विश्वेदेवा ऋषयः ।
मूलम् (संयुक्तम्)
मा॒रु॒तम॑सि म॒रुता॒मोज॒ इति॑ कृ॒ष्णव्ँवास॑ᳵ कृ॒ष्णतू॑ष॒म्परि॑ धत्त ए॒तद्वै वृष्ट्यै॑ रू॒पँ सरू॑प ए॒व भू॒त्वा प॒र्जन्यव्ँ॑वर्षयति र॒मय॑त मरुतश्श्ये॒नमा॒यिन॒मिति॑ पश्चाद्वा॒तम्प्रति॑ मीवति पुरोवा॒तमे॒व ज॑नयति व॒र्षस्याव॑रुद्ध्यै
विश्वास-प्रस्तुतिः
मा॒रु॒तम॑सि म॒रुता॒मोज॒ इति॑ कृ॒ष्णव्ँवास॑ᳵ कृ॒ष्णतू॑ष॒म्परि॑ धत्ते ।
मूलम्
मा॒रु॒तम॑सि म॒रुता॒मोज॒ इति॑ कृ॒ष्णव्ँवास॑ᳵ कृ॒ष्णतू॑ष॒म्परि॑ धत्ते ।
भट्टभास्कर-टीका
1अथ ‘मारुतमस्ति’ इत्यादीनां करीरीमन्त्राणां ब्राह्मणम् - मारुतमसीत्यादि ॥ कृष्णतूषं कृष्णदशान्तं (उदकं) कृष्णं वासो यजमानः परिधत्ते ।
विश्वास-प्रस्तुतिः
ए॒तद्वै वृष्ट्यै॑ रू॒पँ सरू॑प ए॒व भू॒त्वा प॒र्जन्यव्ँ॑वर्षयति ।
मूलम्
ए॒तद्वै वृष्ट्यै॑ रू॒पँ सरू॑प ए॒व भू॒त्वा प॒र्जन्यव्ँ॑वर्षयति ।
भट्टभास्कर-टीका
एतत्कृष्णं वासः वृष्ट्यै वृष्ट्या रूपं ; ततश्च पर्जन्यसमानरूपो भूत्वा पर्जन्यं वर्षयति ।
विश्वास-प्रस्तुतिः
र॒मय॑त मरुतः ।
श्ये॒नमा॒यिन॒मिति॑ पश्चाद्वा॒तम्प्रति॑ मीवति पुरोवा॒तमे॒व ज॑नयति व॒र्षस्याव॑रुद्ध्यै ।
मूलम्
र॒मय॑त मरुतः ।
श्ये॒नमा॒यिन॒मिति॑ पश्चाद्वा॒तम्प्रति॑ मीवति पुरोवा॒तमे॒व ज॑नयति व॒र्षस्याव॑रुद्ध्यै ।
भट्टभास्कर-टीका
रमयतेत्यादि । पश्चाद्वातं अपरस्यां दिशि आगच्छन्तं वातं प्रतिमीवति प्रतिनिवर्तयति वर्षप्रतिकूलमपि पुरोवातं पूर्वस्या दिशि आगच्छन्तं वातं वर्षानुकूलं जनयत्येव । तस्य वर्षस्यावरुद्ध्यै भवति । मीव स्थौल्ये । प्रतिमीवति क्षीयमाणं करोतीति यावत् ॥
मूलम् (संयुक्तम्)
वातना॒मानि॑ जुहोति वा॒युर्वै वृष्ट्या॑ ईशे वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒र्जन्यव्ँ॑वर्षयत्य॒ष्टौ [23] जु॒हो॒ति॒ चत॑स्रो॒ वै दिश॒श्चत॑स्रोऽवान्तरदि॒शा दि॒ग्भ्य ए॒व वृष्टिँ॒ सम्प्र च्या॑वयति कृष्णाजि॒ने सय्ँयौ॑ति ह॒विरे॒वाक॑रन्तर्वे॒दि सय्ँयौ॒त्यव॑रुद्ध्यै॒ यती॑नाम॒द्यमा॑नानाँ शी॒र्षाणि॒ परा॑पत॒न्ते ख॒र्जूरा॑ अभव॒न्तेषाँ॒ रस॑ ऊ॒र्ध्वो॑ऽपत॒त्तानि॑ क॒रीरा॑ण्यभवन्त्सौ॒म्यानि॒ वै क॒रीरा॑णि सौ॒म्या खलु॒ वा आहु॑तिर्दि॒वो वृष्टि॑ञ्च्यावयति॒ यत्क॒रीरा॑णि॒ भव॑न्ति [24] सौ॒म्ययै॒वाहु॑त्या दि॒वो वृष्टि॒मव॑ रुन्द्धे
विश्वास-प्रस्तुतिः
वा॒त॒ना॒मानि॑ जुहोति ।
मूलम्
वा॒त॒ना॒मानि॑ जुहोति ।
भट्टभास्कर-टीका
2वातनामानीति ॥ ‘पुरोवातो वर्षन्’ इत्यादीन्यष्टौ ।
विश्वास-प्रस्तुतिः
वा॒युर्वै वृष्ट्या॑ ईशे ।
वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वास्मै॑ प॒र्जन्यव्ँ॑वर्षयति ।
मूलम्
वा॒युर्वै वृष्ट्या॑ ईशे ।
वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वास्मै॑ प॒र्जन्यव्ँ॑वर्षयति ।
भट्टभास्कर-टीका
ईश इति । ‘लोपस्त आत्मनेपदेषु’ इति तलोपः ।
विश्वास-प्रस्तुतिः
अ॒ष्टौ जु॑होति ।
चत॑स्रो॒ वै दिश॒श्चत॑स्रोऽवान्तरदि॒शा दि॒ग्भ्य ए॒व वृष्टिँ॒ सम्प्र च्या॑वयति ।
मूलम्
अ॒ष्टौ जु॑होति ।
चत॑स्रो॒ वै दिश॒श्चत॑स्रोऽवान्तरदि॒शा दि॒ग्भ्य ए॒व वृष्टिँ॒ सम्प्र च्या॑वयति ।
भट्टभास्कर-टीका
अष्टावित्यादि । गतम् ।
विश्वास-प्रस्तुतिः
कृ॒ष्णा॒जि॒ने सय्ँयौ॑ति ।
मूलम्
कृ॒ष्णा॒जि॒ने सय्ँयौ॑ति ।
भट्टभास्कर-टीका
कृष्णाजिने संयौतीति । अन्तर्वेदि कृष्णाजिने मधुषा करीरसक्तून् संयौतीति ।
विश्वास-प्रस्तुतिः
ह॒विरे॒वाक॑रन्तर्वे॒दि सय्ँयौ॒त्यव॑रुद्ध्यै ।
मूलम्
ह॒विरे॒वाक॑रन्तर्वे॒दि सय्ँयौ॒त्यव॑रुद्ध्यै ।
भट्टभास्कर-टीका
हविरेवाकः अकार्षीत् करोति । छान्दसो लुङ्, ‘मन्त्रे घस’ इति च्लेर्लुक् । अन्तर्वेदि संयवनं वर्षस्यावरोधनाय भवति ।
विश्वास-प्रस्तुतिः
यती॑नाम॒द्यमा॑नानाँ शी॒र्षाणि॒ परा॑पतन् ।
मूलम्
यती॑नाम॒द्यमा॑नानाँ शी॒र्षाणि॒ परा॑पतन् ।
भट्टभास्कर-टीका
यतीनामिति । प्राणिनां यातयितारो रक्षोवीशेषाः यतयः तेषां षालावृकैरद्यमानानाम् । यदाह – ‘इन्द्रो यतीन् सालावृकेभ्यः’ इत्यादि ।
