०७ कारीरीष्टिप्राच्याङ्गमन्त्राः

२ त्रिष्टुप्, ११ पङ्क्तिः,

विश्वेदेवा ऋषयः ।

मूलम् (संयुक्तम्)

मा॒रु॒तम॑सि म॒रुता॒मोजो॒ऽपान्धारा॑म्भिन्द्धि

विश्वास-प्रस्तुतिः

मा॒रु॒तम॑सि ।
म॒रुता॒मोजः॑ +++(असि)+++।

मूलम्

मा॒रु॒तम॑सि ।
म॒रुता॒मोजः॑ +++(असि)+++।

भट्टभास्कर-टीका

1अथ कारीरिमन्त्राः । तत्र यजमानः कृष्णं वासः कृष्णतूषं परिधत्ते - मारुतमसीति यजुषा ॥ अत्राहुः - होतॄन्प्रवर्ग्यकाण्डं च याश्चोपनिषदो विदुः ।
अरुणाम्नायविधिश्चैव काठके परिकीर्तितौ ॥
रुद्रा नारायणश्चैव मेधो यश्चैव पित्रियः ।
एतदारण्यकं सर्वं नाव्रती श्रोतुमर्हति ॥
कारीर्यश्चापि पित्र्याश्च दिवाकीर्त्येति येषु च ।
रुद्रास्सन्ततिरित्येतावनुवाकौ च सात्रिकौ ॥
होतृविध्यवसाने चाप्यनुवाकचतुष्टयम् ।
सूक्तेषु सूक्तं यत्सौर्यं मेधो यश्चैव पित्रियः ॥
काठकानि च सर्वाणि सर्वाण्यारण्यकानि च ।
दिवाकीर्त्यानि शाखायामेतावन्तीह धारणा ॥
कल्पे पितृविधिश्चैव प्रवर्ग्यविधिरेव च ।
काठकानां विधिश्चैव कारीरीविधिरेव च ॥
अरुणाम्नायविधिश्चैव शतरुद्रविधिस्तथा ।
कल्पेषु च य आम्नाता मन्त्रास्तानप्यतन्द्रितः ॥
यथाव्रतमुपाकृत्य अधीयीतेति चोच्यते ॥ इति ॥

वास आमन्त्र्योच्यते - हे वासः मारुतं मरुतां संबन्धि त्वमसि, मरुतां ओजो बलं त्वमसि ; त्वदधीनबलत्वात्तेषाम् । ]

विश्वास-प्रस्तुतिः

अपान्धारा॑म्भिन्द्धि ।

मूलम्

अपान्धारा॑म्भिन्द्धि ।

भट्टभास्कर-टीका

अतोपां धारां भिन्धि पातय । यद्वा - अपां धारयितारं मेघं भिन्धि । लिङ्गव्यत्ययः । अपां धारयित्री वा मेघपङ्क्तिं भिन्धि ॥

विश्वास-प्रस्तुतिः

र॒मय॑त मरुतश्श्ये॒नमा॒यिन॒म्मनो॑जवसव्ँ॒वृष॑णँ सुवृ॒क्तिम् ।
येन॒ शर्ध॑ उ॒ग्रमव॑सृष्ट॒मेति॒ तद॑श्विना॒ परि॑ धत्तँ स्व॒स्ति ।

मूलम्

र॒मय॑त मरुतश्श्ये॒नमा॒यिन॒म्मनो॑जवसव्ँ॒वृष॑णँ सुवृ॒क्तिम् ।
येन॒ शर्ध॑ उ॒ग्रमव॑सृष्ट॒मेति॒ तद॑श्विना॒ परि॑ धत्तँ स्व॒स्ति ।

