विश्वेदेवा ऋषयः ।
मूलम् (संयुक्तम्)
रज॑नो॒ वै कौ॑णे॒यᳵ क्र॑तु॒जित॒ञ्जान॑किञ्चक्षु॒र्वन्य॑मया॒त्तस्मा॑ ए॒तामिष्टि॒न्निर॑वपद॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालँ सौ॒र्यञ्च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्तयै॒वास्मि॒ञ्चक्षु॑रदधा॒द्यश्चक्षु॑ष्काम॒स्स्यात्तस्मा॑ ए॒तामिष्टि॒न्निर्व॑पेद॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालँ सौ॒र्यञ्च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालम्
विश्वास-प्रस्तुतिः
रज॑नो॒ वै कौ॑णे॒यᳵ क्र॑तु॒जित॒ञ्जान॑किञ्चक्षु॒र्वन्य॑मयात् ।
तस्मा॑ ए॒तामिष्टि॒न्निर॑वपत् ।
मूलम्
रज॑नो॒ वै कौ॑णे॒यᳵ क्र॑तु॒जित॒ञ्जान॑किञ्चक्षु॒र्वन्य॑मयात् ।
तस्मा॑ ए॒तामिष्टि॒न्निर॑वपत् ।
भट्टभास्कर-टीका
1रजनो वा इत्यादि ॥ रजनो नाम कुणेरपत्यम् । ‘इतश्चानिञः’ इति ढक् । क्रतुजितं नाम जनकस्यापत्यं अयात्प्रापद्यत । कीदृशम् चक्षुर्वन्यं चक्षुषो वनितारं संविभक्तारं चक्षुषः प्रदातारम् । छान्दसः कर्तरि कृत्यः । यद्वा - कूणिताक्षः कूणिर्वीपन्नाक्षः ; तस्यापत्यं कौणेयः । पितुरक्षिव्यापत्तिकथनं पुत्रस्य व्यापन्नाक्षित्वं द्योतयितुम् । पित्रा सरूपो हि सन् पुत्रो भवतीति । जानकिमयात् चक्षुषो लाभाय, चक्षुषो वननं संभजनं चक्षुर्वन्यं, तत् जानकिमयात् । याच्ञाकर्मा वा यातिः ; चक्षुर्लाभं तमयाचतेति । चक्षुरेव वा वननीयं चक्षुर्वर्न्यं ; तत् तमयाचतेति ।
विश्वास-प्रस्तुतिः
अ॒ग्न॒ये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालँ सौ॒र्यञ्च॒रुम् ।
अ॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालम् ।
तयै॒वास्मि॒ञ्चक्षु॑रदधात् ।
यश्चक्षु॑ष्काम॒स्स्यात् ।
तस्मा॑ ए॒तामिष्टि॒न्निर्व॑पेत् ।
अ॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालँ सौ॒र्यञ्च॒रुम् ।
अ॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालम् ।
मूलम्
अ॒ग्न॒ये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालँ सौ॒र्यञ्च॒रुम् ।
अ॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालम् ।
तयै॒वास्मि॒ञ्चक्षु॑रदधात् ।
यश्चक्षु॑ष्काम॒स्स्यात् ।
तस्मा॑ ए॒तामिष्टि॒न्निर्व॑पेत् ।
अ॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालँ सौ॒र्यञ्च॒रुम् ।
अ॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालम् ।
भट्टभास्कर-टीका
भ्राजस्वान् दीप्तिमान् । उभयतः आग्नेयावष्टाकपालौ पुरोडाशौ, मध्ये सौर्यश्चरुः ॥
मूलम् (संयुक्तम्)
अ॒ग्नेर्वै चक्षु॑षा मनु॒ष्या॑ वि [33] प॒श्य॒न्ति॒ सूर्य॑स्य दे॒वा अ॒ग्निञ्चै॒व सूर्य॑ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॒ञ्चक्षु॑र्धत्त॒श्चक्षु॑ष्माने॒व भ॑वति
विश्वास-प्रस्तुतिः
अ॒ग्नेर्वै चक्षु॑षा मनु॒ष्या॑ वि प॑श्यन्ति ।
मूलम्
अ॒ग्नेर्वै चक्षु॑षा मनु॒ष्या॑ वि प॑श्यन्ति ।
भट्टभास्कर-टीका
2अग्नेर्वै चक्षुषेति ॥ अग्नेर्हेतोर्यच्चक्षुः प्रवर्तते तेनेत्यर्थः । विभक्तिव्यत्यये वा अग्निना चक्षुषेति ।
विश्वास-प्रस्तुतिः
