विश्वेदेवा ऋषयः ।
मूलम् (संयुक्तम्)
प्र॒जाप॑ति॒र्वरु॑णा॒याश्व॑मनय॒त्स स्वान्दे॒वता॑मार्च्छ॒त्स पर्य॑दीर्यत॒ स ए॒तव्ँवा॑रु॒णञ्चतु॑ष्कपालमपश्य॒त्तन्निर॑वप॒त्ततो॒ वै स व॑रुणपा॒शाद॑मुच्यत॒ वरु॑णो॒ वा ए॒तङ्गृ॑ह्णाति॒ योऽश्व॑म्प्रतिगृ॒ह्णाति॒ याव॒तोऽश्वा॑न्प्रतिगृह्णी॒यात्ताव॑तो वारु॒णाञ्चतु॑ष्कपाला॒न्निर्व॑पे॒द्वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनव्ँ॑वरुणपा॒शान्मु॑ञ्चति [46] चतु॑ष्कपाला भवन्ति॒ चतु॑ष्पा॒द्ध्यश्व॒स्समृ॑द्ध्यै
विश्वास-प्रस्तुतिः
प्र॒जाप॑ति॒र्वरु॑णा॒याश्व॑मनयत् ।
मूलम्
प्र॒जाप॑ति॒र्वरु॑णा॒याश्व॑मनयत् ।
भट्टभास्कर-टीका
1प्राजापत्यो वा अश्व इति ॥+++(इदं प्रतीकं मूले न दृश्यते)+++ प्रजापतिरात्मदेवत्यमश्वं वरुणायानयत् अददात् ।
विश्वास-प्रस्तुतिः
स स्वान्दे॒वता॑मार्च्छत् ।
मूलम्
स स्वान्दे॒वता॑मार्च्छत् ।
भट्टभास्कर-टीका
सोश्वं ददन्स्वमात्मानमश्वस्य देवतामार्छत् आर्तामकरोत्, ईशितव्यापगमात् देवतात्वहानिरेवार्तिः ।
विश्वास-प्रस्तुतिः
स पर्य॑दीर्यत ।
मूलम्
स पर्य॑दीर्यत ।
भट्टभास्कर-टीका
ततश्च स प्रजापतिः विगळितदेवताभावः परितस्सर्वतोऽदीर्यत विपन्नोभवत् वरुणपाशैर्गृहीत इत्यर्थः ।
विश्वास-प्रस्तुतिः
स ए॒तव्ँवा॑रु॒णञ्चतु॑ष्कपालमपश्यत् ।
तन्निर॑वपत् ।
मूलम्
स ए॒तव्ँवा॑रु॒णञ्चतु॑ष्कपालमपश्यत् ।
तन्निर॑वपत् ।
भट्टभास्कर-टीका
तदेवाह - वरुणो वा इत्यादि ।
ननु प्रतिग्रहीतुरिदमुच्यते ; प्रतिगृह्णातीतिदर्शनात् । नैवम् । उपक्रमावगतदातृश्रुतिविरोधात् ; दातृविषयमेवेदं विपरिणम्यते । उक्तं चेदं न्यायविधिः ‘अवैदिकं च [अचोदितं] कर्मभेदात्’ इत्यत्र ‘सालिङ्गादार्त्विजे स्यात्’ इति । तस्मादुपक्रमोपसंहाराविरोधात्मकलिङ्गबलेन प्रतिग्राहयतीत्यर्थो युज्यते ।
विश्वास-प्रस्तुतिः
ततो॒ वै स व॑रुणपा॒शाद॑मुच्यत ।
वरु॑णो॒ वा ए॒तङ्गृ॑ह्णाति ।
मूलम्
ततो॒ वै स व॑रुणपा॒शाद॑मुच्यत ।
वरु॑णो॒ वा ए॒तङ्गृ॑ह्णाति ।
भट्टभास्कर-टीका
तस्माद्दाता प्रजापतिः वारुणेन चतुष्कपालेन वरुणपाशादमुच्यत ।
विश्वास-प्रस्तुतिः
योऽश्व॑म्प्रतिगृ॒ह्णाति॑।
याव॒तोऽश्वा॑न्प्रतिगृह्णी॒यात् ।
ताव॑तो वारु॒णाञ्चतु॑ष्कपाला॒न्निर्व॑पेत् ।
मूलम्
योऽश्व॑म्प्रतिगृ॒ह्णाति॑।
याव॒तोऽश्वा॑न्प्रतिगृह्णी॒यात् ।