भट्टभास्कर-टीका

2पश्चाद्वातं प्रतिमीवति निवर्तयति - रमयतेति जगत्या ॥ हे मरुतः रमयत उपरमयत निवर्तयत श्येनं श्येनगतिमपि पश्चाद्वातं निवर्तयत । यद्वा - उदकस्य श्यातारं अपगमयितारं तनूकर्तारं वा आयिनं आगमनवन्तं आवन्तं[यान्तं] निवर्तयत । अथ तन्निवर्त्य अन्यं मनोजवसं महावेगं वृषणं वर्षितारमुदकस्य सुवृक्तिं शोभनशक्तिं पुरोवातं रमयतेत्येव । सामर्थ्यात् प्रवर्तयतेत्यर्थस्य गतिः । यद्वा - श्येनं प्रशस्तगमनं आयिनं उदकानयनकुशलं मनोजवसं वृषणं शोभनशक्तिं च पुरोवातं रमयत प्रवर्तयत । सामर्थ्याद्विपरीतस्वभावं पश्चाद्वातं निवर्तयतेति गम्यते । एवं श्रुत्यर्थाभ्यां लब्धमुभयं ब्राह्मणं प्रतिपादयति ‘पश्चाद्वातं प्रति मीवति पुरोवातमेव जनयति’ इति । येन प्रकारेण कृते शर्धः उदकं बलहेतुर्वा मरुतां बलकृतं वा । उग्रं उद्गूर्णं अवसृष्टं मुक्तं एति आगच्छति तथा रमयतेति । हे अश्विनौ युवामपि तदुदकं परिधर्त्तं परितो धारयतं स्वस्ति अविनाशार्थं लोकस्य उदकस्यैव वा अक्षयाय ॥

मूलम् (संयुक्तम्)

पु॒रो॒वा॒तो वर्ष॑ञ्जि॒न्वरा॒वृत्स्वाहा॑ वा॒ताव॒द्वर्ष॑न्नु॒ग्ररा॒वृत्स्वाहा॑ स्त॒नय॒न्वर्ष॑न्भी॒मरा॒वृत्स्वाहा॑नश॒न्य॑व॒स्फूर्ज॑न्दि॒द्युद्वर्ष॑न्त्वे॒षरा॒वृत्स्वाहा॑तिरा॒त्रव्ँवर्ष॑न्पू॒र्तिरा॒वृत् [19] स्वाहा॑ ब॒हु हा॒यम॑वृषा॒दिति॑ श्रु॒तरा॒वृत्स्वाहा॒तप॑ति॒ वर्ष॑न्वि॒राडा॒वृत्स्वाहा॑व॒स्फूर्ज॑न्दि॒द्युद्वर्ष॑न्भू॒तरा॒वृत्स्वाहा

विश्वास-प्रस्तुतिः

पु॒रो॒वा॒तो वर्ष॑ञ्जि॒न्वरा॒वृत्स्वाहा॑ ।

मूलम्

पु॒रो॒वा॒तो वर्ष॑ञ्जि॒न्वरा॒वृत्स्वाहा॑ ।

भट्टभास्कर-टीका

3-10वातनामानि जुहोति - पुरोवात इत्यष्टौ ॥ पुरोवातः पूर्वस्या दिशः आगतः पुरोवातो वर्षन् जिन्वः प्रीणयिता लोकस्य पुरोवातस्य प्रीणनत्वात् । जिवि प्रीणने, इदित्वान्नुम्, पचाद्यच्, छान्दस स्सांहितिकोस्य रेफः, उक्तं च प्रातिशाख्ये - ‘आवृत्परः’ इति । आवृत् आवर्तमानः आस्त्विति शेषः । आवर्ततामिति यावत् । स्वाहुतं चेदमस्तु तस्मा इति ।

