विश्वेदेवा ऋषयः ।
१-२ विषमपदा बृहती, ३ विषमपदा पङ्क्तिः, ४ गायत्री, ५ सतः पङ्क्तिः, ६ जगती, ७ द्विपदा विराट् गायत्री, ९ अनुष्टुप्, १० विराण् महापङ्क्तिः ।
देवा॑ वसव्या॒ अग्ने॑ सोम सूर्य ।
+++(उ॒द्नो द॑त्तोऽद॒धिम्भि॑न्त दि॒वᳶ प॒र्जन्या॑द॒न्तरि॑क्षात्पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑ऽवत ।पृ॒थि॒वीय्ँयद्व्यु॒न्दन्ति॑ । )+++ ।
दिवा॑ चि॒त्तम॑ᳵ कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑ ।
भट्टभास्कर-टीका
1अथोत्करे प्रागीषं त्रिगधमनोवस्थितं भवति पादत्रयप्रतिष्ठितत्रिच्छदिष्कम् । तत्र तिसृषु गधासु त्रिभिर्मन्त्रैः प्रतिदिशमाबध्नाति पिण्डीः । तत्र पूर्वस्यां गधायां छदिष्कमपि कृष्णाजिनमाबध्नीयात् ‘देवा वसव्याः’ इति । तच्चाहोरात्रावसक्तं भवति । यदि वर्षेत् पिण्डीरेव जुहुयात्, यदि न वर्षेत् ‘देवाश्शर्मण्याः’ इति मध्यमायामाबध्नीयात्, तत्र चाहोरात्रावसक्तं भवति । यदि वर्षेत्पिण्डीरेव जुहुयात्, यदि न वर्षेत् ‘देवास्सपीतयः’ इति जघन्यायामाबध्नीयात्, अहोरात्रावसक्तं भवति । यदि वर्षेत्पिण्डीरेव जुहुयात्, यदि न वर्षेत् श्वोभूते धामच्छदादीनि त्रीणि हवींषि निर्वपति ।
एते च त्रयः पङ्क्तिप्रकाराः । ‘उद्गो दत्त’ इत्यादिकं च त्रिष्टुबनुषज्यते ।
तत्र प्रथमः - हे देवाः वसव्याः । स्वार्थिको यत् । जगतां वासहेतवो वसवः, वसुसमूहो वा वसव्यं, तद्वन्तः । मत्वर्थीयो लुप्यते, ‘वसोस्समूहे च’ इति यत् । वृष्टिहेतुत्वेन वसुसमूहवन्तः वासयितारश्च प्रजानाम् । वसुभ्यो वा हिता वसव्याः, वसूनि धनानि । तेषु च कांश्चिद्दर्शयति - अग्ने, सोम, सूर्य एवमादयो हे वसव्याः देवा यूयं उद्ग उदकं दत्त । पद्दन्नादिना उदकस्य उदन्भावः, पूर्ववत्कर्मणि षष्ठी, उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । तदर्थमुदधिं मेघं भिन्त विदारयत यथोदकं पतेत् । उदकं धीयतेऽस्मिन्निति उदधिः । ‘कर्मण्यधिकरणे च’ इति किः, ‘पेषंवासवाहनधिषु च’ इत्युदभावः, पूर्ववत्कर्मणि षष्ठी, उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । दिवः द्युलोकादन्तरिक्षात् पृथिव्याः । ल्यब्लोपे पञ्चमी । द्युलोकमन्तरिक्षं पृथिवीं च व्याप्य या वृष्टिः पर्जन्यात्प्रवर्तते तया वृष्ट्या नः अस्मान् अवत रक्षत तपर्यत वा । अत्र ‘विभाषितं विशेषवचने बहुवचनम्’ इति देवा इत्यस्याविद्यमानवत्त्वनिषेधाद्वसव्या इति निहन्यते, आमन्त्रितं पूर्वमविद्यमानवत्’ इति द्वयोरामन्त्रितयोः अविद्यमानवत्त्वात् अग्ने इति न निहन्यते । अथ यदा ‘अयने प्राणः’ इतिवत् वचनविशेषेपि सामान्यविशेषभावमात्रेण सामानाधिकरण्यं भवति तदा उपात्तदेवविशेषत्वात् अग्न्यादीनां यद्यपि ‘नामन्त्रिते समानाधिकरणे’ इत्यविद्यमानवत्त्वप्रतिषेधात् अग्न इत्यस्यापि निघातः प्राप्नोति । तथापि ‘विभाषितं विशेषवचने’ इति पक्षे अविद्यमानवत्त्वान्निघाताभावः । पक्षे विद्यमानवत्त्वात् उत्तरयोः निघातः प्रवर्तते ।
