विश्वेदेवा ऋषयः ।
मूलम् (संयुक्तम्)
देवा॑ वसव्या॒ देवाः॑ शर्मण्या॒ देवाः॑ सपीतय॒ इत्या ब॑ध्नाति दे॒वता॑भिरे॒वान्व॒हव्ँवृष्टि॑मिच्छति॒ यदि॒ वर्षे॒त्ताव॑त्ये॒व हो॑त॒व्यय्ँ॑यदि॒ न वर्षे॒च्छ्वो भू॒ते ह॒विर्निर्व॑पेदहोरा॒त्रे वै मि॒त्रावरु॑णावहोरा॒त्राभ्या॒ङ्खलु॒ वै प॒र्जन्यो॑ वर्षति॒ नक्तव्ँ॑वा॒ हि दिवा॑ वा॒ वर्ष॑ति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ [27] अ॒हो॒रा॒त्राभ्या॑म्प॒र्जन्यव्ँ॑वर्षयतः
विश्वास-प्रस्तुतिः
देवा॑ वसव्या॒ देवाः॑ शर्मण्या॒ देवाः॑ सपीतय॒ इत्याब॑ध्नाति ।
दे॒वता॑भिरे॒वान्व॒हव्ँवृष्टि॑मिच्छति ।
मूलम्
देवा॑ वसव्या॒ देवाः॑ शर्मण्या॒ देवाः॑ सपीतय॒ इत्याब॑ध्नाति ।
दे॒वता॑भिरे॒वान्व॒हव्ँवृष्टि॑मिच्छति ।
भट्टभास्कर-टीका
1’देवा वस्व्याः’ इत्यादिभिः त्रिभिर्मन्त्रैः तिसृषु गधासु त्रिषु दिनेषु अन्वहमाबध्नाति पिण्डीः ।
विश्वास-प्रस्तुतिः
यदि॒ वर्षे॒त्ताव॑त्ये॒व हो॑त॒व्यम् ।
मूलम्
यदि॒ वर्षे॒त्ताव॑त्ये॒व हो॑त॒व्यम् ।
भट्टभास्कर-टीका
यदि वर्षेदिति । तत्रान्वहमिति वचनात् त्रिषु दिनेषु पिण्डीहोमः । श्वोभूते चतुर्थेऽहनि हविर्निर्वपेत् । तत्रायं क्रमः - यदि प्रथमे दिने वर्षेत् तावति तस्मिन्नेवाहनि होतव्यं पिण्डीलक्षणं हविः ।
विश्वास-प्रस्तुतिः
यदि॒ न वर्षे॒च्छ्वो भू॒ते ह॒विर्निर्व॑पेत् ।
मूलम्
यदि॒ न वर्षे॒च्छ्वो भू॒ते ह॒विर्निर्व॑पेत् ।
भट्टभास्कर-टीका
अथ यदि तत्र न वर्षेत् द्वितीये दिने मध्यमायां कृष्णाजिनमाबध्नीयात् । यदि तस्मिन् दिने वर्षेत् तावत्येव होतव्यम् । यदि तस्मिन्नपि न वर्षेत् तृतीये दिने तृतीयस्यां कृष्णाजिनमाबध्नीयात् । यदि तस्मिन् दिने वर्षेत्, यदि च न वर्षेत् उभयथापि तृतीये दिने पिण्डीर्जुहुयात् । अथ यदि न वर्षेत् श्वोभूते चतुर्थेऽह्नि प्राप्ते हविर्निर्वपेत् । हविरिति जातावेकवचनम् । धामच्छदादीनि त्रीणि हवींषि निर्वपेत् कृष्णानां व्रीहीणाम् ।
विश्वास-प्रस्तुतिः
अ॒हो॒रा॒त्रे वै मि॒त्रावरु॑णावहोरा॒त्राभ्या॒ङ्खलु॒ वै प॒र्जन्यो॑ वर्षति ।
मूलम्
अ॒हो॒रा॒त्रे वै मि॒त्रावरु॑णावहोरा॒त्राभ्या॒ङ्खलु॒ वै प॒र्जन्यो॑ वर्षति ।
भट्टभास्कर-टीका
अहोरात्र इत्युक्तं एकैकस्यां गधायामहोरात्रावसक्तं भवति । सति वर्षे तत्रैव तत्रैव होमः, असति श्वोभूते हविर्निर्वप्तव्यमिति ।
