विश्वेदेवा ऋषयः ।
मूलम् (संयुक्तम्)
दे॒वा॒सु॒रास्सय्ँय॑त्ता आस॒न्तेषा॑ङ्गाय॒त्र्योजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑म्प्र॒जाम्प॒शून्त्स॒ङ्गृह्या॒दाया॑प॒क्रम्या॑तिष्ठ॒त्ते॑ऽमन्यन्त यत॒रान्वा इ॒यमु॑पाव॒र्त्स्यति॒ त इ॒दम्भ॑विष्य॒न्तीति॒ ताव्व्ँय॑ह्वयन्त॒ विश्व॑कर्म॒न्निति॑ दे॒वा दाभीत्यसु॑रा॒स्सा नान्य॑त॒राँश्च॒ नोपाव॑र्तत॒ ते दे॒वा ए॒तद्यजु॑रपश्यन्
विश्वास-प्रस्तुतिः
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
तेषा॑ङ्गाय॒त्र्योजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑म्प्र॒जाम्प॒शून्त्स॒ङ्गृह्या॒दाया॑प॒क्रम्या॑तिष्ठत् ।
मूलम्
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
तेषा॑ङ्गाय॒त्र्योजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑म्प्र॒जाम्प॒शून्त्स॒ङ्गृह्या॒दाया॑प॒क्रम्या॑तिष्ठत् ।
भट्टभास्कर-टीका
1देवासुरा इत्यादि ॥ तेषां देवासुराणां ओजःप्रभृति संगृह्यादाय आच्छिद्यापक्रम्य तेन सह तत्सकाशादपक्रम्य क्वाप्यतिष्ठत् गायत्री ।
विश्वास-प्रस्तुतिः
ते॑ऽमन्यन्त ।
य॒त॒रान् वा इ॒यमु॑पाव॒र्त्स्यति॑ ।
त इ॒दम्भ॑विष्य॒न्तीति॑ ।
मूलम्
ते॑ऽमन्यन्त ।
य॒त॒रान् वा इ॒यमु॑पाव॒र्त्स्यति॑ ।
त इ॒दम्भ॑विष्य॒न्तीति॑ ।
भट्टभास्कर-टीका
ते देवासुरा अमन्यन्त अस्माकं मध्ये यतरानियमुपावर्त्स्यति उपावर्तिष्यते ते इदं विश्वं भविष्यन्तीति अस्य विश्वस्य स्वामिनस्ते भविष्यन्तीति । यद्वा - इदं विश्वं ते भविष्यन्ति प्राप्स्यन्तीति । ‘वृद्भ्यस्स्यसनोः’ इति परस्मैपदम्, ‘न वृद्ब्यश्चतुर्भ्यः’ इतीडभावः ।
विश्वास-प्रस्तुतिः
ताव्व्ँय॑ह्वयन्त॒ विश्व॑कर्म॒न्निति॑ ।
मूलम्
ताव्व्ँय॑ह्वयन्त॒ विश्व॑कर्म॒न्निति॑ ।
भट्टभास्कर-टीका
अथ देवासुरास्तां व्यह्वयन्त विविधमाह्वयन्निति । ‘निसमुपविभ्यो ह्वः’ इत्यात्मनेपदम् । विश्वकर्मन्निति । विश्वानि कर्माण्यस्यामिति विश्वकर्मा । ‘मनः’ इति ङीप्प्रतिषेधः, आमन्त्रिताद्युदात्तत्वम् । हे विश्वकर्मन्निति देवा गायत्रीमाह्वयन् ।
विश्वास-प्रस्तुतिः
दे॒वा दाभीत्यसु॑राः ।
मूलम्
दे॒वा दाभीत्यसु॑राः ।
भट्टभास्कर-टीका
हे दाभि इत्यसुरा आह्वयन्, सामर्थ्यात् ह्वयत्यर्थमात्रं संबध्यते । यद्वा - व्यह्वयन्त विलक्षणमाह्वानं कृतवन्तः । वैलक्षण्यं चाह्वानपदभेदः । दभनं दाहः, दभिः प्रकृत्यन्तरमस्ति, तस्माद्घञन्तान्मत्वर्थीयोकारः, गौरादिर्द्रष्टव्यः, पूर्ववदामन्त्रिताद्युदात्तत्वम्, ‘अम्बार्थनद्योः’ इति ह्रस्वत्वम् । यद्वा - पचाद्यजन्तात् स्वार्थिकोऽण्, ततः ‘टिढ्ढाणञ्’ इति ङीप् ।
विश्वास-प्रस्तुतिः
सा नान्य॑त॒राँश्च॒ नोपाव॑र्तत ।
ते दे॒वा ए॒तद्यजु॑रपश्यन् ।
मूलम्
