१४ काम्या याज्यापुरोनुवाक्याः

इष्टिकाण्डे याज्याकाण्डम्

त्रिष्टुप्, ५, ७ गायत्री, ९ अनुष्टुप्, १४-१५ जगती ।

विश्वेदेवा ऋषयः ।

विश्वास-प्रस्तुतिः

स प्र॑त्न॒वत् ..

मूलम्

स प्र॑त्न॒वत् ..

भट्टभास्कर-टीका

1अथेष्टिकाण्डे याज्याकाण्डम् । तत्र ‘यो यज्ञविभ्रष्टस्स्यात्तस्मा एतामिष्टिं निर्वपेदाग्नेयमष्टाकपालमैन्द्रमेकादशकपालं सौम्यं चरुम्’ इत्येतस्यास्त्रिहविषः आग्नेयस्य पुरोनुवाक्या - स प्रत्नवदिति गायत्री ॥ व्याख्यातेयं ‘हिरण्यगर्भः’ इत्यत्र ; इह तु प्रतीकग्रहणम् । हे अग्ने स त्वं प्रत्नवत् प्रागिव । यद्वा - पुराणो हि । नवीयसा नवतरेण द्युम्नेन यशसा संयता त्वामेव संगच्छता [ता भानुना भासनशीलेन] बृहत्ततन्थ भृशं विश्वं विस्तारयेति ॥

  • सप्र॑त्न॒वन्नवी॑य॒साऽग्ने॑ द्यु॒म्नेन॑ सय्ँ॒यता॑ ।
    बृ॒हत्त॑तन्थ भा॒नुना॑ ।

  • आग्नेयमष्टाकपालं निर्वपेत्सावित्रं द्वादशकपालं भूम्यै चरुं यः कामयेत हिरण्यं विन्देय हिरण्यं मोप नमेत्’ इत्यस्यास्त्रिहविष्काया आग्नेयस्य पुरोनुवाक्या - स प्रत्नवदिति गायत्री ॥ हेग्ने स त्वं प्रत्नवत्पुराणार्हम् । यद्वा - प्रागिव । यद्वा - पुरातनेनेव नवीयसा नवतरेण द्युम्नेन यशसा धनेन वा संयता त्वमेव सङ्गच्छता । ‘शतुरनुमः’ इति व्यत्ययेन न प्रवर्तते । यद्वा - त्वयैव संयता धनेन । यमेः क्विपि अनुनासिकलोपे तुक्, ‘कृदुत्तरपदप्रकृतिस्वरत्वम् । संयतशब्दादेव तृतीयाया आकारः । ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । ईदृशेन द्युम्नेन भानुना भासनशीलेन बृहत् महदिदं विश्वं ततन्थ विस्तारय । छान्दसो लिट् । यद्वा - विश्वं बृहत् भृशं ततन्थ तथा कुर्वंश्चास्माकं हिरण्यलाभहेतुर्भवेति ॥

विश्वास-प्रस्तुतिः

निकाव्या॑ ..

मूलम्

निकाव्या॑ ..

भट्टभास्कर-टीका

2तत्रैव याज्या - निकाव्येति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । इदं च प्रतीकग्रहणम् । काव्या कवित्वेन द्रष्टृत्वेनात्मीयेन वेधसो यजमानान् शश्वत अविच्छिन्नयागान् निकः नियमेन करोतु । नर्या नर्याणि नरेभ्यो हितानि पुरूणि बहूनि धनानि हस्ते दधानः ददानः । एवं कुर्वन्नयमग्निः रयीणां सर्वेषां सम्बन्धी रयिपतिः भवतु । विश्वान्यपि अमृतानि अमरणहेतुभूतानि सत्रा सहभूतानि हिरण्यादीनि चक्राणः सोस्माकं यज्ञविभ्रेषदोषं अपनयत्विति ॥

  • निकाव्या॑ वे॒धस॒श्शश्व॑तस्क॒र्हस्ते॒ दधा॑नो नर्या॑ पु॒रूणि॑ ।
    अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णाँ स॒त्रा च॑क्रा॒णो अ॒मृता॑नि॒ विश्वा॑ ।
    • तत्रैव याज्या - नि काव्येति त्रिष्टुप् ॥ कवेर्भावः काव्यं द्रष्टृत्वम्, समीचीनदर्शनत्वम् । गुणवचनत्वात् ष्यञ्, ’ सुपां सुलुक्’ इति तृतीयाया आकारः । अयमग्निः काव्या कवित्वेन आत्मीयेन वेधसः विधातॄन् यजमानान् शश्वतः नित्यान् अविच्छिन्नयागान् निकः नियमेन करोति । लुङि ‘मन्त्रे घस’ इति च्लेर्लुक्’, लङि वा शपो लुक्, उभयत्र ‘बहुलं छन्दस्यमाङ्योगेपि’, इत्यडभावः । लेटि वा शपो लुक् ।
      किं कुर्वन्नित्याह - हस्ते दधानः ददानः प्रत्यक्षवत्प्रयच्छन्नित्यर्थः । किं? नर्याणि नरेभ्यो हितानि धनानि हिरण्यादीनि । गवादिर्द्रष्टव्यः । ‘तत्र साधुः’ इति वा यत् । पुरूणि बहूनी ।
      किञ्च – अयमित्थं कुर्वन् रयीणां वा रयिपतिः सर्वेषां धनानां नित्यं पालकः भुवत् भवेत् । शपो लुकि पूर्ववद्गुणाभावः, ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वं, ‘नामन्यतरस्याम्’ इति नामः ।
      पुनश्च किं कुर्वन्नित्याह - सत्रा सहभूतानि । पूर्ववदाकारः, शेर्वा लोपः, छान्दसो वा डाच् । चक्राणः ददानः सहैव दातुं शक्तः । शक्तौ चानश् । ‘बहुलं छन्दसि’ इति शपश्श्लुः, यद्वा - छान्दसस्य लिटः कानजादेशः । किं चक्राणः ? विश्वानि अमृतानि अमरणहेतुभूतानि हिरण्यादीनि ॥
विश्वास-प्रस्तुतिः

इन्द्रव्ँ॑वो वि॒श्वत॒स्परि ..

मूलम्

इन्द्रव्ँ॑वो वि॒श्वत॒स्परि ..

भट्टभास्कर-टीका

4अथैन्द्रस्य पुरोनुवाक्या - इन्द्रं व इति गायत्री ॥ इयमपि षष्ठान्ते व्याख्याता । प्रतीकमत्र गृह्यते । हे ऋत्विग्यजमानाः वः युष्माकं जनेभ्यः पुत्रादिभ्यः युष्मभ्यमस्मभ्यं च सर्वार्थं विश्वत उपरि स्थितं इन्द्रं हवामहे आह्वायामः । यद्वा - विश्वस्मादुपारि आह्वायामः । अस्माकमेव केवलस्साधकः यज्ञविभ्रेषादिदोषापनयनेन स्वामी भवत्विति ॥

  • इन्द्रव्ँ॑वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः ।
    अ॒स्माक॑मस्तु॒ केव॑लः ॥

    • ‘ऐन्द्रं चरुं निर्वपेत्पशुकामः’ इत्यस्य पुरोनुवाक्या - इन्द्रं व इति गायत्री ॥ याजमानब्राह्मणमध्ये याज्याकाण्डं वैश्वदेवम् । हे ऋत्विग्यजमाना वो युष्माकं मम जनेभ्यः पुत्रादिभ्यः सामर्थ्याद्युष्मभ्यमस्मभ्यं च सर्वार्थमिन्द्रं विश्वतस्परि विश्वस्मादुपरि हवामहे आह्वयामः । ‘पञ्चम्याः परावध्यर्थे’ इति सत्वम् । यद्वा - विश्वतो जनेभ्य उपरिस्थितमिन्द्रं वो युष्मदर्थं हवामहे । किमर्थम्’ अस्माकमेव केवलोसाधाणोस्तु साधको नान्येषामिति ॥
विश्वास-प्रस्तुतिः

इन्द्र॒न्नरः॑ ..