विश्वास-प्रस्तुतिः
नक्तव्ँ॑वा॒ हि दिवा॑ वा॒ वर्ष॑ति ।
मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
तावे॒वास्मा॒ अ॒हो॒रा॒त्राभ्या॑म्प॒र्जन्यव्ँ॑वर्षयतः ।
मूलम्
नक्तव्ँ॑वा॒ हि दिवा॑ वा॒ वर्ष॑ति ।
मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
तावे॒वास्मा॒ अ॒हो॒रा॒त्राभ्या॑म्प॒र्जन्यव्ँ॑वर्षयतः ।
भट्टभास्कर-टीका
तत्राहोरात्रावसक्ते वृष्टिहेतुत्वं तावत्समर्थयते - नक्तं वा दिवा वा अहोरात्राभ्यामेव पर्जन्यो वर्षति । तयोश्च मित्रावरुणात्मकत्वात् तावेव पर्जन्यं वर्षयतः, अहोरात्रावसञ्जलक्षणस्वभागोपहृतत्वात् ॥
मूलम् (संयुक्तम्)
अ॒ग्नये॑ धाम॒च्छदे॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेन्मारु॒तँ स॒प्तक॑पालँ सौ॒र्यमेक॑कपालम॒ग्निर्वा इ॒तो वृष्टि॒मुदी॑रयति म॒रुत॑स्सृ॒ष्टान्न॑यन्ति य॒दा खलु॒ वा अ॒सावा॑दि॒त्यो न्य॑ङ्र॒श्मिभिᳶ॑ पर्या॒वर्त॒तेऽथ॑ वर्षति धाम॒च्छदि॑व॒ खलु॒ वै भू॒त्वा व॑र्षत्ये॒ता वै दे॒वता॒ वृष्ट्या॑ ईशते॒ ता ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ताः [28] ए॒वास्मै॑ प॒र्जन्यव्ँ॑वर्षयन्त्यु॒ताव॑र्षिष्य॒न्वर्ष॑त्ये॒व
विश्वास-प्रस्तुतिः
अ॒ग्नये॑ धाम॒च्छदे॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् ।
मा॒रु॒तँ स॒प्तक॑पालँ सौ॒र्यमेक॑कपालम् ।
मूलम्
अ॒ग्नये॑ धाम॒च्छदे॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् ।
मा॒रु॒तँ स॒प्तक॑पालँ सौ॒र्यमेक॑कपालम् ।
भट्टभास्कर-टीका
2अथ हवींषि विदधाति - अग्नये धामच्छद इत्यादि ॥ धामानि स्थितानि तेजांसि वा छादयति वृष्टिकाल इति धामच्छत् । ‘बहुलं संज्ञाछन्दसोः’ इति णिलुक् ।
विश्वास-प्रस्तुतिः
अ॒ग्निर्वा इ॒तो वृष्टि॒मुदी॑रयति ।
मूलम्
अ॒ग्निर्वा इ॒तो वृष्टि॒मुदी॑रयति ।
भट्टभास्कर-टीका
अग्निर्वा इति । आहुतिद्वारेण अग्निर्वृष्टिमुदकं उदीरयति ऊर्ध्वं गमयति आदित्यं प्रापयति, तस्मादग्नये निरुप्यते ।
विश्वास-प्रस्तुतिः
म॒रुत॑स्सृ॒ष्टान्न॑यन्ति ।
मूलम्
म॒रुत॑स्सृ॒ष्टान्न॑यन्ति ।
भट्टभास्कर-टीका
तां वृष्टिं सृष्टां अवसृष्टां मरुतो नयन्ति देशान्तरं प्रापयन्ति, तस्मान्मरुद्भ्यो निरुप्यते ।
विश्वास-प्रस्तुतिः
