१२ राजन्यस्य शक्तिस्तम्भनिवारकश्चरुः

विश्वेदेवा ऋषयः ।

मूलम् (संयुक्तम्)

त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्रँ॒ सोम॒माह॑र॒त्तस्मि॒न्निन्द्र॑ उपह॒वमै॑च्छत॒ तन्नोपा॑ह्वयत पु॒त्रम्मे॑ऽवधी॒रिति॒ स य॑ज्ञवेश॒सङ्कृ॒त्वा प्रा॒सहा॒ सोम॑मपिब॒त्तस्य॒ यद॒त्यशि॑ष्यत॒ तत्त्वष्टा॑हव॒नीय॒मुप॒ प्राव॑र्तय॒त्स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॒ स याव॑दू॒र्ध्वᳶ प॑रा॒विध्य॑ति॒ ताव॑ति स्व॒यमे॒व व्य॑रमत

विश्वास-प्रस्तुतिः

त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्रँ॒ सोम॒माह॑रत् ।
तस्मि॒न्निन्द्र॑ उपह॒वमै॑च्छत ।

मूलम्

त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्रँ॒ सोम॒माह॑रत् ।
तस्मि॒न्निन्द्र॑ उपह॒वमै॑च्छत ।

भट्टभास्कर-टीका

1त्वष्टा हतपुत्र इत्यादि ॥ इन्द्रेण हतपुत्रस्त्वष्टा इन्द्रविरहितं सोममाहरत् ।

विश्वास-प्रस्तुतिः

तन्नोपा॑ह्वयत ।
पु॒त्रम्मे॑ऽवधी॒रिति॑ ।

मूलम्

तन्नोपा॑ह्वयत ।
पु॒त्रम्मे॑ऽवधी॒रिति॑ ।

भट्टभास्कर-टीका

तत एव तं यज्ञे नोपाह्वयत ।

विश्वास-प्रस्तुतिः

स य॑ज्ञवेश॒सङ्कृ॒त्वा प्रा॒सहा॒ सोम॑मपिबत् ।

मूलम्

स य॑ज्ञवेश॒सङ्कृ॒त्वा प्रा॒सहा॒ सोम॑मपिबत् ।

भट्टभास्कर-टीका

अथ स इन्द्रः यज्ञहिंसां कृत्वा प्रासहा प्रसह्य सोममपिबत् तेनाननुज्ञातो बलेनैवापिबत् । सहतेः क्विपि ‘न हिवृतिवृधि` इति पूर्वपदस्य दीर्घत्वम् ।

विश्वास-प्रस्तुतिः

तस्य॒ यद॒त्यशि॑ष्यत॒ तत्त्वष्टा॑हव॒नीय॒मुप॒ प्राव॑र्तयत् ।
स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॑ ।

मूलम्

तस्य॒ यद॒त्यशि॑ष्यत॒ तत्त्वष्टा॑हव॒नीय॒मुप॒ प्राव॑र्तयत् ।
स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॑ ।

भट्टभास्कर-टीका

अथ त्वष्टा इन्द्रपीतो यः तं सोमं गृहीत्वा तेनाहवनीयमुपेत्याग्निं प्रावर्तयत् उददीपयत् उदीर्णज्वालमकरोत् । उत्थापना प्रवर्तना । यथा - ‘यत्प्रावर्तत । तत्प्रवर्ग्यस्य प्रवर्ग्यत्वम्’ इति । स्वाहा स्वाहुतमिदं तवास्तु, हे अग्ने इन्द्रस्य शत्रुश्शातयिता वर्धस्वेति । एवमिन्द्रस्य विनाशमाशासानः ग्लानबुद्धिः प्रार्थयत ।

विश्वास-प्रस्तुतिः

स याव॑दू॒र्ध्वᳶ प॑रा॒विध्य॑ति॒, ताव॑ति स्व॒यमे॒व व्य॑रमत ।

मूलम्

स याव॑दू॒र्ध्वᳶ प॑रा॒विध्य॑ति॒, ताव॑ति स्व॒यमे॒व व्य॑रमत ।

भट्टभास्कर-टीका

अथ सोग्निस्तेनोद्दीपितः यावदूर्ध्वं गत्वा पराविध्यति पराहन्ति इन्द्रं बाधते तावति ततः प्रागेव अग्निस्स्वयमेव व्यरमत निवृत्तोद्योगोऽभवत् त्वष्टुरभिमतं नाकरोत् ।

