विश्वेदेवा ऋषयः ।
मूलम् (संयुक्तम्)
दे॒वा वै रा॑ज॒न्या॑ज्जाय॑मानादबिभयु॒स्तम॒न्तरे॒व सन्त॒न्दाम्नापौ॑म्भ॒न्त्स वा ए॒षोऽपो॑ब्धो जायते॒ यद्रा॑ज॒न्यो॑ यद्वा ए॒षोऽन॑पोब्धो॒ जाये॑त वृ॒त्रान्घ्नँश्च॑रे॒द्यङ्का॒मये॑त राज॒न्य॑मन॑पोब्धो जायेत वृ॒त्रान्घ्नँश्च॑रे॒दिति॒ तस्मा॑ ए॒तमै॑न्द्राबार्हस्प॒त्यञ्च॒रुन्निर्व॑पेदै॒न्द्रो वै रा॑ज॒न्यो॑ ब्रह्म॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वैन॒न्दाम्नो॒ऽपोम्भ॑नान्मुञ्चति हिर॒ण्मय॒न्दाम॒ दक्षि॑णा सा॒क्षादे॒वैन॒न्दाम्नो॒ऽपोम्भ॑नान्मुञ्चति ॥ [43]
विश्वास-प्रस्तुतिः
दे॒वा वै रा॑ज॒न्या॑ज्जाय॑मानादबिभयुः ।
तम॒न्तरे॒व सन्त॒न्दाम्नापौ॑म्भन् ।
स वा ए॒षोऽपो॑ब्धो जायते॒ यद्रा॑ज॒न्यः॑ ।
यद्वा ए॒षोऽन॑पोब्धो॒ जाये॑त ।
मूलम्
दे॒वा वै रा॑ज॒न्या॑ज्जाय॑मानादबिभयुः ।
तम॒न्तरे॒व सन्त॒न्दाम्नापौ॑म्भन् ।
स वा ए॒षोऽपो॑ब्धो जायते॒ यद्रा॑ज॒न्यः॑ ।
यद्वा ए॒षोऽन॑पोब्धो॒ जाये॑त ।
भट्टभास्कर-टीका
1देवा वा इत्यादि ॥ अन्तः गर्भ एव सन्तं दाम्ना अपौ म्भन् अपरुद्धशक्तिकाङ्गमबध्नन् । उभ उम्भ पूरणे ।
विश्वास-प्रस्तुतिः
वृ॒त्रान्घ्नँश्च॑रेत् ।
यङ्का॒मये॑त राज॒न्य॑मन॑पोब्धो जायेत।
वृ॒त्रान्घ्नँश्च॑रे॒दिति॑ ।
तस्मा॑ ए॒तमै॑न्द्राबार्हस्प॒त्यञ्च॒रुन्निर्व॑पेत् ।
ऐ॒न्द्रो वै रा॑ज॒न्यो॑ ब्रह्म॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वैन॒न्दाम्नो॒ऽपोम्भ॑नान्मुञ्चति ।
मूलम्
वृ॒त्रान्घ्नँश्च॑रेत् ।
यङ्का॒मये॑त राज॒न्य॑मन॑पोब्धो जायेत।
वृ॒त्रान्घ्नँश्च॑रे॒दिति॑ ।
तस्मा॑ ए॒तमै॑न्द्राबार्हस्प॒त्यञ्च॒रुन्निर्व॑पेत् ।
ऐ॒न्द्रो वै रा॑ज॒न्यो॑ ब्रह्म॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वैन॒न्दाम्नो॒ऽपोम्भ॑नान्मुञ्चति ।
भट्टभास्कर-टीका
वृत्रानिति । वारकान् शत्रून् ।
विश्वास-प्रस्तुतिः
हिर॒ण्मय॒न्दाम॒ दक्षि॑णा ।
सा॒क्षादे॒वैन॒न्दाम्नो॒ऽपोम्भ॑नान्मुञ्चति ॥
मूलम्
हिर॒ण्मय॒न्दाम॒ दक्षि॑णा ।
सा॒क्षादे॒वैन॒न्दाम्नो॒ऽपोम्भ॑नान्मुञ्चति ॥
भट्टभास्कर-टीका
अन्वाहार्यमासाद्य हिरण्मयं दाम दद्यात् ॥
इति द्वितीये चतुर्थे त्रयोदशोनुवाकः ॥
इति काम्या इष्टयस्समाप्ताः ॥