विश्वेदेवा ऋषयः ।
मूलम् (संयुक्तम्)
अ॒ग्निव्ँवा ए॒तस्य॒ शरी॑रङ्गच्छति॒ सोमँ॒ रसो॒ वरु॑ण एनव्ँवरुणपा॒शेन॑ गृह्णाति॒ सर॑स्वतीव्ँ॒वाग॒ग्नाविष्णू॑ आ॒त्मा यस्य॒ ज्योगा॒मय॑ति॒ यो ज्योगा॑मयावी॒ स्याद्यो वा॑ का॒मये॑त॒ सर्व॒मायु॑रिया॒मिति॒ तस्मा॑ ए॒तामिष्टि॒न्निर्व॑पेदाग्ने॒यम॒ष्टाक॑पालँ सौ॒म्यञ्च॒रुव्ँवा॑रु॒णन्दश॑कपालँ सारस्व॒तञ्च॒रुमा॑ग्नावैष्ण॒वमेका॑दशकपालम्
विश्वास-प्रस्तुतिः
अ॒ग्निव्ँवा ए॒तस्य॒ शरी॑रङ्गच्छति ।
सोमँ॒ रसो॒ वरु॑ण एनव्ँवरुणपा॒शेन॑ गृह्णाति ।
सर॑स्वतीव्ँ॒वाग॒ग्नाविष्णू॑ आ॒त्मा ।
यस्य॒ ज्योगा॒मय॑ति ।
यो ज्योगा॑मयावी॒ स्यात् ।
यो वा॑ का॒मये॑त॒ सर्व॒मायु॑रिया॒मिति ।
तस्मा॑ ए॒तामिष्टि॒न्निर्व॑पेत् ।
आ॒ग्ने॒यम॒ष्टाक॑पालँ सौ॒म्यञ्च॒रुम् ।
वा॒रु॒णन्दश॑कपालँ सारस्व॒तञ्च॒रुम् ।
आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपालम्।
मूलम्
अ॒ग्निव्ँवा ए॒तस्य॒ शरी॑रङ्गच्छति ।
सोमँ॒ रसो॒ वरु॑ण एनव्ँवरुणपा॒शेन॑ गृह्णाति ।
सर॑स्वतीव्ँ॒वाग॒ग्नाविष्णू॑ आ॒त्मा ।
यस्य॒ ज्योगा॒मय॑ति ।
यो ज्योगा॑मयावी॒ स्यात् ।
यो वा॑ का॒मये॑त॒ सर्व॒मायु॑रिया॒मिति ।
तस्मा॑ ए॒तामिष्टि॒न्निर्व॑पेत् ।
आ॒ग्ने॒यम॒ष्टाक॑पालँ सौ॒म्यञ्च॒रुम् ।
वा॒रु॒णन्दश॑कपालँ सारस्व॒तञ्च॒रुम् ।
आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपालम्।
भट्टभास्कर-टीका
1इदानीं तां पञ्चहविषमिष्टिं विदधाति - अग्निं वा इत्यादि ॥ यस्य ज्योक् नित्यमामयत्यामयः तस्य शरीरादीन्यग्न्यादीन् देवान् गच्छन्ति स्व कारणानुप्रवेशात् कार्यरूपनाशात्कर्तरि का र्यशक्त्युपसंहारस्स्यात् । ‘रुजार्थानाम्’ इति यस्येति कर्मणि षष्ठी । यो ज्योगामयावीत्यादि ॥ गतम् ॥
मूलम् (संयुक्तम्)
अग्नेरे॒वास्य॒ शरी॑रन्निष्क्री॒णाति॒ सोमा॒द्रस॑म् [41] वा॒रु॒णेनै॒वैनव्ँ॑वरुणपा॒शान्मु॑ञ्चति सारस्व॒तेन॒ वाच॑न्दधात्य॒ग्निस्सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता॑भिश्चै॒वैनय्ँ॑ य॒ज्ञेन॑ च भिषज्यत्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व
विश्वास-प्रस्तुतिः
अ॒ग्नेरे॒वास्य॒ शरी॑रन्निष्क्री॒णाति ।
सोमा॒द्रसव्ँ॑वारु॒णेनै॒वैनव्ँ॑वरुणपा॒शान्मु॑ञ्चति ।