सा नान्य॑त॒राँश्च॒ नोपाव॑र्तत ।
ते दे॒वा ए॒तद्यजु॑रपश्यन् ।
भट्टभास्कर-टीका
सेत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
ओजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि [9] भ्राजो॑ऽसि दे॒वाना॒न्धाम॒ नामा॑सि॒ विश्व॑मसि वि॒श्वायु॒स्सर्व॑मसि स॒र्वायु॑रभि॒भूः
विश्वास-प्रस्तुतिः
ओजो॑ऽसि ।
मूलम्
ओजो॑ऽसि ।
भट्टभास्कर-टीका
2ओजोसीत्यादि ॥ तेजोसि यशोसि देवानाम् । सर्वत्र तद्धेतुत्वात्ताच्छब्द्यम् ।
विश्वास-प्रस्तुतिः
सहो॑ऽसि ।
मूलम्
सहो॑ऽसि ।
भट्टभास्कर-टीका
सहोसि अभिभवसाधनमपि शत्रूणाम् ।
विश्वास-प्रस्तुतिः
बल॑मसि ।
मूलम्
बल॑मसि ।
भट्टभास्कर-टीका
बलं प्रसिद्धम् ।
विश्वास-प्रस्तुतिः
भ्राजो॑ऽसि।
मूलम्
भ्राजो॑ऽसि।
भट्टभास्कर-टीका
भ्राजो दीप्तिः ।
विश्वास-प्रस्तुतिः
दे॒वाना॒न्धाम॒ नामा॑सि ।
मूलम्
दे॒वाना॒न्धाम॒ नामा॑सि ।
भट्टभास्कर-टीका
धाम स्थानम् । नाम नमनमुपकारकम् ।
विश्वास-प्रस्तुतिः
विश्व॑मसि ।
मूलम्
विश्व॑मसि ।
भट्टभास्कर-टीका
विश्वमसि अन्यदपि यद्भद्रं तदसि ।
विश्वास-प्रस्तुतिः
वि॒श्वायुः॑+++(असि)+++ ।
मूलम्
वि॒श्वायुः॑+++(असि)+++ ।
भट्टभास्कर-टीका
विश्वायुः विश्वा [श्वमा]युर्जीवितमस्मिन्निति विश्वायुः । ‘बहुव्रीहौ विश्वं संज्ञायाम्’ इति विश्वशब्दस्यान्तोदात्तत्वम् ।
विश्वास-प्रस्तुतिः
सर्व॑मसि ।
मूलम्
सर्व॑मसि ।
भट्टभास्कर-टीका
सर्वमसि सर्वमपि जगतामेवासि ।
विश्वास-प्रस्तुतिः
स॒र्वायुः॑ +++(असि)+++।
मूलम्
स॒र्वायुः॑ +++(असि)+++।
भट्टभास्कर-टीका
सर्वायुरसि । सर्वाणि चायूंषि अन्नानि अस्यामिति सर्वान्नहेतुरसि ।
विश्वास-प्रस्तुतिः
अ॒भि॒भूः +++(असि)+++ ।
मूलम्
अ॒भि॒भूः +++(असि)+++ ।
भट्टभास्कर-टीका
अभिभूः यस्मादेवं तस्मात् त्वं सवर्स्योपरि भवसि सर्वस्याभिभवित्र्यसि ॥
मूलम् (संयुक्तम्)
इति॒ वाव दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑म्प्र॒जाम्प॒शून॑वृञ्जतॉ यद्गा॑य॒त्र्य॑प॒क्रम्याति॑ष्ठ॒त्तस्मा॑दे॒ताङ्गा॑य॒त्रीतीष्टि॑माहुस्सव्ँ वत्स॒रो वै गा॑य॒त्री
विश्वास-प्रस्तुतिः
इति॒ वाव दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑म्प्र॒जाम्प॒शून॑वृञ्जत ।
मूलम्
इति॒ वाव दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑म्प्र॒जाम्प॒शून॑वृञ्जत ।
भट्टभास्कर-टीका
3इति वावेत्यादि ॥ इत्यनेन यजुषा देवाः असुराणामप्योज आदिकं अवृञ्जत आवर्जयन् आत्मसात्कृतवन्तः न केवलमात्मीयमेव लब्धवन्तः ।
विश्वास-प्रस्तुतिः
यद्गा॑य॒त्र्य॑प॒क्रम्याति॑ष्ठत्।
तस्मा॑दे॒ताङ्गा॑य॒त्रीतीष्टि॑माहुः ।
सव्ँ॒व॒त्स॒रो वै गा॑य॒त्री ।
मूलम्
यद्गा॑य॒त्र्य॑प॒क्रम्याति॑ष्ठत्।
तस्मा॑दे॒ताङ्गा॑य॒त्रीतीष्टि॑माहुः ।
सव्ँ॒व॒त्स॒रो वै गा॑य॒त्री ।
