विश्वेदेवा ऋषयः ।
Y A v Am ...{Loading}...
भास्करोक्त-विनियोगः
1’यः पाप्मना गृहीतस्स्यात्तस्मा एतामैन्द्रावरुणीं पयस्यां निर्वपेत्’ इत्यादि कारणं वक्ष्यति । तां पुरोडाशाच्चतुर्धा कृत्वा व्यूहति - यावामिन्द्रावरुणेति चतुर्भिर्मन्त्रैः॥ यतव्या सहस्या रक्षस्या तेजस्येति चतुर्णां विशेषः । शेषस्तुल्यः ।
विश्वास-प्रस्तुतिः
या वा॑म् इन्द्रा-वरुणा यत॒व्या॑ त॒नूस्
तये॒मम् अँह॑सो मुञ्चतम् ।
मूलम्
या वा॑मिन्द्रावरुणा यत॒व्या॑ त॒नूस्तये॒ममँह॑सो मुञ्चतम् ।
भट्टभास्कर-टीका
हे इन्द्रावरुणा इन्द्रावरुणौ । ‘सुपां सुलुक्’ इत्याकारः । ‘देवताद्वन्द्वे च’ इति पूर्वपदस्यानङ् । वां युवयोः या यतव्या तनूः शरीरं । यातूनि यातुधानाः रक्षांसि तेषां हननी रक्षोयातूनां हन्त्रीति यावत् । तया तन्वा इमं यजमानं अंहसः पापात् अमुञ्चतं शोधयतम् ॥
विश्वास-प्रस्तुतिः
या वा॑म् इन्द्रावरुणा
सह॒स्या॑ [त॒नूस्तये॒म् अमँह॑सो मुञ्चतम्] ।
मूलम्
या वा॑मिन्द्रावरुणा सह॒स्या॑ {रक्ष॒स्या॑ तेज॒स्या॑ } त॒नूस्तये॒ममँह॑सो मुञ्चतम् ।
भट्टभास्कर-टीका
2यावामित्यादि ॥ या सहस्या तनूः सहो बलं अभिभवितृत्वं तद्वती । ‘मत्वर्थे मासतन्वोः’ इति यत् । समानमन्यत् ॥
विश्वास-प्रस्तुतिः
[या वा॑मिन्द्रावरुणा] रक्ष॒स्या॑ [त॒नूस् तये॒मम् अँह॑सो मुञ्चतम्] ।
मूलम्
या वा॑मिन्द्रावरुणा {सह॒स्या॑} रक्ष॒स्या॑ {तेज॒स्या॑} त॒नूस्तये॒ममँह॑सो मुञ्चतम् ।
भट्टभास्कर-टीका
3यावामित्यादि ॥ या रक्षस्या तनूः रक्षसां हननी । स एव यत् । ततोनुषङ्गः ॥
विश्वास-प्रस्तुतिः
[या वा॑मिन्द्रावरुणा] तेज॒स्या॑ त॒नूस् तये॒मम् अँह॑सो मुञ्चतम् ।
मूलम्
या वा॑मिन्द्रावरुणा {सह॒स्या॑ रक्ष॒स्या॑} तेज॒स्या॑ त॒नूस्तये॒ममँह॑सो मुञ्चतम् ।
भट्टभास्कर-टीका
4यावामित्यादि ॥ या तेजस्या तनूः तेजस्विनी । पूर्ववन्मत्वर्थीयो यत् । स्पष्टमन्यत् ॥
भास्करोक्त-विनियोगः
5-12अथोपहोमा अष्टौ - योवामित्यादयः ॥
मूलम् (संयुक्तम्)
यो वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रावरुणा द्वि॒पात्सु॑ प॒शुषु॒ चतु॑ष्पात्सु गो॒ष्ठे गृ॒हेष्व॒प्स्वोष॑धीषु॒ वन॒स्पति॑षु॒ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे
विश्वास-प्रस्तुतिः
यो वा॑म् इन्द्रा-वरुणाव् अ॒ग्नौ स्राम॒स्
तव्ँ वा॑म् ए॒तेनाव॑यजे ।
मूलम्
यो वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे ।
भट्टभास्कर-टीका
अग्न्यादयो वनस्पत्यन्ता विशेषाः । शिष्टमष्टस्वप्यनुषज्यते । स्रावयति नाशयतीति स्रामः पाप्मा येनायं गृहीतः । यो वां युवयोस्सम्बन्धिनो यजमानस्य अग्नौ स्रामः अग्न्याधारः पाप्मा तेन कृतः तं वा युवयोस्सम्बन्धिनानेन कर्मणा अवयजे नाशयामि हे इन्द्रावरुणौ । अवपूर्वो यजिर्विनाशकर्मा ।
विश्वास-प्रस्तुतिः
