वीर्यकामस्य सर्वपृष्ठाख्येष्टिः, ९ अभिशस्यमानस्य इष्टिः ।
विश्वेदेवा ऋषयः ।
मूलम् (संयुक्तम्)
दे॒वा॒सु॒रास्सय्ँय॑त्ता आस॒न्तान्दे॒वानसु॑रा अजय॒न्ते दे॒वाᳶ प॑राजिग्या॒ना असु॑राणाव्ँ॒ वैश्य॒मुपा॑य॒न्तेभ्य॑ इन्द्रि॒यव्ँवी॒र्य॑मपा॑क्राम॒त्तदिन्द्रो॑ऽचाय॒त्तदन्वपा॑क्राम॒त्तद॑व॒रुध॒न्नाश॑क्नो॒त्तद॑स्मादभ्य॒र्धो॑ऽचर॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तमे॒तया॒ सर्व॑पृष्ठयाऽयाजय॒त्तयै॒वास्मि॑न्निन्द्रि॒यव्ँवी॒र्य॑मदधा॒द्य इ॑न्द्रि॒यका॑मः [29] वी॒र्य॑काम॒स्स्यात्तमे॒तया॒ सर्व॑पृष्ठया याजयेत्
विश्वास-प्रस्तुतिः
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
तान् दे॒वानसु॑रा अजयन् ।
मूलम्
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
तान् दे॒वानसु॑रा अजयन् ।
भट्टभास्कर-टीका
‘देवासुरा इत्यादि ॥ पराजीग्यानाः पराजयं प्राप्तवन्तः । लिटः कानच्, ‘सन्लिटोर्जेः’ इति कुत्वम् ।
विश्वास-प्रस्तुतिः
ते दे॒वाᳶ प॑राजिग्या॒ना असु॑राणाव्ँ॒ वैश्य॒मुपा॑यन् ।
मूलम्
ते दे॒वाᳶ प॑राजिग्या॒ना असु॑राणाव्ँ॒ वैश्य॒मुपा॑यन् ।
भट्टभास्कर-टीका
वैश्यं विट्त्वं, विशः प्रजाः किङ्करादयः । गुणवचनलक्षणष्ष्यञ् ।
विश्वास-प्रस्तुतिः
तेभ्य॑ इन्द्रि॒यव्ँवी॒र्य॑मपा॑क्रामत् ।
मूलम्
तेभ्य॑ इन्द्रि॒यव्ँवी॒र्य॑मपा॑क्रामत् ।
भट्टभास्कर-टीका
तेभ्य इति । वैश्यं प्रतिपद्यमानेभ्यः देवेभ्यस्तेषामिन्द्रियं वीर्यं चापाक्रामत् ।
विश्वास-प्रस्तुतिः
तदिन्द्रो॑ऽचायत् ।
तदन्वपा॑क्रामत् ।
मूलम्
तदिन्द्रो॑ऽचायत् ।
तदन्वपा॑क्रामत् ।
भट्टभास्कर-टीका
इन्द्रस्तच्छ्रुत्वा तदनु देवसकाशादपाक्रामत् तदवरुरुत्सया ।
विश्वास-प्रस्तुतिः
तद॑व॒रुध॒न्नाश॑क्नोत् ।
मूलम्
तद॑व॒रुध॒न्नाश॑क्नोत् ।
भट्टभास्कर-टीका
अथ तदवरोद्धुं नाशक्नोत् । ‘शकिणमुल्कमुलौ’ इति कमुल् ।
विश्वास-प्रस्तुतिः
तद॑स्मादभ्य॒र्धो॑ऽचरत् ।
मूलम्
तद॑स्मादभ्य॒र्धो॑ऽचरत् ।
भट्टभास्कर-टीका
तदस्मादिति । तत् तदा अस्मादिन्द्रियात् वीर्याच्च अभ्यर्धः अर्धमभिगतः न सर्वं, स्ववीर्येणार्धं लब्ध्वाचरदिन्द्रः ।
विश्वास-प्रस्तुतिः
स प्र॒जाप॑ति॒मुपा॑धावत् ।
मूलम्
स प्र॒जाप॑ति॒मुपा॑धावत् ।
