तैत्तिरीय संहितीयां द्वितीय काण्डे चतुर्थप्रपाठकः ॥
मूलम् (संयुक्तम्)
दे॒वा म॑नु॒ष्याः॑ पि॒तर॒स्ते॑ऽन्यत॑ आस॒न्नसु॑रा॒ रक्षाँ॑सि पिशा॒चास्ते॑ऽन्यत॒स्तेषा॑न्दे॒वाना॑मु॒त यदल्पल्ँ॒लोहि॑त॒मकु॑र्व॒न्तद्रक्षाँ॑सि॒ रात्री॑भिरसुभ्न॒न्तान्त्सु॒ब्धान्मृ॒तान॒भि व्यौ॑च्छत्
विश्वास-प्रस्तुतिः
दे॒वा म॑नु॒ष्याः॑ पि॒तर॒स्ते॑ऽन्यत॑ आसन् ।
असु॑रा॒ रक्षाँ॑सि पिशा॒चास्ते॑न्यतः॑ +++(आसन्)+++ ।
मूलम्
दे॒वा म॑नु॒ष्याः॑ पि॒तर॒स्ते॑ऽन्यत॑ आसन् ।
असु॑रा॒ रक्षाँ॑सि पिशा॒चास्ते॑न्यतः॑ +++(आसन्)+++ ।
भट्टभास्कर-टीका
1देवा मनुष्या इत्यादि ॥ अन्यतः एकस्मिन् पक्षे देवादयोऽभवन् । असुरादयोऽप्येकस्मिन् । ‘नपुंसकमनपुंसकेन’ इत्येतद्व्यत्ययेन न प्रवर्तते ।
विश्वास-प्रस्तुतिः
तेषा॑न्दे॒वाना॑मु॒त यदल्पल्ँ॒लोहि॑त॒मकु॑र्वन् ।
तद्रक्षाँ॑सि॒ रात्री॑भिरसुभ्नन् ।
मूलम्
तेषा॑न्दे॒वाना॑मु॒त यदल्पल्ँ॒लोहि॑त॒मकु॑र्वन् ।
तद्रक्षाँ॑सि॒ रात्री॑भिरसुभ्नन् ।
भट्टभास्कर-टीका
अथ तेषां देवानां शरीरेषु असुरादयः यदल्पमपि लोहितमकुर्वन् व्रणमुदपादयन् तत् असुरपक्षपातीनि रक्षांसि रत्रीभिरसुभ्नन् रात्रिष्वागम्य धर्षितमकुर्वन्, येन सुम्भनेन ते मृतास्स्युः ।
विश्वास-प्रस्तुतिः
तान्त्सु॒ब्धान्मृ॒तान॒भि व्यौ॑च्छत् ।
मूलम्
तान्त्सु॒ब्धान्मृ॒तान॒भि व्यौ॑च्छत् ।
भट्टभास्कर-टीका
ततस्तान् सुब्धान् [कृतव्रणान्] तेनैव हेतुना मृतान् अभिव्यौच्छत् रात्रिरुपरताऽभवत् ; रात्र्यवसाने मृतानपश्यन्निति यावत्, व्रणाद्युत्क्षोभस्य रक्षोहेतुत्वात् ॥
मूलम् (संयुक्तम्)
ते दे॒वा अ॑विदु॒र्यो वै नो॒ऽयम्म्रि॒यते॒ रक्षाँ॑सि॒ वा इ॒मङ्घ्न॒न्तीति॒ ते रक्षाँ॒स्युपा॑मन्त्रयन्त॒ तान्य॑ब्रुव॒न्वरव्ँ॑वृणामहै॒ यत् [1] असु॑रा॒ञ्जया॑म॒ तन्न॑स्स॒हास॒दिति॒ ततो॒ वै दे॒वा असु॑रानजय॒न्तेऽसु॑राञ्जि॒त्वा रक्षाँ॒स्यपा॑नुदन्त
विश्वास-प्रस्तुतिः
ते दे॒वा अ॑विदुः ।
यो वै नो॒ऽयम्म्रि॒यते॑ ।
रक्षाँ॑सि॒ वा इ॒मङ्घ्न॒न्तीति॑ ।
ते रक्षाँ॒स्युपा॑मन्त्रयन्त ।
तान्य॑ब्रुवन् ।
वरव्ँ॑वृणामहै ।
यदसु॑रा॒ञ्जया॑म ।
तन्न॑स्स॒हास॒दिति॑ ।
मूलम्
ते दे॒वा अ॑विदुः ।
यो वै नो॒ऽयम्म्रि॒यते॑ ।
रक्षाँ॑सि॒ वा इ॒मङ्घ्न॒न्तीति॑ ।
ते रक्षाँ॒स्युपा॑मन्त्रयन्त ।
