सर्वकामार्थिनः , अभिचर्यमाणस्य, सहस्रेण यक्ष्यमाणस्य, बहुविधयज्ञसाधनद्रव्यार्थिनश्च त्रैधातवीष्टिः ।
विश्वेदेवा ऋषयः ।
- त्रैधातवीयेष्टेर्देवतार्थमाख्यायिका ।
मूलम् (संयुक्तम्)
सर्वा॑णि॒ छन्दाँ॑स्ये॒तस्या॒मिष्ट्या॑म॒नूच्या॒नीत्या॑हुस्त्रि॒ष्टुभो॒ वा ए॒तद्वी॒र्यय्ँ॑यत्क॒कुदु॒ष्णिहा॒ जग॑त्यै॒ यदु॑ष्णिहक॒कुभा॑व॒न्वाह॒ तेनै॒व सर्वा॑णि॒ छन्दाँ॒स्यव॑ रुन्द्धे
विश्वास-प्रस्तुतिः
सर्वा॑णि॒ छन्दाँ॑स्ये॒तस्या॒मिष्ट्या॑म॒नूच्या॒नीत्या॑हुः ।
मूलम्
सर्वा॑णि॒ छन्दाँ॑स्ये॒तस्या॒मिष्ट्या॑म॒नूच्या॒नीत्या॑हुः ।
भट्टभास्कर-टीका
1सर्वाणि छन्दांसीत्यादि ॥ अस्ति त्रैधातवीयेष्टिः । तां विधास्यन् प्रथमं तद्गतान् कांश्चिद्विशेषान्विदधाति । तस्यामिष्ट्यां सामिधेनीषु सर्वाणि छन्दांसि अनूच्यानीति यज्ञविद आहुः । वचेः छान्दसः क्विप् ।
विश्वास-प्रस्तुतिः
त्रि॒ष्टुभो॒ वा ए॒तद्वी॒र्यय्ँ॑यत्क॒कुत् ।
मूलम्
त्रि॒ष्टुभो॒ वा ए॒तद्वी॒र्यय्ँ॑यत्क॒कुत् ।
भट्टभास्कर-टीका
तत्कथमित्याह - त्रिष्टुभ इत्यादि । ककुन्नाम त्रिष्टुभो वीर्यं वीर्यपरिणामः कार्य इत्यर्थः ।
विश्वास-प्रस्तुतिः
उ॒ष्णिहा॒ जग॑त्यै॒ +++(वीर्यम्)+++ ।
मूलम्
उ॒ष्णिहा॒ जग॑त्यै॒ +++(वीर्यम्)+++ ।
भट्टभास्कर-टीका
उष्णिहा नाम जगत्या वीर्यम् । उष्णिक्पर्याय उष्णिहाशब्दः । तस्मादुष्णिहककुभोर्यदनुवचनं लोके समिद्ध्यमानवतीसमिद्धवत्योर्मध्ये निधानं तेन सर्वच्छन्दोवरोधः ।
विश्वास-प्रस्तुतिः
यदु॑ष्णिहक॒कुभा॑व॒न्वाह॑ ।
तेनै॒व सर्वा॑णि॒ छन्दाँ॒स्यव॑ रुन्द्धे ।
मूलम्
यदु॑ष्णिहक॒कुभा॑व॒न्वाह॑ ।
तेनै॒व सर्वा॑णि॒ छन्दाँ॒स्यव॑ रुन्द्धे ।
भट्टभास्कर-टीका
प्रकृतिं गायत्रीं, वैकृत्यौ चोष्णिक्ककुभौ तत्कारणे च त्रिष्टुब्जगत्याविति । तत्र ‘प्र सो अग्ने तवोतिभिः’ ‘प्र होत्रे पूर्व्यं वचः’ इत्येते उष्णिक्ककुभौ वेदितव्ये । तत्र प्रथमा ककुप्, मध्यमस्य पादस्य द्वादशाक्षरत्वात् । द्वितीया परोष्णिक्, तृतीयस्य पादस्य द्वादशाक्षरत्वात् । अत्र ककुदुष्णिहाविति वक्तव्ये उष्णिह ककुभाविति विपर्यासश्छान्दसः ॥
विश्वास-प्रस्तुतिः