केचिदाहुः - सोग्निस्त्वष्ट्रा उद्दीपितो यावदूर्ध्वः पराविध्यति यावत्याकाशप्रदेशे ऊर्ध्वो गत्वा पराविध्यति पराहन्ति तावति ततः प्रागेव तदीयोद्दीपनप्रयत्नानुरूपमूर्ध्वगतिं कृत्वैव अकस्माज्झडिति स्वयमेव व्यरमत विलुप्ततेजा अभवत् । अयमभिप्रायः - इन्द्रस्य शत्रुश्शातयिता नाशयिता अस्येत्यर्थस्स्यात्, ततश्चेन्द्रेण नाशयितव्यो वर्धत्वेति प्रार्थितत्वात् इन्द्रेण नाशयितव्यः कश्चिदस्या आहुतेर्जायेतेति तदनुरूपमेव अग्निना चेष्टितमागामिनमि[मि इ]न्द्रेणास्य निपातनमिति सूचयितुमिति । एवं स्वरापराधेन मन्त्रप्रयोगोऽभिमतविघातहेतुरसीत् । यथोक्तम् -
दुष्टश्शब्दस्स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुस्स्वरतोपराधात् ॥
इति । अयं च शत्रुशब्दः इदानीं क्रियाशब्दो द्रष्टव्यः ।

मूलम् (संयुक्तम्)

यदि॑ वा॒ ताव॑त्प्रव॒णम् [36] आसी॒द्यदि॑ वा॒ ताव॒दध्य॒ग्नेरासी॒त्स स॒म्भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भव॒त्स इ॑षुमा॒त्रमि॑षुमात्रव्ँ॒विष्व॑ङ्ङवर्धत॒ स इ॒माल्ँ लो॒कान॑वृणो॒द्यदि॒माल्ँ लो॒कानवृ॑णो॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वन्तस्मा॒दिन्द्रो॑ऽबिभे॒दपि॒ त्वष्टा

विश्वास-प्रस्तुतिः

यदि॑ वा॒ ताव॑त्प्रव॒णमासी॑त् ..
यदि॑ वा॒ ताव॒दध्य॒ग्नेरासीत् ।

मूलम्

यदि॑ वा॒ ताव॑त्प्रव॒णमासी॑त् ..
यदि॑ वा॒ ताव॒दध्य॒ग्नेरासीत् ।

भट्टभास्कर-टीका

2योस्स्माज्जायते यज्ञात् इन्द्रस्य वा शातयिता इन्द्रेण वा शातयितव्यः तस्यैव उद्भवस्स्यात् अभिभवो वा । अग्नेः किमायातमित्याह - यदि वेत्यादि ॥ यजमानस्य यदि वा प्रवणं अवनतिर्भवति, यदि वा आधिक्यमुच्छ्रायो भवति तदानीमग्नेरेव तावत्प्रवणं भवति, आधिक्यं चाग्नेरेव तावत् भवति । छान्दसो लुक् । ‘निपातैर्यद्यदिहन्त’ इति निघाताभावः ।

विश्वास-प्रस्तुतिः

स स॒म्भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भवत् ।

मूलम्

स स॒म्भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भवत् ।

भट्टभास्कर-टीका

स सम्भवन्नित्यादि । स इन्द्रशत्रुत्वेन वर्धमानोग्निजन्मा पुरुषः संभवन् विश्वं जगद्व्याप्नुवन् अग्नीषोमावप्याक्रम्य समभवत् अग्नीषोमावप्यभिव्याप्तवान् । प्रमाणेनातिरेकस्संभवः ।