मूलम्

इन्द्र॒न्नरः॑ ..

भट्टभास्कर-टीका

4तत्रैव याज्या - इन्द्रं नर इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता, प्रतीकग्रहणमिदम् । नरो मनुष्याः इन्द्रमेव नेमधिता सर्वेषां हविषामर्धेन धार्यं भवते आह्वयामि । कदा ? यदा पार्याः परलाकोय हिताः परप्राप्तेर्वा साध्वीर्वा धियः कर्माणि ताः इन्द्रमेवापेक्षमाणा युनजते युञ्जते । तस्मात्स त्वं शूरो नृषाता नृभिस्सम्भक्ता शवसः बलस्य नृभ्यो दाता वा । इत्थंभूतः चकानः तृप्तिशीलः गोमति व्रजे अस्मानाभज यज्ञविभ्रेषदोषापननेन गोमतोस्मान् कुर्विति ॥

  • [ इन्द्र॒न्नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः ।
    शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वन्नः॑ ॥

  • तत्रैव याज्या - इन्द्रं नर इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । इह तु प्रतीकग्रहणम् । नरो मनुष्याः इन्द्रं हवन्ते आह्वयन्ति कीदृशं ? नेमधिता अर्धेन धार्यमाणं ‘यत्सर्वेषामर्धमिन्द्रः प्रति’ इति । कदा ? यदा पार्याः दुःखपारप्राप्तिहेतुभूताः धियः कर्माणि प्रज्ञा वा युनजते तदा इन्द्रमाह्वयन्ति । स त्वं शूरो नृषाता नृभिस्सम्भजनीयः शवसः बलाद्धेतोः चकानस्तृप्तिशीलः ईदृशस्त्वमस्मान् गोमति व्रजे गोष्ठे आभज स्थापयेति ॥]

  • [ तत्रैव याज्या - इन्द्रं नर इति त्रिष्टुप् ॥ नरो मनुष्या इन्द्रं हवन्ते आह्वयन्ति । कीदृशम् ? नेमधिता, नेम इत्यर्धस्य नाम । ‘यत्सर्वेषामर्धमिन्द्रः प्रति’ इति सर्वेषां भागार्धेन इन्द्रो धीयते धार्यत इति नेमधितः । निष्ठायां ‘सुधितवसुधितनेमधित’ इति धिभावो निपात्यते, ‘सुपां सुलुक्’ इति द्वितीयैकवचनस्याकारः, ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । कदा पुनरसौ नेमेन धार्यत इत्याह - यद्यदा । तेनैव सप्तम्या लुक् । पार्याः परलोके साधवः । छान्दसो ञ्यः । यद्वा - दुःखानां पारं समाप्तिः । तत्र सध्वीर्धियः कर्माणि ता यदर्थमिन्द्रमाह्वयन्ति । ता यदा युनजते युञ्जते अनुतिष्ठन्ति तदा नेमधितेति । ‘छन्दस्युभयथा’ इत्यार्धधातुकत्वेन श्नमो ङित्त्वाभावात्, ‘श्नसोरल्लोपः’ इति न प्रवर्तते । अथेन्द्रः प्रत्यक्षमुच्यते - शूरः वीरः । नृषाता नृभिर्मनुष्यैः साता सातः सम्भक्तः आश्रितः नृषातः । पूर्ववदाकारः, ‘जनसनखनां सञ्झलोः’ इत्यात्वं, पूर्ववत्पूर्वपदप्रकृतिस्वरत्वं, सुषामादित्वात्षत्वम् । यद्वा - नरो मनुष्याः सनितारस्सम्भक्तारः दातारो वा यस्य नृषाता । छान्दसमात्वं, ‘ऋतश्छन्दसि’ इति कबभावः । शवसो बलस्य नेतारो यस्य दातारो यजमाना[यजना]धीनबलत्वात् । यद्वा - शवसो बलस्य नृभ्यो दाता । छान्दसमात्वम्, पूर्वपदप्रकृतिस्वरत्वं च । चकानस्तृप्तिशीलः । चक तृप्तौ, भौवादिकः उदात्तेत्, ताच्छीलिकश्चानश्, ‘बहुलं छन्दसि’ इति शपो लुक् । ईदृशस्त्वं नो ऽस्मान् गोमति व्रजे गोजाविमनुष्यादिमति सङ्घाते । यद्वा - व्रजे गोष्ठे भूयिष्ठगोभिर्युक्ते आभन आभिमुख्येनास्मान्योजय पशुमन्तं मां कुरु । ‘द्व्यचोतस्तिङः’ इति संहितायां दीर्घत्वम् ॥]

विश्वास-प्रस्तुतिः

त्वन्न॑स्सोम वि॒श्वतो॒ रक्षा॑ राजन्नघाय॒तः ।
न रि॑ष्ये॒त्त्वाव॑त॒स्सखा॑ ।

मूलम्

त्वन्न॑स्सोम वि॒श्वतो॒ रक्षा॑ राजन्नघाय॒तः ।
न रि॑ष्ये॒त्त्वाव॑त॒स्सखा॑ ।

भट्टभास्कर-टीका

5अस्य सौम्यस्य पुरोनुवाक्या - त्वन्न इति गायत्री ॥ हे सोमराजन् अः अस्मान् विश्वतः विश्वस्मात् अघायतः अघं पापमस्माकमिच्छतो जनात् रक्ष । ‘छन्दसि परेच्छायामपि’ इति क्यच्, ‘अश्वाघस्यात् ’ इत्यात्वम्, ‘शतुरनुमः’ इति विभक्तेरुदात्तत्वम् । त्वावतः त्वत्सदृशस्य । ‘युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसङ्ख्यानम्’ इति वतिः, ‘आ सर्वनाम्नः’ इत्यात्वम् । त्वावतो हि सखा कश्चिदपि न रिष्येत् यज्ञविभ्रेषादिभिः हिंस्यो भवितुं नार्हति । तस्मात्तदनुरूपमस्मान्रक्ष । ‘द्व्यचोतस्तिङः’ इति संहितायां रक्षेत्यस्य दीर्घत्वम् ॥

विश्वास-प्रस्तुतिः

या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्याय्ँ या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु ।
तेभि॑र्नो॒ विश्वैः॑ सु॒मना॒ अहे॑ड॒न्राज॑न्त्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ।

मूलम्

या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्याय्ँ या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु ।
तेभि॑र्नो॒ विश्वैः॑ सु॒मना॒ अहे॑ड॒न्राज॑न्त्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ।

