विश्वेदेवा ऋषयः ।
मूलम् (संयुक्तम्)
प्र॒जाप॑ते॒स्त्रय॑स्त्रिँशद्दुहि॒तर॑ आस॒न्तास्सोमा॑य॒ राज्ञे॑ऽददा॒त्तासाँ॑ रोहि॒णीमुपै॒त्ता ईर्ष्य॑न्ती॒ᳶ पुन॑रगच्छ॒न्ता अन्वै॒त्ताᳶ पुन॑रयाचत॒ ता अ॑स्मै॒ न पुन॑रददा॒त्सो॑ऽब्रवीदृ॒तम॑मीष्व॒ यथा॑ समाव॒च्छ उ॑पै॒ष्याम्यथ॑ ते॒ पुन॑र्दास्या॒मीति॒ स ऋ॒तमा॑मी॒त्ता अ॑स्मै॒ पुन॑रददा॒त्तासाँ॑ रोहि॒णीमे॒वोप॑ [24] ऐ॒त्तय्ँयक्ष्म॑ आर्च्छ॒द्राजा॑नय्ँ॒यक्ष्म॑ आर॒दिति॒ तद्रा॑जय॒क्ष्मस्य॒ जन्म॒ यत्पापी॑या॒नभ॑व॒त्तत्पा॑पय॒क्ष्मस्य॒ यज्जा॒याभ्योऽवि॑न्द॒त्तज्जा॒येन्य॑स्य॒ य ए॒वमे॒तेषाय्ँ॒यक्ष्मा॑णा॒ञ्जन्म॒ वेद॒ नैन॑मे॒ते यक्ष्मा॑ विन्दन्ति॒ स ए॒ता ए॒व न॑म॒स्यन्नुपा॑धाव॒त्ता अ॑ब्रुव॒न्वरव्ँ॑वृणामहै समाव॒च्छ ए॒व न॒ उपा॑य॒ इति॒ तस्मा॑ ए॒तम् [25] आ॒दि॒त्यञ्च॒रुन्निर॑वप॒न्तेनै॒वैन॑म्पा॒पात्स्रामा॑दमुञ्च॒न्
विश्वास-प्रस्तुतिः
प्र॒जाप॑ते॒स्त्रय॑स्त्रिँशद्दुहि॒तर॑ आसन् ।
तास्सोमा॑य॒ राज्ञे॑ऽददात् ।
तासाँ॑ रोहि॒णीमुपै॑त् ।
मूलम्
प्र॒जाप॑ते॒स्त्रय॑स्त्रिँशद्दुहि॒तर॑ आसन् ।
तास्सोमा॑य॒ राज्ञे॑ऽददात् ।
तासाँ॑ रोहि॒णीमुपै॑त् ।
भट्टभास्कर-टीका
1प्रजापतेस्त्रयस्त्रिंशदित्यादि ॥ अश्विन्यादयस्सप्तविंशतिस्तारकाभिमानिन्यः ; ऋद्ध्या दयष्षडन्या इत्येके । अन्ये तु - षट्कृत्तिकाः अभिजिदेका अश्विन्यादयष्षद्विंशतिरिति त्रयस्त्रिंशत्तारका इत्याहुः ।
विश्वास-प्रस्तुतिः
ता ईर्ष्य॑न्ती॒ᳶ पुन॑रगच्छन्।
ता अन्वै॑त् ।
ताᳶ पुन॑रयाचत ।
मूलम्
ता ईर्ष्य॑न्ती॒ᳶ पुन॑रगच्छन्।
ता अन्वै॑त् ।
ताᳶ पुन॑रयाचत ।
भट्टभास्कर-टीका
ईर्ष्यन्तीरिति । सपत्नीबहुमानमसहमानाः पितरमेव पुनरगच्छन् ।
विश्वास-प्रस्तुतिः
ता अ॑स्मै॒ न पुन॑रददात् ।
मूलम्
ता अ॑स्मै॒ न पुन॑रददात् ।
भट्टभास्कर-टीका
ता अन्वगच्छत् सोमः अयाचत प्रजापतिम् । ततस्तास्सोमाय नाददात्प्रजापतिः ।
विश्वास-प्रस्तुतिः
सो॑ऽब्रवीत् ।
ऋतम॑मीष्व ।
मूलम्
सो॑ऽब्रवीत् ।
ऋतम॑मीष्व ।
भट्टभास्कर-टीका
अथ स प्रजापतिरब्रवीत् सोमं ऋतं सत्यममीष्व प्रतिपद्यस्व शपथं कुरु, सत्येनेति यावत् । शपो लुक्, छान्दस इडागमः ।
विश्वास-प्रस्तुतिः
यथा॑ समाव॒च्छ उ॑पै॒ष्यामि ।
मूलम्
यथा॑ समाव॒च्छ उ॑पै॒ष्यामि ।
भट्टभास्कर-टीका
शपथप्रयोगं दर्शयति - यथेति । यथा इदमर्थरूपं समावच्छ उपैष्यामीति एवं शपथः क्रियताम् ।
विश्वास-प्रस्तुतिः
अथ॑ ते॒ पुन॑र्दास्या॒मीति॑ ।
मूलम्