ननु अग्ने इत्यनेन विशेषवचने व्यवधानं न स्यात् । नैष दोषः ‘आमन्त्रितं पूर्वमविद्यमानवत्’ इति तस्याविद्यमानवत्त्वात्, तेन स्याद्व्यवधानम् ॥
विश्वास-प्रस्तुतिः
देवाः॑ शर्मण्या॒ मित्रा॑वरुणार्यमन् ।
+++(उ॒द्नो द॑त्तोऽद॒धिम्भि॑न्त दि॒वᳶ प॒र्जन्या॑द॒न्तरि॑क्षात्पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑ऽवत ।पृ॒थि॒वीय्ँयद्व्यु॒न्दन्ति॑ । )+++
दिवा॑ चि॒त्तम॑ᳵ कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑ ।
मूलम्
देवाः॑ शर्मण्या॒ मित्रा॑वरुणार्यमन् ।
+++(उ॒द्नो द॑त्तोऽद॒धिम्भि॑न्त दि॒वᳶ प॒र्जन्या॑द॒न्तरि॑क्षात्पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑ऽवत ।पृ॒थि॒वीय्ँयद्व्यु॒न्दन्ति॑ । )+++
दिवा॑ चि॒त्तम॑ᳵ कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑ ।
भट्टभास्कर-टीका
2अथ द्वितीयः - देवाः शर्मण्याः शरण्याः शरणभावे साधवः शर्मणे सुखाय वा गृहाय वा गृहीताः । हे मित्रावरुणौ हे अर्यमन् । पूर्ववत्स्वरः । उद्गो दत्तेत्यादि समानम् ॥
विश्वास-प्रस्तुतिः
देवाः॑ सपीत॒योऽपा॑न्नपादाशुहेमन् । +++(उ॒द्नो द॑त्तोऽद॒धिम्भि॑न्त दि॒वᳶ प॒र्जन्या॑द॒न्तरि॑क्षात्पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑ऽवत । पृ॒थि॒वीय्ँयद्व्यु॒न्दन्ति॑ । )+++
मूलम्
देवाः॑ सपीत॒योऽपा॑न्नपादाशुहेमन् । +++(उ॒द्नो द॑त्तोऽद॒धिम्भि॑न्त दि॒वᳶ प॒र्जन्या॑द॒न्तरि॑क्षात्पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑ऽवत । पृ॒थि॒वीय्ँयद्व्यु॒न्दन्ति॑ । )+++
भट्टभास्कर-टीका
3अथ तृतीयः - हे देवाः सपीतयः समानपानाः परस्परतः अस्माभिश्च सह हे अपां नपात् अपां चतुर्थ । ‘सुबामन्त्रिते’ इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्यामन्त्रिताद्युदात्तत्वम् । हे आशुहेमन् शीघ्रगते । हि गतौ, अन्येभ्योपि दृश्यते’ इति मनिन् । प्रदर्शनार्थं द्वयोरुपादानम् । उद्गो दत्तेत्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
दिवा॑ चि॒त्तम॑ᳵ कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑ ।
पृ॒थि॒वीय्ँयद्व्यु॒न्दन्ति॑ ।
मूलम्
दिवा॑ चि॒त्तम॑ᳵ कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑ ।
पृ॒थि॒वीय्ँयद्व्यु॒न्दन्ति॑ ।
भट्टभास्कर-टीका
4पिण्डीर्जुहोति - दिवा चित् इत्यादिभिस्तिसृभिः ॥ प्रथमा गायत्री । द्वितीयाऽस्तारपाङ्क्तिः, अयुजो द्वादशाक्षरत्वात् । तृतीया बृहती । तत्र प्रथमा - दिवा चित् दिवापि तमः दुर्दिनान्धकारं कृण्वन्ति कुर्वन्ति, किं पुनर्नक्तम्? पर्जन्येनोदवाहेन उदकस्य वाहकेन अनवरतवर्षिणा सह दिवाप्यन्धकारितमिव रोदोन्तरं दर्शयति घनपटलसंछादितदिगन्ता नक्तंदिनं वर्षयन्तीति यावत् । कदेति? आह - यत् । ‘सुपां सुलुक्’ इति सप्तम्या लुक् । यदा पृथिवीं व्युन्दन्ति विशेषेण क्लेदयन्ति । उन्दी क्लेदने । एते च पूर्वोक्ता अग्न्यादयो वक्ष्यमाणा मरुतो वा द्रष्टव्याः । अस्माकमप्येतद्वृष्टीः निवर्तयन्त्विति ॥
