०४ चित्रायोगोपहोममन्त्राः

गायत्री, ५ उपरिष्टाद् बृहती ।
विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ ता अ॑स्मात्सृ॒ष्टाᳶ परा॑चीराय॒न्ता यत्राव॑स॒न्ततो॑ ग॒र्मुदुद॑तिष्ठ॒त्ता बृह॒स्पति॑श्चा॒न्ववै॑ताँ॒ सो॑ऽब्रवी॒द्बृह॒स्पति॑र॒नया॑ त्वा॒ प्र ति॑ष्ठा॒न्यथ॑ त्वा प्र॒जा उ॒पाव॑र्त्स्य॒न्तीति॒ तम्प्राति॑ष्ठ॒त्ततो॒ वै प्र॒जाप॑तिम्प्र॒जा उ॒पाव॑र्तन्त॒ यᳶ प्र॒जाका॑म॒स्स्यात्तस्मा॑ ए॒तम्प्रा॑जाप॒त्यङ्गा॑र्मु॒तञ्च॒रुन्निर्व॑पेत्प्र॒जाप॑तिम् [12] ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प्र॒जाम्प्र ज॑नयति

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
ता अ॑स्मात्सृ॒ष्टाᳶ परा॑चीरायन् ।
ता यत्राव॑सन्।
ततो॑ ग॒र्मुदुद॑तिष्ठत् ।

मूलम्

प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
ता अ॑स्मात्सृ॒ष्टाᳶ परा॑चीरायन् ।
ता यत्राव॑सन्।
ततो॑ ग॒र्मुदुद॑तिष्ठत् ।

भट्टभास्कर-टीका

1प्रजापतिः प्रजा असृजतेत्यादि ॥ पराचीः पराचीनगतयः अपुनरावृत्ता एव यद्गताः ता यत्रावसन् ततो गर्मुदुदतिष्ठत् अकृष्टादेव प्रदेशात् स्वयमेवाजायत । विजातीयेन सहोत्पन्नः तृणविशेषो गर्मुत् । ओषधीनां दुष्टपरिणाम इत्येके ।

विश्वास-प्रस्तुतिः

ता बृह॒स्पति॑श्चा॒न्ववै॑ताम् ।

मूलम्

ता बृह॒स्पति॑श्चा॒न्ववै॑ताम् ।

भट्टभास्कर-टीका

अथ ताः बृहस्पतिः प्रजापातिश्चान्ववैतां पश्चादनुसृत्य अवगतवन्तौ ।

विश्वास-प्रस्तुतिः

सो॑ऽब्रवी॒द्, बृह॒स्पति॑र॒नया॑ त्वा॒ प्र ति॑ष्ठानि ।

मूलम्

सो॑ऽब्रवी॒द्, बृह॒स्पति॑र॒नया॑ त्वा॒ प्र ति॑ष्ठानि ।

भट्टभास्कर-टीका

अथ सोब्रवीद्बृहस्पतिः प्रजापतिं अनया गर्मुता त्वां प्रतिष्ठानि प्रकर्षेण स्थापयामि ।

विश्वास-प्रस्तुतिः

अथ॑ त्वा प्र॒जा उ॒पाव॑र्त्स्य॒न्तीति॑ ।

मूलम्

अथ॑ त्वा प्र॒जा उ॒पाव॑र्त्स्य॒न्तीति॑ ।

भट्टभास्कर-टीका

अथ प्रकृष्टस्थितिकं त्वां प्रजा उपावर्त्स्यन्तीति ।

विश्वास-प्रस्तुतिः

तम्प्राति॑ष्ठत् ।

मूलम्

तम्प्राति॑ष्ठत् ।

भट्टभास्कर-टीका

अथ तं गार्मुतेन चरुणा प्रातिष्ठत् प्रकृष्टं स्थापितवान् । यत्र धात्वार्थनिवृत्तौ प्रशब्दः तत्रैव ‘समवप्रविभ्यस्सथः’ इत्यात्मनेपदमकर्मकस्यैव भवति, इह तु सकर्मक एव प्रकृष्टार्थां स्थिथौ वर्तते, तेनात्मनेपदाभावः, यथा - ‘ब्रह्मन् प्रस्थास्यामः समिधमाधाय’ इति । तत्रापि हि प्रकृष्टस्थितिकर्मा तिष्ठतिः, न तु स्थितिन्निवृत्तिकर्मा ।