अथ॑ ते॒ पुन॑र्दास्या॒मीति॑ ।
भट्टभास्कर-टीका
अथैतास्तुभ्यं पुनर्दास्यामीति । समादावतुप् स्वार्थिकः । सममित्यर्थः । ततः ‘सङ्ख्यैकवचनात्’ इति शसः क्रियाविशेषणत्वात्कर्मत्वम् ।सर्वेष्वप्यहस्सु सममेवैताः सर्वा उपेष्यामीत्यर्थः ।
विश्वास-प्रस्तुतिः
स ऋ॒तमा॑मीत् ।
ता अ॑स्मै॒ पुन॑रददात् ।
मूलम्
स ऋ॒तमा॑मीत् ।
ता अ॑स्मै॒ पुन॑रददात् ।
भट्टभास्कर-टीका
स सोमस्तथाकरोत्, प्रजापतिश्च पुनरदात् ।
विश्वास-प्रस्तुतिः
तासाँ॑ रोहि॒णीमे॒वोपै॑त् ।
मूलम्
तासाँ॑ रोहि॒णीमे॒वोपै॑त् ।
भट्टभास्कर-टीका
अथ सोमः पुनरपि तासां मध्ये रोहिणीमेवोपैत् ।
विश्वास-प्रस्तुतिः
तय्ँयक्ष्म॑ आर्च्छत् ।
मूलम्
तय्ँयक्ष्म॑ आर्च्छत् ।
भट्टभास्कर-टीका
अथ सत्यातिक्रमात् तं सोमं यक्ष्मः क्षयरोगः आर्तमकरोत् । यक्ष पूजायाम्, औणादिको मन्प्रत्ययः । रोगोत्तमत्वं पूजा ।
विश्वास-प्रस्तुतिः
राजा॑नय्ँ॒यक्ष्म॑ आर॒दिति॒ तद्रा॑जय॒क्ष्मस्य॒ जन्म॑ ।
मूलम्
राजा॑नय्ँ॒यक्ष्म॑ आर॒दिति॒ तद्रा॑जय॒क्ष्मस्य॒ जन्म॑ ।
भट्टभास्कर-टीका
राजानमित्यादि । राज्ञो यक्ष्मः राजयक्ष्म इति ।
विश्वास-प्रस्तुतिः
यत्पापी॑या॒नभ॑व॒त्, तत्पा॑पय॒क्ष्मस्य +++(जन्म)+++।
मूलम्
यत्पापी॑या॒नभ॑व॒त्, तत्पा॑पय॒क्ष्मस्य +++(जन्म)+++।
भट्टभास्कर-टीका
पापीयानिति । पुरुषान्तरयक्ष्मात्पापतरत्वात्पापश्चासौ यक्ष्मश्चेति ।
विश्वास-प्रस्तुतिः
यज्जा॒याभ्योऽवि॑न्द॒त्, तज्जा॒येन्य॑स्य +++(जन्म)+++।
मूलम्
यज्जा॒याभ्योऽवि॑न्द॒त्, तज्जा॒येन्य॑स्य +++(जन्म)+++।
भट्टभास्कर-टीका
जायाभ्य इति । ‘तत आगतः’ इति छान्दस एन्यः ।
विश्वास-प्रस्तुतिः
य ए॒वमे॒तेषाय्ँ॒यक्ष्मा॑णा॒ञ्जन्म॒ वेद॑ ।
मूलम्
य ए॒वमे॒तेषाय्ँ॒यक्ष्मा॑णा॒ञ्जन्म॒ वेद॑ ।
भट्टभास्कर-टीका
य एवमिति । एकस्यैव यक्ष्मस्य निमित्तभेदेन त्रित्वमुपचर्यते ।
विश्वास-प्रस्तुतिः
नैन॑मे॒ते यक्ष्मा॑ विन्दन्ति ।
मूलम्
नैन॑मे॒ते यक्ष्मा॑ विन्दन्ति ।
भट्टभास्कर-टीका
विन्दतीति । बाधितुं न लभन्ते ।
विश्वास-प्रस्तुतिः
स ए॒ता ए॒व न॑म॒स्यन्नुपा॑धावत् ।
मूलम्
स ए॒ता ए॒व न॑म॒स्यन्नुपा॑धावत् ।
भट्टभास्कर-टीका
अथ सोमः प्रजापतिं मुक्त्वा एता जाया नमस्यन् पूजयन् उपाधावत् आर्तोस्मि प्रसीदन्तु भवत्य इति ।
विश्वास-प्रस्तुतिः
ता अ॑ब्रुवन् ।
वरव्ँ॑वृणामहै, समाव॒च्छ ए॒व न॒ उपा॑य॒ इति॑ ।
मूलम्
ता अ॑ब्रुवन् ।
वरव्ँ॑वृणामहै, समाव॒च्छ ए॒व न॒ उपा॑य॒ इति॑ ।
भट्टभास्कर-टीका
