६ प्रस्तारपङ्क्तिः १० त्रिष्टुप्,
विश्वेदेवा ऋषयः ।
मूलम् (संयुक्तम्)
यन्नव॒मैत्तन्नव॑नीतमभव॒द्यदस॑र्प॒त्तत्स॒र्पिर॑भव॒द्यदध्रि॑यत॒ तद्घृ॒तम॑भवत्
विश्वास-प्रस्तुतिः
यन्नव॒मैत्, तन्नव॑नीतमभवत् ..
मूलम्
यन्नव॒मैत्, तन्नव॑नीतमभवत् ..
भट्टभास्कर-टीका
1अथ ‘अग्निं वा एतस्य’ इत्यादिपञ्चहविरिष्टिर्वक्ष्यते । तस्यामाज्यावेक्षण अनुवर्तयति - यन्नवमैदित्यादि ॥ यत् यस्मात् नवमैत् नवमेव लब्धिं गच्छति उद्धृतमभवत् तस्मान्नवनीतमभवत्, नवनीतं गतम् । उद्धृतमिति । नवनीतम् । दासीभारादिर्द्रष्टव्यः । यद्वा - नवं नीतमस्येति बहुव्रीहिः ।
विश्वास-प्रस्तुतिः
यदस॑र्प॒त् तत्स॒र्पिर॑भवत् ..
मूलम्
यदस॑र्प॒त् तत्स॒र्पिर॑भवत् ..
भट्टभास्कर-टीका
यस्मादसर्पत् विसृतमभवत् तस्मात्सर्पणाद्विसर्पणात् सर्पिरभवत् ।
विश्वास-प्रस्तुतिः
यदध्रि॑यत॒ तद्घृ॒तम॑भवत् ।
मूलम्
यदध्रि॑यत॒ तद्घृ॒तम॑भवत् ।
भट्टभास्कर-टीका
यस्मादुपरि तदद्ध्रियत तस्मादपि सृप्तं संहतमभवत्, तस्माद्घृतमभवत् । धृङ् अवस्थाने । छान्दसो वणविपर्यासः । तादृशं च त्वमसि । तव खल्वेता अवस्थाः परोक्षवन्निर्दिश्यन्ते ॥
मूलम् (संयुक्तम्)
अ॒श्विनोः॑ प्रा॒णो॑ऽसि॒ तस्य॑ ते दत्ताय्ँ॒ययोः॑ प्रा॒णोऽसि॒ स्वाहा॑
विश्वास-प्रस्तुतिः
अ॒श्विनोः॑ प्रा॒णो॑ऽसि ।
तस्य॑ ते दत्ताम् ।
ययोः॑ प्रा॒णोऽसि॑ ।
स्वाहा॑ ।
मूलम्
अ॒श्विनोः॑ प्रा॒णो॑ऽसि ।
तस्य॑ ते दत्ताम् ।
ययोः॑ प्रा॒णोऽसि॑ ।
स्वाहा॑ ।
भट्टभास्कर-टीका
2अथोपहोमाः - ‘अश्विनोः’ इत्यादयश्चत्वारः ॥ अश्विनोः प्राणस्त्वमसि हे यजमान, त[त्व]दधीनजीवनत्वात् । प्राणितीति प्राणः, पचाद्यच् । प्राणवायुर्वा । उपचारो वा - अश्विनोः प्राणस्थानीयस्स्त्वमसि यागद्वारेणोपकारकत्वात् । तस्य तादृशस्य ते तव दत्तां अश्विनौ, कम्? प्राणं, सामर्थ्यात् आयुष्कामेष्टित्वात् । कौ? अश्विनौ ययोः प्राणस्त्वमसि, अत आत्मार्थमेव तव प्राणं दत्तामिति ॥
मूलम् (संयुक्तम्)
इन्द्र॑स्य प्रा॒णो॑ऽसि॒ तस्य॑ ते ददातु॒ यस्य॑ प्रा॒णोऽसि॒ स्वाहा॑ मि॒त्रावरु॑णयोᳶ प्रा॒णो॑ऽसि॒ तस्य॑ ते दत्ताय्ँ॒ययोः॑ प्रा॒णोऽसि॒ स्वाहा॒ विश्वे॑षान्दे॒वाना॑म्प्रा॒णो॑ऽसि [38] तस्य॑ ते ददतु॒ येषा॑म्प्रा॒णोऽसि॒ स्वाहा॑
विश्वास-प्रस्तुतिः
इन्द्र॑स्य प्रा॒णो॑ऽसि ।
तस्य॑ ते ददातु ।
यस्य॑ प्रा॒णोऽसि ।
स्वाहा॑ ।
मि॒त्रावरु॑णयोᳶ प्रा॒णो॑ऽसि ।
तस्य॑ ते दत्ताम् ।
ययोः॑ प्रा॒णोऽसि॑ ।
स्वाहा॑ ।
विश्वे॑षान्दे॒वाना॑म्प्रा॒णो॑ऽसि ।
तस्य॑ ते ददतु ।
येषा॑म्प्रा॒णोऽसि॑ ।
स्वाहा॑ ।
मूलम्
इन्द्र॑स्य प्रा॒णो॑ऽसि ।
तस्य॑ ते ददातु ।
यस्य॑ प्रा॒णोऽसि ।
स्वाहा॑ ।
मि॒त्रावरु॑णयोᳶ प्रा॒णो॑ऽसि ।
तस्य॑ ते दत्ताम् ।
ययोः॑ प्रा॒णोऽसि॑ ।
स्वाहा॑ ।
विश्वे॑षान्दे॒वाना॑म्प्रा॒णो॑ऽसि ।
तस्य॑ ते ददतु ।
येषा॑म्प्रा॒णोऽसि॑ ।
स्वाहा॑ ।
भट्टभास्कर-टीका
3-5इन्द्रस्येत्यादि ॥ समानम् ॥
विश्वास-प्रस्तुतिः
घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मिन्द्रे॑ण द॒त्ताम्प्रय॑ताम्म॒रुद्भिः॑ ।