भट्टभास्कर-टीका

6तत्रैव याज्या - या त इति त्रिष्टुप् ॥ हे सोमराजन् या यानि ते तव धामानि स्थानानि नामानि वा, जन्मानि वा, तेजांसि वा दिवि सन्ति, यानि च पृथिव्यां सन्ति, यानि च पर्वतेषु यानि ओषधीषु, यानि वाप्सु तेभिः तैर्विश्वैर्धामभिः ना मभिः सर्वात्मनास्मभ्यमुपकुर्वद्भिः, स्थानैर्वा सवर्त्र सन्निधानहेतुभिः, जन्मभिर्वा नानोपकारहेतुभिः, तेजोभिर्वा सर्वदोषक्षालनैः अहेडन् अक्रुद्ध्यन् अस्या नादिकः [अज्ञानादिकं] सहमानः, अपि तु सुमना सानुग्रहमना एव भूत्वा । ‘सोर्मनसी’ इत्युत्तरपदाद्युदात्तत्वम् । हेदृ अनादरे । अस्माकं हव्यानि प्रतिगृभाय प्रतिगृहाण । ‘छन्दसि शायजपि’, ‘हृग्रहोर्भः’ इति भत्वम् । प्रतिगृह्य चास्माकं भ्रेषदोषं अपनयेति ॥

विश्वास-प्रस्तुतिः

अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनत॒ङ्गिरः॑ ।
सन्दे॑व॒त्रा ब॑भूवथुः ।

मूलम्

अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनत॒ङ्गिरः॑ ।
सन्दे॑व॒त्रा ब॑भूवथुः ।

भट्टभास्कर-टीका

7’अग्नीषोमीयमेकादशकपालं निर्वपेद्यं कामो नोपनमेत्’ इत्यस्य पुरोनुवाक्या - अग्नीषोमा इति गायत्री ॥ हे अग्नीषोमा अग्नीषोमौ । पूर्ववदाकारः, ‘ईदग्नेस्सोमवरुणयोः’ इतीकारः, ‘अग्नेः स्तुत्स्तोमसोमाः’ इति षत्वम् । युवां सवेदसा सवेदसौ समानधनौ सहूती समानहूतौ समानाह्वानौ । ‘समानस्य च्छन्दसि’ इति सभावः । ईदृशा युवां वनतं भजतं अस्माकं गिरः स्तुतिवचनानि । देवत्रा देवांश्च संबभूवथुः संगतौ भवतः । ्रमाणानतिरेकस्सम्भवः । देवानामप्याराध्यत्वेन वर्तेथाम् । यद्वा - युवां सवेदसा सहूती देवत्रा देवेष्वपि देवोपकारेष्वपि संबभूवथुः संगतौ भवतः । ‘देवमनुष्य’ इति त्राप्रत्ययः । तौ युवां अस्माकमपि काममुपनयतमिति ॥

विश्वास-प्रस्तुतिः

यु॒वम् [51] ए॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् ।
यु॒वँ सिन्धूँ॑ र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतङ्गृभी॒तान् ।

मूलम्

यु॒वम् [51] ए॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् ।
यु॒वँ सिन्धूँ॑ र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतङ्गृभी॒तान् ।

भट्टभास्कर-टीका

8तत्रैव याज्या - युवमेतानीति त्रिष्टुप् ॥ हे सोम त्वं च अग्निश्च युवं युवां एतानि प्रसिद्धानि दिवि स्थितानि रोचनानि दीपनशीलानि ग्रहनक्षत्रादीनि अधत्तं धारयथः । छान्दसो लङ् । यद्वा - युवामेव रोचनानि दिवि अधत्तं स्थापितवन्तौ । सक्रतू समानकर्माणौ । किञ्च - युवामेव सिन्धून् नदीः । स्यन्दनात् सिन्धवः । रुत्वानुनासिकौ उक्तौ । अभिशस्तेः पातकाद्यारोपात् पापात् अवद्यात् परिवादपापाच्च तत्स्थानीयात् कालुष्यादिदोषात् अमुञ्चतम् । गृभीतान् तेन दोषेण गृहीतानापि तान् सिन्धूनपि अमुञ्चतम् । तस्मादेवम्महानुभावौ युवामस्माकं काममुपनयतमिति ॥

विश्वास-प्रस्तुतिः

अग्नी॑षोमावि॒मँ सु मे॑ शृणु॒तव्ँवृ॑षणा॒ हव॑म् ।
प्रति॑ सू॒क्तानि॑ हर्यत॒म्भव॑तन्दा॒शुषे॒ मयः॑ ।

मूलम्

अग्नी॑षोमावि॒मँ सु मे॑ शृणु॒तव्ँवृ॑षणा॒ हव॑म् ।
प्रति॑ सू॒क्तानि॑ हर्यत॒म्भव॑तन्दा॒शुषे॒ मयः॑ ।

भट्टभास्कर-टीका

9अग्नीषोमीयमष्टाकपालं निर्वपेत् ब्रह्मवर्चसकामः’ इत्यस्य पुरोनुवाक्या - अग्नीषोमावित्यनुष्टुप् ॥ हे अग्नीषोमौ वृषणा कामानां वर्षितारौ । ‘सुपां सुलुक्’ इत्याकारः । इमं मे हवं आह्वानं सुशृणुतं सुष्ठु शृणुतं आह्वानप्रयोजनं यथावत्कुरुतमिति यावत् । ‘भावेनुपसर्गस्य’ इति ह्वयतेः अप् सम्प्रसारणं च । किञ्च - श्रुत्वाह्वानं अस्माकं सूक्तानि प्रतिहर्यतं मनसा प्रतिगृह्णीतम् । हर्य गतौ । तथा कृत्वा दाशुषे हविर्दत्तवते तस्मै यजमानाय मयः सुखहेतू भवतम् ॥

विश्वास-प्रस्तुतिः

आन्यन्दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यम्परि॑ श्ये॒नो अद्रेः॑ ।
अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुय्ँ य॒ज्ञाय॑ चक्रथुरु लो॒कम् ।

मूलम्

आन्यन्दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यम्परि॑ श्ये॒नो अद्रेः॑ ।
अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुय्ँ य॒ज्ञाय॑ चक्रथुरु लो॒कम् ।

भट्टभास्कर-टीका

10अत्रैव याज्या - आन्यं दिव इति त्रिष्टुप् ॥ उपरिष्टाल्लक्षणा त्रिष्टुप्त्वाच्च [‘उपरि … ल्लक्ष्मा’ इत्युक्तत्वाच्च] केचिदिमां याज्यामाहुः । आचार्यस्तु इमां विहाय ‘अग्नीषोमा हविषः’ इत्युत्तरां याज्यां दर्शितवान् । तत्र विकल्पः । अन्यमेकं युवयोर्मध्ये अग्निं दिवः आदित्यात् मातरिश्वा वायुः प्राणवृत्तिरूपः आजभार आजहार आनीतवान्, यथा - ‘आदूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः’ इति । अन्यमेकं सोमं श्येनो गायत्री श्येनो भूत्वा अद्रेः उच्छ्रितात् स्थानात् तृतीयस्या दिवः पर्यमथ्नात् आहरत् तस्माद्वै अग्नीषोमौ एवं महानुभावौ ब्रह्मणा ऋगादिना मन्त्रेण परिबृढेन वा अनेन हविषा वावृधाना वावृधानौ वर्धमानौ । ताच्छीलिकश्चानश्, ‘तुजादीनाम्’ इत्यभ्यासस्य दीर्घत्वम्, पूर्ववदात्वम् । उरुं विस्तीर्णं लोकं स्थानं यत्र यजमानो गच्छति तादृशं यज्ञाय यज्ञवते यजमानाय यद्वा - यज्ञाय यज्ञफलभोगार्थं यजमानाय, लोकं चक्रथुः कुरुतम् । उ इति पादपूरणः अवधारणार्थो वा । तदर्थमस्मै ब्रह्मवर्चसं दत्तमिति ॥