भट्टभास्कर-टीका
यदित्यादि । गायत्र्यपक्रमणहेतुत्वादेतां वक्ष्यमाणामिष्टिं गायत्रीत्याहुः वेदार्थविदः ॥
मूलम् (संयुक्तम्)
सव्ँ॑वत्स॒रो वै तद॑प॒क्रम्या॑तिष्ठ॒द्यदे॒तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑म् [10] प्र॒जाम्प॒शूनवृ॑ञ्जत॒ तस्मा॑दे॒ताँ सव्ँ॑व॒र्ग इतीष्टि॑माहुः
विश्वास-प्रस्तुतिः
सव्ँ॒व॒त्स॒रो वै तद॑प॒क्रम्या॑तिष्ठत् ।
मूलम्
सव्ँ॒व॒त्स॒रो वै तद॑प॒क्रम्या॑तिष्ठत् ।
भट्टभास्कर-टीका
4संवत्सरो वा इत्यादि ॥ संवत्सरवत् सर्वार्थहेतुत्वात् बलसाम्यात् ताद्धर्म्यात् तदानीं संवत्सर एव देवेभ्योपक्रम्यातिष्ठत् । यथा संवत्सरापक्रमेण ओजआदिकं नश्यति तद्वदिदमिति ।
विश्वास-प्रस्तुतिः
यदे॒तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑म् प्र॒जाम्प॒शूनवृ॑ञ्जत ।
तस्मा॑दे॒ताँ सव्ँ॑व॒र्ग इतीष्टि॑माहुः ।
मूलम्
यदे॒तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑म् प्र॒जाम्प॒शूनवृ॑ञ्जत ।
तस्मा॑दे॒ताँ सव्ँ॑व॒र्ग इतीष्टि॑माहुः ।
भट्टभास्कर-टीका
यदेतयेत्यादि । संव्रज्यते ओजआदिकं सर्वं सहैवानेनाव्रज्यते आच्छिद्यते इति संवर्गो योगः । वृजी वर्जने, घञि ‘चजोः कुघिण्यतोः’ इति कुत्वम् ॥
मूलम् (संयुक्तम्)
यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेता॒ग्नये॑ सव्ँव॒र्गाय॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒त्तँ शृ॒तमास॑न्नमे॒तेन॒ यजु॑षा॒भि मृ॑शे॒दोज॑ ए॒व बल॑मिन्द्रि॒यव्ँवी॒र्य॑म्प्र॒जाम्प॒शून्भ्रातृ॑व्यस्य वृङ्क्ते॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ॥
विश्वास-प्रस्तुतिः
यो भ्रातृ॑व्यवा॒न्त्स्यात् ।
स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेत ।
अ॒ग्नये॑ सव्ँव॒र्गाय॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् ।
तँ शृ॒तमास॑न्नमे॒तेन॒ यजु॑षा॒भि मृ॑शेत् ।
ओज॑ ए॒व बल॑मिन्द्रि॒यव्ँवी॒र्य॑म्प्र॒जाम्प॒शून्भ्रातृ॑व्यस्य वृङ्क्ते ।
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ॥
मूलम्
यो भ्रातृ॑व्यवा॒न्त्स्यात् ।
स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेत ।
अ॒ग्नये॑ सव्ँव॒र्गाय॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् ।
तँ शृ॒तमास॑न्नमे॒तेन॒ यजु॑षा॒भि मृ॑शेत् ।
ओज॑ ए॒व बल॑मिन्द्रि॒यव्ँवी॒र्य॑म्प्र॒जाम्प॒शून्भ्रातृ॑व्यस्य वृङ्क्ते ।
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ॥
भट्टभास्कर-टीका
5यो भ्रातृव्यवानित्यादि ॥ गतम् । एतेन यजुषेत्यादि । ओजोसीत्यादिना । अत्राचार्येण ‘सर्वायुरभिभूरस्यभिभूरहं तेन हविषा(मिति) अमुं भ्रातृव्यमभिभूयासम्’ इति शेषो दर्शितः ॥
इति द्वितीये चतुर्थे तृतीयोनुवाकः ॥