विश्वास-प्रस्तुतिः

स इ॑षुमा॒त्रमि॑षुमात्रव्ँ॒विष्व॑ङ्ङवर्धत ।

मूलम्

स इ॑षुमा॒त्रमि॑षुमात्रव्ँ॒विष्व॑ङ्ङवर्धत ।

भट्टभास्कर-टीका

ततो वशीकृत्याग्नीषोमाविषुप्रमाणया वृद्ध्या दिनेदिने विष्वङ् नानागतिः अवर्धत ।

विश्वास-प्रस्तुतिः

स इ॒माल्ँ लो॒कान॑वृणोत् ।

मूलम्

स इ॒माल्ँ लो॒कान॑वृणोत् ।

भट्टभास्कर-टीका

क्रमेण इमान् सर्वानपि लोकानावृणोद्व्याप्तवान् ।

विश्वास-प्रस्तुतिः

तद्वृ॒त्रस्य॑ वृत्र॒त्वम् ।

मूलम्

तद्वृ॒त्रस्य॑ वृत्र॒त्वम् ।

भट्टभास्कर-टीका

ततश्च स वरणाद्वृत्र उच्यते ।

विश्वास-प्रस्तुतिः

तस्मा॒दिन्द्रो॑ऽबिभे॒दपि॒ त्वष्टा ।

मूलम्

तस्मा॒दिन्द्रो॑ऽबिभे॒दपि॒ त्वष्टा ।

भट्टभास्कर-टीका

तस्मादिन्द्रोऽबिभेत् । त्वष्टाप्यबिभेत् । यस्तस्य प्रवर्तयिता सोप्यबिभेदित्यपिशब्दस्यार्थः ॥

मूलम् (संयुक्तम्)

तस्मै॒ त्वष्टा॒ वज्र॑मसिञ्च॒त्तपो॒ वै स वज्र॑ आसी॒त्तमुद्य॑न्तु॒न्नाश॑क्नो॒दथ॒ वै तर्हि॒ विष्णुः॑ [37] अ॒न्या दे॒वता॑सी॒त्सो॑ऽब्रवी॒द्विष्ण॒वेही॒दमा ह॑रिष्यावो॒ येना॒यमि॒दमिति॒ स विष्णु॑स्त्रे॒धात्मानव्ँ॒वि न्य॑धत्त पृथि॒व्यान्तृती॑यम॒न्तरि॑क्षे॒ तृती॑यन्दि॒वि तृती॑यमभिपर्याव॒र्ताद्ध्यबि॑भेत्

विश्वास-प्रस्तुतिः

तस्मै॒ त्वष्टा॒ वज्र॑मसिञ्चत् ।
तपो॒ वै स वज्र॑ आसीत् ।

मूलम्

तस्मै॒ त्वष्टा॒ वज्र॑मसिञ्चत् ।
तपो॒ वै स वज्र॑ आसीत् ।

भट्टभास्कर-टीका

3तस्मा इत्यादि ॥ अथ त्वष्टा तस्मै वृत्राय तं वृत्रं निग्रहीतुम् । यद्वा - तस्मै इन्द्राय युद्धार्थिने वज्रमायुधं असिञ्चत् उदपादयत् । तपोविशेषस्तेनोत्पादितः स स्वयं वज्र एवाभवत्, यद्वा - तदीयं तपो वज्रत्वेनातिष्ठत् ।

विश्वास-प्रस्तुतिः

तमुद्य॑न्तु॒न्नाश॑क्नोत् ।

मूलम्

तमुद्य॑न्तु॒न्नाश॑क्नोत् ।

भट्टभास्कर-टीका

अथेन्द्रः केवलस्तमुद्धर्तुं नाशक्नोत् ।

विश्वास-प्रस्तुतिः

अथ॒ वै तर्हि॒ विष्णु॑र॒न्या दे॒वता॑सीत् ।

मूलम्

अथ॒ वै तर्हि॒ विष्णु॑र॒न्या दे॒वता॑सीत् ।

भट्टभास्कर-टीका

अथ तर्हि तदानीं विष्णुर्नाम अन्या देवता आसीत् इन्द्राय विषीदते आविरासीत् ।

विश्वास-प्रस्तुतिः

सो॑ऽब्रवीत् ।
विष्ण॒वे ही॒दमा ह॑रिष्यावो॒ येना॒यमि॒दमिति॑ ।

मूलम्

सो॑ऽब्रवीत् ।
विष्ण॒वे ही॒दमा ह॑रिष्यावो॒ येना॒यमि॒दमिति॑ ।

भट्टभास्कर-टीका

अथेन्द्रस्तमब्रवीत्, हे विष्णो एहि इदमस्य वीर्यमाहरिष्यावः येन वीर्येणायमिदं विश्वमभूदिति ।