मूलम् (संयुक्तम्)
आ यन्नर॑स्सु॒दान॑वो ददा॒शुषे॑ दि॒वᳵ कोश॒मचु॑च्यवुः ।
वि प॒र्जन्याः॑ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति [21] वृ॒ष्टयः॑ ।
विश्वास-प्रस्तुतिः
आ यन्नर॑स्सु॒दान॑वो ददा॒शुषे॑ दि॒वᳵ कोश॒मचु॑च्यवुः ।
वि प॒र्जन्याः॑ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति वृ॒ष्टयः॑ ।
मूलम्
आ यन्नर॑स्सु॒दान॑वो ददा॒शुषे॑ दि॒वᳵ कोश॒मचु॑च्यवुः ।
वि प॒र्जन्याः॑ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति वृ॒ष्टयः॑ ।
भट्टभास्कर-टीका
5अथ तृतीया - आ यं नर इति ॥ नरः ऋत्विजः सुदानवः शोभनहविषां दातारः । दाशुषे यजमानाय हविषां दात्रे । तादर्थ्ये चतुर्थी । यजमानार्थं यं कोशं उदकस्याधारं मेघं दिवः द्युलोकात् अचुच्यवुः आच्यावयन्ति स्थानात् । यद्वा - दिवः आदित्यात् गृहीतं रश्मिषु नरो नेतारः मरुतः च्यावयन्ति । ततः कोशात्पर्जन्या उदकं विसृजन्ति मुञ्चन्ति रोदसी अनु द्यावापृथिव्यौ लक्षयित्वा । विसर्जनानन्तरं धन्वना अनुदकेन देशेन । विभक्तिव्यत्ययो वा । निरुदके देशे । वृष्टयः वृष्टानि जलानि यान्ति नद्यो भूत्वा प्रवहन्ति । च्यवतेर्लेटि शपश्श्लुः, ‘समवप्रविभ्यश्च’ [‘सिजभ्यस्तविदिभ्यश्च’] इति जुस्, ‘जुसि च’ इति गुणः, ‘मन्त्रे वृष’ इति वृषेः क्तिन उदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
उदी॑रयथा मरुतस्समुद्र॒तो यू॒यव्ँवृ॒ष्टिव्ँव॑र्षयथा पुरीषिणः ।
न वो॑ दस्रा॒ उप॑ दस्यन्ति धे॒नव॒श्शुभय्ँ॑या॒तामनु॒ रथा॑ अवृत्सत ।
मूलम्
उदी॑रयथा मरुतस्समुद्र॒तो यू॒यव्ँवृ॒ष्टिव्ँव॑र्षयथा पुरीषिणः ।
न वो॑ दस्रा॒ उप॑ दस्यन्ति धे॒नव॒श्शुभय्ँ॑या॒तामनु॒ रथा॑ अवृत्सत ।
भट्टभास्कर-टीका
6अथ तृतीया - हे मरुतः यूयं उदीरयथ प्रेरयथ वृष्टिं समुद्रतः समुन्दनात् मेघात् । ततो वर्षयथ पर्जन्यात् । हे पुरीषिणः उदकवन्तः, उदकेन हि सर्वं पूर्यते । न हि वः युष्मदीया धेनवः प्रीणनहेतवः अपः उपदस्यन्ति उपक्षीयन्ते, हे दस्राः दंसनशीलाः दानशीला वा । अतो वर्षयतेति । किं च - रथाः रंहणशीलाः यातां कालानुकूलप्रवृर्त्तां शुभं शोभाम् । संपदादिलक्षणः क्विप् । अनुवर्तध्वम् । यद्वा - यातां गतिं शुभमनुवर्तध्वं सुष्ठु अविच्छेदं कुरुध्वम् । पूर्वप्रवृत्तमार्गं मा मुञ्चत, यस्मादिदानीमपि रंहणाः स्थ, तस्माच्छक्तत्वात्स्वभावो न त्याज्यः इति । वृतेः छान्दसे लुङि व्यत्ययेन क्सः, ‘द्युद्भ्यो लुङि’ इति व्यत्ययेन परस्मैपदम्, ‘न वृद्भ्यश्चतुर्भ्यः’। इतीडभावः ॥
विश्वास-प्रस्तुतिः
सृ॒जा वृ॒ष्टिन्दि॒व आद्भिस्स॑मु॒द्रम्पृ॑ण ।
मूलम्
सृ॒जा वृ॒ष्टिन्दि॒व आद्भिस्स॑मु॒द्रम्पृ॑ण ।
भट्टभास्कर-टीका