भट्टभास्कर-टीका
अथार्धान्तरं लिप्समानः प्रजापतिमुपाधावत् ।
विश्वास-प्रस्तुतिः
तमे॒तया॒ सर्व॑पृष्ठयाऽयाजयत् ।
मूलम्
तमे॒तया॒ सर्व॑पृष्ठयाऽयाजयत् ।
भट्टभास्कर-टीका
स चैनं सर्वपृष्ठेष्ट्यायाजयत् । सर्वाणि पृष्ठानि स्तोत्राणि रथन्तरबृहद्वैरूपवैराजशाक्वररैवताख्यानि यस्यामिन्द्रविशेषणत्वेन सन्ति सा तथाक्तो ।
विश्वास-प्रस्तुतिः
तयै॒वास्मि॑न्निन्द्रि॒यव्ँवी॒र्य॑मदधात् ।
य इ॑न्द्रि॒यका॑मो वी॒र्य॑काम॒स्स्यात् , तमे॒तया॒ सर्व॑पृष्ठया याजयेत् ।
मूलम्
तयै॒वास्मि॑न्निन्द्रि॒यव्ँवी॒र्य॑मदधात् ।
य इ॑न्द्रि॒यका॑मो वी॒र्य॑काम॒स्स्यात् , तमे॒तया॒ सर्व॑पृष्ठया याजयेत् ।
भट्टभास्कर-टीका
तयेत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
ए॒ता ए॒व दे॒वता॒स्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मि॑न्निन्द्रि॒यव्ँवी॒र्य॑न्दधति॒ यदिन्द्रा॑य॒ राथ॑न्तराय नि॒र्वप॑ति
विश्वास-प्रस्तुतिः
ए॒ता ए॒व दे॒वता॒स्स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
ता ए॒वास्मि॑न्निन्द्रि॒यव्ँवी॒र्य॑न्दधति ।
मूलम्
ए॒ता ए॒व दे॒वता॒स्स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
ता ए॒वास्मि॑न्निन्द्रि॒यव्ँवी॒र्य॑न्दधति ।
भट्टभास्कर-टीका
2एता इति ॥ राथन्तरादीन्द्रविशेषान् ।
विश्वास-प्रस्तुतिः
यदिन्द्रा॑य॒ राथ॑न्तराय नि॒र्वप॑ति ।
मूलम्
यदिन्द्रा॑य॒ राथ॑न्तराय नि॒र्वप॑ति ।
भट्टभास्कर-टीका
यदित्यादि । रथन्तरस्य पृष्ठसाम्नस्सम्बन्धी राथन्तरः । उत्सादित्वादञ् । एवं बार्हतायेत्यत्रापि । वैरूपादयोऽणन्ताः ॥
मूलम् (संयुक्तम्)
यदे॒वाग्नेस्तेज॒स्तदे॒वाव॑ रुन्द्धे॒ यदिन्द्रा॑य॒ बार्ह॑ताय॒ यदे॒वेन्द्र॑स्य॒ तेज॒स्तदे॒वाव॑ रुन्द्धे॒ यदिन्द्रा॑य वैरू॒पाय॒ यदे॒व स॑वि॒तुस्तेज॒स्तत् [30] ए॒वाव॑ रुन्द्धे॒ यदिन्द्रा॑य वैरा॒जाय॒ यदे॒व धा॒तुस्तेज॒स्तदे॒वाव॑ रुन्द्धे॒ यदिन्द्रा॑य शाक्व॒राय॒ यदे॒व म॒रुता॒न्तेज॒स्तदे॒वाव॑ रुन्द्धे॒ यदिन्द्रा॑य रैव॒ताय॒ यदे॒व बृह॒स्पते॒स्तेज॒स्तदे॒वाव॑ रुन्द्ध ए॒ताव॑न्ति॒ वै तेजाँ॑सि॒ तान्ये॒वाव॑ रुन्द्धे
विश्वास-प्रस्तुतिः
यदे॒वाग्नेस्तेज॒स्तदे॒वाव॑ रुन्द्धे ।