गा॒य॒त्री वा ए॒षा यदु॒ष्णिहा॒ यानि॑ च॒त्वार्यध्य॒क्षरा॑णि॒ चतु॑ष्पाद ए॒व ते प॒शवः॑।
मूलम्
गा॒य॒त्री वा ए॒षा यदु॒ष्णिहा॒ यानि॑ च॒त्वार्यध्य॒क्षरा॑णि॒ चतु॑ष्पाद ए॒व ते प॒शवः॑।
भट्टभास्कर-टीका
2गायत्री वा इत्यादि ॥ गायत्री वैषेयमुष्णिक्त्वादुष्णिग्ग्रहणमेव कृतम् । तत्र चतुर्विंशत्यक्षरा गायत्री, अष्टाविंशत्यक्षरोष्णिक् तत्कथमनयोरेकत्वमित्यत आह - यानीति । अयमभिप्रायः - गायत्र्या एव पशुसाधनं रूपं यदुष्णिङ्नाम, तस्माद्यानि चत्वार्यक्षराणि अभ्याधिकानि तानि चतुष्पादः पशवः । तद्धेत्वात्ताच्छब्द्यम् । तस्मादुष्णिक्प्रवेशव्याजेन गायत्रीमेव प्रकृतिं पशुसाधनभूतां कुर्म इति ॥
विश्वास-प्रस्तुतिः
यथा॑ पुरो॒डाशे॑ पुरो॒डाशोऽध्ये॒वमे॒व तद्यदृ॒च्यध्य॒क्षरा॑णि ।
मूलम्
यथा॑ पुरो॒डाशे॑ पुरो॒डाशोऽध्ये॒वमे॒व तद्यदृ॒च्यध्य॒क्षरा॑णि ।
भट्टभास्कर-टीका
3एवं सर्वच्छन्दोवरोधहेतुत्वेन पशुलाभहेतुत्वेन च उष्णिक्ककुभोः प्रवेशं स्तुत्वा इदानीमिष्टिस्वभावसुलभं चेदमक्षराधिक्यमिति दृष्टान्तेन दर्शयति - यथेति ॥ ‘उत्तर उत्तरो ज्यायान् भवति’ इति यथा पुरोडाशे प्रथमे अध्युपरि मध्यमः, तस्मिन्नपि तृतीयो भवति, एवमेवैतद्द्रष्टव्यं, यदृचि गायत्र्यामध्युपरि चत्वार्यक्षराणि भवन्ति । यद्वा - पुरोडाशे पुरोडाशान्तरमधिकप्रमाणं तिष्ठति तद्वदिदमृचि गायत्र्या अधिकाक्षरा उष्णिक्त्रिष्टुबिति ॥
मूलम् (संयुक्तम्)
यज्जग॑त्या [30] प॒रि॒द॒ध्यादन्तय्ँ॑ य॒ज्ञङ्ग॑मयेत्त्रि॒ष्टुभा॒ परि॑ दधातीन्द्रि॒यव्ँ वै वी॒र्य॑न्त्रि॒ष्टुगि॑न्द्रि॒य ए॒व वी॒र्ये॑ य॒ज्ञम्प्रति॑ ष्ठापयति॒ नान्त॑ङ्गमय॒त्यग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्थेति॒ त्रिव॑त्या॒ परि॑ दधाति सरूप॒त्वाय
विश्वास-प्रस्तुतिः
यज्जग॑त्या परिद॒ध्यात् ।
अन्तय्ँ॑ य॒ज्ञङ्ग॑मयेत् ।
त्रि॒ष्टुभा॒ परि॑ दधाति ।
मूलम्
यज्जग॑त्या परिद॒ध्यात् ।
अन्तय्ँ॑ य॒ज्ञङ्ग॑मयेत् ।
त्रि॒ष्टुभा॒ परि॑ दधाति ।
भट्टभास्कर-टीका
4यज्जगत्येति ॥ उक्तं जगत्या वीर्यमुष्णिगिति । उक्तं च ‘गायत्री वा एषा यदुष्णिहा’ इति । तस्मादेवं जगतीभाववत्या ‘आ जुहोत’ इति गायत्र्या परिधानं यज्ञस्य मध्ये अन्तर्गमनाय नाशाय स्यात् जगत्याः छन्दसामन्त्यत्वात् । यद्वा - गायत्र्यैव वर्धमानाक्षरा उष्णिहादिभावमापद्यमाना उपर्युपरि गच्छतीति जगतीत्युच्यते ।
