०६ कारीरीष्टिप्राच्याङ्गमन्त्राः

२ त्रिष्टुप्, ११ पङ्क्तिः ।

विश्वेदेवा ऋषयः ।

मूलम् (संयुक्तम्)

चि॒त्रया॑ यजेत प॒शुका॑म इ॒यव्ँ वै चि॒त्रा यद्वा अ॒स्याव्ँविश्व॑म्भू॒तमधि॑ प्र॒जाय॑ते॒ तेने॒यञ्चि॒त्रा य ए॒वव्ँवि॒द्वाँश्चि॒त्रया॑ प॒शुका॑मो॒ यज॑ते॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते

विश्वास-प्रस्तुतिः

चि॒त्रया॑ यजेत प॒शुका॑मः ।

मूलम्

चि॒त्रया॑ यजेत प॒शुका॑मः ।

भट्टभास्कर-टीका

1चित्रया यजेतेत्यादि ॥ चित्रापूर्णमासे चित्रां निर्वपेत् ।

विश्वास-प्रस्तुतिः

इ॒यव्ँ वै चि॒त्रा ।
यद्वा अ॒स्याव्ँविश्व॑म्भू॒तमधि॑ प्र॒जाय॑ते॒ तेने॒यञ्चि॒त्रा ।

मूलम्

इ॒यव्ँ वै चि॒त्रा ।
यद्वा अ॒स्याव्ँविश्व॑म्भू॒तमधि॑ प्र॒जाय॑ते॒ तेने॒यञ्चि॒त्रा ।

भट्टभास्कर-टीका

इयं वा इति । विश्वं भूतजनाधिकरणतया चयनीयत्वादिष्टिपृथिव्योरभेदोपचारः ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँवि॒द्वाँश्चि॒त्रया॑ प॒शुका॑मो॒ यज॑ते ।
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ।

मूलम्

य ए॒वव्ँवि॒द्वाँश्चि॒त्रया॑ प॒शुका॑मो॒ यज॑ते ।
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ।

भट्टभास्कर-टीका

य एवमित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

प्रैवाग्ने॒येन॑ वापयति॒ रेत॑स्सौ॒म्येन॑ दधाति॒ रेत॑ ए॒व हि॒तन्त्वष्टा॑ रू॒पाणि॒ वि क॑रोति सारस्व॒तौ भ॑वत ए॒तद्वै दैव्य॑म्मिथु॒नन्दैव्य॑मे॒वास्मै॑ [17] मि॒थु॒नम्म॑ध्य॒तो द॑धाति॒ पुष्ट्यै॑ प्र॒जन॑नाय सिनीवा॒ल्यै च॒रुर्भ॑वति॒ वाग्वै सि॑नीवा॒ली पुष्टि॒ᳵ खलु॒ वै वाक्पुष्टि॑मे॒व वाच॒मुपै॑त्यै॒न्द्र उ॑त्त॒मो भ॑वति॒ तेनै॒व तन्मि॑थु॒नँ स॒प्तैतानि॑ ह॒वीँषि॑ भवन्ति स॒प्त ग्रा॒म्याᳶ प॒शव॑स्स॒प्तार॒ण्यास्स॒प्त छन्दाँ॑स्यु॒भय॒स्याव॑रुद्ध्यै

विश्वास-प्रस्तुतिः

प्रैवाग्ने॒येन॑ वापयति ।
रेत॑स्सौ॒म्येन॑ दधाति ।
रेत॑ ए॒व हि॒तन्त्वष्टा॑ रू॒पाणि॒ वि क॑रोति ।
सा॒र॒स्व॒तौ भ॑वतः ।
ए॒तद्वै दैव्य॑म्मिथु॒नन्दैव्य॑मे॒वा॒स्मै॒ मि॒थु॒नम्म॑ध्य॒तो द॑धाति ।
पुष्ट्यै॑ प्र॒जन॑नाय सिनीवा॒ल्यै च॒रुर्भ॑वति ।
वाग्वै सि॑नीवा॒ली ।
पुष्टि॒ᳵ खलु॒ वै वाक् ।
पुष्टि॑मे॒व वाच॒मुपै॑ति ।
ऐ॒न्द्र उ॑त्त॒मो भ॑वति ।

मूलम्

प्रैवाग्ने॒येन॑ वापयति ।
रेत॑स्सौ॒म्येन॑ दधाति ।
रेत॑ ए॒व हि॒तन्त्वष्टा॑ रू॒पाणि॒ वि क॑रोति ।
सा॒र॒स्व॒तौ भ॑वतः ।
ए॒तद्वै दैव्य॑म्मिथु॒नन्दैव्य॑मे॒वा॒स्मै॒ मि॒थु॒नम्म॑ध्य॒तो द॑धाति ।
पुष्ट्यै॑ प्र॒जन॑नाय सिनीवा॒ल्यै च॒रुर्भ॑वति ।
वाग्वै सि॑नीवा॒ली ।
पुष्टि॒ᳵ खलु॒ वै वाक् ।
पुष्टि॑मे॒व वाच॒मुपै॑ति ।
ऐ॒न्द्र उ॑त्त॒मो भ॑वति ।