विश्वास-प्रस्तुतिः

ततो॒ वै प्र॒जाप॑तिम्प्र॒जा उ॒पाव॑र्तन्त ।
यᳶ प्र॒जाका॑म॒स्स्यात् ।
तस्मा॑ ए॒तम्प्रा॑जाप॒त्यङ्गा॑र्मु॒तञ्च॒रुन्निर्व॑पेत् ।
प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वास्मै॑ प्र॒जाम्प्र ज॑नयति ।

मूलम्

ततो॒ वै प्र॒जाप॑तिम्प्र॒जा उ॒पाव॑र्तन्त ।
यᳶ प्र॒जाका॑म॒स्स्यात् ।
तस्मा॑ ए॒तम्प्रा॑जाप॒त्यङ्गा॑र्मु॒तञ्च॒रुन्निर्व॑पेत् ।
प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वास्मै॑ प्र॒जाम्प्र ज॑नयति ।

भट्टभास्कर-टीका

ततो वा इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

प्र॒जाप॑तिᳶ प॒शून॑सृजत॒ ते॑ऽस्मात्सृ॒ष्टाᳶ परा॑ञ्च आय॒न्ते यत्राव॑स॒न्ततो॑ ग॒र्मुदुद॑तिष्ठ॒त्तान्पू॒षा चा॒न्ववै॑ताँ॒ सो॑ऽब्रवीत्पू॒षानया॑ मा॒ प्र ति॒ष्ठाथ॑ त्वा प॒शव॑ उ॒पाव॑र्त्स्य॒न्तीति॒ माम्प्र ति॒ष्ठेति॒ सोमो॑ऽब्रवी॒न्मम॒ वै [13] अ॒कृ॒ष्ट॒प॒च्यमित्यु॒भौ वा॒म्प्र ति॑ष्ठा॒नीत्य॑ब्रवी॒त्तौ प्राति॑ष्ठ॒त्ततो॒ वै प्र॒जाप॑तिम्प॒शव॑ उ॒पाव॑र्तन्त॒ यᳶ प॒शुका॑म॒स्स्यात्तस्मा॑ ए॒तँ सो॑मापौ॒ष्णङ्गा॑र्मु॒तञ्च॒रुन्निर्व॑पेत्सोमापू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ प॒शून्प्र ज॑नयत॒स्सोमो॒ वै रे॑तो॒धाᳶ पू॒षा प॑शू॒नाम्प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शून्प्र ज॑नयति ॥ [14]

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिᳶ प॒शून॑सृजत ।
ते॑ऽस्मात्सृ॒ष्टाᳶ परा॑ञ्च आयन् ।
ते यत्राव॑सन् ।
ततो॑ ग॒र्मुदुद॑तिष्ठत् ।
तान्पू॒षा चा॒न्ववै॑ताम् ।
सो॑ऽब्रवीत् ।
पू॒षानया॑ मा॒ प्र ति॑ष्ठ।
अथ॑ त्वा प॒शव॑ उ॒पाव॑र्त्स्य॒न्तीति॑ ।

मूलम्

प्र॒जाप॑तिᳶ प॒शून॑सृजत ।
ते॑ऽस्मात्सृ॒ष्टाᳶ परा॑ञ्च आयन् ।
ते यत्राव॑सन् ।
ततो॑ ग॒र्मुदुद॑तिष्ठत् ।
तान्पू॒षा चा॒न्ववै॑ताम् ।
सो॑ऽब्रवीत् ।
पू॒षानया॑ मा॒ प्र ति॑ष्ठ।
अथ॑ त्वा प॒शव॑ उ॒पाव॑र्त्स्य॒न्तीति॑ ।