विश्वास-प्रस्तुतिः
इ॒न्द्रि॒यव्ँ वै वी॒र्य॑न्त्रि॒ष्टुगि॑न्द्रि॒य ए॒व वी॒र्ये॑ य॒ज्ञम्प्रति॑ ष्ठापयति ।
नान्त॑ङ्गमयति ।
मूलम्
इ॒न्द्रि॒यव्ँ वै वी॒र्य॑न्त्रि॒ष्टुगि॑न्द्रि॒य ए॒व वी॒र्ये॑ य॒ज्ञम्प्रति॑ ष्ठापयति ।
नान्त॑ङ्गमयति ।
भट्टभास्कर-टीका
त्रिष्टुगिति । ‘अग्ने त्री ते वाजिना’ इत्येतया ।
विश्वास-प्रस्तुतिः
अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्थेति॑ ।
त्रिव॑त्या॒ परि॑ दधाति स॒रू॒प॒त्वाय॑ ।
मूलम्
अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्थेति॑ ।
त्रिव॑त्या॒ परि॑ दधाति स॒रू॒प॒त्वाय॑ ।
भट्टभास्कर-टीका
त्रिवत्येति । त्रिष्टुबन्तराद्वैलक्षण्यमस्यां दर्शयति । ‘छन्दसी रः’ इति मतुपोवत्वम् । सरूपत्वायेति । त्रित्वान्वयात्त्रैधातवीयं सारूप्यमिति ॥
मूलम् (संयुक्तम्)
सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीय॒ङ्कामा॑यकामाय॒ प्र यु॑ज्यते॒ सर्वे॑भ्यो॒ हि कामे॑भ्यो य॒ज्ञᳶ प्र॑यु॒ज्यते॑ त्रैधात॒वीये॑न यजेत
विश्वास-प्रस्तुतिः
सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीय॒ङ्कामा॑यकामाय॒ प्र यु॑ज्यते ।
मूलम्
सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीय॒ङ्कामा॑यकामाय॒ प्र यु॑ज्यते ।
भट्टभास्कर-टीका
5सर्वो वा इत्यादि ॥ त्रैधातवीयाख्यं यदिदं कर्म एष सर्वो यज्ञः सर्वयज्ञतुल्य इति यावत् । ‘यत्त्रिः प्रायच्छत्त्रिः प्रत्यगृह्णात्’ इति त्रिषु लोकेषु भवत [वतोः] इन्द्राविष्ण्वोस्सम्बन्धी वीर्यविशेषः त्रैधातवः । तत्प्राप्तिहेतुत्वेन तत्सम्बन्धि कर्म त्रैधा तवीयमिष्टिलक्षणम् । कामायकामाय सर्वस्मै कामाय स्वर्गपशुप्रजादिकामाय प्रयुज्यते ।
विश्वास-प्रस्तुतिः
सर्वे॑भ्यो॒ हि कामे॑भ्यो य॒ज्ञᳶ प्र॑यु॒ज्यते॑ ।
त्रै॒धा॒त॒वीये॑न यजेत ।
मूलम्
सर्वे॑भ्यो॒ हि कामे॑भ्यो य॒ज्ञᳶ प्र॑यु॒ज्यते॑ ।
त्रै॒धा॒त॒वीये॑न यजेत ।
भट्टभास्कर-टीका
