०९ ग्रामकामस्य साङ्ग्रहिणीष्टिः

विश्वेदेवा ऋषयः ।

मूलम् (संयुक्तम्)

ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयास॒न्धीर॒श्चेत्ता॑ वसु॒वित्

विश्वास-प्रस्तुतिः

ध्रु॒वो॑ऽसि ।
ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयासम् ।
धीर॒श्चेत्ता॑ वसु॒वित् +++(भूयासम्)+++।

मूलम्

ध्रु॒वो॑ऽसि ।
ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयासम् ।
धीर॒श्चेत्ता॑ वसु॒वित् +++(भूयासम्)+++।

भट्टभास्कर-टीका

1अथ साङ्ग्रहिणीमिष्टिं विधास्यति । तस्यां परिधिपरिधानमन्त्राः एते - ध्रुवोसीत्याद्याः । याजमानेषु व्याख्यातप्रायाः । ध्रुवो नित्योसि ; अहमपि सजातेषु ध्रुवो भूयासम् । धीरो धारयिता चेत्ता ज्ञाता वसुवित् धनानां वा लब्धा च भूयासम् ॥

मूलम् (संयुक्तम्)

ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयासमु॒ग्रश्चेत्ता॑ वसु॒वित् ।

विश्वास-प्रस्तुतिः

ध्रु॒वो॑ऽसि ।
ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयासम् ।
उ॒ग्रश्चेत्ता॑ वसु॒वित् ।

मूलम्

ध्रु॒वो॑ऽसि ।
ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयासम् ।
उ॒ग्रश्चेत्ता॑ वसु॒वित् ।

भट्टभास्कर-टीका

2अथ द्वितीयः - ध्रुवोसीत्यादि ॥ गतम् । उग्र उद्गूर्णः चेत्ता च वसुविच्च भूयासम् ॥

  • अधिवदते - ध्रुवोसीति ॥ धुवस्त्वमसि, यो यज्ञस्यायुष्ट्वात् ग्रहाणामुत्तमस्स त्वमसि । ‘आयुर्वा एतद्यज्ञस्य यद्ध्रुवः’ इत्यादि ब्राह्मणम् । यद्वा - पृथिव्या धृतिहेतुत्वादस्य ध्रुवत्वं, ध्रुवं करोतीति ध्रुवः । ‘असुरा वा उत्तरतः पृथिवीं पर्याचिकीर्षन्’ इत्यादि ब्राह्मणम् ।
मूलम् (संयुक्तम्)

ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयासमभि॒भूश्चेत्ता॑ वसु॒वित्

विश्वास-प्रस्तुतिः

ध्रु॒वो॑ऽसि ।
ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयासम् ।
अ॒भि॒भूश्चेत्ता॑ वसु॒वित्।

मूलम्

ध्रु॒वो॑ऽसि ।
ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयासम् ।
अ॒भि॒भूश्चेत्ता॑ वसु॒वित्।

भट्टभास्कर-टीका

3अथ तृतीयः - ध्रुवोसीत्यादि ॥ गतम् अभिभूः अभिभविता शत्रूणां छेत्ता वसुविच्च भूयासमिति ॥

मूलम् (संयुक्तम्)

आम॑नम॒स्याम॑नस्य देवा॒ ये स॑जा॒ताᳵ कु॑मा॒रास्सम॑नस॒स्तान॒हङ्का॑मये हृ॒दा ते माङ्का॑मयन्ताँ हृ॒दा तान्म॒ आम॑नसᳵ कृधि॒ स्वाहा

विश्वास-प्रस्तुतिः

आम॑नमसि ।
आम॑नस्य देवा॒ ये स॑जा॒तास्सम॑नसः॒ .. तान॒हङ्का॑मये हृ॒दा ।
ते माङ्का॑मयन्ताँ हृ॒दा ।
तान्म॒ आम॑नसᳵ कृधि ।
स्वाहा॑ ।

मूलम्

आम॑नमसि ।
आम॑नस्य देवा॒ ये स॑जा॒तास्सम॑नसः॒ .. तान॒हङ्का॑मये हृ॒दा ।
ते माङ्का॑मयन्ताँ हृ॒दा ।
तान्म॒ आम॑नसᳵ कृधि ।
स्वाहा॑ ।