तान्य॑ब्रुवन् ।
वरव्ँ॑वृणामहै ।
यदसु॑रा॒ञ्जया॑म ।
तन्न॑स्स॒हास॒दिति॑ ।
भट्टभास्कर-टीका
2ते देवा इत्यादि ॥ गतम् । तन्नस्सहेति । अस्मत्पक्षे युष्माभिर्वर्तितव्यमिति ।
विश्वास-प्रस्तुतिः
ततो॒ वै दे॒वा असु॑रानजयन् ।
तेऽसु॑राञ्जि॒त्वा रक्षाँ॒स्यपा॑नुदन्त ।
मूलम्
ततो॒ वै दे॒वा असु॑रानजयन् ।
तेऽसु॑राञ्जि॒त्वा रक्षाँ॒स्यपा॑नुदन्त ।
भट्टभास्कर-टीका
ततो रक्षोभिस्सहायैः देवाः असुरानजयन् । जयानन्तरं रक्षांसि अपानुदन्त ॥
विश्वास-प्रस्तुतिः
तानि॒ रक्षाँ॒स्यनृ॑तमक॒र्तेति॑ सम॒न्तन्दे॒वान्पर्य॑विशन्।
मूलम्
तानि॒ रक्षाँ॒स्यनृ॑तमक॒र्तेति॑ सम॒न्तन्दे॒वान्पर्य॑विशन्।
भट्टभास्कर-टीका
3अथ देवैरपनुन्नानि रक्षांसि देवान् समन्तं पर्यविशन् परीत्य देवानां शरीरादिष्वनुप्रावेश्याबाधन्त । किं वदन्तीत्याह – अनृतमसत्यं अकर्त कृतवन्तो यूयमिति अन्याय्यं ख्यापयन्ति । निरुद्ध्येव स्थिता[नि] इति वा ॥
मूलम् (संयुक्तम्)
ते दे॒वा अ॒ग्नाव॑नाथन्त॒ ते॑ऽग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपन्न॒ग्नये॑ विबा॒धव॑ते॒ऽग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒रव॑पन्
विश्वास-प्रस्तुतिः
ते दे॒वा अ॒ग्नाव॑नाथन्त ।
मूलम्
ते दे॒वा अ॒ग्नाव॑नाथन्त ।
भट्टभास्कर-टीका
4अथैवं तैरभिभूयमाना देवा अग्नावनाथन्त; ऐश्वर्यमारोपयन् अग्निं नाथयन्ति स्मेति यावत् । यद्वा - अग्नौ याचितृत्वेनावर्तन्त । नाथृ नाधृ याच्ञोपतापैश्वर्याशीष्षु । त्वया वयं रक्ष्या इति ।
विश्वास-प्रस्तुतिः
ते॑ऽग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपन् ।
मूलम्
ते॑ऽग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपन् ।
भट्टभास्कर-टीका
तत एतां त्रिहविष्कामिष्टिमग्नये निरवपन् देवाः ।
विश्वास-प्रस्तुतिः
अ॒ग्नये॑ विबा॒धव॑ते॒ऽग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒रव॑पन् ।
मूलम्
अ॒ग्नये॑ विबा॒धव॑ते॒ऽग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒रव॑पन् ।
भट्टभास्कर-टीका
प्रवते । प्रवत्, ‘उपसर्गाच्छन्दसि’ इति वतिः । विश्लेष्य बाधो विबाधः, तद्द्वान् तत्समर्थः । प्रतिकूला वृत्तिः तद्वान् प्रतीकवान् ॥
मूलम् (संयुक्तम्)