विश्वास-प्रस्तुतिः

अग्नी॑षोमा ह॒विष॒ᳶ प्रस्थि॑तस्य वी॒तम् [52] हर्य॑तव्ँवृषणा जु॒षेथा॑म् ।
सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तय्ँ॒यज॑मानाय॒ शय्ँयोः ।

मूलम्

अग्नी॑षोमा ह॒विष॒ᳶ प्रस्थि॑तस्य वी॒तम् [52] हर्य॑तव्ँवृषणा जु॒षेथा॑म् ।
सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तय्ँ॒यज॑मानाय॒ शय्ँयोः ।

भट्टभास्कर-टीका

11।अथ याज्याविकल्पः - अग्नीषोमा हविष इति त्रिष्टुप् ॥ हे अग्नीषोमौ हविषः प्रस्थितस्य उपस्थितस्य प्रारब्धस्य वा वीतं खादतम् । वी गत्यादिषु, आदादिकः । हर्यतं मनसा प्रत्रिगृह्णीतं स्पृहयतम् । ‘अदुपदेशात्’ इति लसार्वधातुकानुदात्तत्वे धातुस्वरः । जुषेथां नित्यं सेवेथाम् । पूर्ववल्लसार्वधातुकानुदात्तत्वे शस्योदात्तत्वम् । हे वृषणा वर्षितारौ कामानां युवां सुशर्माणा सुशर्माणौ सुग्रहौ सुसुखौ वा स्ववसा स्ववसौ शोभनरक्षणौ । उभयत्र पूर्ववदात्वम् । ‘सोर्मनसी’ इत्युत्तरपदाद्युदात्तत्वम् । ईदृशौ युवां यजमानो भूतं भवतम् । ‘बहुळं छन्दसि’ इति शपो लुक्, ‘हि च’ इति निघाताभावः । अथानन्तरं यजमानाय धत्त दत्तं शं शमनं रोगाणां योः यावतश्च आगामिनां भयानाम् । शाम्यतियौतिभ्यां व्यत्ययेन भावे विचि वचनव्यत्ययः । यौतेर्वा असुनि अडादेशाभावः । अपदान्तेपि पूर्ववद्रुत्वं, णिद्वद्भावाभावश्च । ब्रह्मवर्चसिनं च कुरुतमिति ॥

विश्वास-प्रस्तुतिः

आ प्या॑यस्व ..

मूलम्

आ प्या॑यस्व ..

भट्टभास्कर-टीका

12सोमाय वाजिने श्यामाकं चरुं निर्वपेद्यः क्लैब्यात् बिभीयात्’ इत्यस्य पुरोनुवाक्या - आप्यायस्वेति गायत्री ॥ इयमग्निकाण्डे व्याख्यास्यते यत्राम्नायते प्रकृतौ हि हीयुः [‘मा नो हिंसीः’ ] इत्यत्र । इह तु प्रतीकग्रहणम् । हे सोम तव प्रसादात् वृष्णियं वीर्यं विश्वतः समेतु समागच्छताम् । त्वदर्थं च मामाप्यायस्व द्यध्यात् [दध्यादिना] । किञ्च - वाजस्यान्नस्य सङ्गथे सङ्गमनार्थं भवेति ॥

  • आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् ।
    भवा॒ वाज॑स्य सङ्ग॒थे ।

    • अथ ‘रेतस्सौम्येन दधाति’ इत्यस्य पुरोनुवाक्या याज्या च - आप्यायस्व सं ते इति गायत्रीत्रिष्टुभौ ॥ एते च ‘मा नो हिंसीज्जनिता’ इत्यत्र व्याख्यास्येते यत्राम्नेयेते । इह तु प्रतीकग्रह्णमेतयोः । हे सोम आप्यायस्व वर्धस्व । ते तव विश्वतः वृष्णियं वीर्यं समेतु । तत्र आप्यायितस्त्वं वाजस्यान्नस्य क्षीरादेः संगथे संगमने अस्माकं भवेति ॥

    • 3अथ सौम्यस्य पुरोऽनुवाक्या - आप्यायस्व समेतु त इति गायत्री ॥ इयञ्चाग्निकाण्डे ‘मा नो हिंसीत्’ इत्यत्र व्याख्यास्यते यत्राम्नायते । हे सोम आप्यायस्व वर्धस्व त्वत्प्रसादात् विश्वतः वृष्ण्यं शुक्लं समेतु समागच्छतु । भव च वाजस्यान्नस्य सङ्गथे सङ्गमनायैवेति ॥

  • अथ पत्नीसंयाजानां याज्यानुवाक्याः - आ प्यायस्वेत्याद्याः ॥ ‘आ प्यायस्व समेतु ते, संते पयांसि’ इति त्रिष्टुभौ ‘मा नो हिंसीत्’ इत्यत्र व्याख्याते । ़

    • चमसानाप्याययति - आप्यायस्वेति गायत्र्या ॥ हे सोम आप्यायस्व वर्धस्व मा भक्षित इति क्षेष्ठाः, समेतु संगच्छतु ते त्वाम् । कर्मणि षष्ठी । विश्वतः सर्वतः । वृष्णियं वीर्यम्, वृष्णिसंभवं वृष्णियं, दिगादित्वाद्यत्, ‘यतोऽनावः’ इत्याद्युदात्तत्वम् । वाजस्यान्नस्य संगथे संगमने अस्माकं भव तन्निमित्तं भव ‘द्व्यचोतस्तिङः’ इति संहितायां दीर्घत्वम् । गमेरौणादिकः स्थन् ॥

    • कल्पः—“आ प्यायस्व समेतु त इति सिकता व्यूहत्युत्तरया त्रिष्टुभा राज-न्यस्य” इति । तत्र प्रथममन्त्रमाह— आ प्यायस्वेति । हे सोम त्वमाप्यायस्व सर्वतो वर्धयस्य । वे तव वृष्णियं रेतो विश्वतः सर्वस्माद्वृष्णियादाहारात्समेतु संप्राप्नोतु । वाजस्यान्नस्य संगथे संगमने त्वं निमित्तं भव ।

विश्वास-प्रस्तुतिः

सन्ते॑ ..

मूलम्

सन्ते॑ ..