विश्वास-प्रस्तुतिः
ते ख॒र्जूरा॑ अभवन् ।
तेषाँ॒ रस॑ ऊ॒र्ध्वो॑ऽपतत् ।
तानि॑ क॒रीरा॑ण्यभवन् ।
मूलम्
ते ख॒र्जूरा॑ अभवन् ।
तेषाँ॒ रस॑ ऊ॒र्ध्वो॑ऽपतत् ।
तानि॑ क॒रीरा॑ण्यभवन् ।
भट्टभास्कर-टीका
खर्जूराः महातालाः तत्फलानि करीराणि ।
विश्वास-प्रस्तुतिः
सौ॒म्यानि॒ वै क॒रीरा॑णि सौ॒म्या खलु॒ वा आहु॑तिर्दि॒वो वृष्टि॑ञ्च्यावयति ।
यत्क॒रीरा॑णि॒ भव॑न्ति ।
सौ॒म्ययै॒वाहु॑त्या दि॒वो वृष्टि॒मव॑ रुन्द्धे ।
मूलम्
सौ॒म्यानि॒ वै क॒रीरा॑णि सौ॒म्या खलु॒ वा आहु॑तिर्दि॒वो वृष्टि॑ञ्च्यावयति ।
यत्क॒रीरा॑णि॒ भव॑न्ति ।
सौ॒म्ययै॒वाहु॑त्या दि॒वो वृष्टि॒मव॑ रुन्द्धे ।
भट्टभास्कर-टीका
सौम्यानीति । रसपरिणामत्वात् ।
विश्वास-प्रस्तुतिः
सौ॒म्ययै॒वाहु॑त्या दि॒वो वृष्टि॒मव॑ रुन्द्धे ।
मूलम्
सौ॒म्ययै॒वाहु॑त्या दि॒वो वृष्टि॒मव॑ रुन्द्धे ।
भट्टभास्कर-टीका
सौम्येति । सौम्यैव हि दिवो वृष्टिं च्यावयितुं शक्नोति । गतमन्यत् ॥
मूलम् (संयुक्तम्)
मधु॑षा॒ सय्ँयौ॑त्य॒पाव्ँवा ए॒ष ओष॑धीनाँ॒ रसो॒ यन्मध्व॒द्भ्य ए॒वौष॑धीभ्यो वर्ष॒त्यथो॑ अ॒द्भ्य ए॒वौष॑धीभ्यो॒ वृष्टि॒न्नि न॑यति॒ मान्दा॒ वाशा॒ इति॒ सय्ँयौ॑ति
विश्वास-प्रस्तुतिः
मधु॑षा॒ सय्ँयौ॑ति ।
अ॒पाव्ँवा ए॒ष ओष॑धीनाँ॒ रसो॒ यन्मधु॑ ।
मूलम्
मधु॑षा॒ सय्ँयौ॑ति ।
अ॒पाव्ँवा ए॒ष ओष॑धीनाँ॒ रसो॒ यन्मधु॑ ।
भट्टभास्कर-टीका
3मधुषेति ॥ कृष्णेन । मधुशब्दपर्यायो मधुश्शब्दः उसिप्रत्ययान्तः ।
विश्वास-प्रस्तुतिः
अ॒द्भ्य ए॒वौष॑धीभ्यो वर्षति ।
मूलम्
अ॒द्भ्य ए॒वौष॑धीभ्यो वर्षति ।
भट्टभास्कर-टीका
अद्भ्य ओषधीभ्यश्च हेतुभ्यः वृष्टिं प्रवर्तयति मधुषा संयवनेन ।
विश्वास-प्रस्तुतिः
अथो॑ अ॒द्भ्य ए॒वौष॑धीभ्यो॒ वृष्टि॒न्नि न॑यति ।
मान्दा॒ वाशा॒ इति॒ सय्ँयौ॑ति ।
मूलम्
अथो॑ अ॒द्भ्य ए॒वौष॑धीभ्यो॒ वृष्टि॒न्नि न॑यति ।
मान्दा॒ वाशा॒ इति॒ सय्ँयौ॑ति ।
भट्टभास्कर-टीका
अथो इति । अपि च अद्भ्य ओषधीभ्योपि उपादानेभ्यः वृष्टिमुत्पादयति ॥
मूलम् (संयुक्तम्)