यान्ये॒व पु॒रस्ता॒द्रक्षाँ॑सि [2] आस॒न्तानि॒ तेन॒ प्राणु॑दन्त॒ यद॒ग्नये॑ विबा॒धव॑ते॒ यान्ये॒वाभितो॒ रक्षाँ॒स्यास॒न्तानि॒ तेन॒ व्य॑बाधन्त॒ यद॒ग्नये॒ प्रती॑कवते॒ यान्ये॒व प॒श्चाद्रक्षाँ॒स्यास॒न्तानि॒ तेनापा॑नुदन्त॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेता॒ग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेद॒ग्नये॑ विबा॒धव॑ते [3] अ॒ग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒र्वप॑ति
विश्वास-प्रस्तुतिः
यान्ये॒व पु॒रस्ता॒द् रक्षाँ॒स्यास॑न् ।
मूलम्
यान्ये॒व पु॒रस्ता॒द् रक्षाँ॒स्यास॑न् ।
भट्टभास्कर-टीका
5पुरस्तादिति ॥ पूर्वस्यां दिशि । ‘अस्ताति च’ इति पुरादेशः । प्रहत[थम]त्वात्तस्याः ।
विश्वास-प्रस्तुतिः
तानि॒ तेन॒ प्राणु॑दन्त।
मूलम्
तानि॒ तेन॒ प्राणु॑दन्त।
भट्टभास्कर-टीका
प्राणुदन्तेति । प्रथमतः उत्पत्तावेवानुदन् ।
विश्वास-प्रस्तुतिः
यद॒ग्नये॑ विबा॒धव॑ते॒ यान्ये॒वाभितो॒ रक्षाँ॒स्यास॑न् ।
मूलम्
यद॒ग्नये॑ विबा॒धव॑ते॒ यान्ये॒वाभितो॒ रक्षाँ॒स्यास॑न् ।
भट्टभास्कर-टीका
अभित इति । दक्षिणत उत्तरतश्च ।
विश्वास-प्रस्तुतिः
तानि॒ तेन॒ व्य॑बाधन्त ।
मूलम्
तानि॒ तेन॒ व्य॑बाधन्त ।
भट्टभास्कर-टीका
व्यबाधन्तेति । विश्लेष्यानाशयन् ।
विश्वास-प्रस्तुतिः
यद॒ग्नये॒ प्रती॑कवते॒ यान्ये॒व प॒श्चाद् रक्षाँ॒स्यास॑न् ।
मूलम्
यद॒ग्नये॒ प्रती॑कवते॒ यान्ये॒व प॒श्चाद् रक्षाँ॒स्यास॑न् ।
भट्टभास्कर-टीका
पश्चादिति । अपरस्यां दिशि । ‘पश्चात्’ इति निपात्यते ।
विश्वास-प्रस्तुतिः
तानि॒ तेनापा॑नुदन्त ।
मूलम्
तानि॒ तेनापा॑नुदन्त ।
भट्टभास्कर-टीका
अपानुदन्तेति । अपरस्यां दिशि अपकृष्यानाशयन् ।
विश्वास-प्रस्तुतिः
ततो॑ दे॒वा अभ॑वन् ।
परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्त्स्यात् ।
स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेत ।
अ॒ग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् ।
अ॒ग्नये॑ विबा॒धव॑ते॒ऽग्नये ये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒र्वप॑ति ।
मूलम्
ततो॑ दे॒वा अभ॑वन् ।
परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्त्स्यात् ।
स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेत ।
