विश्वेदेवा ऋषयः ।
मूलम् (संयुक्तम्)
दे॒वा॒सु॒रास्सय्ँय॑त्ता आस॒न्ते दे॒वा अ॑ब्रुव॒न्यो नो॑ वी॒र्या॑वत्तम॒स्तमनु॑ स॒मार॑भामहा॒ इति॒ त इन्द्र॑मब्रुव॒न्त्वव्ँ वै नो॑ वी॒र्या॑वत्तमोऽसि॒ त्वामनु॑ स॒मार॑भामहा॒ इति॒ सो॑ऽब्रवीत्ति॒स्रो म॑ इ॒मास्त॒नुवो॑ वी॒र्या॑वती॒स्ताᳶ प्री॑णी॒ताथासु॑रान॒भि भ॑विष्य॒थेति॒ ता वै ब्रू॒हीत्य॑ब्रुवन्नि॒यमँ॑हो॒मुगि॒यव्ँवि॑मृ॒धेयमि॑न्द्रि॒याव॑ती [5] इत्य॑ब्रवीत्
विश्वास-प्रस्तुतिः
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
ते दे॒वा अ॑ब्रुवन् ।
मूलम्
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
ते दे॒वा अ॑ब्रुवन् ।
भट्टभास्कर-टीका
1 देवासुरा इत्यादि ॥ गतम् । वीर्यावत्तमः, ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम् ।
विश्वास-प्रस्तुतिः
यो नो॑ वी॒र्या॑वत्तम॒स्तमनु॑ स॒मार॑भामहा॒ इति॑ ।
मूलम्
यो नो॑ वी॒र्या॑वत्तम॒स्तमनु॑ स॒मार॑भामहा॒ इति॑ ।
भट्टभास्कर-टीका
तमनु तं प्रधानभूतमनुसरन्तो वयं संभूय कर्माण्यारभामहे । ‘हीने’ इत्यनोः कर्मप्रवचनीयत्वम् ।
विश्वास-प्रस्तुतिः
त इन्द्र॑मब्रुवन् ।
त्वव्ँ वै नो॑ वी॒र्या॑वत्तमोऽसि ।
त्वामनु॑ स॒मार॑भामहा॒ इति॑ ।
सो॑ऽब्रवीत् ।
मूलम्
त इन्द्र॑मब्रुवन् ।
त्वव्ँ वै नो॑ वी॒र्या॑वत्तमोऽसि ।
त्वामनु॑ स॒मार॑भामहा॒ इति॑ ।
सो॑ऽब्रवीत् ।
भट्टभास्कर-टीका
त इत्यादि । गतम् ।
विश्वास-प्रस्तुतिः
ति॒स्रो म॑ इ॒मास्त॒नुवो॑ वी॒र्या॑वती॒स्ताᳶ प्री॑णीत ।
अथासु॑रान॒भि भ॑विष्य॒थेति॑ ।
मूलम्
ति॒स्रो म॑ इ॒मास्त॒नुवो॑ वी॒र्या॑वती॒स्ताᳶ प्री॑णीत ।
अथासु॑रान॒भि भ॑विष्य॒थेति॑ ।
भट्टभास्कर-टीका
एवं वीर्यावतीरिति । वीर्यवत्यः । पूर्ववद्दीर्घत्वम्, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् ।
विश्वास-प्रस्तुतिः
ता वै ब्रू॒हीत्य॑ब्रुवन् ।
मूलम्
ता वै ब्रू॒हीत्य॑ब्रुवन् ।
भट्टभास्कर-टीका
ता वा इत्यादि । अब्रुवन् देवाः ।
विश्वास-प्रस्तुतिः
‘इ॒यमँ॑हो॒मुग् ‘, ‘इ॒यव्ँवि॑मृ॒धा’,+ ‘इ॒यमि॑न्द्रि॒याव॑ती’ इत्य॑ब्रवीत् ।
मूलम्
‘इ॒यमँ॑हो॒मुग् ‘, ‘इ॒यव्ँवि॑मृ॒धा’,+ ‘इ॒यमि॑न्द्रि॒याव॑ती’ इत्य॑ब्रवीत् ।
भट्टभास्कर-टीका
इयमित्यादि । अब्रवीदिन्द्रः ।
विमृधेति । ‘अच्’ इति योगविभागादच्समासान्तः ॥
मूलम् (संयुक्तम्)
