विश्वेदेवा ऋषयः ।
मूलम् (संयुक्तम्)
प्र॒जाप॑तिर्दे॒वेभ्यो॒ऽन्नाद्य॒व्व्ँयादि॑श॒त्सो॑ऽब्रवी॒द्यदि॒माल्ँ लो॒कान॒भ्य॑ति॒रिच्या॑तै॒ तन्ममा॑स॒दिति॒ तदि॒माल्ँ लो॒कान॒भ्यत्य॑रिच्य॒तेन्द्रँ॒ राजा॑न॒मिन्द्र॑मधिरा॒जमिन्द्रँ॑ स्व॒राजा॑न॒न्ततो॒ वै स इ॒माल्ँ लो॒काँस्त्रे॒धादु॑ह॒त्तत्त्रि॒धातो॑स्त्रिधातु॒त्वय्यङ्का॒मये॑तान्ना॒दस्स्या॒दिति॒ तस्मा॑ ए॒तन्त्रि॒धातु॒न्निर्व॑पे॒दिन्द्रा॑य॒ राज्ञे॑ पुरो॒डाश॑म् [27] एका॑दशकपाल॒मिन्द्रा॑याधिरा॒जायेन्द्रा॑य स्व॒राज्ञे॒ऽयव्ँवा इन्द्रो॒ राजा॒यमिन्द्रो॑ऽधिरा॒जो॑ऽसाविन्द्र॑स्स्व॒राडि॒माने॒व लो॒कान्त्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्न॒म्प्र य॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ यथा॑ व॒त्सेन॒ प्रत्ता॒ङ्गान्दु॒ह ए॒वमे॒वेमाल्ँ लो॒कान्प्रत्ता॒न्काम॑म॒न्नाद्य॑न्दुह उत्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒त्यया॑तयामत्वाय॒ त्रयᳶ॑ पुरो॒डाशा॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षाल्ँ लो॒काना॒माप्त्या॒ उत्त॑रउत्तरो॒ ज्याया॑न्भवत्ये॒वमि॑व॒ हीमे लो॒कास्समृ॑द्ध्यै॒ सर्वे॑षामभिग॒मय॒न्नव॑ द्य॒त्यछ॑म्बट्कारव्व्ँय॒त्यास॒मन्वा॒हानि॑र्दाहाय ॥ [28]
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिर्दे॒वेभ्यो॒ऽन्नाद्य॒व्व्ँयादि॑शत् ।
मूलम्
प्र॒जाप॑तिर्दे॒वेभ्यो॒ऽन्नाद्य॒व्व्ँयादि॑शत् ।
भट्टभास्कर-टीका
1प्रजापतिर्देवेभ्य इत्यादि ॥ व्यादिशत् पृथक्त्वेन व्यावृत्तमादिशत्, एकैकलोकविशेषावधिकमित्यर्थः ।
विश्वास-प्रस्तुतिः
सो॑ऽब्रवीत् ।
यदि॒माल्ँ लो॒कान॒भ्य॑ति॒रिच्या॑ते, एतन्ममा॑स॒दिति॑ ।
मूलम्
सो॑ऽब्रवीत् ।
यदि॒माल्ँ लो॒कान॒भ्य॑ति॒रिच्या॑ते, एतन्ममा॑स॒दिति॑ ।
भट्टभास्कर-टीका
अथ देवानां तथा व्यादिश्य सोब्रवीत्प्रजापतिः ; यदन्नाद्यमिमान् सर्वानपि लोकान् अभ्यतिरिच्यते अतिव्याप्य वर्तते नैकैकलोकावधिकं भवति तत् ममासत् अस्तु । अतिरिच्यतेर्लेटि आडागमः, ’ वैतोन्यत्र ’ इत्यैत्वम् । आस्तेर्लेट्याडागमः ।
विश्वास-प्रस्तुतिः
तदि॒माल्ँ लो॒कान॒भ्यत्य॑रिच्यत ।
मूलम्
तदि॒माल्ँ लो॒कान॒भ्यत्य॑रिच्यत ।
भट्टभास्कर-टीका
तस्मादिमान् लोकान् अभ्यत्यरिच्यत प्राजापत्यमैश्वर्यम् ।
विश्वास-प्रस्तुतिः
इन्द्रँ॒ राजा॑न॒मिन्द्र॑मधिरा॒जमिन्द्रँ॑ स्व॒राजा॑नम् ।
मूलम्
इन्द्रँ॒ राजा॑न॒मिन्द्र॑मधिरा॒जमिन्द्रँ॑ स्व॒राजा॑नम् ।
भट्टभास्कर-टीका
किमस्मान् लोकानित्याह – इन्द्रं राजानमित्यादि । तिस्र एतास्त्रिधातोर्देवता लोकत्रयात्मिकाः ।
विश्वास-प्रस्तुतिः
