ओजोऽसि महत्त्वम्

परिचयः

अत्र संवर्गो नामेष्टिर् उच्यते। गायत्र्यावहने प्रयुज्यमानम् मन्त्रम् अपि स्तूयते।

ब्राह्मणम्

दे॒वा॒सु॒रास् सय्ँय॑त्ता आस॒न्।
तेषा॑ङ् गाय॒त्र्योजो॒ बल॑मिन्द्रि॒यव्ँ वी॒र्य॑म् प्र॒जाम् प॒शून्त् स॒ङ्गृह्या॒दाया॑प॒क्रम्या॑तिष्ठ॒त्।
ते॑ ऽमन्यन्त - यत॒रान् वा इ॒यमु॑पाव॒र्त्स्यति॒, त इ॒दम् भ॑विष्य॒न्तीति।

ताव्ँ व्य॑ह्वयन्त॒ - विश्व॑कर्म॒न्निति॑ दे॒वा, दाभीत्यसु॑रा॒स्,
सा नान्य॑त॒राँश् च॒ नोपाव॑र्तत।
ते दे॒वा ए॒तद्यजु॑र् अपश्य॒न्न् - ओजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि भ्राजो॑ऽसि दे॒वाना॒न्धाम॒ नामा॑सि॒ विश्व॑मसि वि॒श्वायु॒स्सर्व॑मसि स॒र्वायु॑रभि॒भूरिति।

वाव दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यव्ँ वी॒र्य॑म् प्र॒जाम् प॒शून् अ॑वृञ्जत।

यद् गा॑य॒त्र्य॑प॒क्रम्याति॑ष्ठ॒त् - तस्मा॑दे॒ताङ् गा॑य॒त्रीतीष्टि॑माहुस्,
सव्ँ वत्स॒रो वै गा॑य॒त्री, सव्ँ॑वत्स॒रो वै तद् अ॑प॒क्रम्या॑तिष्ठ॒द्,
यदे॒तया॑ दे॒वा असु॑राणा॒म् ओजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑म् प्र॒जाम् प॒शून् अवृ॑ञ्जत॒,
तस्मा॑द् ए॒ताँ सव्ँ॑व॒र्ग इतीष्टि॑माहु॒र्,

यो भ्रातृ॑व्यवा॒न्त् स्यात्, स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेता॒ग्नये॑ सव्ँव॒र्गाय॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न् निर्व॑पे॒त्।
तँ शृ॒तमास॑न्नमे॒तेन॒ यजु॑षा॒भि मृ॑शे॒द् - ओज॑ ए॒व बल॑म् इन्द्रि॒यव्ँ वी॒र्य॑म् प्र॒जाम् प॒शून् भ्रातृ॑व्यस्य वृङ्क्ते॒,
भव॑त्या॒त्मना॒, परा॑स्य॒ भ्रातृ॑व्यो भवति ॥ [11]

विस्वरपाठः

देवासुरास्सय्ँयत्ता आसन्तेषाङ्गायत्र्योजो बलमिन्द्रियव्ँवीर्यम्प्रजाम्पशून्त्सङ्गृह्यादायापक्रम्यातिष्ठत्तेऽमन्यन्त यतरान्वा इयमुपावर्त्स्यति त इदम्भविष्यन्तीति ताव्व्ँयह्वयन्त विश्वकर्मन्निति देवा दाभीत्यसुरास्सा नान्यतराँश्च नोपावर्तत ते देवा एतद्यजुरपश्यन्नोजोऽसि सहोऽसि बलमसि [9] भ्राजोऽसि देवानान्धाम नामासि विश्वमसि विश्वायुस्सर्वमसि सर्वायुरभिभूरिति वाव देवा असुराणामोजो बलमिन्द्रियव्ँवीर्यम्प्रजाम्पशूनवृञ्जत यद्गायत्र्यपक्रम्यातिष्ठत्तस्मादेताङ्गायत्रीतीष्टिमाहुस्सव्ँ वत्सरो वै गायत्री सव्ँवत्सरो वै तदपक्रम्यातिष्ठद्यदेतया देवा असुराणामोजो बलमिन्द्रियव्ँवीर्यम् [10] प्रजाम्पशूनवृञ्जत तस्मादेताँ सव्ँवर्ग इतीष्टिमाहुर्यो भ्रातृव्यवान्त्स्यात्स स्पर्धमान एतयेष्ट्या यजेताग्नये सव्ँवर्गाय पुरोडाशमष्टाकपालन्निर्वपेत्तँ शृतमासन्नमेतेन यजुषाभि मृशेदोज एव बलमिन्द्रियव्ँवीर्यम्प्रजाम्पशून्भ्रातृव्यस्य वृङ्क्ते भवत्यात्मना परास्य भ्रातृव्यो भवति ॥ [11]