य॒दा खलु॒ वा अ॒सावा॑दि॒त्यो न्य॑ङ्र॒श्मिभिᳶ॑ पर्या॒वर्त॑ते।
मूलम्
य॒दा खलु॒ वा अ॒सावा॑दि॒त्यो न्य॑ङ्र॒श्मिभिᳶ॑ पर्या॒वर्त॑ते।
भट्टभास्कर-टीका
यदा खल्वादित्यो रश्मिभिः न्यङ् अवाक्प्रवृत्तिः पर्यावर्तते इतोमुखं प्रवर्तते ।
विश्वास-प्रस्तुतिः
अथ॑ वर्षति धाम॒च्छदि॑व॒ खलु॒ वै भू॒त्वा व॑र्षति ।
मूलम्
अथ॑ वर्षति धाम॒च्छदि॑व॒ खलु॒ वै भू॒त्वा व॑र्षति ।
भट्टभास्कर-टीका
अथ वर्षिष्ठरश्मिषु पक्वमुदकं पर्जन्यस्स्र्वावयति, तस्मात्सूर्याय निरुप्यते इति । अनेन त्रिहविष्केण यागेन पर्जन्यो धामच्छदिव भूत्वा वर्षति भूयिष्ठं वर्षतीति यावत् ।
विश्वास-प्रस्तुतिः
ए॒ता वै दे॒वता॒ वृष्ट्या॑ ईशते ।
ता ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
ता ए॒वास्मै॑ प॒र्जन्यव्ँ॑वर्षयन्त्यु॒ताव॑र्षिष्य॒न्वर्ष॑त्ये॒व ।
मूलम्
ए॒ता वै दे॒वता॒ वृष्ट्या॑ ईशते ।
ता ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
ता ए॒वास्मै॑ प॒र्जन्यव्ँ॑वर्षयन्त्यु॒ताव॑र्षिष्य॒न्वर्ष॑त्ये॒व ।
भट्टभास्कर-टीका
एता वा इत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
सृ॒जा वृ॒ष्टिन्दि॒व आद्भिस्स॑मु॒द्रम्पृ॒णेत्या॑हे॒माश्चै॒वामूश्चा॒पस्सम॑र्धय॒त्यथो॑ आ॒भिरे॒वामूरच्छै॑त्य॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रिय॒मित्या॑ह यथाय॒जुरे॒वैतत्
विश्वास-प्रस्तुतिः
सृ॒जा वृ॒ष्टिन्दि॒व आद्भिस्स॑मु॒द्रम्पृ॒णेत्या॑ह ।
मूलम्
सृ॒जा वृ॒ष्टिन्दि॒व आद्भिस्स॑मु॒द्रम्पृ॒णेत्या॑ह ।
भट्टभास्कर-टीका
3कुम्भीमद्भिः पूरयति - सृजा वृष्टिमिति ॥ इमा भूयिष्ठाः अमूः दिविष्ठाः मेघस्था वा अपस्समृद्धाः करोति ।
विश्वास-प्रस्तुतिः
इ॒माश्चै॒वामूश्चा॒पस्सम॑र्धयति ।
मूलम्
इ॒माश्चै॒वामूश्चा॒पस्सम॑र्धयति ।
भट्टभास्कर-टीका
अपि चाभिरेव करणभूताभिः अमूः आभिमुख्येन प्राप्नोति सृजा वृष्टिमिति वचनात् वर्षेण इमास्समृद्धा भवन्ति ।
विश्वास-प्रस्तुतिः
अथो॑ आ॒भिरे॒वामूरच्छै॑ति ।
मूलम्
अथो॑ आ॒भिरे॒वामूरच्छै॑ति ।
भट्टभास्कर-टीका
आभिरद्भिस्समृद्धस्य मेघस्थस्य उदकस्यापूरणात् अमूस्समृद्धा भवन्ति ।
विश्वास-प्रस्तुतिः
अ॒ब्जा अ॑सि ।
प्र॒थ॒म॒जा बल॑मसि समु॒द्रिय॒मित्या॑ह ।
मूलम्
अ॒ब्जा अ॑सि ।