यदिन्द्रा॑य॒ बार्ह॑ताय॒ यदे॒वेन्द्र॑स्य॒ तेज॒स्तदे॒वाव॑ रुन्द्धे ।
यदिन्द्रा॑य वैरू॒पाय॒ यदे॒व स॑वि॒तुस्तेज॒स्तदे॒वाव॑ रुन्द्धे ।
यदिन्द्रा॑य वैरा॒जाय॒ यदे॒व धा॒तुस्तेज॒स्तदे॒वाव॑ रुन्द्धे ।
यदिन्द्रा॑य शाक्व॒राय॒ यदे॒व म॒रुता॒न्तेज॒स्तदे॒वाव॑ रुन्द्धे ।
यदिन्द्रा॑य रैव॒ताय॒ यदे॒व बृह॒स्पते॒स्तेज॒स्तदे॒वाव॑ रुन्द्धे ।
ए॒ताव॑न्ति॒ वै तेजाँ॑सि॒ तान्ये॒वाव॑ रुन्द्धे ।
मूलम्
यदे॒वाग्नेस्तेज॒स्तदे॒वाव॑ रुन्द्धे ।
यदिन्द्रा॑य॒ बार्ह॑ताय॒ यदे॒वेन्द्र॑स्य॒ तेज॒स्तदे॒वाव॑ रुन्द्धे ।
यदिन्द्रा॑य वैरू॒पाय॒ यदे॒व स॑वि॒तुस्तेज॒स्तदे॒वाव॑ रुन्द्धे ।
यदिन्द्रा॑य वैरा॒जाय॒ यदे॒व धा॒तुस्तेज॒स्तदे॒वाव॑ रुन्द्धे ।
यदिन्द्रा॑य शाक्व॒राय॒ यदे॒व म॒रुता॒न्तेज॒स्तदे॒वाव॑ रुन्द्धे ।
यदिन्द्रा॑य रैव॒ताय॒ यदे॒व बृह॒स्पते॒स्तेज॒स्तदे॒वाव॑ रुन्द्धे ।
ए॒ताव॑न्ति॒ वै तेजाँ॑सि॒ तान्ये॒वाव॑ रुन्द्धे ।
भट्टभास्कर-टीका
3यदेवाग्नेरित्यादि ॥ रथन्तरस्याग्निभक्तत्वात् । यथा ‘तमग्निर्देवतान्वसृज्यत गायत्री छन्दो रथन्तरं साम’ इति । एवं सर्वत्र द्रष्टव्यम् ॥
विश्वास-प्रस्तुतिः
उ॒त्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒त्यया॑तयामत्वाय ।
मूलम्
उ॒त्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒त्यया॑तयामत्वाय ।
भट्टभास्कर-टीका
4उत्तानेष्वित्यादि ॥ व्याख्यातम् । तत्रायं प्रयोगः - इन्द्राय राथन्तराय चतुरो मुष्टीन् व्रीहीणां निरुप्य पुनरपि बार्हताद्यै एकैकस्यै देवतायै चतुरश्चतुरो मुष्टीन्निरुप्य हविष्कृता वाचं विसृज्य गार्हपत्ये द्वादशोत्तानानि कपालान्युपधायाधिश्रयतीति ॥
विश्वास-प्रस्तुतिः
द्वाद॑शकपालᳶ पुरो॒डाशो भ॒व॒ति॒ वै॒श्व॒दे॒व॒त्वाय॑ ।
मूलम्
द्वाद॑शकपालᳶ पुरो॒डाशो भ॒व॒ति॒ वै॒श्व॒दे॒व॒त्वाय॑ ।
भट्टभास्कर-टीका
5द्वादशकपाल इति ॥ एकः पुरोडाशो द्वादशकपालः कार्यः वैश्वदेवत्वाय द्वादशकपालस्य विश्वेदेवसम्बन्धित्वात् ॥
विश्वास-प्रस्तुतिः
सम॒न्तम्प॒र्यव॑द्यति ,
सम॒न्तमे॒वेन्द्रि॒यव्ँवी॒र्यय्ँ॑यज॑माने दधाति ।
मूलम्
सम॒न्तम्प॒र्यव॑द्यति ,
सम॒न्तमे॒वेन्द्रि॒यव्ँवी॒र्यय्ँ॑यज॑माने दधाति ।
भट्टभास्कर-टीका