विश्वास-प्रस्तुतिः

स विष्णु॑स्त्रे॒धात्मानव्ँ॒वि न्य॑धत्त ।

मूलम्

स विष्णु॑स्त्रे॒धात्मानव्ँ॒वि न्य॑धत्त ।

भट्टभास्कर-टीका

स विष्णुरित्यादि । गतम् ।

विश्वास-प्रस्तुतिः

पृथि॒व्यान्तृती॑यम॒न्तरि॑क्षे॒ तृती॑यन्दि॒वि तृती॑यमभिपर्याव॒र्ताद्ध्यबि॑भेत् ।

मूलम्

पृथि॒व्यान्तृती॑यम॒न्तरि॑क्षे॒ तृती॑यन्दि॒वि तृती॑यमभिपर्याव॒र्ताद्ध्यबि॑भेत् ।

भट्टभास्कर-टीका

अभिपर्यावर्तादिति । अभितः परितस्सर्वतः आक्रमणमभिपर्यावर्तः, तत्परिहारार्थं तं वृत्रो मा कार्षीदिति लोकत्रयेप्यात्मानं त्रेधा विभज्य स्थापितवान् ॥

मूलम् (संयुक्तम्)

यत्पृ॑थि॒व्यान्तृती॑य॒मासी॒त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थित॒स्सो॑ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् [38] मयि॑ वी॒र्य॑न्तत्ते॒ प्र दा॑स्या॒मीति॒ तद॑स्मै॒ प्राय॑च्छ॒त्तत्प्रत्य॑गृह्णा॒दधा॒ मेति॒ तद्विष्ण॒वेति॒ प्राय॑च्छ॒त्तद्विष्णु॒ᳶ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यन्द॑धा॒त्विति

विश्वास-प्रस्तुतिः

यत्पृ॑थि॒व्यान्तृती॑यमासी॑त्।
तेनेन्द्रो॒ वज्र॒मुद॑यच्छत् ।
विष्ण्व॑नुस्थितः ..

मूलम्

यत्पृ॑थि॒व्यान्तृती॑यमासी॑त्।
तेनेन्द्रो॒ वज्र॒मुद॑यच्छत् ।
विष्ण्व॑नुस्थितः ..

भट्टभास्कर-टीका

4यत्पृथिव्यामित्यादि ॥ तेन तृतीयेन सह ।
विष्ण्वनुस्थितः विष्णुना गुणभावेन धारितः, सारथिनेव राजा गुणभावेन । अनोः कर्मप्रवचनीयत्वम्, उपसर्गत्वाभावात् ‘उपसर्गात्सुनोति’ इत्यादिना षत्वाभावः , कर्मप्रवचनीयत्वेपि व्यत्ययेन समासः ।

विश्वास-प्रस्तुतिः

सो॑ऽब्रवीत् ।
मा मे॒ प्र हाः॑ ।

मूलम्

सो॑ऽब्रवीत् ।
मा मे॒ प्र हाः॑ ।

भट्टभास्कर-टीका

अथ सोब्रवीद्वृत्रः मा मां प्रहाः प्रहार्षीः । सिचि वृद्धौ ‘बहुलं छन्दसि’ इतीडाभावः ।

विश्वास-प्रस्तुतिः

अस्ति॒ वा इ॒दम्मयि॑ वी॒र्य॑न्तत्ते॒ प्र दा॑स्या॒मीति॑ ।

मूलम्

अस्ति॒ वा इ॒दम्मयि॑ वी॒र्य॑न्तत्ते॒ प्र दा॑स्या॒मीति॑ ।

भट्टभास्कर-टीका

अस्ति वा इत्यादि । गतम् ।

विश्वास-प्रस्तुतिः

तद॑स्मै॒ प्राय॑च्छ॒त् , तत्प्रत्य॑गृह्णा॒दधा॒मेति॑ ।
तद्विष्ण॒वेऽति॒ प्राय॑च्छत् ।