7अथ कृष्णां कुम्भीमद्भिः पूरयति - सृजा वृष्टिमिति द्विपदया गायत्र्या ॥ आ इति प्रथमपादान्तः । सृज वृष्टिं दिवः द्युलोकात् द्योतनवतो मेघाद्वा, ततः अद्भिः समुद्रं तमेव समुन्दनं मेघं आवृण पूरय पुनःपुनर्वृष्ट्यर्थम् ॥
विश्वास-प्रस्तुतिः
अ॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रिय॑म् ।
मूलम्
अ॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रिय॑म् ।
भट्टभास्कर-टीका
8अथ कृष्णां व्रीहिभिर्जुहोति - अब्जा असीति द्विपदया गायत्र्या ॥ अब्जा असीति अद्भ्यो जायत इति । ‘जनसन’ इति लिट्, ‘विड्वनोरनुनासिकस्स्यात्’ इत्याकारः । प्रथमजाश्चासि । प्रथमः प्रजापतिः तस्माज्जात इति । पूर्ववत्प्रत्ययः आकारश्च । यथोक्तां - ‘राजन्यो मनुष्याणामविः पशूनाम्’ इति । बलमसि समुद्रियं समुद्रे मेघे भवम् । समुद्रात् अभ्रात् मेघतः ईदृशं बलहेतुरुदकं त्वमसि ईदृशोदकहेतुरसि ॥
विश्वास-प्रस्तुतिः
उन्न॑म्भय पृथि॒वीम्भि॒न्द्धीदन्दि॒व्यन्नभः॑ ।
उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृति॑म् ।
मूलम्
उन्न॑म्भय पृथि॒वीम्भि॒न्द्धीदन्दि॒व्यन्नभः॑ ।
उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृति॑म् ।
भट्टभास्कर-टीका
9अथ वर्षाभूस्तम्भमभिजुहोति - उन्नम्भयेत्यनुष्टुभा ॥ हे वर्षाभूस्तम्भ उन्नम्भय उच्छ्वासय । नभिः गतिकर्मा छान्दसो नुम् । पृथिवीं वृष्ट्या । तद्दर्शयति - इदं दिव्यं दिवि स्थितं नभः मेघं भिन्धि । नभेरसुनि नभः । गत्वरम् । तथा कृत्वा उद्गः उदकस्य दिव्यस्य नः अस्मभ्यं देहि । कर्मणस्सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । ईशानः उदकं दातुं समर्थः त्वं विसृज विमुञ्च दृतिं दृतिस्थानीयं मेघं क्षारय । ‘द्व्यचोतस्तिङः’ इति दीर्घत्वम् । पूर्ववदुदकस्योदन्भावः उदात्तनिवृत्तिस्वरश्च । उद्ग ईशान इति वा । ‘अधीगर्थ’ इति षष्ठी ॥
विश्वास-प्रस्तुतिः
ये दे॒वा दि॒विभा॑गा॒ ..
ये॑ऽन्तरि॑क्षभागा॒ ..
ये पृ॑थि॒विभा॑गाः ।
त इ॒मय्ँ य॒ज्ञम॑वन्तु॒ ..
त इ॒दङ्क्षेत्र॒मा वि॑शन्तु॒ ..
त इ॒दङ्क्षेत्र॒मनु॒ वि वि॑शन्तु ॥ [22]
मूलम्
ये दे॒वा दि॒विभा॑गा॒ ..
ये॑ऽन्तरि॑क्षभागा॒ ..
ये पृ॑थि॒विभा॑गाः ।
त इ॒मय्ँ य॒ज्ञम॑वन्तु॒ ..
त इ॒दङ्क्षेत्र॒मा वि॑शन्तु॒ ..
त इ॒दङ्क्षेत्र॒मनु॒ वि वि॑शन्तु ॥ [22]
भट्टभास्कर-टीका
10अन्तर्वेदि तिष्ठन् कृष्णाजिनमवधूनोति - ये देवा इति जगत्या ॥ षट्पदया ॥ ये देवा दिविभागाः दिवि भागो येषाम् । ‘हलदन्तात्’ इति सप्तम्या अलुक् । ये अन्तरिक्षभागाः, ‘ये च पृथिवीभागाः ते सर्वे इमं यज्ञं अवन्तु रक्षन्तु फलप्रदानसमर्थं कुर्वन्तु । ते इदं क्षेत्रमाविशन्तु वर्षरूपेण विशन्तु वर्षितृरूपेण वा परिगृह्णन्तु, ते इदं क्षेत्रं अनुविविशन्तु ओषध्यादिरूपेण व्याप्य तिष्ठन्तु, मा कदाचिदपीदं शुष्कं भूत् ॥
इति द्वितीये चतुर्थे अष्टमोनुवाकः ॥