ततो॒ वै स इ॒माल्ँ लो॒काँस्त्रे॒धादु॑हत् ।
मूलम्
ततो॒ वै स इ॒माल्ँ लो॒काँस्त्रे॒धादु॑हत् ।
भट्टभास्कर-टीका
ततः खलु त्रिधातुदेवतानां त्रित्वात्प्रजापतिः लोकत्रयव्यापी व्याप्तानिमान् लोकांस्त्रेधादुहत् त्रिप्रकारमदुहत् । उत्तरोत्तरज्यायस्त्वात्त्रिप्रकारलोकत्रयात्मना अत्मीयमैश्वर्यं विभक्तवान् ।
विश्वास-प्रस्तुतिः
तत्त्रि॒धातो॑स्त्रिधातु॒त्वम् ।
मूलम्
तत्त्रि॒धातो॑स्त्रिधातु॒त्वम् ।
भट्टभास्कर-टीका
तदित्यादि । त्रयो धातवो धनान्यस्मिन्निति त्रिधातुः, त्रेधा धातव्यत्वात्पुरोडाशस्य । धातव्या वा पुरोडाशा धातवः, त्रिधा भिन्नाः पुरोडाशा अस्मिन्निति । यद्वा - सर्वाधारलोकत्रयात्मकत्वात् त्रिधातुः ॥
विश्वास-प्रस्तुतिः
यङ्का॒मये॑तान्ना॒दस्स्या॒दिति॑ ।
तस्मा॑ ए॒तन्त्रि॒धातु॒न्निर्व॑पेत् ।
इन्द्रा॑य॒ राज्ञे॑ पुरो॒डाश॑मेका॑दशकपालम् ।
इन्द्रा॑याधिरा॒जायेन्द्रा॑य स्व॒राज्ञे॑ ।
अ॒यव्ँवा इन्द्रो॒ राजा॒यमिन्द्रो॑ऽधिरा॒जो॑ऽसाविन्द्र॑स्स्व॒राट्,
इ॒माने॒व लो॒कान्त्स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
त ए॒वास्मा॒ अन्न॒म्प्रय॑च्छन्ति ।
अ॒न्ना॒द ए॒व भ॑वति ।
मूलम्
यङ्का॒मये॑तान्ना॒दस्स्या॒दिति॑ ।
तस्मा॑ ए॒तन्त्रि॒धातु॒न्निर्व॑पेत् ।
इन्द्रा॑य॒ राज्ञे॑ पुरो॒डाश॑मेका॑दशकपालम् ।
इन्द्रा॑याधिरा॒जायेन्द्रा॑य स्व॒राज्ञे॑ ।
अ॒यव्ँवा इन्द्रो॒ राजा॒यमिन्द्रो॑ऽधिरा॒जो॑ऽसाविन्द्र॑स्स्व॒राट्,
इ॒माने॒व लो॒कान्त्स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
त ए॒वास्मा॒ अन्न॒म्प्रय॑च्छन्ति ।
अ॒न्ना॒द ए॒व भ॑वति ।
भट्टभास्कर-टीका
2यमित्यादि ॥ गतम् । तत्रायं प्रयोगः - चतुरश्चतुरो मुष्टीनेकैकस्यै देवतायै निरुप्य हविष्कृता वाचं विसृजते । समानं कर्माधिवपनात् । अथाध्युप्य गार्हपत्य एकादशोत्तानानि कपालान्युपदधाति । तेष्वेव त्रीन् पुरोडाशानधिश्रयति । प्रथममधिश्रित्य परितपनान्तं कृत्वा तस्मिन्नुत्तरं ततो ज्यायासमधिश्रयति । पुनस्तदन्तं कृत्वा तस्मिन्नुत्तरं ततो ज्यायांसमधिश्रयतीति ॥
विश्वास-प्रस्तुतिः
यथा॑ व॒त्सेन॒ प्रत्ता॒ङ्गान्दु॒हे ।
ए॒वमे॒वेमाल्ँ लो॒कान्प्रत्ता॒न्काम॑म॒न्नाद्य॑न्दुहे ।
मूलम्
यथा॑ व॒त्सेन॒ प्रत्ता॒ङ्गान्दु॒हे ।
ए॒वमे॒वेमाल्ँ लो॒कान्प्रत्ता॒न्काम॑म॒न्नाद्य॑न्दुहे ।
भट्टभास्कर-टीका
3यथेति ॥ प्रत्तां प्रदातुं क्षीरमारब्धाम् । आदिकर्मणि निष्ठा । यथा वत्ससंसर्गेण बृंहितोधोभारा दुहे दुग्धे । ‘लोपस्त आत्मनेपदेषु’ इति तलोपः । एवमेवेमान् लोकान् अनेन त्रिधातुना वत्सस्थानीयेन प्रत्तां कामं स्वाभिमतमन्नाद्यं दुघ्धे यजमानः ॥