भट्टभास्कर-टीका

13तत्रैव याज्या - सन्त इति त्रिष्टुप् ॥ इमामपि तत्रैव व्याख्यास्यामः, इह तु प्रतीकग्रहणमस्याः । हे सोम तव प्रसादात् पयांसि वाजाः वृष्ण्यानि च मां संगच्छन्तु । अभिमातिषाहः अभिमातिः पाप्मा क्लैब्यहेतुः, तस्याभिभवितुः तव । किञ्च - अमृताय अमृतत्वार्थमाप्यायमानो दिवि श्रवांसि अन्नानि उत्तमानि धिष्व स्थापयेति ॥

  • सन्ते॒ पयाँ॑सि॒ समु॑ यन्तु॒ वाजा॒स्सव्ँवृष्णि॑यान्यभिमाति॒षाहः॑ ।
    आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवाँ॑स्युत्त॒मानि॑ धिष्व ॥ [32]

    • अथोत्तरां त्रिष्टुभमाह— सं ते पयाँ सीति । हे सोम ते तव पयांसि पातव्यानि क्षीरादीनि समु[सं]- यन्तु संप्राप्नुवन्तु । तथा वाजा अन्नान्यपि संयन्तु । वृष्णियानि रेतांस्यापि संयन्तु । कीदृशस्य तव। अभिमातिषाहः अभिमातिं पाम्मोनं सहते तिरस्करो तीत्यभिमातिषाट् तस्य । क्षीरादिसंपत्तौ सत्यां त्वमाप्यायमानो वर्धयमानोऽमृताय यजमानस्यामृतत्वाय देवताभावाय दिवि द्युलोके श्रवांसि श्रोतुं प्रियाण्युत्तमानि विचित्राण्यन्नानि धिष्व धारय संपादयेत्यर्थः ।
      तदेतदृग्द्वयं सामान्याकारेण विनियुङ्के— “सौम्या व्यूहति सोमो वै रेतोधा रेत एव तद्दधाति” [सं. का. ५ प्र. २ अ. ६] इति।
      सोमो देवता यस्यामृचि प्रतीयते सेयमृक्सौमी । विश्वतः सोमेत्याद्यायामृ-च्यसौ प्रतीयते । अमृताय सोमेत्युत्तरस्यामृचि प्रतीयते । तया सौम्मा पूर्वं न्युप्ताः सिकता विविधं प्रसारयेत् । तथा सति सोमस्य रेतोधारकत्वात्तन्मत्रनिष्पाद्यव्यूहनेन यजमानो रेतो धारयति ।
      मन्त्रद्वयस्य पुरुषभेदेन व्यवस्थां विधत्ते— “गायत्रिया ब्राह्मणस्य गायत्रो हि ब्राह्मणस्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्यः” (सं. का. ५ प्र. २ अ. ६) इति।
      आ प्यायस्वेति गायत्री । सं त इति त्रिष्टप् ।
  • अथ द्वितीया - हे सोम तवाभिमातीनां पाप्मनां हन्तुः पयांसि पातव्यानि क्षीरादीनि संयन्तु संगच्छन्तां, वाजा अन्नानि च संयन्तु, वृष्णियानि वीर्याणि च संयन्तु । ततश्चाप्यायमानः अमरणत्वायास्माकं उत्तमानि श्रेयांसि अन्नानि धिष्व धारय देवार्थमस्मदर्थं वा ॥

  • तत्रैव (सौम्यस्य) याज्या - सं ते पयांसीति त्रिष्टुप् ॥ इयमपि तत्रैवाम्नायते । हे सोम अभिमातीनां पाप्मनामभिभवितुस्तव प्रसादात् पयांसिच वाजाश्च वृष्णियानि च संयन्तु इमं सङ्गच्छन्तु । त्वं चाप्यायमानः दिवि द्युलोके अस्यामृतत्वाय उत्तमानि श्रवांसि अन्नानि धिष्व स्थापयेति ॥

विश्वास-प्रस्तुतिः

ग॒णाना॑न्त्वा ग॒णप॑तिँ हवामहे क॒विङ्क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राज॒म्ब्रह्म॑णाम्ब्रह्मणस्पत॒ आ न॑श्शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ।

मूलम्

ग॒णाना॑न्त्वा ग॒णप॑तिँ हवामहे क॒विङ्क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राज॒म्ब्रह्म॑णाम्ब्रह्मणस्पत॒ आ न॑श्शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ।

भट्टभास्कर-टीका

14’ब्राह्मणस्पत्यमेकादशकपालं निर्वपेत् ग्रामकामः’ इत्यस्य पुरोनुवाक्या - गणानां त्वेति जगती ॥ हे ब्रह्मणः परिबृढस्य कर्मणो वा पते पालयितः । ‘षष्ठ्याः पतिपुत्र’ इति सत्वम्, ‘सुबामन्त्रिते’ इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितममुदायो निहन्यते । त्वां गणानां सर्वेषां संबन्धिनं गणपतिं ग्रामादिसङ्घातस्वामिनं हवामहे आह्वयामः । पूर्ववत्सम्प्रसारणम् । कवीनां क्रान्तदर्शनानामापि कविं क्रान्तदर्शिनम् । उपमश्रवस्तमं उपमीयते अनेनेत्युपमः, सर्वेषां श्रवसामन्नानां उपमानं यस्य श्रवः, न तु केन चिदुपमीयते प्रसिद्धमुपमानमिति, स उपमश्रवाः । ‘आतश्चोपसर्गे’ इत्यङ्, ‘ड्यापोस्संज्ञाच्छन्दसोः’ इति ह्रस्वत्वम् । यद्वि[द्वा - श्यन्वि]करणस्य कर्मविवक्षायां ‘आतश्चोपसर्गे’ इति कः । यद्वा - श्रूयत इति श्रवः यस्य[यस्तु] सर्वदा श्रूयते । त एवो[स इवो]पमश्रवाः न कदाचिद्दृश्यते स उपमश्रवाः, श्रूयमाणोपम इति यावत् । आहिताग्नि[ताग्न्यादि]र्द्रष्टव्यः । अनुभवाभावार्थैव श्रूयमाणत्वोक्तिः, ‘विषं भुङ्क्ष्व’ इतिवदन्यपरत्वात् । सर्वानुपमश्रवसः अतिशेत इति उपमश्रवस्तमम् । ज्येष्ठराजं ज्येष्ठं प्रशस्तं राजतीति ज्येष्ठराट् । स त्वं एवं महानुभावः अस्माकं स्तुतीः शृण्वन् ऊतिभिः रक्षणैः तर्पणैर्वा हेतुभूतैः ताभिर्व्याप्रियमाणाभिरुपलक्षितः सादनं आत्मीयमासनं असीद अधितिष्ठ । सीदन्त्यस्मिन्निति सादनं, च्छान्दसं दीर्घत्वम् । तथा ग्रामाधिपतिरिवासीदन् अस्मभ्यं ग्रामं देहीति ॥

विश्वास-प्रस्तुतिः

स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाज॑म्भरते॒ धना॒ नृभिः॑ ।
दे॒वानाय्ँ॒यᳶ पि॒तर॑मा॒विवा॑सति [53] श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति॑म् ।

मूलम्

स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाज॑म्भरते॒ धना॒ नृभिः॑ ।
दे॒वानाय्ँ॒यᳶ पि॒तर॑मा॒विवा॑सति [53] श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति॑म् ।

भट्टभास्कर-टीका

15तत्रैव याज्या - स इज्जनेनेति जगती ॥ स एव जनेन परिजनेन किङ्करादिना, स एव विशा विड्बिरुपजीवनीभिः प्रजाभिः, स एव जन्मना जनोः जन्मप्रभृति स एव पुत्रैः पुत्रपौत्रादिभिः एतैस्सर्वैस्सह वाजं भरते दधाति । धना धनानि च नृभिः अन्यैश्च बन्धुसुहृदादिभिः सह स एव दधाति । ‘नृ चान्यतरस्याम्’ इति विभक्तेरुदात्तत्वाभावः, ‘सावेकाचः’ इति हि प्राप्नोति । स एव दधातीति, क इत्याह - यः श्रद्धामनाः श्रद्धायुक्तमनाः देवानां पितरं पातारं ब्रह्मणस्पतिं हविषा आविवासति परिचरति । आविवासतिः परिचरणकर्मा ॥

विश्वास-प्रस्तुतिः

स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लँ रु॑रोज फलि॒गँ रवे॑ण ।
बृह॒स्पति॑रु॒स्रिया॑ हव्य॒सूद॒ᳵ कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत् ।