तत्त्वा॒ विष्णु॒ᳶ पर्य॑पश्य॒त्तत्त्वेडा॒ गव्यैर॑यत् ॥
मूलम्
घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मिन्द्रे॑ण द॒त्ताम्प्रय॑ताम्म॒रुद्भिः॑ ।
तत्त्वा॒ विष्णु॒ᳶ पर्य॑पश्य॒त्तत्त्वेडा॒ गव्यैर॑यत् ॥
भट्टभास्कर-टीका
6पुनराज्यमवेक्षयति - घृतस्य धारामिति ॥ त्रिष्टुबियम्, बृहती वा ॥ हे आज्य घृतस्य क्षरितस्य विलीनस्य तव धाराम् । यद्वा - उदकधारां वृष्टिहेतुं अमृतस्य अमृतत्वस्य पन्थां यागद्वारेण प्राप्तिहेतुं इन्द्रेण ईश्वरेण दत्तां उत्पादिताम् । यद्वा - इन्द्रेण यजमानेन देवेभ्यो दत्तां प्रयतां प्रकर्षेणोत्पादितां शोधितां वा मरुद्भिः । तत्तादृक्स्वभावं त्वां विष्णुर्व्यापको यजमानो वा पर्यपश्यत् । तत्तादृशं त्वां इडा पृथिवी गवि ऐरयत् उदयादिक्रमेण ऐरयत् उदपादयत् ॥
मूलम् (संयुक्तम्)
पा॒व॒मा॒नेन॑ त्वा॒ स्तोमे॑न गाय॒त्रस्य॑ वर्त॒न्योपाँ॒शोर्वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु जी॒वात॑वे जीवन॒स्यायै॑
विश्वास-प्रस्तुतिः
पा॒व॒मा॒नेन॑ त्वा॒ स्तोमे॑न+++(दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु )+++ ।
गा॒य॒त्र॑स्य वर्त॒न्या त्वा॒ +++(दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु )+++ ।
उ॒पाँ॒शोर्वी॒र्ये॑ण त्वा॒ +++(दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु )+++ जी॒वात॑वे जीवन॒स्यायै॑ ।
मूलम्
पा॒व॒मा॒नेन॑ त्वा॒ स्तोमे॑न+++(दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु )+++ ।
गा॒य॒त्र॑स्य वर्त॒न्या त्वा॒ +++(दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु )+++ ।
उ॒पाँ॒शोर्वी॒र्ये॑ण त्वा॒ +++(दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु )+++ जी॒वात॑वे जीवन॒स्यायै॑ ।
भट्टभास्कर-टीका
7ऋत्विजः पर्याहुः - पावमानेनेत्यादि ॥ हे यजमान त्वां पावमानेन पवमाना बहिष्पवमानादयः तेषां संबन्धिना स्तोमेन स्तवनेन गायत्रस्य छन्दसः वर्तन्या मार्गेण सोमानयनमार्गेण उपांशोः ग्रहस्य वीर्येण त्वामुत्सृजत्विति देवस्सविता त्वामुत्सृजतु आमयान्निर्गमयतु । प्रत्येकान्वयाय त्वेत्यस्यानुवृत्तिः । पावमानेन स्तोमेन त्वामुत्सृजतु गायत्रस्य वर्तन्या त्वामुत्सृजतु, उपांशोर्वीर्येण त्वामुत्सृजत्विति । जीवातवे जीवनहेतवे औषधादयो जीवनस्यायै जीवनप्रदायै । जीवनशब्दात् क्यच्, छन्दस्यसुगागमः, ‘अ प्रत्ययात्’ इत्यकारप्रत्ययः ॥
मूलम् (संयुक्तम्)
बृहद्रथन्त॒रयो॑स्त्वा॒ स्तोमे॑न त्रि॒ष्टुभो॑ वर्त॒न्या शु॒क्रस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोत् [39] सृ॒ज॒तु॒ जी॒वात॑वे जीवन॒स्यायै॑ ।
विश्वास-प्रस्तुतिः
बृ॒ह॒द्र॒थ॒न्त॒रयो॑स्त्वा स्तोमे॑न +++(दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु )+++ ।
त्रि॒ष्टुभो॑ वर्त॒न्या त्वा॒ +++(दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु )+++ ।
शु॒क्रस्य॑ वी॒र्ये॑ण त्वा॒ +++(दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु )+++ जी॒वात॑वे जीवन॒स्यायै॑ ।
मूलम्