भट्टभास्कर-टीका

4अथ तस्यामेव पुरस्तात् स्विष्टकृत उपहोमाः - आमनमसीत्याद्याः ॥ एताश्च तिस्रः पञ्चपदाः पङ्क्तयः । ‘आमनमस्यामनस्य देवा ये सजातास्समनसः’ इति प्रथमा । ‘ये कुमाराः’ इति द्वितीया । ‘यास्त्रियः’ इति तृतीया । तत्र ‘आमनमसि’ इत्यादिकं सर्वं द्वितीयेपि मन्त्रे विनियुज्यते । तृतीये तु मन्त्रलिङ्गभेदात् सर्वं पुनराम्नायते । एते उपहोमाः सांग्रहिण्या एवाङ्गभूताः । आमनमिति च आमननकारणं सांग्रहिण्याख्यं कर्मोच्यते, हूयमानं वाज्यम् । अत्र सामर्थ्यात् समस्समासे आकार आगतः । संगृहीतं मनोस्मिन्निति आमनं । छान्दसोन्त्यलोपः ।
यद्वा - आभिमुख्येन मननं करोतीत्यामनम् । पचाद्यच्, छान्दसं पूर्वपदप्रकृतिस्वरत्वम् । पचाद्यजन्तेन वा प्रादिसमासः । ईदृशस्यास्य संबन्धिनो हे देवाः यूयमपीदं श्रोतुमर्हन्ति यदामनं ब्रूमहे इति देवम्ये आवेद्य पुनरप्यामनमाह – ये सजाता मया समानजन्मानः । कुमाराणां स्त्रीणां च वक्ष्यमानत्वात् महान्तः पुंस इति गम्यते ।
ब्राह्मणं च भविष्यति - ‘एतावन्तो वै सजाता ये महान्तो ये क्षुल्लका यास्स्त्रियः’ इति । तत्र गोबलीवर्दन्यायेन प्रथमे महतां ग्रहणम् । समनसः समानमनसः संगतमनसो वा ये सजाता महान्तो मम समनसः तानहं कामये हृदा हृदयेन ; समनस एव सदा कामये । तेपि मां तादृशमेव कामयन्ताम् हृदा हृदयेन । अवधानार्थं हृदयग्रहणम् । त्वमपि तानामनसः आगतमनसः सङ्गृहीतमनसः कृधि कुरु । शपो लुकि ‘श्रुशृणुपॄकृवृभ्यः’ इति धिभावः । स्वाहुतमिदं करोमीति ॥

विश्वास-प्रस्तुतिः

+++(आम॑नम॒सि , आम॑नस्य देवा॒ ये )+++कु॑मा॒राः +++(सम॑नसः॒ )+++ .. {तान॒हङ्का॑मये हृ॒दा । ते माङ्का॑मयन्ताँ हृ॒दा । तान्म॒ आम॑नसᳵ कृधि ।
स्वाहा॑ ।}

मूलम्

+++(आम॑नम॒सि , आम॑नस्य देवा॒ ये )+++कु॑मा॒राः +++(सम॑नसः॒ )+++ .. {तान॒हङ्का॑मये हृ॒दा । ते माङ्का॑मयन्ताँ हृ॒दा । तान्म॒ आम॑नसᳵ कृधि ।
स्वाहा॑ ।}

भट्टभास्कर-टीका

5अथ द्वितीयः - आमनमित्यादि ॥ बाल्ययौवनयोर्मध्ये वर्तमानाः कुमाराः । समानमन्यत् स्वाहान्तम् ॥

विश्वास-प्रस्तुतिः

आम॑नमसि , आम॑नस्य देवा॒ यास्स्त्रिय॒स्सम॑नसः ।
ता अ॒हङ्का॑मये हृ॒दा ।
ता माङ्का॑मयन्ताँ हृ॒दा ।
ता म॒ आम॑नसᳵ कृधि ।
स्वाहा॑ ।

मूलम्

आम॑नमसि , आम॑नस्य देवा॒ यास्स्त्रिय॒स्सम॑नसः ।
ता अ॒हङ्का॑मये हृ॒दा ।
ता माङ्का॑मयन्ताँ हृ॒दा ।
ता म॒ आम॑नसᳵ कृधि ।
स्वाहा॑ ।

भट्टभास्कर-टीका

6अथ - तृतीयः - आमनमित्यादि ॥ सर्वं ; स्त्रीलिङ्गन्तु विशेषः ॥

मूलम् (संयुक्तम्)

वैश्वदे॒वीँ सा॑ङ्ग्रह॒णीन्निर्व॑पे॒द्ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान्प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति साङ्ग्रह॒णी भ॑वति मनो॒ग्रह॑णव्ँ॒ वै स॒ङ्ग्रह॑ण॒म्मन॑ ए॒व स॑जा॒ताना॑म् [36] गृह्णाति

विश्वास-प्रस्तुतिः

वै॒श्व॒दे॒वीँ सा॑ङ्ग्रह॒णीन्निर्व॑पे॒द्ग्राम॑कामः ।
वै॒श्व॒दे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
त ए॒वास्मै॑ सजा॒तान्प्र य॑च्छन्ति ।
ग्रा॒म्ये॑व भ॑वति ।
सा॒ङ्ग्र॒ह॒णी भ॑वति ।
म॒नो॒ग॑हणव्ँ॒ वै स॒ङ्ग्रह॑ण॒म्, .. मन॑ ए॒व स॑जा॒ताना॑म् गृह्णाति ।