हेतुमाह - सर्वेभ्यो हीति । सामान्यविवक्षयैकवचनम् । सर्वकामसम्पत्तिः यज्ञैर्भवति । यश्च याग्ग्स्सर्वयज्ञात्मा तस्मात्सर्वेभ्यः कामेभ्यः प्रयोक्तव्य इति ॥
मूलम् (संयुक्तम्)
अभि॒चर॒न्त्सर्वो॒ वै [31] ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीयँ॒ सर्वे॑णै॒वैनय्ँ॑ य॒ज्ञेना॒भि च॑रति स्तृणु॒त ए॒वैन॑मे॒तयै॒व य॑जेताभिच॒र्यमा॑ण॒स्सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीयँ॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒ नैन॑मभि॒चर॑न्त्स्तृणुते
विश्वास-प्रस्तुतिः
अभि॒चर॒न्त्सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीयँ॒ सर्वे॑णै॒वैनय्ँ॑ य॒ज्ञेना॒भि च॑रति ।
मूलम्
अभि॒चर॒न्त्सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीयँ॒ सर्वे॑णै॒वैनय्ँ॑ य॒ज्ञेना॒भि च॑रति ।
भट्टभास्कर-टीका
6सर्वेणैवैनमिति ॥ अस्य सर्वयज्ञात्मकत्वादनेन यजमानः सर्वेणाभिचारिकेण यज्ञेन एनमभिचरितव्यमभिचरति ।
विश्वास-प्रस्तुतिः
स्तृणु॒त ए॒वैन॑म् ।
ए॒तयै॒व य॑जेत ।
मूलम्
स्तृणु॒त ए॒वैन॑म् ।
ए॒तयै॒व य॑जेत ।
भट्टभास्कर-टीका
तत एनं स्तृणुते हिनस्त्येव ।
विश्वास-प्रस्तुतिः
अ॒भि॒चर्यमा॑ण॒स्सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीयँ॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते ।
मूलम्
अ॒भि॒चर्यमा॑ण॒स्सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीयँ॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते ।
भट्टभास्कर-टीका
सर्वेणैवेति । अस्य सर्वयज्ञात्मकत्वात् सर्वेणाभिचारादिदोषनिघातार्थेनापि यज्ञेनायं यजमानो भवति ।
विश्वास-प्रस्तुतिः
नैन॑मभि॒चर॑न्त्स्तृणुते ।
मूलम्
नैन॑मभि॒चर॑न्त्स्तृणुते ।
भट्टभास्कर-टीका
तत एनं अभिचरन् न स्तृणुते ॥
मूलम् (संयुक्तम्)
ए॒तयै॒व य॑जेत स॒हस्रे॑ण य॒क्ष्यमा॑ण॒ᳶ प्रजा॑तमे॒वैन॑द्ददात्ये॒तयै॒व य॑जेत स॒हस्रे॑णेजा॒नोऽन्तव्ँ॒वा ए॒ष प॑शू॒नाङ्ग॑च्छति [32] यस्स॒हस्रे॑ण॒ यज॑ते प्र॒जाप॑ति॒ᳵ खलु॒ वै प॒शून॑सृजत॒ ताँ स्त्रै॑धात॒वीये॑नै॒वासृ॑जत॒ य ए॒वव्ँवि॒द्वाँस्त्रै॑धात॒वीये॑न प॒शुका॑मो॒ यज॑ते॒ यस्मा॑दे॒व योनेः॑ प्र॒जाप॑तिᳶ प॒शूनसृ॑जत॒ तस्मा॑दे॒वैना॑न्त्सृजत॒ उपै॑न॒मुत्त॑रँ स॒हस्र॑न्नमति दे॒वता॑भ्यो॒ वा ए॒ष आ वृ॑श्च्यते