प्र॒थ॒म॒जा बल॑मसि समु॒द्रिय॒मित्या॑ह ।
भट्टभास्कर-टीका
अब्जा इति । अविमभिजुहोति ।
विश्वास-प्रस्तुतिः
यथाय॒जुरे॒वैतत् ।
मूलम्
यथाय॒जुरे॒वैतत् ।
भट्टभास्कर-टीका
यथायजुरिति । मेघोदकस्य बलहेतुस्त्वमसीत्येतत् यथायजुर्भवत्येव ॥
मूलम् (संयुक्तम्)
उन्न॑म्भय पृथि॒वीमिति॑ वर्षा॒ह्वाञ्जु॑होत्ये॒षा वा ओष॑धीनाव्ँवृष्टि॒वनि॒स्तयै॒व वृष्टि॒मा च्या॑वयति॒ ये दे॒वा दि॒विभा॑गा॒ इति॑ कृष्णाजि॒नमव॑ धूनोती॒म ए॒वास्मै॑ लो॒काᳶ प्री॒ता अ॒भीष्टा॑ भवन्ति ॥ [29]
विश्वास-प्रस्तुतिः
उन्न॑म्भय पृथि॒वीमिति॑ वर्षा॒ह्वाञ्जु॑होति ।
मूलम्
उन्न॑म्भय पृथि॒वीमिति॑ वर्षा॒ह्वाञ्जु॑होति ।
भट्टभास्कर-टीका
4उन्नम्भयेति ॥ वर्षं आह्वयतीति वर्षाहूः । क्विपि सम्प्रसारणं सांहितिकं पूर्वपदस्य दीर्घत्वं छान्दसं, कृदुत्तरपदस्य प्रकृतिस्वरत्वे ‘उदात्तयणः’इति विभकेरुदात्तत्वम् ।
-{उन्न॑म्भय पृथि॒वीम्भि॒न्द्धीदन्दि॒व्यन्नभः॑ ।
उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृति॑म् ।
अथ वर्षाभूस्तम्भमभिजुहोति - उन्नम्भयेत्यनुष्टुभा ॥ हे वर्षाभूस्तम्भ उन्नम्भय उच्छ्वासय । नभिः गतिकर्मा छान्दसो नुम् । पृथिवीं वृष्ट्या । तद्दर्शयति - इदं दिव्यं दिवि स्थितं नभः मेघं भिन्धि । नभेरसुनि नभः । गत्वरम् । तथा कृत्वा उद्गः उदकस्य दिव्यस्य नः अस्मभ्यं देहि । कर्मणस्सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । ईशानः उदकं दातुं समर्थः त्वं विसृज विमुञ्च दृतिं दृतिस्थानीयं मेघं क्षारय । ‘द्व्यचोतस्तिङः’ इति दीर्घत्वम् । पूर्ववदुदकस्योदन्भावः उदात्तनिवृत्तिस्वरश्च । उद्ग ईशान इति वा । ‘अधीगर्थ’ इति षष्ठी ॥}
विश्वास-प्रस्तुतिः
ए॒षा वा ओष॑धीनाव्ँवृष्टि॒वनि॒स्तयै॒व वृष्टि॒मा च्या॑वयति ।
ये दे॒वा दि॒विभा॑गा॒ इति॑ कृष्णाजि॒नमव॑ धूनोति ।
इ॒म ए॒वास्मै॑ लो॒काᳶ प्री॒ता अ॒भीष्टा॑ भवन्ति ॥
मूलम्
ए॒षा वा ओष॑धीनाव्ँवृष्टि॒वनि॒स्तयै॒व वृष्टि॒मा च्या॑वयति ।
ये दे॒वा दि॒विभा॑गा॒ इति॑ कृष्णाजि॒नमव॑ धूनोति ।
इ॒म ए॒वास्मै॑ लो॒काᳶ प्री॒ता अ॒भीष्टा॑ भवन्ति ॥
भट्टभास्कर-टीका
पुनर्नविकोच्यते - वृष्टिवनिरिति । ओषधीनां मध्ये एषा वृष्टेः संविभक्तिः । ‘छन्दसि वनसन’ इतीन्प्रत्ययः । गतमन्यत् ॥
इति द्वितीये चतुर्थे दशमोनुवाकः ॥