ताव॑तो वारु॒णाञ्चतु॑ष्कपाला॒न्निर्व॑पेत् ।
भट्टभास्कर-टीका
तस्मादन्योपि यावतोश्वान्प्रतिगृह्णीयात्प्रतिग्राहयेत् तावतो वारुणान् चतुष्कपालान्निर्वपेदिति । इदं वैदिकेश्वप्रतिग्रह इति वेदितव्यम् । उक्तं हि ‘दोषात्त्विष्टिर्लौकिके स्यात्’ इत्यत्र ‘अर्थवादो वानपवादात्तस्माद्यज्ञे प्रतीयते’ इति । तत्रान्तर्भावितण्यर्थो गृह्णातिर्वेदितव्यः । यद्वा - ण्यन्तादेव लकारे बहुलमन्यत्रापि’ इति णिलुक्, तत्र व्यत्ययेन श्नाप्रत्ययः ।
केचिदाहुः - ‘वारुणो वा अश्वः’ इति वरुणदेवत्योश्वः ; स प्रजापतिना वरुणाय दीयमानो वरुणं स्वां देवतामपि आत्मीयदेवतात्वेन वर्तमानमपि प्रतिग्रहस्य दुष्टत्वात् आर्तमकरोत् ।
+++(स पर्य॑दीर्यत)+++
स वरुणः पर्यदीर्यत वरुणपाशैर्गृहीतो व्यापद्यत ।
+++(स ए॒तव्ँवा॑रु॒णञ्चतु॑ष्कपालमपश्यत् । तन्निर॑वपत् ।)+++
अथ स वरुणो वारुणं चातुष्कपालं दृष्ट्वा वरुणाय निरवपत् ।
+++(ततो॒ वै स व॑रुणपा॒शाद॑मुच्यत।)+++
ततो वरुणो वरुणपाशादमुच्यत । वारकं वा पापं वरुणः ।
+++(योऽश्व॑म्प्रतिगृ॒ह्णाति॑। )+++
यो नाम कश्चित् वरुणाख्यो वा अश्वं प्रतिगृह्णाति वरुण एनं गृह्णाति ।
+++(याव॒तोऽश्वा॑न्प्रतिगृह्णी॒यात् । ताव॑तो वारु॒णाञ्चतु॑ष्कपाला॒न्निर्व॑पेत् ।)+++
तस्मात् ‘यावतोश्वान्’ इति प्रतिग्रहीतुरेव विधीयते इति । तदिदं न्यायविरुद्धमित्यादिना नाद्रियामहे ।
ननु कथमेकस्यैव देवतात्वं यजमानत्वं च स्यात्? । नैष दोषः । ‘इन्द्रो वै सदृङ् देवताभिरासीत्’ इत्यत्र यथा इन्द्र आत्मार्थमैन्द्रमानुषूकमेकादशकपालं विदधाति, यथा ‘वरुणं सुषुवाणम्’ इत्यत्र वरुणो वारुणीं वशामालभते एवमिदं भविष्यति ॥
मूलम् (संयुक्तम्)
एक॒मति॑रिक्त॒न्निर्व॑पे॒द्यमे॒व प्र॑तिग्रा॒ही भव॑ति॒ यव्ँवा॒ नाध्येति॒ तस्मा॑दे॒व व॑रुणपा॒शान्मु॑च्यते
विश्वास-प्रस्तुतिः
एक॒मति॑रिक्त॒न्निर्व॑पेत् ।
मूलम्
एक॒मति॑रिक्त॒न्निर्व॑पेत् ।
भट्टभास्कर-टीका
2एकमतिरिक्तमिति ॥ यावतः प्रतिगृह्णीयात्तेभ्योतिरिक्तं निर्वपेत् ; यथा षट्प्रतिगृह्य सप्तमं निर्वपेदिति ।
विश्वास-प्रस्तुतिः
यमे॒व प्र॑तिग्रा॒ही भव॑ति ।
यव्ँवा॒ नाध्येति॑ ।
तस्मा॑दे॒व व॑रुणपा॒शान्मु॑च्यते ।
मूलम्
यमे॒व प्र॑तिग्रा॒ही भव॑ति ।
यव्ँवा॒ नाध्येति॑ ।
तस्मा॑दे॒व व॑रुणपा॒शान्मु॑च्यते ।
भट्टभास्कर-टीका