मूलम्

तद॑स्मै॒ प्राय॑च्छ॒त् , तत्प्रत्य॑गृह्णा॒दधा॒मेति॑ ।
तद्विष्ण॒वेऽति॒ प्राय॑च्छत् ।

भट्टभास्कर-टीका

अथ वृत्रेण दत्तं वीर्यं तद्विष्णवे आत्मानमतीत्य प्रायच्छत् । यद्वा - प्रतिग्रहानन्तरं तस्यान्यस्मै प्रदानमिति । कि ब्रुवन् अधामेति । मामधाः धारितवान् त्वमिति विष्णुं वदन् ।

विश्वास-प्रस्तुतिः

तद्विष्णु॒ᳶ प्रत्य॑गृह्णत् ।

मूलम्

तद्विष्णु॒ᳶ प्रत्य॑गृह्णत् ।

भट्टभास्कर-टीका

विष्णुश्च तत्प्रत्यगृह्णात्,

विश्वास-प्रस्तुतिः

अ॒स्मास्विन्द्र॑ इन्द्रि॒यन्द॑धा॒त्विति॑ ।

मूलम्

अ॒स्मास्विन्द्र॑ इन्द्रि॒यन्द॑धा॒त्विति॑ ।

भट्टभास्कर-टीका

कथं मन्यमानः? इन्द्रोस्मास्विन्द्रियं दधातु आस्थापयतु इन्द्रार्थमेव मयि तिष्ठत्विति ॥

मूलम् (संयुक्तम्)

यद॒न्तरि॑क्षे॒ तृती॑य॒मासी॒त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थित॒स्सो॑ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् [39] मयि॑ वी॒र्य॑न्तत्ते॒ प्र दा॑स्या॒मीति॒ तद॑स्मै॒ प्राय॑च्छ॒त्तत्प्रत्य॑गृह्णा॒द्द्विर्मा॑धा॒ इति॒ तद्विष्ण॒वेति॒ प्राय॑च्छ॒त्तद्विष्णु॒ᳶ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यन्द॑धा॒त्विति

विश्वास-प्रस्तुतिः

यद॒न्तरि॑क्षे॒ तृती॑य॒मासी॑त् ।
तेनेन्द्रो॒ वज्र॒मुद॑यच्छत् ।
विष्ण्व॑नुस्थित॒स्सो॑ऽब्रवीत् ।
मा मे॒ प्र हाः॑ ।
अस्ति॒ वा इ॒दम् मयि॑ वी॒र्य॑न्तत्ते॒ प्र दा॑स्या॒मीति॑ ।
तद॑स्मै॒ प्राय॑च्छत् ।
तत्प्रत्य॑गृह्णात् ।
द्विर्मा॑ऽधा॒ इति॑ ।
तद्विष्ण॒वेेऽति॒ प्राय॑च्छत् ।
तद्विष्णु॒ᳶ प्रत्य॑गृह्णात् ।
अ॒स्मास्विन्द्र॑ इन्द्रि॒यन्द॑धा॒त्विति॑ ।

मूलम्

यद॒न्तरि॑क्षे॒ तृती॑य॒मासी॑त् ।
तेनेन्द्रो॒ वज्र॒मुद॑यच्छत् ।
विष्ण्व॑नुस्थित॒स्सो॑ऽब्रवीत् ।
मा मे॒ प्र हाः॑ ।
अस्ति॒ वा इ॒दम् मयि॑ वी॒र्य॑न्तत्ते॒ प्र दा॑स्या॒मीति॑ ।
तद॑स्मै॒ प्राय॑च्छत् ।
तत्प्रत्य॑गृह्णात् ।
द्विर्मा॑ऽधा॒ इति॑ ।
तद्विष्ण॒वेेऽति॒ प्राय॑च्छत् ।
तद्विष्णु॒ᳶ प्रत्य॑गृह्णात् ।
अ॒स्मास्विन्द्र॑ इन्द्रि॒यन्द॑धा॒त्विति॑ ।

भट्टभास्कर-टीका

5यदन्तरिक्ष इत्यादि समानम् ॥ द्विर्माधाः इति विशेषः द्वौ वारौ मां धारितवानिति ॥

मूलम् (संयुक्तम्)