सा॒र॒स्व॒तेन॒ वाच॑न्दधाति ।
अ॒ग्निस्सर्वा॑ दे॒वताः॒ , विष्णु॑र्य॒ज्ञो दे॒वता॑भिश्चै॒वैनय्ँ॑ य॒ज्ञेन॑ च भिषज्यति ।
उ॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ।
मूलम्
अ॒ग्नेरे॒वास्य॒ शरी॑रन्निष्क्री॒णाति ।
सोमा॒द्रसव्ँ॑वारु॒णेनै॒वैनव्ँ॑वरुणपा॒शान्मु॑ञ्चति ।
सा॒र॒स्व॒तेन॒ वाच॑न्दधाति ।
अ॒ग्निस्सर्वा॑ दे॒वताः॒ , विष्णु॑र्य॒ज्ञो दे॒वता॑भिश्चै॒वैनय्ँ॑ य॒ज्ञेन॑ च भिषज्यति ।
उ॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ।
भट्टभास्कर-टीका
2अग्नेरेवेत्यादि ॥ यत्रयत्र शरीरादीनि गतानि तेभ्यस्तानि निष्क्रीणाति हविःप्रदानेन । ततोसौ यजमानः यद्यपि गतासुर्भवति जीवत्येव, किं पुनरायुश्शेषवतामामयनिवृत्तिर्भवतीति । यद्वा - यागबलेन आमयश्च नश्यति, सर्वं चायुश्शतसंवत्सरप्रमाणं लभते ॥
मूलम् (संयुक्तम्)
यन्नव॒मैत्तन्नव॑नीतमभव॒दित्याज्य॒मवे॑क्षते रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्व्ँयाच॑ष्टे
विश्वास-प्रस्तुतिः
यन्नव॒मैत्तन्नव॑नीतमभव॒त् इत्याज्य॒मवे॑क्षते ।
रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्व्ँयाच॑ष्टे ।
मूलम्
यन्नव॒मैत्तन्नव॑नीतमभव॒त् इत्याज्य॒मवे॑क्षते ।
रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्व्ँयाच॑ष्टे ।
भट्टभास्कर-टीका
3आज्यमवेक्षत इति ॥ अस्य मन्त्रस्यैतद्रूपमेव विनैव व्याख्यानं आज्यस्य महिमानं व्याचष्टे व्याकरोति अवस्थात्रयविवरणात् ॥
मूलम् (संयुक्तम्)
अश्विनोः॑ प्रा॒णो॑ऽसीत्या॑हा॒श्विनौ॒ वै दे॒वाना॑म् [42] भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जङ्क॑रो॒तीन्द्र॑स्य प्रा॒णो॑ऽसीत्या॑हेन्द्रि॒यमे॒वास्मि॑न्ने॒तेन॑ दधाति मि॒त्रावरु॑णयोᳶ प्रा॒णो॑ऽसीत्या॑ह प्राणापा॒नावे॒वास्मि॑न्ने॒तेन॑ दधाति॒ विश्वे॑षान्दे॒वाना॑म्प्रा॒णो॑ऽसीत्या॑ह वी॒र्य॑मे॒वास्मि॑न्ने॒तेन॑ दधाति
विश्वास-प्रस्तुतिः
अ॒श्विनोः॑ प्रा॒णो॑ऽसीत्या॑ह ।
अ॒श्विनौ॒ वै दे॒वाना॑म् भि॒षजौ॒ , ताभ्या॑मे॒वास्मै॑ भेष॒जङ्क॑रोति ।
इन्द्र॑स्य प्रा॒णो॑ऽसीत्या॑ह ।
इ॒न्द्रि॒यमे॒वास्मि॑न्ने॒तेन॑ दधाति ।
मि॒त्रावरु॑णयोᳶ प्रा॒णो॑ऽसीत्या॑ह ।
प्रा॒णा॒पा॒नावे॒वास्मि॑न्ने॒तेन॑ दधाति ।