यमेवेति । यं प्रतिग्रहीष्यन्भवति यं वा पूर्वप्रतिगृहीतं नाध्येति नाधिगच्छति न स्मरति वा तस्मात्सर्वस्मान्निमित्तात् उपजाताद्वरुणपाशान्मुच्यते । ‘अकेनोर्भविष्यदाधमर्ण्ययोः’ इति षष्ठीप्रतिषेधः ॥
मूलम् (संयुक्तम्)
यद्यप॑रम्प्रतिग्रा॒ही स्यात्सौ॒र्यमेक॑कपाल॒मनु॒ निर्व॑पेद॒मुमे॒वादि॒त्यमु॑च्चा॒रङ्कु॑रुते
विश्वास-प्रस्तुतिः
यद्यप॑रम्प्रतिग्रा॒ही स्यात् ।
सौ॒र्यमेक॑कपाल॒मनु॒ निर्व॑पेत् ।
मूलम्
यद्यप॑रम्प्रतिग्रा॒ही स्यात् ।
सौ॒र्यमेक॑कपाल॒मनु॒ निर्व॑पेत् ।
भट्टभास्कर-टीका
3यद्यपरमिति ॥ अश्वप्रतिग्राही कृत्वापि वारुणीमिष्टिं यदि भूयोपि प्रतिग्रहीष्यन् स्यात्सौर्यमेककपालमनुनिर्वपेत् । अपरमिति क्रियाविशेषणम् ।
विश्वास-प्रस्तुतिः
अ॒मुमे॒वादि॒त्यमु॑च्चा॒रङ्कु॑रुते ।
मूलम्
अ॒मुमे॒वादि॒त्यमु॑च्चा॒रङ्कु॑रुते ।
भट्टभास्कर-टीका
अमुमादित्यमुच्चारं उच्छ्रिताचारं उपरि चरन्तं वा कुरुते, ततस्स एव वरुणपाशादिदोषं परिहरिष्यतीति ॥
मूलम् (संयुक्तम्)
अपो॑ऽवभृ॒थमवै॑त्य॒प्सु वै वरु॑णस्सा॒क्षादे॒व वरु॑ण॒मव॑ यजतेऽपोन॒प्त्रीय॑ञ्च॒रुम्पुन॒रेत्य॒ निर्व॑पेद॒प्सुयो॑नि॒र्वा अश्व॒स्स्वामे॒वैनय्ँ॒योनि॑ङ्गमयति॒ स ए॑नँ शा॒न्त उप॑ तिष्ठते ॥ [47]
विश्वास-प्रस्तुतिः
अ॒पो॑ऽवभृ॒थमवै॑ति ।
अ॒प्सु वै वरु॑णस्सा॒क्षादे॒व वरु॑ण॒मव॑ यजते ।
मूलम्
अ॒पो॑ऽवभृ॒थमवै॑ति ।
अ॒प्सु वै वरु॑णस्सा॒क्षादे॒व वरु॑ण॒मव॑ यजते ।
भट्टभास्कर-टीका
4अपोवभृथकर्मार्थमवैति ॥ अपोनप्त्रीयं चरुमवभृथादेत्य पुनर्निर्वपेत् । ‘अपोनप्त्रपांनप्तृभ्यां घः’ ‘छ च’ इति छप्रत्ययः ।
विश्वास-प्रस्तुतिः
अ॒पो॒न॒प्त्री॒य॑ञ्च॒रुम् पुन॒रेत्य॒ निर्व॑पेत् ।
मूलम्
अ॒पो॒न॒प्त्री॒य॑ञ्च॒रुम् पुन॒रेत्य॒ निर्व॑पेत् ।
भट्टभास्कर-टीका
अपांनप्ता चतुर्थः अपोनप्ता । छान्दसो युगगं [सोलुक्] ।
विश्वास-प्रस्तुतिः
अ॒प्सुयो॑नि॒र्वा अश्व॒स्स्वामे॒वैनय्ँ॒योनि॑ङ्गमयति ।
मूलम्
अ॒प्सुयो॑नि॒र्वा अश्व॒स्स्वामे॒वैनय्ँ॒योनि॑ङ्गमयति ।
भट्टभास्कर-टीका
अप्सुयोनिरिति । ‘अपो योनियन्मतुषु सप्तम्या अलुक्’ इत्यलुक् ।
विश्वास-प्रस्तुतिः
स ए॑नँ शा॒न्त उप॑ तिष्ठते ॥
मूलम्
स ए॑नँ शा॒न्त उप॑ तिष्ठते ॥
भट्टभास्कर-टीका
शान्त इति । निवृत्तवरुणपाशादिदोषस्सुखहेतुरेवोपतिष्ठते मित्रवदुपसंप्राप्नोति ॥
इति तृतीये द्वादशोनुवाकः ॥