सूर्य॑स्य दे॒वाः +++(वि प॑श्यन्ति)+++ ।
अ॒ग्निञ्चै॒व सूर्य॑ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
तावे॒वास्मि॒ञ्चक्षु॑र्धत्त॒श्चक्षु॑ष्माने॒व भ॑वति ।
मूलम्
सूर्य॑स्य दे॒वाः +++(वि प॑श्यन्ति)+++ ।
अ॒ग्निञ्चै॒व सूर्य॑ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
तावे॒वास्मि॒ञ्चक्षु॑र्धत्त॒श्चक्षु॑ष्माने॒व भ॑वति ।
भट्टभास्कर-टीका
एवं - सूर्यस्येति ॥
मूलम् (संयुक्तम्)
यदा॑ग्ने॒यौ भव॑त॒श्चक्षु॑षी ए॒वास्मि॒न्तत्प्रति॑ दधाति॒ यत्सौ॒र्यो नासि॑का॒न्तेना॒भित॑स्सौ॒र्यमा॑ग्ने॒यौ भ॑वत॒स्तस्मा॑द॒भितो॒ नासि॑का॒ञ्चक्षु॑षी॒ तस्मा॒न्नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते
विश्वास-प्रस्तुतिः
यदा॑ग्ने॒यौ भव॑त॒श्चक्षु॑षी ए॒वास्मि॒न्तत्प्रति॑ दधाति ।
यत्सौ॒र्यो नासि॑का॒म् +++(प्रतिदधाति)+++।
तेना॒भित॑स्सौ॒र्यमा॑ग्ने॒यौ भ॑वतः ।
तस्मा॑द॒भितो॒ नासि॑का॒ञ्चक्षु॑षी ।
तस्मा॒न्नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते ।
मूलम्
यदा॑ग्ने॒यौ भव॑त॒श्चक्षु॑षी ए॒वास्मि॒न्तत्प्रति॑ दधाति ।
यत्सौ॒र्यो नासि॑का॒म् +++(प्रतिदधाति)+++।
तेना॒भित॑स्सौ॒र्यमा॑ग्ने॒यौ भ॑वतः ।
तस्मा॑द॒भितो॒ नासि॑का॒ञ्चक्षु॑षी ।
तस्मा॒न्नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते ।
भट्टभास्कर-टीका
3यदाग्नेयाविति ॥ यस्मादभितः आग्नेयौ पुरोडाशौ भवतः, तस्मादाग्नेये चक्षुषी अस्मिन् यजमाने विपन्नचक्षुषि प्रतिदधाति पुनः स्थापयति । यत्सौर्यो मध्ये भवति नासिकां तेनास्मिन् प्रतिदधात्येव ; नासिकया विधृते हि चक्षुषी पश्यतः ।
विश्वास-प्रस्तुतिः
तेना॒भित॑स्सौ॒र्यमा॑ग्ने॒यौ भ॑वतः ।
तस्मा॑द॒भितो॒ नासि॑का॒ञ्चक्षु॑षी ।
तस्मा॒न्नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते ।
मूलम्
तेना॒भित॑स्सौ॒र्यमा॑ग्ने॒यौ भ॑वतः ।
तस्मा॑द॒भितो॒ नासि॑का॒ञ्चक्षु॑षी ।
तस्मा॒न्नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते ।
भट्टभास्कर-टीका
अभितस्सौर्यमिति । अभितः उभयतः आदावन्ते च सौर्यस्य । ‘अभितः परितः’ इति द्वितीया । यस्मादेवं तस्मान्नासिकामभितश्चक्षुषी तस्मादेव चक्षुषी नासिकया विधृते ॥
मूलम् (संयुक्तम्)
समा॒नी या॑ज्यानुवा॒क्ये॑ भवतस्समा॒नँ हि चक्षु॒स्समृ॑द्ध्यै
विश्वास-प्रस्तुतिः
स॒मा॒नी या॑ज्यानुवा॒क्ये॑ भवतः ।
स॒मा॒नँ॒ हि चक्षु॒स्समृ॑द्ध्यै ।
मूलम्
स॒मा॒नी या॑ज्यानुवा॒क्ये॑ भवतः ।
स॒मा॒नँ॒ हि चक्षु॒स्समृ॑द्ध्यै ।
भट्टभास्कर-टीका
4समानी इति । ‘समानं हि चक्षुः’ इति वचनात् चक्षुस्थानीययोराग्नेययोः समानी समान्यौ समानरूपे याज्यानुवाक्ये भवतः ; ‘उदग्नेशुचयस्तव’ ‘विज्योतिषा’ इति । सौर्यस्य तु ‘उदु त्यं जातवेदसम्’ ‘चित्रं देवानाम्’ इति । ‘केवलमामक’ इति समानशब्दात् ङीष्, ‘वा च्छन्दसि’ इति पूर्वसवर्ण दीर्घत्वम् ॥
मूलम् (संयुक्तम्)
उदु॒ त्यञ्जा॒तवे॑दसँ स॒प्त त्वा॑ ह॒रितो॒ रथे॑ चि॒त्रन्दे॒वाना॒मुद॑गा॒दनी॑क॒मिति॒ पिण्डा॒न्प्र य॑च्छति॒ चक्षु॑रे॒वास्मै॒ प्र य॑च्छति॒ यदे॒व तस्य॒ तत् ॥ [34]
विश्वास-प्रस्तुतिः
उदु॒ त्यञ्जा॒तवे॑दसँ ..