मूलम्

वै॒श्व॒दे॒वीँ सा॑ङ्ग्रह॒णीन्निर्व॑पे॒द्ग्राम॑कामः ।
वै॒श्व॒दे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
त ए॒वास्मै॑ सजा॒तान्प्र य॑च्छन्ति ।
ग्रा॒म्ये॑व भ॑वति ।
सा॒ङ्ग्र॒ह॒णी भ॑वति ।
म॒नो॒ग॑हणव्ँ॒ वै स॒ङ्ग्रह॑ण॒म्, .. मन॑ ए॒व स॑जा॒ताना॑म् गृह्णाति ।

भट्टभास्कर-टीका

7इदानीमिष्टं विदधाति - वैश्वदेवीमित्यादि ॥ मनसस्संग्रहणस्य हेतुत्वेन संबन्धिनी सांग्रहणी इष्टिः । चरुरत्र श्रप्यते ॥

मूलम् (संयुक्तम्)

ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयास॒मिति॑ परि॒धीन्परि॑ दधात्या॒शिष॑मे॒वैतामा शा॒स्तेऽथो॑ ए॒तदे॒व सर्वँ॑ सजा॒तेष्वधि॑ भवति॒ यस्यै॒वव्ँवि॒दुष॑ ए॒ते प॑रि॒धयᳶ॑ परिधी॒यन्ते

विश्वास-प्रस्तुतिः

ध्रु॒वो॑ऽसि ।
ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयास॒मिति॑ परि॒धीन्परि॑ दधाति ।
आ॒शिष॑मे॒वैतामा शा॒स्ते ।
अथो॑ ए॒तदे॒व सर्वँ॑ सजा॒तेष्वधि॑ भवति ।
यस्यै॒वव्ँवि॒दुष॑ ए॒ते प॑रि॒धयᳶ॑ परिधी॒यन्ते ।

मूलम्

ध्रु॒वो॑ऽसि ।
ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयास॒मिति॑ परि॒धीन्परि॑ दधाति ।
आ॒शिष॑मे॒वैतामा शा॒स्ते ।
अथो॑ ए॒तदे॒व सर्वँ॑ सजा॒तेष्वधि॑ भवति ।
यस्यै॒वव्ँवि॒दुष॑ ए॒ते प॑रि॒धयᳶ॑ परिधी॒यन्ते ।

भट्टभास्कर-टीका

8ध्रुवोसीत्यादिना आम्नातानां मन्त्राणां विनियोगं दर्शयति - आशिषमिति ॥ ध्रुवो भूयासमित्यादिकाम् । अथो अपिच सजातेषु मध्ये एतत्सर्वं भवति यद्ध्रुवत्वं धीरत्वं वसुवत्त्वमित्यादि । एतत्सर्वं यथा श्रूयते तथा भवतिएतत्सर्वं प्राप्नोति । भू प्राप्तौ । न ग्रामप्राप्तिमात्रमेवेति भावः । यस्यैवंविदुष एतैर्मन्त्रैरेते परिधयः परिधीयन्ते ॥

मूलम् (संयुक्तम्)

आम॑नम॒स्याम॑नस्य देवा॒ इति॑ ति॒स्र आहु॑तीर्जुहोत्ये॒ताव॑न्तो॒ वै स॑जा॒ता ये म॒हान्तो॒ ये क्षु॑ल्ल॒का यास्स्त्रिय॒स्ताने॒वाव॑ रुन्द्धे॒ त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते ॥ [37]

विश्वास-प्रस्तुतिः

आम॑नमसि , आम॑नस्य देवा॒ इति॑ ति॒स्र आहु॑तीर्जुहोति।
ए॒ताव॑न्तो॒ वै स॑जा॒ता ये म॒हान्तो॒ ये क्षु॑ल्ल॒का यास्स्त्रिय॒स्ताने॒वाव॑ रुन्द्धे ।
त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते ॥

मूलम्

आम॑नमसि , आम॑नस्य देवा॒ इति॑ ति॒स्र आहु॑तीर्जुहोति।
ए॒ताव॑न्तो॒ वै स॑जा॒ता ये म॒हान्तो॒ ये क्षु॑ल्ल॒का यास्स्त्रिय॒स्ताने॒वाव॑ रुन्द्धे ।
त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते ॥

भट्टभास्कर-टीका

9’आमनम्’ इत्यादि स्विष्टकृतः पुरस्तात् तिस्स्रस्रुवाहुतीरुपजुहोति । क्षुल्लकाः क्षुद्राः कुमाराः । क्षुधा लान्तीति क्षुल्लकाः । कान्तात्कुत्सायां प्रतिषेधः [… यां प्रागिवीयः] कः ॥

इति द्वितीये तृतीये नवमोनुवाकः ॥