मूलम्

स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लँ रु॑रोज फलि॒गँ रवे॑ण ।
बृह॒स्पति॑रु॒स्रिया॑ हव्य॒सूद॒ᳵ कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत् ।

भट्टभास्कर-टीका

16अथ बार्हस्पत्य उपहोमः - स सुष्टुभेति ॥ त्रिष्टुबेषा । स बृहस्पतिः सुष्टुभा शोभनस्तुव[तिम]ता । स्तोभतिस्स्तुतिकर्मा । स्तौतेर्वा क्विपि वर्णव्यत्यये तुको भत्वम्, ‘उपसर्गात्सुनोति’ इत्यादिना षत्वम् । ऋक्वता स्तुतिमता, (षुरुवता ?) वा । ‘झयः’ इति मतुपो वत्वम्, अयस्मयादित्वेन पदत्वात्कुत्वम्, भत्वाज्जस्त्वाभावः । ईदृशेन गणेन सहितः वलं मेघम् । वृणोतेः पचाद्यच्, कपिलकादित्वाल्लत्वम् । रुरोज भिनत्ति फलिगं स्वच्छोदकपूर्णं, बलवदुदकं वा रवेण शब्देन उपलक्षीतं बलं । रवेण वा फलिगं गिरिगुहादिषु प्रतिफलवन्तम् । किञ्च - अयं बृहस्पतिः हव्यसूदः हविषो भोक्ता । कर्मणि ‘कुलसूदस्थलकषाः’ इत्युत्तरपदाद्युदात्तत्वम् । उस्रियाः अपः वावशतीः अत्यर्थं कामयमानाः । वशेर्यङि ‘न वशः’ इति सम्प्रसारणाभावः । पूर्ववदाद्युदात्तत्वम् । उदाजत् भञ्जनानन्तरं बलात् उद्गमयती । अजगतिक्षेपणयोः छान्दसो लुङ् ॥

विश्वास-प्रस्तुतिः

मरु॑तो॒ यद्ध॑ वो दि॒वः ..

मूलम्

मरु॑तो॒ यद्ध॑ वो दि॒वः ..

भट्टभास्कर-टीका

17’एतामेव निर्वपेद्यः कामयेत ब्रह्मन् विशं विनाशयेयमिति मारुतीयाज्याणुवाक्ये कुर्यात्’ इत्यस्याः पुरोनुवाक्या - मरुतो यद्ध व इति गायत्री ॥ व्याख्याता चेयं ‘वैश्वानरोनः’ इत्यत्र । इह त्वस्याः प्रतीकग्रहणम् । हे मरुतः वः युष्मान् यस्माद्वयं सुम्नायन्तः सुखमिच्छन्तः हवामहे आह्वयामः तस्मान्नः अस्मान् क्षिप्रं दिवः ओपगन्तन अस्मत्सकाशमागच्छतेति ब्रह्मणि विशं स्थापयितुमिति ॥

  • [ मरु॑तो॒ यद्ध॑ वो दि॒वस्सु॑म्ना॒यन्तो॒ हवा॑महे ।
    आ तू न॒ उप॑ गन्तन ॥

    • `वैश्वानरं द्वादशकपालं निर्वपेन्मारुतं सप्तकपालं ग्रामकामः’ इति द्विहविषो मारुतस्य पुरोनुवाक्या - मरुतो यद्ध वो दिव इति गायत्री ॥ हे मरुतः यद्वो युष्मान् सुम्नायन्तस्सुखमिच्छन्तः । ‘देवसुम्नयोः’ इत्यात्वम् । दिवो द्युलोकात् हवामहे आह्वयामः । पूर्ववत्सम्प्रसारणम् । हूयमाना नोस्मानुपगन्तन आत्मनो विशेषवत्त्वं ख्यापयन्तु । तुशब्दो विनिवर्तकः, तिष्ठन्त्वन्ये अस्मांस्तूपागच्छतेति । ‘अन्येभ्योपि दृश्यते’ इति सांहितिको दीर्घः, गमेर्लेटि शपो लुक्, ‘तप्तनप्तनधनाश्च’ इति तनादेशः । ह इति पादपूरणे निश्चये वा ॥
विश्वास-प्रस्तुतिः

या व॒श्शर्म॑ ..

मूलम्

या व॒श्शर्म॑ ..

भट्टभास्कर-टीका

18तत्रैव याज्या - या वश्शर्मेति त्रिषुप् ॥ इयमपि तत्रैव व्याख्याता ; प्रतीकग्रहणमिदम् । हे मरुतः युष्माकं यानि शर्माणि सूखानि त्रिधातूनि त्रिलोकस्थानानि शशमानाय युष्मान् भजमानाय दातुं सन्ति भवन्ति यानि च दाशुषे हविर्दत्तवते यजमानाय अधिकं यच्छत प्रयच्छत तानि अस्मभ्यं वियन्त विशेषेण दत्त । किञ्च - हे वृषाणा कामानां वर्षितारः अस्मभ्यं सुवर्षं शुवीरं शोभनपुत्रादिकं रयिं दत्तेति ॥

  • [ या व॒श्शर्म॑ शशमा॒नाय॒ सन्ति॑ त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ ।
    अ॒स्मभ्य॒न्तानि॑ मरुतो॒ वि य॑न्त र॒यिन्नो॑ धत्त वृषणस्सु॒वीर॑म् ॥

    • तत्रैव याज्या - या व इति त्रिष्टुप् ॥ हे मरुतः वः युष्माकं या यानि शर्म शर्माणि सुखानि गृहाणि वा । पूर्वत्र ‘शेश्छन्दसि’ इति शेर्लोपः । उत्तरत्र ‘सुपां सुलुक्’ इति लुक् । त्रिधातूनि पृथिव्यादित्रिस्थानस्थितानि शशमानाय युष्मान् भजमानाय तदर्थं तस्मै दातुं सम्पादितानि यानि सन्ति । शश प्लुतगतौ, ताच्छीलिकश्चानश् । यानि च दाशुषे हविर्दत्तवते ददते वा यजमानायाधियच्छत अधिकं प्रयच्छत । यच्छतेश्छान्दसे लङि अडभावः । ‘दाश्वान् साश्वान्’ इति दाश्वान्निपात्यते । हे मरुतः तानि शर्माणि अस्मभ्यं वियन्त विशेषेण यच्छत विविधा वा दत्त । यच्छतेर्लेटि शपो लुक् । किञ्च - रयिं धनं च नोस्मभ्यं धत्त दत्त सुवीरं शोभनापत्यादिकम् । ‘वीरवीर्यौ च’ इत्युत्तरपदाद्युदात्तत्वम् । हे वृषणः कामानां वर्षितारः । ‘कनिन्युवृषि’ इति निपात्यते, ‘वा षपूर्वस्य निगमे’ इति दीर्घाभावः ॥
विश्वास-प्रस्तुतिः

अ॒र्य॒मा या॑ति वृष॒भस्तुवि॑ष्मान्दा॒ता वसू॑नाम्पुरुहू॒तो अर्ह॑न् ।
स॒ह॒स्रा॒क्षो गो॑त्र॒भिद्वज्र॑बाहुर॒स्मासु॑ दे॒वो द्रवि॑णन्दधातु ।