यद्दि॒वि तृती॑य॒मासी॒त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थित॒स्सो॑ऽब्रवी॒न्मा मे॒ प्र हा॒र्येना॒हम् [40] इ॒दमस्मि॒ तत्ते॒ प्र दा॑स्या॒मीति॒ त्वी (३) इत्य॑ब्रवीत्स॒न्धान्तु सन्द॑धावहै॒ त्वामे॒व प्र वि॑शा॒नीति॒ यन्माम्प्र॑वि॒शेᳵ किम्मा॑ भुञ्ज्या॒ इत्य॑ब्रवी॒त्त्वामे॒वेन्धी॑य॒ तव॒ भोगा॑य॒ त्वाम्प्र वि॑शेय॒मित्य॑ब्रवी॒त्तव्ँ वृ॒त्रᳶ प्रावि॑शदु॒दरव्ँ॒ वै वृ॒त्रः क्षुत्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यः [41] ए॒वव्ँ वेद॒ हन्ति॒ क्षुध॒म्भ्रातृ॑व्य॒न्तद॑स्मै॒ प्राय॑च्छ॒त्तत्प्रत्य॑गृह्णा॒त्त्रिर्मा॑धा॒ इति॒ तद्विष्ण॒वेति॒ प्राय॑च्छ॒त्तद्विष्णु॒ᳶ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यन्द॑धा॒त्विति॒ यत्त्रिᳶ प्राय॑च्छ॒त्त्रिᳶ प्र॒त्यगृ॑ह्णा॒त्तत्त्रि॒धातो॑स्त्रिधातु॒त्वय्ँयद्विष्णु॑र॒न्वति॑ष्ठत॒ विष्ण॒वेति॒ प्राय॑च्छ॒त्तस्मा॑दैन्द्रावैष्ण॒वँ ह॒विर्भ॑वति

विश्वास-प्रस्तुतिः

यद्दि॒वि तृती॑यमासी॑त् ।
तेनेन्द्रो॒ वज्र॒मुद॑यच्छत् ।
विष्ण्व॑नुस्थित॒स्सो॑ऽब्रवीत् ।
मा मे॒ प्र हाः॑।

मूलम्

यद्दि॒वि तृती॑यमासी॑त् ।
तेनेन्द्रो॒ वज्र॒मुद॑यच्छत् ।
विष्ण्व॑नुस्थित॒स्सो॑ऽब्रवीत् ।
मा मे॒ प्र हाः॑।

भट्टभास्कर-टीका

6यद्दिवीत्यादि ॥ गतम् ।

विश्वास-प्रस्तुतिः

येना॒हमि॒दमस्मि॒ तत्ते॒ प्र दा॑स्या॒मीति॑ ।
त्वी (३) इत्य॑ब्रवीत् ।

मूलम्

येना॒हमि॒दमस्मि॒ तत्ते॒ प्र दा॑स्या॒मीति॑ ।
त्वी (३) इत्य॑ब्रवीत् ।

भट्टभास्कर-टीका

येनाहमिदमिति । पूर्वं वीर्यैकदेशः वृत्रेणेन्द्राय दत्तः, इदानीं कृत्स्नप्रदानमभ्युपगच्छति येन वीर्येणाहं इदं विश्वमस्मि तत्सर्वं ते दास्यामीति अब्रवीत् इन्द्रः बाढमितीत्यर्थः । अभ्युपगमे प्लुतः ।

विश्वास-प्रस्तुतिः

स॒न्धान्तु सन्द॑धावहै॒ त्वामे॒व प्र वि॑शा॒नीति॑ ।

मूलम्

स॒न्धान्तु सन्द॑धावहै॒ त्वामे॒व प्र वि॑शा॒नीति॑ ।

भट्टभास्कर-टीका

अथ वृत्रोब्रवीत् सन्धान्त्विति । त्वं चाहं च एकत्वं प्रतिपद्यावहा इत्यर्थः । यद्वा - त्वी इति पर्यनुयोगे विस्मृतस्मरणे वा । सर्वं वीर्यं ते प्रदास्यामीत्युक्तं अत्र किंचिद्विस्मृतं तदिदानीं स्मृतमिति स्मृतिमभिनीयाब्रवीत् वृत्रे एव संधां त्विति । तुशब्दो विशेषमाह ।

