गार्मुत-प्रजाकामेष्टिः

प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत।
ता अ॑स्मात् सृ॒ष्टाᳶ परा॑चीराय॒न्।
ता यत्राव॑स॒न्, ततो॑ ग॒र्मुद्+++(=घासविशेषः)+++ उद॑तिष्ठ॒त्।
ता बृह॒स्पति॑श् चा॒न्ववै॑ताँ॒ सो॑ ऽब्रवी॒द् बृह॒स्पति॑र् - अ॒नया॑ त्वा॒ प्र ति॑ष्ठा॒न्य्, अथ॑ त्वा प्र॒जा उ॒पाव॑र्त्स्य॒न्तीति॑। तम् प्राति॑ष्ठ॒त्। ततो॒ वै प्र॒जाप॑तिम् प्र॒जा उ॒पाव॑र्तन्त।

यᳶ प्र॒जाका॑म॒स् स्यात्, तस्मा॑ ए॒तम् प्रा॑जाप॒त्यङ् गा॑र्मु॒तञ् च॒रुन् निर्व॑पेत्।
प्र॒जाप॑तिम् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति। स ए॒वास्मै॑ प्र॒जाम्प्र ज॑नयति।