मूलम्

अ॒र्य॒मा या॑ति वृष॒भस्तुवि॑ष्मान्दा॒ता वसू॑नाम्पुरुहू॒तो अर्ह॑न् ।
स॒ह॒स्रा॒क्षो गो॑त्र॒भिद्वज्र॑बाहुर॒स्मासु॑ दे॒वो द्रवि॑णन्दधातु ।

भट्टभास्कर-टीका

19’अर्यम्णे चरुन्निर्वपेत् स्वर्गकामः’ इत्यस्याः पुरोनुवाक्या - अर्यमायातीति त्रिष्टुप् ॥ अरीन् यमयति उपय[रमय]तीत्यर्यमा इन्द्र उच्यते, वक्ष्यमाणेभ्यो लिङ्गेभ्यः । सः आयाति आगच्छति आगच्छतु वा । वृषभः वर्षिता कामानां तुविष्मान् महाबलः दाता वसूनां धनानां पूरुहूतः बहुभिर्यजमानैराहूतः, बहुषु वा स्थानेषू आहूतः । तेन ‘तृतीयाकर्मणि’ इत्यस्याप्रसङ्गः । अर्हन् दानादिकं कर्तुमर्हन् । अर्हच्छब्दः पूज्यवाची । हे पूजनीय सहस्राक्षः बह्विन्द्रियः बहुकार्यकरणसमर्थेन्द्रियो वा गोत्रभृत् मेघानां पर्वतानां वा भेत्ता विदारयिता वज्रबाहुः वज्रपाणिः । ‘प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः’ इति परनिपातः । ईदृशो देवः अस्मासु द्रविणं स्वर्गाख्यं धनं ददातु ॥

विश्वास-प्रस्तुतिः

ये ते॑ऽर्यमन्ब॒हवो॑ देव॒याना॒ᳶ पन्था॑नः [54] रा॒ज॒न्दि॒व आ॒चर॑न्ति ।
तेभि॑र्नो देव॒ महि॒ शर्म॑ यच्छ॒ शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे ।

मूलम्

ये ते॑ऽर्यमन्ब॒हवो॑ देव॒याना॒ᳶ पन्था॑नः [54] रा॒ज॒न्दि॒व आ॒चर॑न्ति ।
तेभि॑र्नो देव॒ महि॒ शर्म॑ यच्छ॒ शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे ।

भट्टभास्कर-टीका

20तत्रैव याज्या - ये तेर्यमन्निति त्रिष्टुप् ॥ हे अर्यमन् राजन् दीप्यमान ते तव ये बहवः देवयानाः देवा यैर्गच्छन्ति देवान्वा यैर्गच्छन्ति तादृशाः दिवः द्युलोकात् आचरन्ति आभिमुख्येन यावत्कर्मस्थानं आतन्यन्ते तेभिः तैः पथिभिः नः अस्मभ्यं हे देव देवनादिमन् महि महत् शर्म सुख यच्छ देहि । किञ्च – नः अस्माकं द्विपदे चतुष्पदे च शं एधि सुखहेतुर्भव ; तादृशमार्गगम्यस्वर्गहेतुर्भवेति यावत् । स्वरसमासान्तावुक्तौ ॥

विश्वास-प्रस्तुतिः

बु॒ध्नादग्र॒मङ्गि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृँहि॒तान्यै॑रत् ।
रु॒जद्रोधाँ॑सि कृ॒त्रिमा॑ण्येषाँ॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ।

मूलम्

बु॒ध्नादग्र॒मङ्गि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृँहि॒तान्यै॑रत् ।
रु॒जद्रोधाँ॑सि कृ॒त्रिमा॑ण्येषाँ॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ।

भट्टभास्कर-टीका

21’यो राजन्य आनुजावरस्स्यात्तस्मा एतमैन्द्रमानुषूकमेकादशकपालं निर्वपेत् … बुध्नवती अग्रवती याज्यानुवाक्ये भवतः’ इत्यस्याः पुरोनुवाक्या - बुध्नादग्रमङ्गिरोभिरिति त्रिष्टुप् ॥ बुध्नात् मूलादारभ्य यावदग्रं उपक्रमादारभ्य यावत्समाप्ति उग्रावदानि गृणानः गृणानैस्तुवद्भिरङ्गिरोभिरित्थंभूतः । ‘सुपां सुलुक्’ इति तृतीयाया (एकवचनस्य) स्वादेशः । यद्वा - व्यत्ययेन कर्मणि कर्तृप्रत्ययः । अङ्गिरोभिः स्तूयमानः पर्वतस्य मेघस्य दृंहितानि स्तम्भितानि रोधांसि उदकस्य रोधनानि द्वारपिधानानि रुजत् भिनत् प्रथमं ततो व्यैरत् विविधं प्रेरयति विश्लेषयति यथोदकं पतति । यद्वा - उदकमेव व्यैरत् विकिरति । ‘बहुल सज्ञाच्छन्दसोः’ इति णिलुक् । कीदृशानि रोधांसि? कृत्रिमाणि कृत्रिमाण्येव आत्मकृतानीव अ यत्नेन भिनत्ति एषां मेघानां सम्बन्धीनि । पर्वतस्येति वचनस्य तृतीयै [स्येति बहुवचनस्य व्यत्येयेनै]कवचनम् । इत्येवंविधानि यानि कर्माणि तानि सर्वाण्यपि सोमस्य मदे सोमपाननिमित्ते मदे सति इन्द्रश्चकार करोति । एवंमहानुभाव इन्द्र इमं राजन्यं समानानामग्रं परिणयत्विति ॥

विश्वास-प्रस्तुतिः

बु॒ध्नादग्रे॑ण॒ वि मि॑माय॒ मानै॒र्वज्रे॑ण॒ खान्य॑तृणन्न॒दीना॑म् ।
वृथा॑सृजत्प॒थिभि॑र्दीर्घया॒थैस्सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥ [55]

मूलम्

बु॒ध्नादग्रे॑ण॒ वि मि॑माय॒ मानै॒र्वज्रे॑ण॒ खान्य॑तृणन्न॒दीना॑म् ।
वृथा॑सृजत्प॒थिभि॑र्दीर्घया॒थैस्सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥ [55]

भट्टभास्कर-टीका

22तत्रैव याज्या - बुध्नादग्रेण विमिमायेति त्रिष्टुप् ॥ मूलादारभ्य अग्रेण सह यावदग्रं मानैर्मानयित्रीभिः विमिमाय विविधं परिच्छिनत्ति मेघान् । अथ तथा विमितेषु मेघेषु नदीनामपां, नदनान्नद्यः, खानि द्वाराणि वज्रेण अतृणत् भिनत्ति विहि [विमि] तानि विदारयति । उ तृ दिर् हिंसायां, रौधादिकः । यद्वा - नदीनामिति चतुर्थ्यर्थे षष्ठी, नदीभ्यः ; नद्यो यथा प्रवहेयुरित्येवमर्थमभिनत् भिनत्ति द्वाराणि ; सामर्थ्यादुदकस्येति लभ्यते । ततः वृथा भित्त्वा तथा क्रीडन्निव असृजन्निव [… सृजत्] नदीः प्रवर्तयति पथिभिः दीर्घयाथैः चिरप्रवृत्तैः । तादृशविधानि कर्माणि सोमस्य मदे सतीन्द्रश्चकारेति । गतम् ॥

विश्वास-प्रस्तुतिः

प्र यो ज॒ज्ञे वि॒द्वाँ अ॒स्य बन्धुव्ँ॒विश्वा॑नि दे॒वो जनि॑मा विवक्ति ।
ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मध्या॑न्नी॒चादु॒च्चा स्व॒धया॒भि प्र त॑स्थौ ।