विश्वे॑षान्दे॒वाना॑म्प्रा॒णो॑ऽसीत्या॑ह ।
वी॒र्य॑मे॒वास्मि॑न्ने॒तेन॑ दधाति ।
मूलम्
अ॒श्विनोः॑ प्रा॒णो॑ऽसीत्या॑ह ।
अ॒श्विनौ॒ वै दे॒वाना॑म् भि॒षजौ॒ , ताभ्या॑मे॒वास्मै॑ भेष॒जङ्क॑रोति ।
इन्द्र॑स्य प्रा॒णो॑ऽसीत्या॑ह ।
इ॒न्द्रि॒यमे॒वास्मि॑न्ने॒तेन॑ दधाति ।
मि॒त्रावरु॑णयोᳶ प्रा॒णो॑ऽसीत्या॑ह ।
प्रा॒णा॒पा॒नावे॒वास्मि॑न्ने॒तेन॑ दधाति ।
विश्वे॑षान्दे॒वाना॑म्प्रा॒णो॑ऽसीत्या॑ह ।
वी॒र्य॑मे॒वास्मि॑न्ने॒तेन॑ दधाति ।
भट्टभास्कर-टीका
4अश्विनोरित्यादि ॥ पुरस्तात्स्विष्टकृतः स्रुवाहुत्युपहोममन्त्रा एते ॥
मूलम् (संयुक्तम्)
घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मित्या॑ह यथाय॒जुरे॒वैतत्
विश्वास-प्रस्तुतिः
घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मित्या॑ह ।
य॒था॒य॒जु॒रे॒वैतत् ।
मूलम्
घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मित्या॑ह ।
य॒था॒य॒जु॒रे॒वैतत् ।
भट्टभास्कर-टीका
5घृतस्य धारामित्यादि ॥ अनेन यजमानमाज्यमवेक्षयति । यथायजुरिति । अमृतत्वप्राप्तिहेतुत्वमस्य यथा यजुर्वदति एतदेव भवति ॥
मूलम् (संयुक्तम्)
पा॑वमा॒नेन॑ त्वा॒ स्तोमे॒नेति॑ [43] आ॒ह॒ प्रा॒णमे॒वास्मि॑न्ने॒तेन॑ दधाति बृहद्रथन्त॒रयो॑स्त्वा॒ स्तोमे॒नेत्या॒हौज॑ ए॒वास्मि॑न्ने॒तेन॑ दधात्य॒ग्नेस्त्वा॒ मात्र॒येत्या॑हा॒त्मान॑मे॒वास्मि॑न्ने॒तेन॑ दधात्यृ॒त्विज॒ᳶ पर्या॑हु॒र्याव॑न्त ए॒वर्त्विज॒स्त ए॑नम्भिषज्यन्ति ब्र॒ह्मणो॒ हस्त॑मन्वा॒रभ्य॒ पर्या॑हुरेक॒धैव यज॑मान॒ आयु॑र्दधति॒ यदे॒व तस्य॒ तत्
विश्वास-प्रस्तुतिः
पा॑वमा॒नेन॑ त्वा॒ स्तोमे॒नेत्या॑ह ।
प्रा॒णमे॒वास्मि॑न्ने॒तेन॑ दधाति ।
बृ॒ह॒द॒थन्त॒रयो॑स्त्वा स्तोमे॒नेत्या॑ह ।
ओज॑ ए॒वास्मि॑न्ने॒तेन॑ दधाति ।
अ॒ग्नेस्त्वा॒ मात्र॒येत्या॑ह ।
आ॒त्मान॑मे॒वास्मि॑न्ने॒तेन॑ दधाति ।
मूलम्
पा॑वमा॒नेन॑ त्वा॒ स्तोमे॒नेत्या॑ह ।
प्रा॒णमे॒वास्मि॑न्ने॒तेन॑ दधाति ।
बृ॒ह॒द॒थन्त॒रयो॑स्त्वा स्तोमे॒नेत्या॑ह ।
ओज॑ ए॒वास्मि॑न्ने॒तेन॑ दधाति ।
अ॒ग्नेस्त्वा॒ मात्र॒येत्या॑ह ।
आ॒त्मान॑मे॒वास्मि॑न्ने॒तेन॑ दधाति ।
भट्टभास्कर-टीका
6पावमानेनेत्यादि ॥ ब्रह्मणो हस्तमन्वारभ्य ऋत्विजः पर्याहुरिमान् मन्त्रान् ।
विश्वास-प्रस्तुतिः