बृ॒ह॒द्र॒थ॒न्त॒रयो॑स्त्वा स्तोमे॑न +++(दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु )+++ ।
त्रि॒ष्टुभो॑ वर्त॒न्या त्वा॒ +++(दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु )+++ ।
शु॒क्रस्य॑ वी॒र्ये॑ण त्वा॒ +++(दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु )+++ जी॒वात॑वे जीवन॒स्यायै॑ ।
भट्टभास्कर-टीका
8बृहद्रथन्तरयोस्त्वेत्यादि ॥ समानम् ॥
मूलम् (संयुक्तम्)
अ॒ग्नेस्त्वा॒ मात्र॑या॒ जग॑त्यै वर्त॒न्याग्र॑य॒णस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु जी॒वात॑वे जीवन॒स्यायै
विश्वास-प्रस्तुतिः
अ॒ग्नेस्त्वा॒ मात्र॑या +++(दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु )+++ ।
जग॑त्यै वर्त॒न्या त्वा॒ +++(दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु )+++ ।
आ॒ग्र॒य॒णस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु जी॒वात॑वे जीवन॒स्यायै॑ ।
मूलम्
अ॒ग्नेस्त्वा॒ मात्र॑या +++(दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु )+++ ।
जग॑त्यै वर्त॒न्या त्वा॒ +++(दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु )+++ ।
आ॒ग्र॒य॒णस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु जी॒वात॑वे जीवन॒स्यायै॑ ।
भट्टभास्कर-टीका
9अग्नेस्त्वेत्यादि ॥ अग्निमीयते यया सा अग्नेर्मात्रा अग्नेरात्मा अग्नेरात्मस्थानीयमग्निष्टोमसाम यज्ञायज्ञियम् । समानमन्यत् । जगत्या इति षष्ठ्यर्थे चतुर्थी ॥
विश्वास-प्रस्तुतिः
इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि प्रि॒यँ रेतो॑ वरुण सोम राजन् ।
मा॒तेवा॑स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथास॑त् ।
मूलम्
इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि प्रि॒यँ रेतो॑ वरुण सोम राजन् ।
मा॒तेवा॑स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथास॑त् ।
भट्टभास्कर-टीका
10हिरण्याद्घृतं निष्पिबन्तमनुमन्त्रयते - इममग्न इति । त्रिष्टुबेषा ॥ हे अग्ने इमं घृतम् । उभयलिङ्गो घृतशब्दः । आयुषे वर्चसे बलाय चास्य कृधि कुरु । पूर्ववच्छपो लुक्, धिभावश्च । प्रियं रेतः, सर्वस्य प्रकृतिभूतत्वात् प्रियत्वम् रेतस्त्वं च । हे वरुण हे सोमलताभिमानिन्, हे राजन् चन्द्र । यद्वा - वल्लीनिवृत्त्यर्थं राजशब्देन सोमो विशेष्यते । यूयमप्यस्यायुषे कुरुत ।
किञ्च - हे अदिते त्वमपि अस्मै यजमानाय मातेव शर्म सुखं यच्छ देहि । हे विश्वेदेवा यूयमपीदं कर्तुमर्हथ । किम् ? यथायं यजमानो जरदष्टिः जीर्णत्वेन अष्टिर्व्याप्तिर्यस्य । जरामश्नुत इति वा जरदष्टिः । छान्दसी रूपसिद्धिः । असत् भवेत् दीर्घायुर्यथा स्यात्तथा कुरुत । यद्वा - अस्य यजमानस्य जरदष्टिः जराव्याप्तिः असत् भवेत् तथा कुरुत दीर्घायुषं कुरुत । जीर्यतेरतृन्प्रत्ययो भावे द्रष्टव्यः । अस्तेर्लेटि अडागमः ॥
भास्करोक्त-विनियोगः
11-16ब्रह्मा यजमानस्य हस्तं गृह्णाति - अग्निरायुष्मानिति ॥
अ॒ग्निरायु॑ष्मा॒न्त्स ...{Loading}...