नाम॒धेयै॑रे॒वैना॒ अच्छै॒त्यथो॒ यथा॑ ब्रू॒यादसा॒वेहीत्ये॒वमे॒वैना॑ नाम॒धेयै॒रा [25] च्या॒व॒य॒ति॒ वृष्णो॒ अश्व॑स्य स॒न्दान॑मसि
विश्वास-प्रस्तुतिः
ना॒म॒धेयै॑रे॒वैना॒ अच्छै॑ति ।
मूलम्
ना॒म॒धेयै॑रे॒वैना॒ अच्छै॑ति ।
भट्टभास्कर-टीका
4नामधेयैरिति ॥ मान्दादिभिरेकादशभिः । अच्छैति आभिख्येन प्राप्नोति अभिमन्त्रणेनाभिमुख्यकरणात् ।
विश्वास-प्रस्तुतिः
अथो॒ यथा॑ ब्रू॒यात् ।
असा॒वेहीति॑ ।
ए॒वमे॒वैना॑ नाम॒धेयै॒रा च्या॑वयति ।
मूलम्
अथो॒ यथा॑ ब्रू॒यात् ।
असा॒वेहीति॑ ।
ए॒वमे॒वैना॑ नाम॒धेयै॒रा च्या॑वयति ।
भट्टभास्कर-टीका
अथो इति । असाविति । नामविशेषार्थं सामान्यपदम् । यथा कश्चिदामन्त्रयमाणो ब्रूयात् दत्त एहि गुप्त एहि इति एवमेवापोपि नामधेयैरात्मसमीपे आगमयति ॥
मूलम् (संयुक्तम्)
वृष्ट्यै॒ त्वोप॑ नह्या॒मीत्या॑ह॒ वृषा॒ वा अश्वो॒ वृषा॑ प॒र्जन्य॑ᳵ कृ॒ष्ण इ॑व॒ खलु॒ वै भू॒त्वा व॑र्षति रू॒पेणै॒वैनँ॒ सम॑र्धयति व॒र्षस्याव॑रुद्ध्यै ॥ [26]
विश्वास-प्रस्तुतिः
वृष्ट्यै॒ त्वोप॑ नह्या॒मीत्या॑ह ।
मूलम्
वृष्ट्यै॒ त्वोप॑ नह्या॒मीत्या॑ह ।
भट्टभास्कर-टीका
5वृष्ण इति ॥ तिस्र पिण्डीः कृत्वा समुच्चित्यानेन मन्त्रेण कृष्णाजिनस्यान्तान् सन्दानेनोपनह्यति ।
विश्वास-प्रस्तुतिः
वृषा॒ वा अश्वो॒ वृषा॑ प॒र्जन्यः॑।
मूलम्
वृषा॒ वा अश्वो॒ वृषा॑ प॒र्जन्यः॑।
भट्टभास्कर-टीका
वृषेति । वर्षिता अश्वः पर्जन्यो वा वर्षिता । तस्माद्वृषत्वेन पर्जन्यसदृशाश्वसंकीर्तनं वृष्ट्यै भवति ।
विश्वास-प्रस्तुतिः
कृ॒ष्ण इ॑व॒ खलु॒ वै भू॒त्वा व॑र्षति ।
मूलम्
कृ॒ष्ण इ॑व॒ खलु॒ वै भू॒त्वा व॑र्षति ।
भट्टभास्कर-टीका
किञ्च - कृष्ण इव भूत्वा पर्जन्यो वर्षति ।
विश्वास-प्रस्तुतिः
रू॒पेणै॒वैनँ॒ सम॑र्धयति व॒र्षस्याव॑रुद्ध्यै ॥
मूलम्
रू॒पेणै॒वैनँ॒ सम॑र्धयति व॒र्षस्याव॑रुद्ध्यै ॥
भट्टभास्कर-टीका
तस्मात्कृष्णाजिनसम्बन्धः रूपसमृद्ध्या वृष्टिहेतुर्भवति ॥
इति द्वितीये चतुर्थे नवमोनुवाकः ॥