ऋ॒त्विज॒ᳶ पर्या॑हुः ।
याव॑न्त ए॒वर्त्विज॒स्त ए॑नम्भिषज्यन्ति ।
मूलम्
ऋ॒त्विज॒ᳶ पर्या॑हुः ।
याव॑न्त ए॒वर्त्विज॒स्त ए॑नम्भिषज्यन्ति ।
भट्टभास्कर-टीका
तदेवाह - ऋत्विजः पर्याहुरिति । परित आसीना आहुः ।
विश्वास-प्रस्तुतिः
ब्र॒ह्मणो॒ हस्त॑मन्वा॒रभ्य॒ पर्या॑हुः ।
एक॒धैव यज॑मान॒ आयु॑र्दधति ।
यदे॒व तस्य॒ तत् ।
मूलम्
ब्र॒ह्मणो॒ हस्त॑मन्वा॒रभ्य॒ पर्या॑हुः ।
एक॒धैव यज॑मान॒ आयु॑र्दधति ।
यदे॒व तस्य॒ तत् ।
भट्टभास्कर-टीका
ब्रह्मण इति । हस्तमन्वारभ्य परिवचनात्सर्वमस्यायुरेकधा कृत्वा अस्मिन् दधति यदेव तस्यायुस्तदेव दधति ॥
मूलम् (संयुक्तम्)
हिर॑ण्यात् [44] घृ॒तन्निष्पि॑ब॒त्यायु॒र्वै घृ॒तम॒मृतँ॒ हिर॑ण्यम॒मृता॑दे॒वायु॒र्निष्पि॑बति श॒तमा॑नम्भवति श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठ॒त्यथो॒ खलु॒ याव॑ती॒स्समा॑ ए॒ष्यन्मन्ये॑त॒ ताव॑न्मानँ स्या॒त्समृ॑द्ध्यै
विश्वास-प्रस्तुतिः
हिर॑ण्याद्घृ॒तन्निष्पि॑बति ।
मूलम्
हिर॑ण्याद्घृ॒तन्निष्पि॑बति ।
भट्टभास्कर-टीका
7हिरण्यादिति ॥ अयमत्र प्रयोगः - यावतीस्समा एष्यन्मन्येत तावन्मानं सौवर्णं प्रवर्तं कुण्डलमुपकल्प्य खादिरे नवे पात्रे उपस्तीर्णाभिघारितं सह हविर्भिरन्तर्वेद्यासाद्य उपहोमान् हुत्वा संस्रावैः प्रवर्तमभिघार्य अग्रेणाहवनीयं पर्याहृत्य दक्षिणतो निधाय यजमानमवेक्षयति । अथायमवेक्ष्यास्माद्धिरण्यान्निष्पतत् घृतं पिबति । यद्वा - हिरण्यलग्नं घृतं निष्शेषं पिबति ।
विश्वास-प्रस्तुतिः
आयु॒र्वै घृ॒तम् , अ॒मृतँ॒ हिर॑ण्यम्,
अ॒मृता॑दे॒वायु॒र्निष्पि॑बति ।
मूलम्
आयु॒र्वै घृ॒तम् , अ॒मृतँ॒ हिर॑ण्यम्,
अ॒मृता॑दे॒वायु॒र्निष्पि॑बति ।
भट्टभास्कर-टीका
आयुर्वा इति । उभयत्रापि तद्धेतुत्वात्ताच्छब्द्यम् ।
विश्वास-प्रस्तुतिः
श॒तमा॑नम्भवति ।
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति ।
मूलम्
श॒तमा॑नम्भवति ।
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति ।
भट्टभास्कर-टीका
शतमानमिति । शतगुञ्जाप्रमाणं प्रवर्ताकारं सुवर्णं भवति । गुञ्जफलाकारः कर्णवेष्टः । प्रवर्तस्य शतसंख्यात्वात्तत्प्रमाणयुषामस्य लाभः ।
विश्वास-प्रस्तुतिः
अथो॒ खलु॒ याव॑ती॒स्समा॑ ए॒ष्यन् मन्ये॑त ..