6समन्तमिति ॥ पूर्वार्धादारभ्य प्रदक्षिणमुत्तरापवर्गं परितोवद्यति ॥
विश्वास-प्रस्तुतिः
व्य॒त्यास॒मन्वा॒हानि॑र्दाहाय ।
मूलम्
व्य॒त्यास॒मन्वा॒हानि॑र्दाहाय ।
भट्टभास्कर-टीका
7व्यत्यासमिति ॥ ‘त्वामिद्धि हवामहे’ इति षडृचो व्यत्यस्यान्वाह । तद्यथा - ‘इन्द्राय राथन्तरायानुब्रूहि’ इत्युक्ते ‘अभि त्वा शूर नोनुमः’ इत्यनूच्य ‘त्वामिद्धि हवामहे’ इति यजति ।
‘इन्द्राय बार्हतायानुब्रूहि’ इत्युक्ते ‘त्वामिद्धि हवामहे’ इति यजति ।
‘इन्द्राय बार्हतायानुब्रूहि’ इत्युक्ते ‘त्वामिद्धि हवामहे’ इत्यनूच्य ‘यद्याव इन्द्रते’ इति यजति ।
‘इन्द्राय वैरूपायानुब्रूहि’ इत्युक्ते ‘यद्याव इन्द्र’ इत्यनूच्य ‘पिबा सोममिन्द्र’ इति यजति ।
‘इन्द्राय वैराजायानुब्रूहि ‘इत्युक्ते ‘पिबा सोममिन्द्र’ इत्यनूच्य ‘कदा चन स्तरीरसि’ इति यजति ।
‘इन्द्राय शाक्वरायानुब्रूहि’ इत्युक्ते ‘कदा चन स्तरीरसि’ इत्यनूच्य ‘रेवतीर्नस्सधमादः’ इति यजति ।
‘इन्द्राय रैवतायानुब्रूहि’ इत्युक्ते ‘रेवतीर्नस्सधमादः’ इत्यनूच्य ‘अभि त्वा शूर नोनुमः’ इति यजति ॥
विश्वास-प्रस्तुतिः
अश्व॑ ऋष॒भो वृ॒ष्णिर्ब॒स्तस्सा दक्षि॑णा।
मूलम्
अश्व॑ ऋष॒भो वृ॒ष्णिर्ब॒स्तस्सा दक्षि॑णा।
भट्टभास्कर-टीका
8अश्व इत्यादि ॥ अन्वाहार्यमासाद्य अश्वादीन् दक्षिणां दद्यात् ।
विश्वास-प्रस्तुतिः
वृष॒त्वायै॒तयै॒व य॑जेत ।
मूलम्
वृष॒त्वायै॒तयै॒व य॑जेत ।
भट्टभास्कर-टीका
वृषत्वायेति । वृषत्वं सेक्तृवं वीर्यवत्त्वम् । एषां दानं वृषत्वाय भवति यजमानस्य ; सेक्तृत्वादेषाम् ॥
विश्वास-प्रस्तुतिः
अ॒भि॒श॒स्यमा॑न॒ ए॒ताश्चेद्वा अ॑स्य दे॒वता॒ अन्न॑म॒दन्ति, अ॒दन्त्यु॑वे॒वास्य॑ मनु॒ष्याः॑ ॥
मूलम्
अ॒भि॒श॒स्यमा॑न॒ ए॒ताश्चेद्वा अ॑स्य दे॒वता॒ अन्न॑म॒दन्ति, अ॒दन्त्यु॑वे॒वास्य॑ मनु॒ष्याः॑ ॥
भट्टभास्कर-टीका
9अभिशस्यमान इति ॥ परिवदनारोपणं दूषणमभिशंसः । एताश्चेदिति । एता देवता अस्यान्नमदन्ति चेत् अदन्त्येवास्यान्नं मनुष्याः ; अभिशस्तत्वान्मुक्तो भोज्यान्न एव भवतीति यावत् । ‘उकारोपृक्तः प्रकृत्या वकारोन्तरेः’ इति संहितायां वकार आगमः, ‘तन्वादीनां बहुलम्’ इति संहितायामुवङ्वा ॥
इति द्वितीये तृतीये सप्तमोनुवाकः ॥