अथ ता अब्रुवन् वरं वृणामहै सममेव चास्मानुपायः उपगच्छेति तुल्यप्रतिपत्तयो वयं स्यामेति ।
विश्वास-प्रस्तुतिः
तस्मा॑ ए॒तमा॑दि॒त्यञ्च॒रुन्निर॑वपन् ।
तेनै॒वैन॑म्पा॒पात्स्रामा॑दमुञ्चन् ।
मूलम्
तस्मा॑ ए॒तमा॑दि॒त्यञ्च॒रुन्निर॑वपन् ।
तेनै॒वैन॑म्पा॒पात्स्रामा॑दमुञ्चन् ।
भट्टभास्कर-टीका
इत्थमिदं करिष्यामीति सोमेनाभ्युपगते तस्मै आदित्यं चरुं निरवपन् जायाः, तेनैव पापात्स्रामाद्रोगादेनममुञ्चन् ॥
मूलम् (संयुक्तम्)
यᳶ पा॑पय॒क्ष्मगृ॑हीत॒स्स्यात्तस्मा॑ ए॒तमा॑दि॒त्यञ्च॒रुन्निर्व॑पेदादि॒त्याने॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैन॑म्पा॒पात्स्रामा॑न्मुञ्चन्त्यमावा॒स्या॑या॒न्निर्व॑पेद॒मुमे॒वैन॑मा॒प्याय॑मान॒मन्वा प्या॑ययति॒ नवो॑नवो भवति॒ जाय॑मान॒ इति॑ पुरोनुवा॒क्या॑ भव॒त्यायु॑रे॒वास्मि॒न्तया॑ दधाति॒ यमा॑दि॒त्या अँ॒शुमा॑प्या॒यय॒न्तीति॑ या॒ज्यैवैन॑मे॒तया॑ प्याययति ॥ [26]
विश्वास-प्रस्तुतिः
यᳶ पा॑पय॒क्ष्मगृ॑हीत॒स्स्यात् ।
तस्मा॑ ए॒तमा॑दि॒त्यञ्च॒रुन्निर्व॑पेत् ।
आ॒दि॒त्याने॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
त ए॒वैन॑म्पा॒पात्स्रामा॑न्मुञ्चन्ति ।
मूलम्
यᳶ पा॑पय॒क्ष्मगृ॑हीत॒स्स्यात् ।
तस्मा॑ ए॒तमा॑दि॒त्यञ्च॒रुन्निर्व॑पेत् ।
आ॒दि॒त्याने॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
त ए॒वैन॑म्पा॒पात्स्रामा॑न्मुञ्चन्ति ।
भट्टभास्कर-टीका
2य इत्यादि ॥ गतम् ।
विश्वास-प्रस्तुतिः
अ॒मा॒वा॒स्या॑या॒न्निर्व॑पेत् ।
मूलम्
अ॒मा॒वा॒स्या॑या॒न्निर्व॑पेत् ।
भट्टभास्कर-टीका
अमावास्यायामिति शुक्लप्रतिपत्प्रभृति आप्यायते चन्द्रः, तमनु यममानमाप्याययति ॥
विश्वास-प्रस्तुतिः
अ॒मुमे॒वैन॑मा॒प्याय॑मान॒मन्वा प्या॑ययति ।
नवो॑नवो भवति॒ जाय॑मान॒ इति॑ पुरोनुवा॒क्या॑ भवति ।
आयु॑रे॒वास्मि॒न्तया॑ दधाति ।
यमा॑दि॒त्या अँ॒शुमा॑प्या॒यय॒न्तीति ।
या॒ज्यैवैन॑मे॒तया॑ प्याययति ॥
मूलम्
अ॒मुमे॒वैन॑मा॒प्याय॑मान॒मन्वा प्या॑ययति ।
नवो॑नवो भवति॒ जाय॑मान॒ इति॑ पुरोनुवा॒क्या॑ भवति ।
आयु॑रे॒वास्मि॒न्तया॑ दधाति ।
यमा॑दि॒त्या अँ॒शुमा॑प्या॒यय॒न्तीति ।
या॒ज्यैवैन॑मे॒तया॑ प्याययति ॥
भट्टभास्कर-टीका
एवैनमिति । एतया आप्याययत्येव ॥
- मन्त्रः
नवो॑नवो भवति॒ जाय॑मा॒नोऽह्ना॑ङ्के॒तुरु॒षसा॑मे॒त्यग्रे॑ ।
भा॒गन्दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र च॒न्द्रमा॑स्तिरति दी॒र्घमायुः॑ ।