सर्वं वीर्यं ते प्रदास्यामि किं तु आवां संदधावहै त्वामेवाहं प्रविशानि यदिदं लभ्यते ततो वीर्यं दास्य्ते इति । ‘गोपोषं पुष्णाति’ इतिवदेकस्सन्दधातिः सामान्यवचनो द्रष्टव्यः ।

विश्वास-प्रस्तुतिः

यन्माम्प्र॑वि॒शेᳵ किम्मा॑ भुञ्ज्या॒ इत्य॑ब्रवीत् ।

मूलम्

यन्माम्प्र॑वि॒शेᳵ किम्मा॑ भुञ्ज्या॒ इत्य॑ब्रवीत् ।

भट्टभास्कर-टीका

अथेन्द्रोब्रवीत् यदा त्वं मां प्रविशेः किमिदानीं मां प्रविश्य त्वं मा भुञ्जाः । यद्वा - किं मां प्रविश्य मामेव भुञ्जाः किं मामेव भोक्तुमारभसे ।

विश्वास-प्रस्तुतिः

त्वामे॒वेन्धी॑य ।
तव॒ भोगा॑य॒ त्वाम्प्र वि॑शेय॒मित्य॑ब्रवीत् ।
तव्ँ वृ॒त्रᳶ प्रावि॑शत् ।

मूलम्

त्वामे॒वेन्धी॑य ।
तव॒ भोगा॑य॒ त्वाम्प्र वि॑शेय॒मित्य॑ब्रवीत् ।
तव्ँ वृ॒त्रᳶ प्रावि॑शत् ।

भट्टभास्कर-टीका

अथ वृत्रोब्रवीत् मैवं मन्तव्यं त्वामेवेन्धीय दीपयेयं अतस्तवैव भोगार्थं त्वां प्रविशेयमिति । भुञ्जेर्लोट्याडागमः, छान्दसोकारलोपः, लुग्विकरणत्वेन वा अयम् । अथेन्द्रेणानु[नुमतो]भूत्वा स्थितः यत्र क्षुदुपजायते जाठराग्निरूपेणान्तः प्रविशतीत्यर्थः । स च क्षुद्रूपो दिने दिने सर्वैर्हन्यते ।

विश्वास-प्रस्तुतिः

उ॒दरव्ँ॒ वै वृ॒त्रः, क्षुत्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ य
ए॒वव्ँ वेद॒ हन्ति॑ ।

मूलम्

उ॒दरव्ँ॒ वै वृ॒त्रः, क्षुत्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ य
ए॒वव्ँ वेद॒ हन्ति॑ ।

भट्टभास्कर-टीका

क्षुत्खल्वित्यादि वेदितुः फलम् ।

विश्वास-प्रस्तुतिः

क्षुध॒म्भ्रातृ॑व्य॒न्तद॑स्मै॒ प्राय॑च्छत् ।

मूलम्

क्षुध॒म्भ्रातृ॑व्य॒न्तद॑स्मै॒ प्राय॑च्छत् ।

भट्टभास्कर-टीका

अथ वृत्रः तच्चात्मीयं वीर्यं कृत्स्नं इन्द्राय प्रायच्छत् तत्प्रवेशेन सर्वशक्तिरिन्द्रोभवत्

विश्वास-प्रस्तुतिः

तत्प्रत्य॑गृह्णात् ।
त्रिर्मा॑ धा॒ इति॑ ।
तद्विष्ण॒वेेऽति॒ प्राय॑च्छत् ।

मूलम्

तत्प्रत्य॑गृह्णात् ।
त्रिर्मा॑ धा॒ इति॑ ।
तद्विष्ण॒वेेऽति॒ प्राय॑च्छत् ।

भट्टभास्कर-टीका

इन्द्रश्च तत्प्रतिगृह्य विष्णवे प्रायच्छत् त्रिर्मा धाः त्रीन् वारान् मां धारितवानसीति ।

