विश्वेदेवा ऋषयः ।
विश्वास-प्रस्तुतिः
अग्ने॒ गोभि॑र्न॒ आ ग॒हीन्दो॑ पु॒ष्ट्या जु॑षस्व नः ।
इन्द्रो॑ ध॒र्ता गृ॒हेषु॑ नः ॥
मूलम्
अग्ने॒ गोभि॑र्न॒ आ ग॒हीन्दो॑ पु॒ष्ट्या जु॑षस्व नः ।
इन्द्रो॑ ध॒र्ता गृ॒हेषु॑ नः ॥
भट्टभास्कर-टीका
1अथ चित्रायागो वक्ष्यते । तस्यामेते उपहोममन्त्रास्सप्त । तत्राद्याश्चतस्रो गायत्र्यः । पञ्चमी (सतो) बृहती । ततो द्वे यजुषी । तत्र प्रथमा - अग्ने गोभिरिति ॥ हे अग्ने गोभिः नः अस्मानागहि आगच्छ । शपो लुक् । हे इन्दो पुष्ट्या पशुपुष्ट्या अस्माकं जुषस्व सेवस्व प्रीणय वा । इन्द्रश्च गृहेषु अस्माकं धर्ता धारको भवितुमर्हतीति । ‘अर्हे कृत्यतृचश्च’ इति तृच् ।
विश्वास-प्रस्तुतिः
स॒वि॒ता यस्स॑ह॒स्रिय॒स्स नो॑ गृ॒हेषु॑ रारणत् ।
आ पू॒षा ए॒त्वा वसु॑ ॥
मूलम्
स॒वि॒ता यस्स॑ह॒स्रिय॒स्स नो॑ गृ॒हेषु॑ रारणत् ।
आ पू॒षा ए॒त्वा वसु॑ ॥
भट्टभास्कर-टीका
2द्वितीया - सवितेति ॥ यस्सविता सहस्रियः सहस्रेण संमितः । ‘सहस्रेण संमितौ घः’ । सोस्माकं गृहेषु रारणत् रमताम् । रमतेर्लेटि शपश्श्लुः, तुजादित्वादभ्यासस्य दीर्घत्वम्, लेटोऽडागमः, वर्णव्यत्ययेन णत्वम् । पूषा चास्मद्गृहेषु ऐतु आगच्छतु । वसु पशुलक्षणं धनं चास्मद्गृहेष्वागच्छतु ॥
विश्वास-प्रस्तुतिः
धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑ ।
स नᳶ॑ पू॒र्णेन॑ वावनत् ॥
मूलम्
धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑ ।
स नᳶ॑ पू॒र्णेन॑ वावनत् ॥
भट्टभास्कर-टीका
3तृतीया - धातेति ॥ धाता सर्वस्य विधाता देवोस्मभ्यं रयिं धनं पशुलक्षणं ददातु ईशानः दातुं समर्थः जगतः पतिः पालयिता । ‘षष्ठ्याः पतिपुत्र’ इति सत्वम् ।
किञ्च - स देवोस्मान् पूर्णेन सर्वाभिमतैराप्यायितेन धनेन वावनत् संभजतां अस्मान् परिगृह्णातु । वन षण संभक्तौ, लेटि शपश्श्लुः, अडादि पूर्ववत् ॥
विश्वास-प्रस्तुतिः
त्वष्टा॒ यो वृ॑ष॒भो वृषा॒ स नो॑ गृ॒हेषु॑ रारणत् ।
स॒हस्रे॑णा॒युते॑न च ॥
मूलम्
त्वष्टा॒ यो वृ॑ष॒भो वृषा॒ स नो॑ गृ॒हेषु॑ रारणत् ।
स॒हस्रे॑णा॒युते॑न च ॥
भट्टभास्कर-टीका
4अथ चतुर्थी - त्वष्टेति ॥ यस्त्वष्टा वृषभः वर्षिता कामानां वृषा प्रधानभूतः सेक्ता वा सोस्माकं गृहेषु रारणत् रमताम् । व्याख्यातम् । सहस्रेण पशुना दशभिश्शतैः रमताम् । अयुतेन दशभिस्सहस्रैश्च रमताम् ॥
विश्वास-प्रस्तुतिः
येन॑ दे॒वा अ॒मृत॑म् [15] दी॒र्घँ श्रवो॑ दि॒व्यैर॑यन्त ।