यो वा॑म् इन्द्रा-वरुणा द्वि॒पात्सु॑ प॒शुषु॒ [स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।]
मूलम्
यो वा॑मिन्द्रावरुणा द्वि॒पात्सु॑ प॒शुषु॒
भट्टभास्कर-टीका
‘यो द्विपास्तु पशुषु स्रामः’ इति द्वितीये । द्विपादो मनुष्याः । ’ सङ्ख्यासुपूर्वस्य’ इति लोपस्समासान्तः, ‘पादः पत्’ इति पद्भावः, ‘द्वित्रिभ्यां पाद्दन्’ इत्युत्तरपदान्तोदात्तत्वम् ।
विश्वास-प्रस्तुतिः
[यो वा॑म् इन्द्रा-वरुणा] चतु॑ष्पात्सु प॒शुषु॒ [स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।]
मूलम्
चतु॑ष्पात्सु प॒शुषु॒
भट्टभास्कर-टीका
‘यश्चतुष्पात्सु पशुषु स्रामः’ इति तृतीये । स्वरवर्जं पूर्ववत् । गवादयः चतुष्पादः ।
विश्वास-प्रस्तुतिः
[यो वा॑म् इन्द्रा-वरुणा] गो॒ष्ठे [स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।]
मूलम्
गो॒ष्ठे
भट्टभास्कर-टीका
‘यो गोष्ठे’ इति चतुर्थे । गावस्तिष्ठन्त्यस्मिन्निति ‘सुपि स्थः’ इति कः । ‘अम्बाम्ब’ इत्यादिना षत्वम् ।
विश्वास-प्रस्तुतिः
[यो वा॑म् इन्द्रा-वरुणा] गृ॒हेषु [स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।]
मूलम्
गृ॒हेषु
भट्टभास्कर-टीका
‘यो गृहेषु’ इति पञ्चमे । ‘गेहे कः’ इति कः ।
विश्वास-प्रस्तुतिः
[यो वा॑म् इन्द्रा-वरुणाव्] अ॒प्सु [स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।]
मूलम्
अ॒प्सु ।
भट्टभास्कर-टीका
‘योप्सु’ इति षष्टे । ‘ऊडिदम्’ इति विभक्तेरुदात्तत्वम् ।
विश्वास-प्रस्तुतिः
[यो वा॑म् इन्द्रा-वरुणाव्] ओष॑धीषु॒ [स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।]।
मूलम्
ओष॑धीषु।
भट्टभास्कर-टीका
‘य ओषधीषु’ इति सप्तमे । यवादयः ओषधयः । ‘ओषधेश्च विभक्तौ’ इति दीर्घत्वम् ।
विश्वास-प्रस्तुतिः
[यो वा॑म् इन्द्रा-वरुणा] वन॒स्पति॑षु॒ स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।
मूलम्
वन॒स्पति॑षु॒ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे ।
भट्टभास्कर-टीका
‘यो वनस्पतिषु’ इत्यष्टमे । पलाशादयो वनस्पतयः । वनस्पत्यादित्वात्पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । पारस्करप्रभृतित्वात् सुट् ॥
मूलम् (संयुक्तम्)
इन्द्रो॒ वा ए॒तस्य॑ [48] इ॒न्द्रि॒येणाप॑ क्रामति॒ वरु॑ण एनव्ँवरुणपा॒शेन॑ गृह्णाति॒ यᳶ पा॒प्मना॑ गृही॒तो भव॑ति॒ यᳶ पा॒प्मना॑ गृही॒तस्स्यात्तस्मा॑ ए॒तामै॑न्द्रावरु॒णीम्प॑य॒स्या॑न्निर्व॑पे॒दिन्द्र॑ ए॒वास्मि॑न्निन्द्रि॒यन्द॑धाति॒ वरु॑ण एनव्ँवरुणपा॒शान्मु॑ञ्चति
विश्वास-प्रस्तुतिः
इन्द्रो॒ वा ए॒तस्ये॑न्द्रि॒येणाप॑ क्रामति ।
वरु॑ण एनव्ँवरुणपा॒शेन॑ गृह्णाति ।
यᳶ पा॒प्मना॑ गृही॒तो भव॑ति ।
यᳶ पा॒प्मना॑ गृही॒तस्स्यात् ।
मूलम्
इन्द्रो॒ वा ए॒तस्ये॑न्द्रि॒येणाप॑ क्रामति ।