विश्वास-प्रस्तुतिः

तद्विष्णु॒ᳶ प्रत्य॑गृह्णात् ।
अ॒स्मास्विन्द्र॑ इन्द्रि॒यन्द॑धा॒त्विति॑ ।

मूलम्

तद्विष्णु॒ᳶ प्रत्य॑गृह्णात् ।
अ॒स्मास्विन्द्र॑ इन्द्रि॒यन्द॑धा॒त्विति॑ ।

भट्टभास्कर-टीका

विष्णुरित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

यत्त्रिᳶ प्राय॑च्छत् ।
त्रिᳶ प्र॒त्यगृ॑ह्णात् ।
तत्त्रि॒धातो॑स्त्रिधातु॒त्वम् ।

भट्टभास्कर-टीका

1यत्त्रित्यादि ॥ दानप्रतिग्रहयोस्त्रिरावृत्त्या त्रिधातुत्वं, वृत्रो दाता इन्द्रः प्रतिग्रहीता । त्रयो धातवो दानानि वा[धा]रणानि वा अस्येति त्रिधातुर्वीर्यावीशेषः, तत्सम्बन्धी यागस्रैधातवीयं, इह त्वभेदेनोच्यते ।

विश्वास-प्रस्तुतिः

यद्विष्णु॑र॒न्वति॑ष्ठत ।
विष्ण॒वेेऽति॒ प्राय॑च्छत् ।
तस्मा॑दैन्द्रावैष्ण॒वँ ह॒विर्भ॑वति ।

मूलम्

यद्विष्णु॑र॒न्वति॑ष्ठत ।
विष्ण॒वेेऽति॒ प्राय॑च्छत् ।
तस्मा॑दैन्द्रावैष्ण॒वँ ह॒विर्भ॑वति ।

भट्टभास्कर-टीका

यद्विष्णुरित्यादि । यस्माद्विष्णुरिन्द्रमन्वतिष्ठत यस्माच्च विष्णवे इन्द्रोतिप्रायच्छत् तस्मादैन्द्रावैष्णवं हविर्भवति ॥

मूलम् (संयुक्तम्)

यद्वा इ॒दङ्किञ्च॒ तद॑स्मै॒ तत्प्राय॑च्छ॒दृच॒स्सामा॑नि॒ यजूँ॑षि स॒हस्रव्ँ॒ वा अ॑स्मै॒ तत्प्राय॑च्छ॒त्तस्मा॑त्स॒हस्र॑दक्षिणम् ॥ [42]

विश्वास-प्रस्तुतिः

यद्वा इ॒दङ्किञ्च॒ तद॑स्मै॒ तत्प्राय॑च्छत् ।

मूलम्

यद्वा इ॒दङ्किञ्च॒ तद॑स्मै॒ तत्प्राय॑च्छत् ।

भट्टभास्कर-टीका

8यद्वा इति ॥ यत्किंचिदात्मनि वीर्यं विद्यते ऋचस्सामानि यजूंषि च, ऋगादिनिमित्तमिति यावत्, तत्सर्वं अस्मै इन्द्राय तदानीं वृत्रहा प्रायच्छत् । अत एव पूर्वानुवाके दक्षिणाभूतानां हिरण्यादीनां सामादिरूपेण वर्णना कृता ।

विश्वास-प्रस्तुतिः

ऋच॒स्सामा॑नि॒ यजूँ॑षि स॒हस्रव्ँ॒ वा अ॑स्मै॒ तत्प्राय॑च्छत् ।
तस्मा॑त्स॒हस्र॑दक्षिणम् ॥

मूलम्

ऋच॒स्सामा॑नि॒ यजूँ॑षि स॒हस्रव्ँ॒ वा अ॑स्मै॒ तत्प्राय॑च्छत् ।
तस्मा॑त्स॒हस्र॑दक्षिणम् ॥

भट्टभास्कर-टीका

सहस्रं वा इति । सहस्रं वीर्याणि सहस्रप्रकारं वीर्यं तदा प्रायच्छत् । तस्मात्सहस्रहिरण्यदक्षिणत्वमस्य पूर्वमुक्तम् ॥

इति द्वितीये चतुर्थे द्वादशोनुवाकः ॥