विश्वास-प्रस्तुतिः
उ॒त्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒ति ।
अया॑तयामत्वाय॒ त्रयᳶ॑ पुरो॒डाशा॑ भवन्ति ।
मूलम्
उ॒त्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒ति ।
अया॑तयामत्वाय॒ त्रयᳶ॑ पुरो॒डाशा॑ भवन्ति ।
भट्टभास्कर-टीका
4उत्तानेष्विति ॥ गतम् । यातयामत्वं गतरसत्वम् ।
विश्वास-प्रस्तुतिः
त्रय॑ इ॒मे लो॒का ए॒षाल्ँ लो॒काना॒माप्त्यै ।
मूलम्
त्रय॑ इ॒मे लो॒का ए॒षाल्ँ लो॒काना॒माप्त्यै ।
भट्टभास्कर-टीका
त्रय इति । पुरोडाशत्रित्वेन लोकत्रयाप्तिः ।
विश्वास-प्रस्तुतिः
उत्त॑रउत्तरो॒ ज्याया॑न्भवति ।
ए॒वमि॑व॒ हीमे लो॒कास्समृ॑द्ध्यै ।
मूलम्
उत्त॑रउत्तरो॒ ज्याया॑न्भवति ।
ए॒वमि॑व॒ हीमे लो॒कास्समृ॑द्ध्यै ।
भट्टभास्कर-टीका
उत्तरउत्तर इति । लोकानामुत्तरोत्तरज्यायस्त्वात् पुरोडाशानामप्युत्तरोत्तरज्यायस्त्वं समृद्ध्यै भति । सदृशयोगात्समृद्धिः ॥
विश्वास-प्रस्तुतिः
सर्वे॑षामभिग॒मय॒न्नव॑द्यति ।
मूलम्
सर्वे॑षामभिग॒मय॒न्नव॑द्यति ।
भट्टभास्कर-टीका
5सर्वेषामिति । सर्वेषां पुरोडाशानां अभिगमयन् पार्श्वे गमनं कुर्वन् अवद्यति । यत्र प्रथमस्यावद्यति तत्पार्श्वे द्वितीयस्यापि, तत्पार्श्वे तृतीयस्य । एतदुक्तं भवति - दक्षिणार्धात्प्रथमां देवतां यजेत्, मध्याद्द्वितीयां, उत्तरार्धात्तृतीयामिति । अछम्बट्कारं अनार्तत्वं, (य) एकस्मिन् भागे त्रयाणामवदाने त्रयमप्यार्तं स्यात् ॥
विश्वास-प्रस्तुतिः
अछ॑म्बट्कारव्व्ँय॒त्यास॒मन्वा॒हानि॑र्दाहाय ॥
मूलम्
अछ॑म्बट्कारव्व्ँय॒त्यास॒मन्वा॒हानि॑र्दाहाय ॥
भट्टभास्कर-टीका
6व्यत्यासमिति । व्यत्यासो विनिमयः । व्यत्यासं व्यत्यस्य । णमुलि प्रत्ययात्पूर्वस्योदात्तत्यम् । प्राच्यां दिशि ‘त्वमिन्द्र’ इत्यादयस्तिस्र ऋचः । तत्र प्रथमामनूच्य मध्यमया यजेत् प्रथमे, मध्यमामनूच्य उत्तमया यजेत् द्वितीये, उत्तमामनूच्य प्रथमया यजेत् तृतीये, इति । एवं सर्वा याज्याः पुरोनुवाक्याश्च भवन्ति । तद्यथा - ‘इन्द्राय राज्ञेनुब्रूहि’ इत्युक्ते प्राच्यां दिशि ‘त्वमिन्द्र’ इत्यन्वाह पुरोनुवाक्याम्, ‘इन्द्रो जयाति न परो जयातै’ इति यजति । ‘इन्द्रायाधिराजाय’ इत्युक्ते ‘इन्द्रो जयाति न परो जयातै’ इत्यन्वाह पुरोनुवाक्याम्, ‘अस्ये देव प्ररिरिचे’ इति यजति । ‘इन्द्राय स्वराज्ञेनुब्रूहि’ इत्युक्ते ‘अस्ये देव’ इति पुरोनुवाक्यामन्वाह, प्राच्यां दिशि ‘त्वमिन्द्र’ इति यजति । एवं क्रियमाणमनिर्दाहाय भवति । इतरथा हवींषि निर्दग्धानि विनाशितानि स्युः ॥
इति द्वितीये तृतीये षष्ठोनुवाकः ॥