो वै देवा असुरानजयन्तेऽसुराञ्जित्वा रक्षाँस्यपानुदन्त तानि रक्षाँस्यनृतमकर्तेति समन्तन्देवान्पर्यविशन्ते देवा अग्नावनाथन्त तेऽग्नये प्रवते पुरोडाशमष्टाकपालन्निरवपन्नग्नये विबाधवतेऽग्नये प्रतीकवते यदग्नये प्रवते निरवपन्यान्येव पुरस्ताद्रक्षाँसि [2] आसन्तानि तेन प्राणुदन्त यदग्नये विबाधवते यान्येवाभितो रक्षाँस्यासन्तानि तेन व्यबाधन्त यदग्नये प्रतीकवते यान्येव पश्चाद्रक्षाँस्यासन्तानि तेनापानुदन्त ततो देवा अभवन्परासुरा यो भ्रातृव्यवान्त्स्यात्स स्पर्धमान एतयेष्ट्या यजेताग्नये प्रवते पुरोडाशमष्टाकपालन्निर्वपेदग्नये विबाधवते [3] अग्नये प्रतीकवते यदग्नये प्रवते निर्वपति य एवास्माच्छ्रेयान्भ्रातृव्यस्तन्तेन प्र णुदते यदग्नये विबाधवते य एवैनेन सदृङ्तन्तेन वि बाधते यदग्नये प्रतीकवते य एवास्मात्पापीयान्तन्तेनाप नुदते प्र श्रेयाँसम्भ्रातृव्यन्नुदतेऽति सदृशङ्क्रामति नैनम्पापीयानाप्नोति य एवव्ँविद्वानेतयेष्ट्या यजते ॥ [4]