अ॒ग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् ।
अ॒ग्नये॑ विबा॒धव॑ते॒ऽग्नये ये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒र्वप॑ति ।
भट्टभास्कर-टीका
तत इति । रक्षःपीडाया निर्मुक्ता भूतिमन्तोऽभवन् असुरानजयन्नित्यर्थः । अत एवाह – पराभूता असुरा इति ॥
मूलम् (संयुक्तम्)
य ए॒वास्मा॒च्छ्रेया॒न्भ्रातृ॑व्य॒स्तन्तेन॒ प्र णु॑दते॒ यद॒ग्नये॑ विबा॒धव॑ते॒ य ए॒वैने॑न स॒दृङ्तन्तेन॒ वि बा॑धते॒ यद॒ग्नये॒ प्रती॑कवते॒ य ए॒वास्मा॒त्पापी॑या॒न्तन्तेनाप॑ नुदते॒ प्र श्रेयाँ॑स॒म्भ्रातृ॑व्यन्नुद॒तेऽति॑ स॒दृश॑ङ्क्रामति॒ नैन॒म्पापी॑यानाप्नोति॒ य ए॒वव्ँवि॒द्वाने॒तयेष्ट्या॒ यज॑ते ॥ [4]
विश्वास-प्रस्तुतिः
य ए॒वास्मा॒च्छ्रेया॒न्भ्रातृ॑व्य॒स्तन्तेन॒ प्र णु॑दते ।
मूलम्
य ए॒वास्मा॒च्छ्रेया॒न्भ्रातृ॑व्य॒स्तन्तेन॒ प्र णु॑दते ।
भट्टभास्कर-टीका
6य इत्यादि ॥ गतम् । श्रेयान् प्रशस्यतरः । तं तावत्प्रणुदते स्वरूपाच्च्यावयति ।
विश्वास-प्रस्तुतिः
यद॒ग्नये॑ विबा॒धव॑ते॒ य ए॒वैने॑न स॒दृङ्तन्तेन॒ वि बा॑धते ।
मूलम्
यद॒ग्नये॑ विबा॒धव॑ते॒ य ए॒वैने॑न स॒दृङ्तन्तेन॒ वि बा॑धते ।
भट्टभास्कर-टीका
सदृङिति । समानं पश्यतीति सदृङ् । ‘समानान्ययोश्च’ इति दृग्भावः, ‘दृक्स्ववस्स्ववतसां छन्दसि’ इति नुम् । विबाधत इति । विश्लेष्य नाशयति । किं नैनं कदाचिदपि पीडा प्राप्नोति । साम्यमस्य निवर्तयति स्वयमतिशेत इति यावत् ।
विश्वास-प्रस्तुतिः
यद॒ग्नये॒ प्रती॑कवते॒ य ए॒वास्मा॒त्पापी॑या॒न्तन्तेनाप॑ नुदते ।
मूलम्
यद॒ग्नये॒ प्रती॑कवते॒ य ए॒वास्मा॒त्पापी॑या॒न्तन्तेनाप॑ नुदते ।
भट्टभास्कर-टीका
पापीयान् पापतरः तमपनुदते नाशयति यथास्य न कदाचिदनुकरोति ॥
विश्वास-प्रस्तुतिः
प्र श्रेयाँ॑स॒म्भ्रातृ॑व्यन्नुदते ।
अति॑ स॒दृश॑ङ्क्रामति ।
नैन॒म्पापी॑यानाप्नोति ।
य ए॒वव्ँवि॒द्वाने॒तयेष्ट्या॒ यज॑ते ॥
मूलम्
प्र श्रेयाँ॑स॒म्भ्रातृ॑व्यन्नुदते ।
अति॑ स॒दृश॑ङ्क्रामति ।
नैन॒म्पापी॑यानाप्नोति ।
य ए॒वव्ँवि॒द्वाने॒तयेष्ट्या॒ यज॑ते ॥
भट्टभास्कर-टीका
7अथ वेदितुस्स्तुतिः - श्रेयांसं प्रणुदते, सदृशमतिक्रामति, नैनं कदाचिदपि भ्रातृव्य आप्नोति । गतमन्यत् ॥
इति द्वितीये चतुर्थे प्रथमोनुवाकः ॥