विश्वास-प्रस्तुतिः
ए॒तयै॒व य॑जेत ।
स॒हस्रे॑ण य॒क्ष्यमा॑ण॒ᳶ प्रजा॑तमे॒वैन॑द्ददाति ।
ए॒तयै॒व य॑जेत ।
मूलम्
ए॒तयै॒व य॑जेत ।
स॒हस्रे॑ण य॒क्ष्यमा॑ण॒ᳶ प्रजा॑तमे॒वैन॑द्ददाति ।
ए॒तयै॒व य॑जेत ।
भट्टभास्कर-टीका
7प्रजातमिति ॥ प्रजातं सन्तानवत् अविच्छिन्नमेव सहस्रं ददाति । उत्तरोत्तरप्रभूतमिति यावत् । सर्वयज्ञत्वेनास्य धनाभिवृद्धिहेतुत्वात् ।
विश्वास-प्रस्तुतिः
स॒हस्रे॑णेजा॒नोऽन्तव्ँ॒वा ए॒ष प॑शू॒नाङ्ग॑च्छति ।
यस्स॒हस्रे॑ण॒ यज॑ते ।
मूलम्
स॒हस्रे॑णेजा॒नोऽन्तव्ँ॒वा ए॒ष प॑शू॒नाङ्ग॑च्छति ।
यस्स॒हस्रे॑ण॒ यज॑ते ।
भट्टभास्कर-टीका
ईजान इति । इष्टवान् सहस्रेण पशूनामन्तं समाप्तिं गच्छति । अपशुरेव स्यात् ।
विश्वास-प्रस्तुतिः
प्र॒जाप॑ति॒ᳵ खलु॒ वै प॒शून॑सृजत ।
ताँ स्त्रै॑धात॒वीये॑नै॒वासृ॑जत ।
य ए॒वव्ँवि॒द्वाँस्त्रै॑धात॒वीये॑न प॒शुका॑मो॒ यज॑ते ।
यस्मा॑दे॒व योनेः॑ प्र॒जाप॑तिᳶ प॒शूनसृ॑जत ।
मूलम्
प्र॒जाप॑ति॒ᳵ खलु॒ वै प॒शून॑सृजत ।
ताँ स्त्रै॑धात॒वीये॑नै॒वासृ॑जत ।
य ए॒वव्ँवि॒द्वाँस्त्रै॑धात॒वीये॑न प॒शुका॑मो॒ यज॑ते ।
यस्मा॑दे॒व योनेः॑ प्र॒जाप॑तिᳶ प॒शूनसृ॑जत ।
भट्टभास्कर-टीका
यस्मादिति । त्रैधातवीयेनोत्सृजते ।
विश्वास-प्रस्तुतिः
तस्मा॑दे॒वैना॑न्त्सृजते ।
उपै॑न॒मुत्त॑रँ स॒हस्र॑न्नमति ।
दे॒वता॑भ्यो॒ वा ए॒ष आ वृ॑श्च्यते ।
मूलम्
तस्मा॑दे॒वैना॑न्त्सृजते ।
उपै॑न॒मुत्त॑रँ स॒हस्र॑न्नमति ।
दे॒वता॑भ्यो॒ वा ए॒ष आ वृ॑श्च्यते ।
भट्टभास्कर-टीका
उपैनमुत्तरमिति । यागप्रभावात्सहस्रान्तरमेनमुपनमति ॥
मूलम् (संयुक्तम्)
यो य॒क्ष्य इत्यु॒क्त्वा न यज॑ते त्रैधात॒वीये॑न यजेत॒ सर्वो॒ वा ए॒ष य॒ज्ञः [33] यत्त्रै॑धात॒वीयँ॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते
विश्वास-प्रस्तुतिः
यो य॒क्ष्य इत्यु॒क्त्वा न यज॑ते ।
त्रै॒धा॒त॒वीये॑न यजेत ।
सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीयँ॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते ।
मूलम्
यो य॒क्ष्य इत्यु॒क्त्वा न यज॑ते ।
त्रै॒धा॒त॒वीये॑न यजेत ।
सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीयँ॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते ।
भट्टभास्कर-टीका
8यो यक्ष्य इत्युक्त्वेति ॥ यज्ञार्थं कृतसंकल्पः तेन यज्ञेन अनिष्टवानपि सर्वयज्ञात्मकेनानेन यजमानः तेनापीष्टवान् भवति ।
विश्वास-प्रस्तुतिः
न दे॒वता॑भ्य॒ आ वृ॑श्च्यते ।
मूलम्
न दे॒वता॑भ्य॒ आ वृ॑श्च्यते ।
भट्टभास्कर-टीका
तस्मादयागदोषाभावात् देवताभ्यो न वृश्च्यते न हीयते ॥
मूलम् (संयुक्तम्)
न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ द्वाद॑शकपालᳶ पुरो॒डाशो॑ भवति॒ ते त्रय॒श्चतु॑ष्कपालास्त्रिष्षमृद्ध॒त्वाय॒ त्रयᳶ॑ पुरो॒डाशा॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षाल्ँ लो॒काना॒माप्त्या॒ उत्त॑रउत्तरो॒ ज्याया॑न्भवत्ये॒वमि॑व॒ हीमे लो॒का य॑व॒मयो॒ मध्य॑ ए॒तद्वा अ॒न्तरि॑क्षस्य रू॒पँ समृ॑द्ध्यै
विश्वास-प्रस्तुतिः
द्वाद॑शकपालᳶ पुरो॒डाशो॑ भवति ।
मूलम्
द्वाद॑शकपालᳶ पुरो॒डाशो॑ भवति ।
भट्टभास्कर-टीका
द्वादशकपाल इति ॥ चतुरो मुष्टीन् व्रीहीणां निरुप्य चतुरो यवानां निरुप्य पुनश्चतुरो व्रीहीणां निर्वपेत् । गार्हपत्ये द्वादशकपालान्युपदधाति । सर्वत्रेन्द्राविष्णुभ्यामेव निर्वापादि ।
विश्वास-प्रस्तुतिः
ते त्रय॒श्चतु॑ष्कपालाः ।
त्रि॒ष्ष॒मृ॒द्ध॒त्वाय॒ त्रयᳶ॑ पुरो॒डाशा॑ भवन्ति ।
मूलम्
ते त्रय॒श्चतु॑ष्कपालाः ।
त्रि॒ष्ष॒मृ॒द्ध॒त्वाय॒ त्रयᳶ॑ पुरो॒डाशा॑ भवन्ति ।
भट्टभास्कर-टीका
ते त्रय इति । अवयुत्य सङ्ख्यास्तुतिः । त्रिष्षमृद्धत्वं तिसृभिरावृत्तिभिर्योगः । त्रैधातवीयानुरूपत्वम् ।
विश्वास-प्रस्तुतिः
त्रय॑ इ॒मे लो॒का ए॒षाल्ँ लो॒काना॒माप्त्या॒ उत्त॑रउत्तरो॒ ज्याया॑न्भवति ।
मूलम्
त्रय॑ इ॒मे लो॒का ए॒षाल्ँ लो॒काना॒माप्त्या॒ उत्त॑रउत्तरो॒ ज्याया॑न्भवति ।
भट्टभास्कर-टीका
त्रय इति । उपर्युपर्यवस्थिताः । उत्तरौत्तरः पूर्वस्मात्पूर्वस्माज्ज्यायान् वृद्धतरः ।
विश्वास-प्रस्तुतिः
ए॒वमि॑व॒ हीमे लो॒का य॑व॒मयो॒ मध्ये॑।
मूलम्
ए॒वमि॑व॒ हीमे लो॒का य॑व॒मयो॒ मध्ये॑।
भट्टभास्कर-टीका
इमे खलु लोकाः पृथिव्यादयः उत्तरमुत्तरं ज्यायांसः । यवमय इति । ‘द्व्यचश्छन्दसि’ इति विकारे मयट् ।