वरु॑ण एनव्ँवरुणपा॒शेन॑ गृह्णाति ।
यᳶ पा॒प्मना॑ गृही॒तो भव॑ति ।
यᳶ पा॒प्मना॑ गृही॒तस्स्यात् ।
भट्टभास्कर-टीका
13अथातः पयस्यां विदधाति ब्राह्मणम् - इन्द्रो वा एतस्येत्यादि ॥ अस्येन्द्रियेण सह इन्द्रोपक्रामति, वरुणश्चैनं वरुणपाशेन गृह्णाति, यः पाप्मना गृहीतो भवति ।
विश्वास-प्रस्तुतिः
तस्मा॑ ए॒तामै॑न्द्रावरु॒णीम्प॑य॒स्या॑न्निर्व॑पेत् ।
इन्द्र॑ ए॒वास्मि॑न्निन्द्रि॒यन्द॑धाति ।
वरु॑ण एनव्ँवरुणपा॒शान्मु॑ञ्चति ।
मूलम्
तस्मा॑ ए॒तामै॑न्द्रावरु॒णीम्प॑य॒स्या॑न्निर्व॑पेत् ।
इन्द्र॑ ए॒वास्मि॑न्निन्द्रि॒यन्द॑धाति ।
वरु॑ण एनव्ँवरुणपा॒शान्मु॑ञ्चति ।
भट्टभास्कर-टीका
यस्मादेवं तस्माद्यः पाप्माना गृहीतस्स्यात् तस्मै तत्पापशमनार्थं ऐन्द्रावरुणीं पयस्यां निर्वपेत् । पयसि भवः पयस्या आमिक्षा । अत्रायं प्रयोगः - इन्द्रावरुणाभ्यां चतुरो मुष्टीन्व्रीहीणान्निरुप्य दक्षिणार्धे गार्हपत्यस्यैकादश कपालान्युपदधाति । यदैवं पुरोडाशमधिवृणक्ति तदा एतामामिक्षां गार्हपत्ये अधिश्रयति । अथैतं पुरोडाशमुपस्तीर्णाभिघारितमुद्वास्यामिक्षायां संप्रवेश्या न्तर्वेद्यासादयतीति ॥
मूलम् (संयुक्तम्)
पय॒स्या॑ भवति॒ पयो॒ हि वा ए॒तस्मा॑दप॒क्राम॒त्यथै॒ष पा॒प्मना॑ गृही॒तो यत्प॑य॒स्या॑ भव॑ति॒ पय॑ ए॒वास्मि॒न्तया॑ दधाति
विश्वास-प्रस्तुतिः
प॒य॒स्या॑ भवति ।
पयो॒ हि वा ए॒तस्मा॑दप॒क्रामति ।
अथै॒ष पा॒प्मना॑ गृही॒तो यत्प॑य॒स्या॑ भव॑ति ।
पय॑ ए॒वास्मि॒न्तया॑ दधाति ।
मूलम्
प॒य॒स्या॑ भवति ।
पयो॒ हि वा ए॒तस्मा॑दप॒क्रामति ।
अथै॒ष पा॒प्मना॑ गृही॒तो यत्प॑य॒स्या॑ भव॑ति ।
पय॑ ए॒वास्मि॒न्तया॑ दधाति ।
भट्टभास्कर-टीका
14पयस्या भवतीत्यादि ॥ गतम् ॥
मूलम् (संयुक्तम्)
पय॒स्या॑याम् [49] पु॒रो॒डाश॒मव॑ दधात्यात्म॒न्वन्त॑मे॒वैन॑ङ्करोति
विश्वास-प्रस्तुतिः
प॒य॒स्या॑याम्पुरो॒डाश॒मव॑ दधाति ।
आ॒त्म॒न्वन्त॑मे॒वैन॑ङ्करोति ।
मूलम्
प॒य॒स्या॑याम्पुरो॒डाश॒मव॑ दधाति ।
आ॒त्म॒न्वन्त॑मे॒वैन॑ङ्करोति ।
भट्टभास्कर-टीका
15पयस्यायामिति ॥ आमिक्षायां संप्रच्छाद्य पुरोडाशमासादयति - आत्मन्वन्तमिति । आत्मवत्त्वं बलवत्वम् । ‘अनोनुट्’ ‘ह्रस्वनुड्भ्याम्’ इति मतुप उदात्तत्त्वम् ।
विश्वास-प्रस्तुतिः
अथो॑ आ॒यत॑नवन्तमे॒व +++(करोति)+++ ।
मूलम्
अथो॑ आ॒यत॑नवन्तमे॒व +++(करोति)+++ ।
भट्टभास्कर-टीका
अथो अपि च आयतनवन्तं गृहवन्तमेवैनं करोति अनेन प्रच्छादनेन पयस्यायां पिधानेन ॥
विश्वास-प्रस्तुतिः
च॒तु॒र्धा व्यू॑हति ।
मूलम्
च॒तु॒र्धा व्यू॑हति ।
भट्टभास्कर-टीका
16चतुर्धेति ॥ प्रतिदिशं पयस्यां व्यूहति पुरोडाशं चतुर्धा कृत्वा व्यूहति ।
विश्वास-प्रस्तुतिः
दि॒क्ष्वे॑व प्रति॑ तिष्ठति ।
मूलम्
दि॒क्ष्वे॑व प्रति॑ तिष्ठति ।
भट्टभास्कर-टीका
एतेन दिक्षु प्रतिष्ठितो भवति ॥