मूलम्

प्र यो ज॒ज्ञे वि॒द्वाँ अ॒स्य बन्धुव्ँ॒विश्वा॑नि दे॒वो जनि॑मा विवक्ति ।
ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मध्या॑न्नी॒चादु॒च्चा स्व॒धया॒भि प्र त॑स्थौ ।

भट्टभास्कर-टीका

23अथोपहोमादिष्वन्यत्र विनियोगा द्रष्टव्याः - प्र यो जज्ञे इति त्रिष्टुप् ॥ वक्ष्यमाण एव बार्हस्पत्यः । आचार्येण तु त्यक्त्वोमामुत्तरेण[… त्तरे] बार्हस्पत्ये विनियुक्ते । देवो विद्वान् आत्माधिकारज्ञः सर्वज्ञो वा अस्य मेघस्य बन्धुं बन्धनं यात्रायां बध्यते मेघेन वाऽयं बध्यते । तद्विद्वान् यो बन्धनमस्य जज्ञे जानाति । कथं ज्ञायते बन्धनमस्यायं जानतीति? तत्राह - विश्वानि जनिमा जन्मानि अयं हि देवो अस्य विवक्ति ऋब्रूते परेभ्यः कथयति तं जनमयं जानतीति जानीमः । वचेः ‘बहुलं छन्दसि’ इति शपश्श्लुः, अभ्यासस्य दीर्घ[सस्ये]त्वम् । एवमुत्पादितं ब्रह्म परिबृढं उदकं ब्रह्मणः परिबृढायाः पृथिव्याः उज्जहार उद्धरति । मध्यात् मध्यप्रदेशात् नीचा नीचप्रदेशात् । पञ्चम्येकवचनस्य ‘सुपां सुलुक्’ इत्याजादेशः । सांहितिको दकारोपजनश्छान्दसः । उक्तं च प्रातिशाख्ये - ‘नीचापूर्वो दकार उच्चापरः’ इति । उच्चा उच्चात् प्रदेशात् । पूर्ववदाजादेशः । एवं सर्वस्य उद्धृतं उदकं स्वधया अन्नेन सह अभिप्रतस्थौ आदित्ये अभिप्रतितिष्ठतु आभिमुख्येन प्रकृष्टं तिष्ठतु । स्वधया वा हेतुभूतया । यद्वा - स्वधया हविष सह स्थितिहेतुना आदित्ये उदकं तिष्ठत्विति यावत् । पक्वमितिते[क्क्वमादित्ये] ततोन्नमुत्पद्यते, सोस्माकमभिमतं सम्पादयतु बृहस्पतिरिति ॥

विश्वास-प्रस्तुतिः

म॒हान्म॒ही अ॑स्तभाय॒द्वि जा॒तो द्याँ सद्म॒ पार्थि॑वञ्च॒ रजः॑ ।
स बु॒ध्नादा॑ष्ट ज॒नुषा॒भ्यग्र॒म्बृह॒स्पति॑र्दे॒वता॒ यस्य॑ स॒म्राट् ।

मूलम्

म॒हान्म॒ही अ॑स्तभाय॒द्वि जा॒तो द्याँ सद्म॒ पार्थि॑वञ्च॒ रजः॑ ।
स बु॒ध्नादा॑ष्ट ज॒नुषा॒भ्यग्र॒म्बृह॒स्पति॑र्दे॒वता॒ यस्य॑ स॒म्राट् ।

भट्टभास्कर-टीका

24’यो ब्राह्मण आनुजावरस्स्यात्तस्मा एतं बार्हस्पत्यमानुषूकं चरुं निर्वपेत् बुध्नवती अग्र्वती याज्यानुवाक्ये भवतः’ इत्यस्याः पुरोनुवाक्या - महान्महीति त्रिष्टुप् ॥ महान् बृहस्पतिः मही महत्यौ पृथिवीमन्तरिक्षं च व्यस्तभायत् विविधमस्तम्भयत् । जातः जातमात्र एव द्यां द्युलोकं व्यस्तम्भयत् इत्येव । सद्म सदनं स्थानमुदकस्य मध्यं मुख्यं तत्र स्थितं पार्थिवं च रजः उदकं व्यस्तम्भयत् । स महानुभावो बृहस्पतिर्बुध्नात् मूलादारभ्य अभ्यग्रं यावदग्रं आष्ट व्याप्नोतु । जनुषा जन्मनैव अयत्नेनैव तेजस्विनं करोतु । कं? यस्यायं देवता ईश्वरः सम्राट् सङ्गतदीप्तिः तं यजमानं तेजसा व्याप्नोतु यस्यायं देवता बृहस्पतिः । यत्सर्वमेवमयं व्याप्तवान् तस्मान्महानुभावोयमस्माकमानुजावरत्वं निवर्त्य समानानामग्रं परिणयत्विति । अश्नोतेर्लङि ‘बहुलं छन्दसि’ इति शपो लुक् ॥

विश्वास-प्रस्तुतिः

बु॒ध्नाद्यो अग्र॑म॒भ्यर्त्योज॑सा॒ बृह॒स्पति॒मा वि॑वासन्ति दे॒वाः ।
भि॒नद्व॒लव्ँवि पुरो॑ दर्दरीति॒ कनि॑क्रद॒त्सुव॑र॒पो जि॑गाय ॥ [56]

मूलम्

बु॒ध्नाद्यो अग्र॑म॒भ्यर्त्योज॑सा॒ बृह॒स्पति॒मा वि॑वासन्ति दे॒वाः ।
भि॒नद्व॒लव्ँवि पुरो॑ दर्दरीति॒ कनि॑क्रद॒त्सुव॑र॒पो जि॑गाय ॥ [56]

भट्टभास्कर-टीका

25तत्रैव याज्या - बुध्नाद्यो अग्रमिति त्रिष्टुप् ॥ बुध्नादारभ्य यावदग्रं योयमोजसा बलेन अभ्यर्ति आभिमुख्येन प्राप्नोति इदं विश्वमात्मीयेन तेजसा व्याप्नोति, यद्वा - यजमानं वा आत्मीयम् । तादृशं बृहस्पतिं देवा अपि आविवासन्ति परिचरन्ति, ऋत्विजो वा । स च एवं देवैः परिचर्यमाणो वलं मेघं भिनत् भिनत्ति वृष्ट्यर्थम् । पुरः असुरनगराणि च विदर्दरीति अत्यर्थं विदारयति । दृ विदारणे, यङ्लुकि ‘रुग्रिकौ च लुकि’ इति रुक्, ‘यङो वा’ इति ईडागमः । कनिक्रदत् अत्यर्थं शब्दं कुर्वन् अत्यर्थं क्रन्दन् । दाधर्त्यादौ निपात्यते । ततस्सुवरादित्यं अपश्च जिगाय जयति । आदित्यादाकृष्य मध्यमस्थाने उदकं वृष्ट्युन्मुखं प्रवर्तयति पर्जन्यात्मना । छान्दसे लिटि ‘सन् लिटोर्जेः’ इति जयतेः कुत्वम् । एवम्महानुभावोयं अस्मदीयं यजमानमानुजावरत्वान्मुक्त्वा समानानामग्रं परिणयत्विति ॥

इति श्रीभट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये द्वितीये काण्डे तृतीये प्रश्ने चतुर्दशोनुवाकः ॥

॥ प्रपाठकस्सम्पूर्णः ॥