स॒प्त त्वा॑ ह॒रितो॒ रथे॑ ..
चि॒त्रन्दे॒वाना॒मुद॑गा॒दनी॑क॒म् इति॒ पिण्डा॒न्प्र य॑च्छति ।
मूलम्
उदु॒ त्यञ्जा॒तवे॑दसँ ..
स॒प्त त्वा॑ ह॒रितो॒ रथे॑ ..
चि॒त्रन्दे॒वाना॒मुद॑गा॒दनी॑क॒म् इति॒ पिण्डा॒न्प्र य॑च्छति ।
भट्टभास्कर-टीका
5उदु त्यमित्यादि ॥ चतुर्धाकरणकाले सौर्यात्त्रीन्पिण्डानुद्धृत्य ‘उदु त्यम्’ इत्यादिभिर्मन्त्रैः यजमानाय प्रयछति । स च प्राश्नातीति गम्यते । मन्त्रस्य सौर्यत्वात् सौर्यादेवोद्धृत्य प्रयच्छतीति ।
-
उदु॒ त्यञ्जा॒तवे॑दसन्दे॒वव्ँव॑हन्ति के॒तवः॑ ।
दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥ -
1अथ दाक्षिणं काण्डं सौम्यमेव । तत्र शौरीभ्यामृग्भ्यां गार्हपत्ये जुहोति - उदुत्यमिति प्रथमा गायत्री, द्वितीया त्रिष्टुप् ॥
तत्र प्रथमा - ‘उदायुषा’ इत्यत्र व्याख्याता । त्यं तं इमं देवं जातवेदसं जातप्रज्ञं जातानां वेदितारं केतवो रश्मय उद्वहन्ति ऊर्ध्वं वहन्ति दृशे द्रष्टुं विश्वाय विश्वार्थं, विश्वो लोको यथैनं पश्येदिति । ‘सुवर्गाय वा एतानि लोकाय हुयन्ते यद्दाक्षिणानि’ इत्यादि ब्राह्मणम् ॥ -
अथ सौम्यस्य चरोः पुरोनुवाक्या - उदु त्यमिति गायत्री ॥ व्याख्याता चेयं ग्रहप्रश्ने । प्रतीकग्रहणमिदम् । देवं सूर्यं जातवेदसं जातानां वेदितारं देवं केतवो रश्मयः उद्वहन्ति विस्वस्य लोकस्य दृशे दर्शनार्थमिति ॥
-
स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य ।
शो॒चिष्के॑शव्ँविचक्षण ।- तत्रैव पुरोनुवाक्या विकल्पयते - सप्त त्वेति गायत्री ॥ हे देव सूर्य त्वां सप्त सर्पणशीलाः हरितः रसभरणा रश्मयः रथे रंहसो रमन्तेऽस्मिन्नाप इति वा रथे मण्डले वहन्ति शोचिष्केशं दीप्तरश्मिं केशस्थानीया रश्मयः केशाः । हे विचक्षण प्रकाशक । चष्टिर्दर्शनकर्मा । विविधं चष्टे पश्यतीति विचचक्षणः । ‘अनुदात्तेतश्च हलादेः’ इति युच् । स त्वमस्मभ्यं चक्षुर्देहीति ॥
-
चि॒त्रन्दे॒वाना॒मुद॑गा॒दनी॑क॒ञ्चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षँ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥- अथ द्वितीया - चित्रं चायनीयं देवानामनीकं सङ्घातरूपम्मण्डलम् । यद्वा - देवानां रश्मीनां अनीकं मुखं समुदायस्थानं वा । मित्रादीनां देवानामपि चक्षुस्स्थानं , तेपि हि