मूलम्
अथो॒ खलु॒ याव॑ती॒स्समा॑ ए॒ष्यन् मन्ये॑त ..
भट्टभास्कर-टीका
अथो खल्विति पक्षान्तरं दर्शयति । यावतस्संवत्सरानेष्यन् जीवितुं मन्येत तावन्मानं कुर्यात् प्रवर्तकम् । यजमानस्य गतानि वर्षाणि शताच्छोधयित्वा शिष्टसम्मितक्रमनिर्मितं कुर्यात् ।
विश्वास-प्रस्तुतिः
ताव॑न्मानँ स्या॒त्समृ॑द्ध्यै ।
मूलम्
ताव॑न्मानँ स्या॒त्समृ॑द्ध्यै ।
भट्टभास्कर-टीका
एवं हि अभिमतसङ्ख्यान्वयात् समृद्ध्यै भवति ॥
मूलम् (संयुक्तम्)
इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृ॒धीत्या॒हायु॑रे॒वास्मि॒न्वर्चो॑ दधाति॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथास॒दित्या॑ह॒ जर॑दष्टिमे॒वैन॑ङ्करोति ।
विश्वास-प्रस्तुतिः
इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृ॒धीत्या॑ह ।
आयु॑रे॒वास्मि॒न्वर्चो॑ दधाति ।
विश्वे॑ देवा॒ जर॑दष्टि॒र्यथास॒दित्या॑ह ।
जर॑दष्टिमे॒वैन॑ङ्करोति ।
मूलम्
इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृ॒धीत्या॑ह ।
आयु॑रे॒वास्मि॒न्वर्चो॑ दधाति ।
विश्वे॑ देवा॒ जर॑दष्टि॒र्यथास॒दित्या॑ह ।
जर॑दष्टिमे॒वैन॑ङ्करोति ।
भट्टभास्कर-टीका
8इममग्न आयुष इति ॥ घृतं निष्पिबन्तमनुमन्त्रयते । जरदष्टिमेवेति । जराप्राप्त्या दीर्घायुष्ट्वं लक्ष्यते ॥
मूलम् (संयुक्तम्)
अ॒ग्निरायु॑ष्मा॒निति॒ हस्त॑ङ्गृह्णात्ये॒ते वै दे॒वा आयु॑ष्मन्त॒स्त ए॒वास्मि॒न्नायु॑र्दधति॒ सर्व॒मायु॑रेति ॥[45]
विश्वास-प्रस्तुतिः
अ॒ग्निरायु॑ष्मा॒निति॒ हस्त॑ङ्गृह्णाति ।
ए॒ते वै दे॒वा आयु॑ष्मन्तः ।
त ए॒वास्मि॒न्नायु॑र्दधति॒ सर्व॒मायु॑रेति ॥
मूलम्
अ॒ग्निरायु॑ष्मा॒निति॒ हस्त॑ङ्गृह्णाति ।
ए॒ते वै दे॒वा आयु॑ष्मन्तः ।
त ए॒वास्मि॒न्नायु॑र्दधति॒ सर्व॒मायु॑रेति ॥
भट्टभास्कर-टीका
9अग्निरायुष्मानिति ब्रह्मा यजमानस्य हस्तं गृह्णाति ॥
इति द्वितीये तृतीये एकादशोनुवाकः ॥