विश्वास-प्रस्तुतिः

वा॒ताव॒द्वर्ष॑न्नु॒ग्ररा॒वृत्स्वाहा॑ ।

मूलम्

वा॒ताव॒द्वर्ष॑न्नु॒ग्ररा॒वृत्स्वाहा॑ ।

भट्टभास्कर-टीका

वातावत् वातेन युक्तं वर्षम् । छान्दसं दीर्घत्वम् । उग्रं उद्गूर्णम् । आवृत्परण्यं […त्परत्वाद्रेफः] वातयुक्तस्योद्गूर्णत्वात् । समानमन्यत् ।

विश्वास-प्रस्तुतिः

स्त॒नय॒न्वर्ष॑न्भी॒मरा॒वृत्स्वाहा॑ ।

मूलम्

स्त॒नय॒न्वर्ष॑न्भी॒मरा॒वृत्स्वाहा॑ ।

भट्टभास्कर-टीका

स्तनयन् शुष्कं गर्जन् वर्षन् भीमः भीतिहेतुः प्रजानां, तस्य तत्स्वभावत्वात्,

विश्वास-प्रस्तुतिः

अ॒न॒श॒न्य॑व॒स्फूर्ज॑न्दि॒द्युद्वर्ष॑न्त्वे॒षरा॒वृत्स्वाहा॑ ।

मूलम्

अ॒न॒श॒न्य॑व॒स्फूर्ज॑न्दि॒द्युद्वर्ष॑न्त्वे॒षरा॒वृत्स्वाहा॑ ।

भट्टभास्कर-टीका

अनशनि अविद्यमानाशनिपातं अवस्फूर्जन् अवसेचनेन शब्दयन् दिद्युत् दीप्तिमत् विद्युत्संबन्धेन प्रकाशयन् आयुधवानिव वर्तमानो वा । अत एव त्वेषः दीप्यमानः ।

विश्वास-प्रस्तुतिः

अ॒ति॒रा॒त्रव्ँवर्ष॑न्पू॒र्तिरा॒वृत्स्वाहा॑ ।

मूलम्

अ॒ति॒रा॒त्रव्ँवर्ष॑न्पू॒र्तिरा॒वृत्स्वाहा॑ ।

भट्टभास्कर-टीका

अतिरात्रं रात्रिमप्यतीत्य सर्वमप्यहोरात्रं, न रात्रिमात्रम् । ‘अहस्सर्वैक’ इत्यच्समासान्तः । पूर्तिः पर्याप्तिमान् पूरयद्वा महीतलं सर्वम् । क्तिच् ।

विश्वास-प्रस्तुतिः

ब॒हु हा॒यम॑वृषा॒दिति॑ श्रु॒तरा॒वृत्स्वाहा॑ ।

मूलम्

ब॒हु हा॒यम॑वृषा॒दिति॑ श्रु॒तरा॒वृत्स्वाहा॑ ।

भट्टभास्कर-टीका

बहु प्रभूतम् । हेत्यवधारणे । बह्वेवायमवृषात् अवर्षत् ।

विश्वास-प्रस्तुतिः

आ॒तप॑ति॒ वर्ष॑न्वि॒राडा॒वृत्स्वाहा॑ ।

अ॒व॒स्फूर्ज॑न्दि॒द्युद्वर्ष॑न्भू॒तरा॒वृत्स्वाहा॑ ।

मूलम्

आ॒तप॑ति॒ वर्ष॑न्वि॒राडा॒वृत्स्वाहा॑ ।

अ॒व॒स्फूर्ज॑न्दि॒द्युद्वर्ष॑न्भू॒तरा॒वृत्स्वाहा॑ ।

भट्टभास्कर-टीका

देव इत्येवं श्रुतः सर्वविख्यातं गच्छन् आतपति आतपे सति, ईषत्तपति वा सूर्ये वर्षन् विराट् प्रशस्ततया विराजमानः अवस्फूर्जन्दिद्युद्वर्षन्भूतः प्रभूतः सर्वलोकधारणक्षमः पुनःपुनरित्थं वर्षत्विति प्रतिपादनार्थं अवस्फूर्जन्नित्यादेः पुनराम्नानम् ॥