मूलम् (संयुक्तम्)
अ॒ग्निरायु॑ष्मा॒न्त्स वन॒स्पति॑भि॒रायु॑ष्मा॒न्तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि॒ सोम॒ आयु॑ष्मा॒न्त्स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्त्स दक्षि॑णाभि॒र्ब्रह्मायु॑ष्म॒त्तद्ब्रा॑ह्म॒णैरायु॑ष्मद्दे॒वा आयु॑ष्मन्त॒स्ते॑ऽमृते॑न पि॒तर॒ आयु॑ष्मन्त॒स्ते स्व॒धयायु॑ष्मन्त॒स्तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ॥ [40]
विश्वास-प्रस्तुतिः
+++(हे यजमान)+++
अ॒ग्निर् आयु॑ष्मा॒न् ,
स वन॒स्-पति॑भि॒र् आयु॑ष्मा॒न् ,
तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।
सोम॒ आयु॑ष्मा॒न् स ओष॑धीभिर् [आयु॑ष्मा॒न् तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]
+++(हे यजमान)+++ य॒ज्ञ [आयु॑ष्मा॒न्], स दक्षि॑णाभि॒र् आयु॑ष्मा॒न्, [तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]
+++(हे यजमान)+++ ब्रह्मायु॑ष्म॒त्, तद्ब्रा॑ह्म॒णैरायु॑ष्मत् , [तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]
+++(हे यजमान)+++ दे॒वा आयु॑ष्मन्तः।
ते॒॑ऽमृते॑न [+आयु॑ष्मन्तः] [तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]
पि॒तर॒ आयु॑ष्मन्त॒स् ते स्व॒धयाऽऽयु॑ष्मन्त॒स्, तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।
मूलम्
अ॒ग्निरायु॑ष्मा॒न् ,
स वन॒स्पति॑भि॒रायु॑ष्मा॒न् ,
तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ।
सोम॒ आयु॑ष्मा॒न् , स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्,
स दक्षि॑णाभि॒र्ब्रह्मायु॑ष्म॒त्,
तद्ब्रा॑ह्म॒णैरायु॑ष्मत् ,
दे॒वा आयु॑ष्मन्तः
ते॑ऽमृते॑न
पि॒तर॒ आयु॑ष्मन्त॒स्ते स्व॒धयायु॑ष्मन्त॒स्तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि
भट्टभास्कर-टीका
अग्निरायुष्मान् दीर्घायुः । स वनस्पतिभिरायुष्मान् तैर्हेतुभिस्तैर्वासह । तेनायुषा उभयेनायुषा त्वामायुष्मन्तं करोमि दीर्घायुषं करोमि । हे यजमान सोमादिषु ‘आयुष्मान्तेन’ इत्याद्यनुषज्यते । सोम ओषधीभिः, यज्ञो दक्षिणाभिः ब्रह्म ब्राह्मणैः, देवा अमृतेन, पितरस्स्वधया ॥
इति द्वितीये तृतीये दशमोनुवाकः ॥
विश्वास-प्रस्तुतिः
पि॒तर॒ आयु॑ष्मन्तः,
ते स्व॒धया ऽऽयु॑ष्मन्तः॒,
तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ॥
मूलम्
पि॒तर॒ आयु॑ष्मन्तः, ते स्व॒धयायु॑ष्मन्तः॒, तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ॥