त इन्द्रा॑याँहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर॑वप॒न्निन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॑ते॒ यदिन्द्रा॑याँहो॒मुचे॑ नि॒रव॑प॒न्नँह॑स ए॒व तेना॑मुच्यन्त॒ यदिन्द्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेनापा॑घ्नत॒ यदिन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यमे॒व तेना॒त्मन्न॑दधत॒ त्रय॑स्त्रिँशत्कपालम्पुरो॒डाश॒न्निर॑वप॒न्त्रय॑स्त्रिँश॒द्वै दे॒वता॒स्ता इन्द्र॑ आ॒त्मन्ननु॑ स॒मार॑म्भयत॒ भूत्यै॑ [6] ताव्ँ वाव दे॒वा विजि॑तिमुत्त॒मामसु॑रै॒र्व्य॑जयन्त॒ यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजे॒तेन्द्रा॑याँहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पेत्
विश्वास-प्रस्तुतिः
त इन्द्रा॑याँहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर॑वपन् ।
इन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॑ते॒ यदिन्द्रा॑याँहो॒मुचे॑ नि॒रव॑पन् ।
अँह॑स ए॒व तेना॑मुच्यन्त ।
यदिन्द्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेनापा॑घ्नत ।
यदिन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यमे॒व तेना॒त्मन्न॑दधत ।

2अथ ते देवाः इन्द्रायैतां त्रिहविष्कामिष्टिं निरवपन् ।
विश्वास-प्रस्तुतिः
त्रय॑स्त्रिँशत्कपालम्पुरो॒डाश॒न्निर॑वपन् ।
मूलम्
त्रय॑स्त्रिँशत्कपालम्पुरो॒डाश॒न्निर॑वपन् ।
भट्टभास्कर-टीका
त्रयस्त्रिंशत्कपालमिति । त्रयाणामेकादशकपालानां त्रयस्त्रिंशत्कपाला भवन्तीति भावः । पुरोडाशमिति च जात्यभिधानम् ।
विश्वास-प्रस्तुतिः
त्रय॑स्त्रिँश॒द्वै दे॒वता॒स्ता इन्द्र॑ आ॒त्मन्ननु॑ स॒मार॑म्भयत भूत्यै॑ ।
मूलम्
त्रय॑स्त्रिँश॒द्वै दे॒वता॒स्ता इन्द्र॑ आ॒त्मन्ननु॑ स॒मार॑म्भयत भूत्यै॑ ।
भट्टभास्कर-टीका
आत्मन्निति । आत्मनि गुणभूतानकरोत्, तद्देवानां भूत्यै अभवत् ।
विश्वास-प्रस्तुतिः
ताव्ँ वाव दे॒वा विजि॑तिमुत्त॒मामसु॑रै॒र्व्य॑जयन्त ।
यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेत ।
इन्द्रा॑याँहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पेत् ।
मूलम्
ताव्ँ वाव दे॒वा विजि॑तिमुत्त॒मामसु॑रै॒र्व्य॑जयन्त ।
यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेत ।
इन्द्रा॑याँहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पेत् ।
भट्टभास्कर-टीका
विजितिमिति । व्यावृत्तो जयो विजितिः । असुरेभ्यो व्यावृत्तामुत्तमां विज्जितिमिति । व्यजयन्त प्राप्नुवन्, उत्तममसुरविजयमलभन्तेति यावत् ; गोपोषं पुष्णातीतिवत् सामान्यविशेषाभिप्रायत्वादुभयोः । गतमन्यत् ॥
मूलम् (संयुक्तम्)