विश्वास-प्रस्तुतिः

मान्दा॒ वाशा॒श्शुन्ध्यू॒रजि॑राः ।

मूलम्

मान्दा॒ वाशा॒श्शुन्ध्यू॒रजि॑राः ।

भट्टभास्कर-टीका

11-13अन्तर्वेदि कृष्णाजिने कृष्णेन मधुषा करीरसक्तून् संयौति - मान्दा वाशा इति तिसृभिः ॥ प्रथमा एकपदा गायत्री । परे द्वे द्विपदे गायत्र्यौ । मान्दादीत्येतान्यपां नामानि एकादश । सर्वाण्यप्यामन्त्रिताद्युदात्तानि, पूर्वपूर्वविद्यमानतया उत्तरोत्तरनिघाताभावः । मन्दयन्ति मोदयन्ति प्रजा इति मान्दाः । पचाद्यच्, व्यत्ययेनानुपधाभूतस्याप्याकारस्य णिचि वृद्धिः । वाशयन्ति शब्दयन्ति प्रजा इति वाशाः । वाशृ शब्दे । वष्टेर्वा घञ् । काम्याः । शुन्ध्यूः शोधायित्र्यः । औणादिकः क्विप्रत्ययः, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । अजिराः अजनशीलाः, जनन्यादिरूपेण परिणामात् ।

विश्वास-प्रस्तुतिः

ज्योति॑ष्मती॒स्तम॑स्वरी॒रुन्द॑ती॒स्सुफे॑नाः ।

मूलम्

ज्योति॑ष्मती॒स्तम॑स्वरी॒रुन्द॑ती॒स्सुफे॑नाः ।

भट्टभास्कर-टीका

ज्योतिष्मत्यः सच्छायाः दुर्ज्ञानयाथात्म्याः । तमस्वरीः दौर्दिन्यकारिण्यः । उन्दत्यः क्लेदयित्र्यो भुवः । सुफेनाः अलङ्कारभूतफेनाः उपर्युपरि वधर्मानाः ।

विश्वास-प्रस्तुतिः

मित्र॑भृतः॒ क्षत्र॑भृत॒स्सुरा॑ष्ट्रा इ॒ह मा॑ऽवत ।

मूलम्

मित्र॑भृतः॒ क्षत्र॑भृत॒स्सुरा॑ष्ट्रा इ॒ह मा॑ऽवत ।

भट्टभास्कर-टीका

मित्रभृतः दुःखात्त्रायकाणां ओषध्यादीनां भर्त्र्यः । क्षत्रभृतः बलस्य पोषयित्र्यः । सुराष्ट्राः शोभनरार्ष्ट्रं कर्तुं समर्थाः । ईदृश्यो यूयं इहास्मिन् कर्मणि मामवत अविघ्नेन प्रवर्तयत । यद्वा - कर्मफलप्रदानेन मां तर्पयत ॥

विश्वास-प्रस्तुतिः

वृष्णो॒ अश्व॑स्य स॒न्दान॑मसि॒ वृष्ट्यै॒ त्वोप॑ नह्यामि ॥ [20]

मूलम्

वृष्णो॒ अश्व॑स्य स॒न्दान॑मसि॒ वृष्ट्यै॒ त्वोप॑ नह्यामि ॥ [20]

भट्टभास्कर-टीका

14अथ करीरसक्तून् तिस्रः पिण्डाः कृत्वा समुद्धृत्य कृष्णाजिनस्यान्तान् कृष्णेन सन्दानेनोपनह्यति - वृष्ण इति ॥ वृष्णः वर्षितुरश्वस्य व्यापकस्य सन्दानं बन्धनमसि । अतो वृष्ट्यै वृष्ट्यर्थं त्वामुपनह्यामि बध्नामि, त्वयोपनह्यामि वा ॥

इति द्वितीये चतुर्थे सप्तमोनुवाकः ॥