तेन प्रकाशितं पश्यन्ति । यद्वा - मित्रत्वादिपदप्राप्तिहेतुत्वाच्चक्षुरित्युपचर्यते । उपलक्षणं चैतत्, सर्वदेवतापदलाभहेतुत्वात्; भवति मण्डलोपासनमिति । इर्दृशमण्डलमुदगात् उदेति । छान्दसो लुङ्, ‘गातिस्था’ इति सिचो लुक् । यदा ईदृशम्मण्डलमुदेति तदा तन्मण्डलान्तर्गतो भगवान् सूर्यः जगतो जङ्गमस्य तस्थुषः स्थावरस्य च विश्वस्यात्मा द्यावापृथिवी द्यावापृथिव्यौ अन्तरिक्षं च रश्मिभिराप्राः आपूरयति । प्रा पूरणे पुरुषव्यत्ययः, अदादित्वाच्छपो लुक् । द्यौश्च पृथिवी च द्यावापृथिव्यौ । ‘दिवो द्यावा’ इति द्यावादेशः, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घः’, ‘देवताद्वन्द्वे च’ इति पूर्वोत्तरयोर्युगपत्प्रकृतिस्वरत्वम्, पृथिवीशब्दो ङीषन्तोन्तोदात्तः । ईदृशो भगवाननेन होमेनास्माकमभिमतं साधयत्विति ॥
-
तत्रैव (सौम्यस्य चरोः)याज्या - चित्रमिति त्रिष्टुप् ॥ चित्रं चायनीयं सर्वलोकपूजितं देवानां रश्मीनामिन्द्रादीनां वा ऋत्विजां अनीकं मुखस्थानीयं समूहस्थानीयं वा उदगादुद्गच्छति सर्वात्मकसमष्टिरूपत्वात् । किं च – चक्षुस्थानीयं ख्यातिकरं वा मित्रादीनां । अयं देवो द्यावापृथिवी द्यावापृथिव्यौ अन्तरिक्षं च आप्राः आ (प्रागाः) पूरयति तेजसा । प्रा पूरणे, पूरुषव्यत्ययः । जगतः जङ्गमस्य सर्वस्य तस्थुषः स्थावरस्य सर्वस्यात्मा सूर्यः एकः प्रेरको वा सर्वस्य तस्मादात्मा ; सर्वोपकारकत्वात् । यद्वा - ‘स यश्चायं पूरुषे । यश्चासावादित्ये । स एकः’ इति दर्शनात् आत्मा सर्वस्य । अत्राचार्येण ‘समानी याज्यानुवाक्ये भवतः’ इत्येतदनुसारेण ‘उदग्ने शुचयस्तव’ ‘विज्योतिषा’ ‘उदु त्यं जातवेदसम्’ ‘चित्रं देवानाम्’ इति हविषां याज्यानुवाक्याः ‘उदुत्यं जातवेदसम्’ ‘सप्त त्वा हरितो रथे’ ‘चित्रं देवानाम्’ इति पिण्डान् प्रयच्छति इति ॥
विश्वास-प्रस्तुतिः
चक्षु॑रे॒वास्मै॒ प्र य॑च्छति ।
यदे॒व तस्य॒ तत् ॥
मूलम्
चक्षु॑रे॒वास्मै॒ प्र य॑च्छति ।
यदे॒व तस्य॒ तत् ॥
भट्टभास्कर-टीका
ननु चक्षुष्कामस्य किं पिण्डैरित्याह - चक्षुरेवास्मै सनासिकमिदानीं दीयते, न पिण्डत्रयमात्रम् । किं यत्किञ्चित् चक्षुर्देहाननुगुणमेव दीयते ? नेत्याह - यदेव तस्य चक्षुः तदेव दीयते, न यत्किञ्चित् ॥
इति द्वितीये तृतीयेष्टमोनुवाकः ॥