- 1अथ याज्याकाण्डं वैश्वदेवम् । 'यः पापयक्ष्मगृहीतस्स्यात्तस्मा एतमादित्यं चरुं निर्वपेत्' इत्यस्याः पुरोनुवाक्या - नवोनव इति त्रिष्टुप् ॥
अत्र चन्द्रगुणकीर्तनेनादित्य एव स्तूयते, तेषां चन्द्रगुणानामादित्याधीनत्वात् । तथा हि - चन्द्रो नामायं भास्वरः सलिलकटाहात्मा । यथाहुः -
सूर्योग्निमयो गोळः चन्द्रोम्बुमयस्स्वभावतस्स्वच्छः । इति ।
तस्मादस्य दिवसकररुचिसमाश्लेषेण भास्वरत्वं भवति । यथाहुः -
भूग्रहभानां गोलार्धानि स्वच्छायया विवर्णानि ।
अर्धानि यथासारं सूर्याभिमुखानि दीप्यन्ते ॥ इति ।
तस्माच्चन्द्रमसो बिम्बं गोळार्धं सूर्याभिमुखं सदा चकास्ति । किं सर्वदा चकास्ति? किमिति नोपलभ्यते?
श्रूयताम् - अमावास्यायां चन्द्रमस उपर्यादित्यः ; तदा चन्द्रमस उपरि यद्बिम्बार्धं तदशेषमवभासयति सविता । चन्द्रस्यामावास्योपलक्षितोपरिबिम्बे केन्द्राद्यथायथा पश्चादादित्योवलम्बते तथातथा चन्द्रमसो बिम्बं केन्द्रस्य परतोवलम्बते । तत्केन्द्रवशात् चन्द्रमसो बिम्बार्धशेषं आभासयति सविता । यावदेवास्योपलक्षितबिम्बपरिध्यवधेरधोवलम्बते तावत् चन्द्रमसो बिम्बस्या[स्यार्धम]स्माभिरुपलक्ष्यते, शेषमुपरिस्थितत्वान्नोपलभ्यते सूर्याभिमुखं भास्वरमपि, भूगोळविशेषवर्तिभिरस्माभिरुपलब्धुमयोग्यत्वात् । तस्माद्यावद्यावत्सवितृकराश्लिष्टमवलम्बते तावत्तावत्तिथिभेदेन शुक्लचन्द्र उपलभ्यते । तेनामी ज्योत्स्नावितानावभासिनः चन्द्रकराः तत्तत्क्षितितलावभासिनो भवन्ति । यथा दर्पणोदरे जले वा दिवाकरकरास्सम्मूर्छितास्सन्तो गृहान्तर्गतं तमः क्षपयन्ति एवं सवितृमरीचयोम्बुमये स्वभावश्यामेपि चन्द्रबिम्बे सम्मूर्छिता नैशं ध्वान्तमपध्वंसयन्ति ।
तत्रायं विशेषः - यो यश्चन्द्रबिम्बप्रदेशः सवितृमार्गे ऋजुत्वेन व्यवस्थितः स एव शुक्लः उपलभ्यते ; तेन दक्षिणोत्तरयोश्शृङ्गयोः कालविशेषेणोन्नतिविशेषः । तत्र यावद्यावत्सवित्रा विश्लिष्टो भवति तावत्तावच्छुक्लप्रतिपत्प्रभृति चन्द्रमसि सविता संवर्धते । कृष्णप्रतिपत्प्रभृति असितिमा संवर्धते । एतावता जायमान आप्यायमानः क्षीयमाणः चन्द्रमा उपलभ्यते ।
उक्तं च निरुक्ते - ‘तस्यैको रश्मिश्चन्द्रमसं प्रति दीप्यते’ इति,
श्रूयते च - ‘सुषुम्नस्शूर्यरस्मिश्चन्द्रमा गन्धर्वः’ इति ।