भट्टभास्कर-टीका

2पूषा चेति ॥ पूषा च प्रजापतिश्च, अथ सोब्रवीत्पूषा प्रजापतिं अनया गर्मुता प्रतिष्ठ ततो मयि प्रकृष्टस्थितिके सति त्वां पशव उपावर्त्स्यन्तीति ।

विश्वास-प्रस्तुतिः

माम्प्र ति॒ष्ठेति॒ सोमो॑ऽब्रवीत् ।

मूलम्

माम्प्र ति॒ष्ठेति॒ सोमो॑ऽब्रवीत् ।

भट्टभास्कर-टीका

अत्रान्तरे सोमोपि मां प्रतिष्ठेति प्रजापतिमब्रवीत् ।

विश्वास-प्रस्तुतिः

मम॒ वा अ॑कृष्टप॒च्यमिति॑ ।

मूलम्

मम॒ वा अ॑कृष्टप॒च्यमिति॑ ।

भट्टभास्कर-टीका

मदीयं ह्यकृष्ठपच्यं, तस्मादनया मां प्रतिष्ठेति । अकृष्टः स्वयमेव पच्यते इत्यकृष्टपच्यम् । ‘अकृष्टे च’ इति य[क्यप्]प्रत्ययः ।

विश्वास-प्रस्तुतिः

उ॒भौ वा॒म्प्र ति॑ष्ठा॒नीत्य॑ब्रवीत् ।

मूलम्

उ॒भौ वा॒म्प्र ति॑ष्ठा॒नीत्य॑ब्रवीत् ।

भट्टभास्कर-टीका

अप उभावपि युवां प्रतिष्ठानीति प्रजापतिरब्रवीत् सोमापूषणौ ।

विश्वास-प्रस्तुतिः

तौ प्राति॑ष्ठत् ।

मूलम्

तौ प्राति॑ष्ठत् ।

भट्टभास्कर-टीका

ततस्तौ गार्मुतेन चरुणा प्रातिष्ठत् ।

विश्वास-प्रस्तुतिः

ततो॒ वै प्र॒जाप॑तिम्प॒शव॑ उ॒पाव॑र्तन्त ।
यᳶ प॒शुका॑म॒स्स्यात् ।
तस्मा॑ ए॒तँ सो॑मापौ॒ष्णङ्गा॑र्मु॒तञ्च॒रुन्निर्व॑पेत् ।
सो॒मा॒पू॒ष॒णा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
तावे॒वास्मै॑ प॒शून्प्र ज॑नयतः ।
सोमो॒ वै रे॑तो॒धाᳶ पू॒षा प॑शू॒नाम्प्र॑जनयि॒ता ,
सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ।
पू॒षा प॒शून्प्र ज॑नयति ॥

मूलम्

ततो॒ वै प्र॒जाप॑तिम्प॒शव॑ उ॒पाव॑र्तन्त ।
यᳶ प॒शुका॑म॒स्स्यात् ।
तस्मा॑ ए॒तँ सो॑मापौ॒ष्णङ्गा॑र्मु॒तञ्च॒रुन्निर्व॑पेत् ।
सो॒मा॒पू॒ष॒णा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
तावे॒वास्मै॑ प॒शून्प्र ज॑नयतः ।
सोमो॒ वै रे॑तो॒धाᳶ पू॒षा प॑शू॒नाम्प्र॑जनयि॒ता ,
सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ।
पू॒षा प॒शून्प्र ज॑नयति ॥

भट्टभास्कर-टीका

ततो वा इत्यादि । गतम् ॥

इति द्वितीये चतुर्थे चतुर्थोनुवाकः ॥