विश्वास-प्रस्तुतिः
पुन॒स्समू॑हति ।
दि॒ग्भ्य ए॒वास्मै॑ भेष॒जङ्क॑रोति ।
मूलम्
पुन॒स्समू॑हति ।
दि॒ग्भ्य ए॒वास्मै॑ भेष॒जङ्क॑रोति ।
भट्टभास्कर-टीका
17पुनस्समूहतीति ॥ दिग्भ्योवकृष्य समूहीकरोति । दिग्भ्य एवाकृष्यास्मै यजमानाय भेषजं पापरोगशमनं करोति ॥
विश्वास-प्रस्तुतिः
स॒मूह्याव॑ द्यति ।
मूलम्
स॒मूह्याव॑ द्यति ।
भट्टभास्कर-टीका
18समूह्येति ॥ पयस्यया सह पुरोडाशस्यावद्यति ।
विश्वास-प्रस्तुतिः
यथावि॑द्धन्निष्कृ॒न्तति॑ ता॒दृगे॒व तत् ।
मूलम्
यथावि॑द्धन्निष्कृ॒न्तति॑ ता॒दृगे॒व तत् ।
भट्टभास्कर-टीका
यथेति । आविद्धं दोषेण पीडितं निष्कृन्तति कर्तनेन निष्कालितदोषं करोति तादृशीदं [दृशमिदं] समूह्यावदानम् ॥
मूलम् (संयुक्तम्)
यो वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यज॒ इत्या॑ह॒ दुरि॑ष्ट्या ए॒वैन॑म्पाति ।
विश्वास-प्रस्तुतिः
यो वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यज॒ इत्या॑ह ।
दुरि॑ष्ट्या ए॒वैन॑म्पाति ।
मूलम्
यो वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यज॒ इत्या॑ह ।
दुरि॑ष्ट्या ए॒वैन॑म्पाति ।
भट्टभास्कर-टीका
19यो वामित्यादय उक्ता उपहोमाः ॥ दुरिष्ट्या इति । अग्नौ कृतं पापं दुरिष्टिरेवेति । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
यो वा॑मिन्द्रावरुणा द्वि॒पात्सु॑ प॒शुषु॒ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यज॒ इत्या॑है॒ताव॑ती॒र्वा आप॒ ओष॑धयो॒ वन॒स्पत॑यᳶ प्र॒जाᳶ प॒शव॑ उपजीव॒नीया॒स्ता ए॒वास्मै॑ वरुणपा॒शान्मु॑ञ्चति ॥ [50]
विश्वास-प्रस्तुतिः
यो वा॑मिन्द्रावरुणा द्वि॒पात्सु॑ प॒शुषु॒ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यज॒ इत्या॑ह ।
मूलम्
यो वा॑मिन्द्रावरुणा द्वि॒पात्सु॑ प॒शुषु॒ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यज॒ इत्या॑ह ।
भट्टभास्कर-टीका
20’यो वामिन्द्रावरुणा द्विपात्सु पशुषु स्रामः’ इति द्वितीयमन्त्रं दर्शयति । उपलक्षणं चैतत्तृतीयादीनाम् ।
विश्वास-प्रस्तुतिः
ए॒ताव॑ती॒र्वा आप॒ ओष॑धयो॒ वन॒स्पत॑यᳶ प्र॒जाᳶ प॒शव॑ उपजीव॒नीयाः ।
मूलम्
ए॒ताव॑ती॒र्वा आप॒ ओष॑धयो॒ वन॒स्पत॑यᳶ प्र॒जाᳶ प॒शव॑ उपजीव॒नीयाः ।
भट्टभास्कर-टीका
एतावतीर्वा इत्यादि । प्रजायन्त इति प्रजाः । ‘अन्येष्वपि दृश्यते’ इति डः । आप ओषधयो वनस्पतयः पशवश्च द्विप्रकारा इत्येतावत्यः प्रजाः प्राणिनामुपजीवनीयाः । तस्मादुपजीवनत्वादेषामेव मन्त्रेषूपादानम् न सर्वादीनामिति भावः ।
विश्वास-प्रस्तुतिः
ता ए॒वास्मै॑ वरुणपा॒शान्मु॑ञ्चति ॥
मूलम्
ता ए॒वास्मै॑ वरुणपा॒शान्मु॑ञ्चति ॥
भट्टभास्कर-टीका
एताश्च एतैरुपहोमैः वरुणपाशात् मुञ्चत्यस्मै यजमानाय, यथास्यापहतपाप्मन उपजीवास्स्युरिति ॥
इति तृतीये त्रयोदशोनुवाकः ॥