ननु कथं अस्तमिते सवितरि चन्द्रश्चकास्ति? नैष दोषः - भूमेर्दूरेण सूर्यमार्गः ; तेनोपरिमुखानां सूर्यमरीचीनां न व्यवधात्री भूतधात्री भवति । कृष्णपक्षप्रतिपदादिषु चन्द्रमसो बिम्बपूर्वभागं प्रत्यासन्नः सवितेति परमुच्छुक्लमुपपद्यते । अत्र यदुक्तं सौगतैः स्वत एव शुक्लस्य चन्द्रमसः सुर्यसन्निकर्षणाद्वैवर्ण्यं भवतीति, तदयुक्तम् । स्वभावतश्शुक्लस्य सूर्यसन्निकर्षस्स्याच्चेत्तदा शुक्लप्रतिपदादिषु चन्द्रमसो बिम्बस्यापरभागे वैवर्ण्यं स्यात्, सन्निकृष्टत्वात् तस्यापरभागस्य । ततश्चावाङ्मुखश्च[खं च]न्द्रबिम्बमुपलभ्येतेत्यलमतिप्रसङ्गेन ॥
एवं यश्चन्द्रमसा जायमानः प्रादुर्भवन् शुक्लप्रतिपदादिषु आदित्यस्यार्चिषा प्रकाशमानो नवोनवो भवति पुनःपुनः अभिनव एव भवति प्रजानामाह्लादहेतुर्भवति । 'अनुदात्तं च' इति द्वितीयो नवशब्दः अनुदात्तः । किं च – अह्नां तिथीनां केतुः तद्वत्केतयिता ज्ञापयिता । कित ज्ञाने । तिथिविभागहेतुत्वात् । उषसां रात्रीणां अग्रे गच्छति अग्रणीः भवति, रजनीनां कर्तृत्वात् । यद्वा - अह्नां केतुः अहरवसाने शुक्लपक्षे प्रतीच्यां दृश्यते, कृष्णपक्षे तु रत्रीणामवसाने प्राच्यां दृश्यते । एवमायन्नागच्छन् अयं देवेभ्यो भागं विदधाति तिथिविशेषनिबन्धनत्वात्सर्वयागानां, आदित्यसन्निकर्षविप्रकर्षनिबन्धनत्वात्सर्वतिथीनाम् । सूर्याचन्द्रमसोर्हि परस्परसन्निकर्षोमावास्या, विप्रकर्षः पौर्णमासीति । इत्थं महाप्रभावोयं चन्द्रमाः दीर्घमायुरस्य प्रतिरति वर्धयतु ॥
यद्वा - आदित्य एव चन्द्रमा उच्यते, चन्द्रस्य माता निर्माता उत्पादक इति । 'गतिकारकयोरपि' इत्यसिः, डित्वाट्टिलोपः । स जायमानो दिनेदिने प्राच्यामुद्यन् नवोनवो भवति सदोद्यन्नप्यपूर्व इव भवति । अह्नां केतुः दिवसकरत्वात् । उषसां रात्रीणां अग्रे अग्रतो गच्छति रात्रय एनमनुधावन्ति । एवमायन् उद्यन् देवेभ्यो भागं विदधाति, आदित्यगत्यधीनत्वात्सर्वकर्मणाम् । एवं महानुभावश्चन्द्रमसोप्युक्तवन्निर्माता आदित्यः दीर्घमायुर्वर्धयत्विति ॥
- मन्त्रः
यमा॑दि॒त्या अँ॒शुमा॑प्या॒यय॑न्ति॒ यमक्षि॑त॒मक्षि॑तय॒ᳶ पिब॑न्ति ।
तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः । - टीका 2 तत्रैव याज्या - यमिति त्रिष्टुप् ॥ यमंशुं रश्मिं आत्मीयरश्मिभूतं सोममादित्या आप्याययन्ति वर्धयन्ति, यं च सोममक्षितमविच्छिन्नं सर्वेष्वपि पर्वसु अक्षितयोऽक्षीणाः पित्रादयः पिबन्ति, तेन सोमेन सह राजा देवराजः वरुणश्च बृहस्मतिश्चाप्याययन्तु इममक्षीणं यजमानं वर्धयन्तु भुवनस्य भूतजातस्य गोपाः प्रवृत्तिप्रदाः ॥
इति द्वितीये तृतीये पञ्चमोनुवाकः ॥