विश्वास-प्रस्तुतिः
ए॒तद्वा अ॒न्तरि॑क्षस्य रू॒पँ समृ॑द्ध्यै ।
मूलम्
ए॒तद्वा अ॒न्तरि॑क्षस्य रू॒पँ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
एतद्वा इति । यौतिः पृथग्भावः । पृथग्भूतश्च सर्वपदार्थोन्तरिक्षस्य । सर्वेषामभिगमयन्नित्यादि । व्याख्यातम् ॥
मूलम् (संयुक्तम्)
सर्वे॑षामभिग॒मय॒न्नव॑ द्य॒त्यछ॑म्बट्कारँ॒ हिर॑ण्यन्ददाति॒ तेज॑ ए॒व [34] अव॑ रुन्द्धे ता॒र्प्यन्द॑दाति प॒शूने॒वाव॑ रुन्द्धे धे॒नुन्द॑दात्या॒शिष॑ ए॒वाव॑ रुन्द्धे॒ साम्नो॒ वा ए॒ष वर्णो॒ यद्धिर॑ण्यय्ँ॒यजु॑षान्ता॒र्प्यमु॑क्थाम॒दाना॑न्धे॒नुरे॒ताने॒व सर्वा॒न्वर्णा॒नव॑ रुन्द्धे ॥
विश्वास-प्रस्तुतिः
सर्वे॑षामभिग॒मय॒न्नव॑ द्य॒ति ।
अछ॑म्बट्कारँ॒ हिर॑ण्यन्ददाति ।
तेज॑ ए॒वाव॑ रुन्द्धे ।
मूलम्
सर्वे॑षामभिग॒मय॒न्नव॑ द्य॒ति ।
अछ॑म्बट्कारँ॒ हिर॑ण्यन्ददाति ।
तेज॑ ए॒वाव॑ रुन्द्धे ।
भट्टभास्कर-टीका
10हिरण्यमिति ॥ अन्वाहार्यमासाद्य सहस्रं हिरण्यं ददाति ।
विश्वास-प्रस्तुतिः
ता॒र्प्यन्द॑दाति ।
प॒शूने॒वाव॑ रुन्द्धे ।
मूलम्
ता॒र्प्यन्द॑दाति ।
प॒शूने॒वाव॑ रुन्द्धे ।
भट्टभास्कर-टीका
तार्प्यं घृताक्तं वासः, तत् घृतसंबन्धात्पशुलाभहेतुः ।
विश्वास-प्रस्तुतिः
धे॒नुन्द॑दाति ।
आ॒शिष॑ ए॒वाव॑ रुन्द्धे ।
मूलम्
धे॒नुन्द॑दाति ।
आ॒शिष॑ ए॒वाव॑ रुन्द्धे ।
भट्टभास्कर-टीका
धेनुः प्रत्यग्रप्रसवा गौः । संप्रीणनहेतुत्वात्तत आशिषां लाभः ।
विश्वास-प्रस्तुतिः
साम्नो॒ वा ए॒ष वर्णो॒ यद्धिर॑ण्यम् ।
मूलम्
साम्नो॒ वा ए॒ष वर्णो॒ यद्धिर॑ण्यम् ।
भट्टभास्कर-टीका
साम्नो वा इति । तस्य तैजसत्वात् ‘सर्वं तेजस्सामरूप्यम्’ इति दर्शनाच्च ।
विश्वास-प्रस्तुतिः
यजु॑षान्ता॒र्प्यम् ।
उ॒क्थाम॒दाना॑न्धे॒नुः ।
ए॒ताने॒व सर्वा॒न्वर्णा॒नव॑ रुन्द्धे ॥
मूलम्
यजु॑षान्ता॒र्प्यम् ।
उ॒क्थाम॒दाना॑न्धे॒नुः ।
ए॒ताने॒व सर्वा॒न्वर्णा॒नव॑ रुन्द्धे ॥
भट्टभास्कर-टीका
यजुषां वर्णस्तार्प्यं, द्वयोः क्षत्रसम्बन्धित्वात् । क्षत्रं द्वितीयो वर्णः धेनुश्च उक्थामदानां शस्त्राणामृचामित्यर्थः । तासां वर्णो धेनुः प्रीणनहेतुत्वात् ॥
इति द्वितीये चतुर्थे एकादशोनुवाकः ॥