भट्टभास्कर-टीका

2आग्नेयोष्टाकपालः, सौम्यश्चरुः, त्वाष्ट्रोष्टाकपालः, सरस्वत्यै चरुः, सरस्वते चरुः, सिनीवाल्यै चरुः, ऐन्द्र एकादशकपालः, सप्तैतानि हवींषि भवन्ति - प्रैवेति ॥
आग्नेयेन प्रवापयति प्रजनने रेतस्सिञ्चति सेचयति पुम्भिः स्त्रीषु, तत्सिक्तं सौम्येन दधाति धारयति । तत्र हितं धारितं त्वष्टा रूपाणि विकरोति विविधेन रूपेण परिणतं करोति त्वाष्ट्रेण । सारस्वताभ्यां दैव्यं मिथुनं, सरस्वत्सरस्वतीतिसंबन्धाभ्यां दैव्यं मिथुनं गर्भस्थस्य जन्तोः पुष्ट्यर्थं काले प्रजननार्थं च मध्यतः अन्तर्दधाति स्थापयति ।

विश्वास-प्रस्तुतिः

तेनै॒व तन्मि॑थु॒नँ स॒प्तैतानि॑ ह॒वीँषि॑ भवन्ति ।

मूलम्

तेनै॒व तन्मि॑थु॒नँ स॒प्तैतानि॑ ह॒वीँषि॑ भवन्ति ।

भट्टभास्कर-टीका

ततो वाक्प्रवृत्तिहेतुभूतायास्सिनीवाल्या चरुणा वाचश्च पुष्टिविशेषत्वात् पुष्टिं वाचं च प्राप्नोति गर्भस्थो जीवः । उत्तमस्यैन्द्रस्य भावात् । सिनीवाल्या हि तदपरं मिथुनं अन्ते भवति । ततस्तदपि पुष्ट्यै पजननाय च संपद्यते इति भावः ।

विश्वास-प्रस्तुतिः

स॒प्त ग्रा॒म्याᳶ प॒शव॑स्स॒प्तार॒ण्यास्स॒प्त छन्दाँ॑स्यु॒भय॒स्याव॑रुद्ध्यै ।

मूलम्

स॒प्त ग्रा॒म्याᳶ प॒शव॑स्स॒प्तार॒ण्यास्स॒प्त छन्दाँ॑स्यु॒भय॒स्याव॑रुद्ध्यै ।

भट्टभास्कर-टीका

सप्तेति । गोजाविकपुरुष गर्दभाश्वोष्टृराः सप्त ग्राम्याः पशवः । द्विखुरश्वापदपक्षिसरीसृपहस्तिमर्कटनादेयाः सप्तारण्याः । गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगत्यः सप्त छन्दांसि प्रधानानि । उभयस्येति । पशूनां छन्दसां च ॥

मूलम् (संयुक्तम्)

अथै॒ता आहु॑तीर्जुहोत्ये॒ते वै दे॒वाᳶ पुष्टि॑पतय॒स्त ए॒वास्मि॒न्पुष्टि॑न्दधति॒ पुष्य॑ति प्र॒जया॑ प॒शुभि॒रथो॒ यदे॒ता आहु॑तीर्जु॒होति॒ प्रति॑ष्ठित्यै ॥ [18]

विश्वास-प्रस्तुतिः

अथै॒ता आहु॑तीर्जुहोति ।

मूलम्

अथै॒ता आहु॑तीर्जुहोति ।

भट्टभास्कर-टीका

3अथैता इति ॥ प्रधानयागादनन्तरं पुरस्तात्स्विष्टकृतः ‘अग्ने गोभिर्न आ गहि’ इत्याद्यास्सप्ताहुतीर्जुहोति ।

विश्वास-प्रस्तुतिः

ए॒ते वै दे॒वाᳶ पुष्टि॑पतय॒स्त ए॒वास्मि॒न्पुष्टि॑न्दधति ।
पुष्य॑ति प्र॒जया॑ प॒शुभिः॑ ।

मूलम्

ए॒ते वै दे॒वाᳶ पुष्टि॑पतय॒स्त ए॒वास्मि॒न्पुष्टि॑न्दधति ।
पुष्य॑ति प्र॒जया॑ प॒शुभिः॑ ।

भट्टभास्कर-टीका

एते वा इति । अग्न्यादयः ।

विश्वास-प्रस्तुतिः

अथो॒ यदे॒ता आहु॑तीर्जु॒होति॒ प्रति॑ष्ठित्यै ॥

मूलम्

अथो॒ यदे॒ता आहु॑तीर्जु॒होति॒ प्रति॑ष्ठित्यै ॥

भट्टभास्कर-टीका

अथो इति । अपि च एता आहुतयः प्रतिष्ठित्यै च भवन्ति एतेषां देवानां प्रतिष्ठाया अपि हेतुत्वात् ॥

इति द्वितीये चतुर्थे षष्ठोनुवाकः ॥