राय॑स्पोष॒ त्वम॒स्मभ्य॒ङ्गवा॑ङ्कु॒ल्मिञ्जी॒वस॒ आ यु॑वस्व ।
मूलम्
येन॑ दे॒वा अ॒मृत॑म् [15] दी॒र्घँ श्रवो॑ दि॒व्यैर॑यन्त ।
राय॑स्पोष॒ त्वम॒स्मभ्य॒ङ्गवा॑ङ्कु॒ल्मिञ्जी॒वस॒ आ यु॑वस्व ।
भट्टभास्कर-टीका
5अथ पञ्चमी - येनेति ॥ हे रायस्पोष धनपुष्ट येन त्वया देवा अमृतं अमृतत्वं दीर्घमविच्छिन्नं श्रवः अन्नं च दिवि ऐरयन्त द्युलोके प्राप्नुवन् स त्वमस्मभ्यं गवां कुल्मिं संघातं सन्तानं वा आयुवस्व अस्माभिर्मिश्रय, देहीति यावत् । यौतेर्व्यत्यन्येनात्मनेपदम्, विकर्णव्यत्ययेन शः । जीवसे अस्मान् जीवयितुम् । तुमर्थे असेप्रत्ययः ॥
विश्वास-प्रस्तुतिः
अ॒ग्निर्गृ॒हप॑ति॒स्सोमो॑ विश्व॒वनि॑स्सवि॒ता सु॑मे॒धास्स्वाहा॑ ।
मूलम्
अ॒ग्निर्गृ॒हप॑ति॒स्सोमो॑ विश्व॒वनि॑स्सवि॒ता सु॑मे॒धास्स्वाहा॑ ।
भट्टभास्कर-टीका
6अथ षष्ठो मन्त्रः - अग्निरिति ॥ गृहाणां पतिः पाता अग्निः सोमः सर्वस्य धनस्य संभक्ता संविभक्ता । ‘छन्दसि वनसन’ इतीन्प्रत्ययः । सविता सुमेधाः शोभनमतिः सदा सानुग्रहबुद्धिः । तस्मादेतेभ्यो महानुभावेभ्यः इदं स्वाहुतमस्त्विति ॥
मूलम् (संयुक्तम्)
अग्ने॑ गृहपते॒ यस्ते॒ घृत्यो॑ भा॒गस्तेन॒ सह॒ ओज॑ आ॒क्रम॑माणाय धेहि॒ श्रैष्ठ्या॑त्प॒थो मा यो॑षम्मू॒र्धा भू॑यासँ॒ स्वाहा॑ ॥ [16]
विश्वास-प्रस्तुतिः
अग्ने॑ गृहपते॒ यस्ते॒ घृत्यो॑ भा॒गस्तेन॒ सह॒ ओज॑ आ॒क्रम॑माणाय धेहि ।
मूलम्
अग्ने॑ गृहपते॒ यस्ते॒ घृत्यो॑ भा॒गस्तेन॒ सह॒ ओज॑ आ॒क्रम॑माणाय धेहि ।
भट्टभास्कर-टीका
7अथ सप्तमः - अग्न इति ॥ हे अग्ने गृहपते गृहाणां पातः । ‘नामन्त्रिते समानाधिकरणे’ इति पूर्वपदस्य विद्यमानत्वाभावादिदं निहन्यते । यस्ते घृत्यः घृतार्हः, छान्दसो यत् । भागः एकदेशोङ्गभेदः तेन कर्मणा आक्रममाणाय शत्रूनभिभवते अन्यग्भूताय मह्यं सहः बलं ओजस्तेजश्च धेहि देहि । यद्वा - यस्ते भागः हविर्भागः घृत्यः घृते भवः घृतप्रकृतिर्वा, तेनानेन हेतुना शत्रूनाक्रममाणाय मह्यं सह ओजश्च देहि ।
विश्वास-प्रस्तुतिः
श्रैष्ठ्या॑त्प॒थो मा यो॑षम्मू॒र्धा भू॑यासम् ।
स्वाहा॑ ॥ [16]
मूलम्
श्रैष्ठ्या॑त्प॒थो मा यो॑षम्मू॒र्धा भू॑यासम् ।
स्वाहा॑ ॥ [16]
भट्टभास्कर-टीका
श्रैष्ठ्यात् पथो मार्गात् मा योषं अपहृतो मा भूवम् । यौर्तेर्लिङि वृद्ध्यभावश्छान्दसः, इडभावश्च । अपि च मूर्धा प्रधानभूतो भूयास्मम् । स्वाहुतँ चेदं घृतं तुभ्यमस्तु ॥
इति द्वितीये चतुर्थे पञ्चमोनुवाकः ॥