इन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॒तेऽँह॑सा॒ वा ए॒ष गृ॑ही॒तो यस्मा॒च्छ्रेया॒न्भ्रातृ॑व्यो॒ यदिन्द्रा॑याँहो॒मुचे॑ नि॒र्वप॒त्यँह॑स ए॒व तेन॑ मुच्यते मृ॒धा वा ए॒षो॑ऽभिष॑ण्णो॒ यस्मा॑त्समा॒नेष्व॒न्यश्श्रेया॑नु॒त [7] अभ्रा॑तृव्यो॒ यदिन्द्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेनाप॑ हते॒ यदिन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यमे॒व तेना॒त्मन्ध॑त्ते॒ त्रय॑स्त्रिँशत्कपालम्पुरो॒डाश॒न्निर्व॑पति॒ त्रय॑स्त्रिँश॒द्वै दे॒वता॒स्ता ए॒व यज॑मान आ॒त्मन्ननु॑ स॒मार॑म्भयते॒ भूत्यै
विश्वास-प्रस्तुतिः
इन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॑ते ।
अँह॑सा॒ वा ए॒ष गृ॑ही॒तः ।
यस्मा॒च्छ्रेया॒न्भ्रातृ॑व्यो॒ यदिन्द्रा॑याँहो॒मुचे॑ नि॒र्वप॑ति ।
अँह॑स ए॒व तेन॑ मुच्यते ।
मूलम्
इन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॑ते ।
अँह॑सा॒ वा ए॒ष गृ॑ही॒तः ।
यस्मा॒च्छ्रेया॒न्भ्रातृ॑व्यो॒ यदिन्द्रा॑याँहो॒मुचे॑ नि॒र्वप॑ति ।
अँह॑स ए॒व तेन॑ मुच्यते ।
भट्टभास्कर-टीका
3यस्मादिति ॥ यस्माद्भातृव्यः श्रेयान् प्रशस्यतरो भवति, सोयमंहसा गृहीतः, तस्मादंहोमुचे निर्वपेत् । तेनांहसो मुक्तो भवति ।
विश्वास-प्रस्तुतिः
मृ॒धा वा ए॒षो॑ऽभिष॑ण्णो॒ यस्मा॑त्समा॒नेष्व॒न्यश्श्रेया॑नु॒त अभ्रा॑तृव्यः ।
मूलम्
मृ॒धा वा ए॒षो॑ऽभिष॑ण्णो॒ यस्मा॑त्समा॒नेष्व॒न्यश्श्रेया॑नु॒त अभ्रा॑तृव्यः ।
भट्टभास्कर-टीका
मृधा वा इत्यादि । समानेषु मध्ये अभ्रातृव्योपि नाम कश्चित् यस्मादन्यश्श्रेयान्प्रशस्यतरो भवति एष खलु मृधा अभिषण्णः संग्रामाभिभूत इव भवति ।
विश्वास-प्रस्तुतिः
यदिन्द्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेनाप॑ हते ।
यदिन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यमे॒व तेना॒त्मन्ध॑त्ते ।
त्रय॑स्त्रिँशत्कपालम्पुरो॒डाश॒न्निर्व॑पति ।
त्रय॑स्त्रिँश॒द्वै दे॒वता॒स्ता ए॒व यज॑मान आ॒त्मन्ननु॑ स॒मार॑म्भयते॒ भूत्यै॑ ।

तस्मादीन्द्राय वैमृधाय निर्वपेत् मृधस्सग्रामानपहन्ति ॥
मूलम् (संयुक्तम्)
सा वा ए॒षा विजि॑ति॒र्नामेष्टि॒र्य ए॒वव्ँवि॒द्वाने॒तयेष्ट्या॒ यज॑त उत्त॒मामे॒व विजि॑ति॒म्भ्रातृ॑व्येण॒ वि ज॑यते ॥ [8]
विश्वास-प्रस्तुतिः
सा वा ए॒षा विजि॑ति॒र्नामेष्टिः ।
य ए॒वव्ँवि॒द्वाने॒तयेष्ट्या॒ यज॑ते ।
उत्त॒मामे॒व विजि॑ति॒म्भ्रातृ॑व्येण॒ वि ज॑यते ॥
मूलम्
सा वा ए॒षा विजि॑ति॒र्नामेष्टिः ।
य ए॒वव्ँवि॒द्वाने॒तयेष्ट्या॒ यज॑ते ।
उत्त॒मामे॒व विजि॑ति॒म्भ्रातृ॑व्येण॒ वि ज॑यते ॥
भट्टभास्कर-टीका
4विजितिर्नामेति ॥ विजयहेतुत्वात् । गतमन्यत् ॥
इति द्वितीये चतुर्थे द्वितीयोनुवाकः ॥