०४

१ स्वर्गकामस्य, २ अन्यकर्तृकानकामस्य, ३ सभां जिगमिषोः ४-५ अतिनिकृष्टस्य राजन्यस्य , ६ तथाविधस्य ब्राह्मणस्य च इष्टयः ।

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

अ॒र्य॒म्णे च॒रुन्निर्व॑पेत्सुव॒र्गका॑मो॒ऽसौ वा आ॑दि॒त्यो॑ऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनँ॑ सुव॒र्गल्ँ लो॒कङ्ग॑मयत्यर्य॒म्णे च॒रुन्निर्व॑पे॒द्यᳵ का॒मये॑त॒ दान॑कामा मे प्र॒जास्स्यु॒रित्य॒सौ वा आ॑दि॒त्यो॑ऽर्य॒मा ।

विश्वास-प्रस्तुतिः

अ॒र्य॒म्णे च॒रुन्निर्व॑पेत् ।
सु॒व॒र्गका॑मो॒ऽसौ वा आ॑दि॒त्यो॑ऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वैनँ॑ सुव॒र्गल्ँ लो॒कङ्ग॑मयति ।
अ॒र्य॒म्णे च॒रुन्निर्व॑पेत् ।
यᳵ का॒मये॑त॒ दान॑कामा मे प्र॒जास्स्यु॒रिति॑ ।
अ॒सौ वा आ॑दि॒त्यो॑ऽर्य॒मा ।

मूलम्

अ॒र्य॒म्णे च॒रुन्निर्व॑पेत् ।
सु॒व॒र्गका॑मो॒ऽसौ वा आ॑दि॒त्यो॑ऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वैनँ॑ सुव॒र्गल्ँ लो॒कङ्ग॑मयति ।
अ॒र्य॒म्णे च॒रुन्निर्व॑पेत् ।
यᳵ का॒मये॑त॒ दान॑कामा मे प्र॒जास्स्यु॒रिति॑ ।
अ॒सौ वा आ॑दि॒त्यो॑ऽर्य॒मा ।

भट्टभास्कर-टीका

1अर्यम्ण इत्यादि ॥ गतम् । अरीन् यमयतीत्यर्यमा । इन्द्र इति केचित् । यम इत्यपरे । सूर्य इत्यन्ये । याज्याया इन्द्रमनूत्पन्नत्वात् ॥

मूलम् (संयुक्तम्)

यᳵ खलु॒ वै ददा॑ति॒ सो॑ऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒व [20] अ॒स्मै॒ दान॑कामाᳶ प्र॒जाᳵ क॑रोति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्यर्य॒म्णे च॒रुन्निर्व॑पेत्

विश्वास-प्रस्तुतिः

यᳵ खलु॒ वै ददा॑ति॒ सो॑ऽर्य॒मा ।
अ॒र्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वास्मै दान॑कामाᳶ प्र॒जाᳵ क॑रोति ।
दान॑कामा अस्मै प्र॒जा भ॑वन्ति ।
अ॒र्य॒म्णे च॒रुन्निर्व॑पेत् ।

मूलम्

यᳵ खलु॒ वै ददा॑ति॒ सो॑ऽर्य॒मा ।
अ॒र्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वास्मै दान॑कामाᳶ प्र॒जाᳵ क॑रोति ।
दान॑कामा अस्मै प्र॒जा भ॑वन्ति ।
अ॒र्य॒म्णे च॒रुन्निर्व॑पेत् ।

भट्टभास्कर-टीका

2यः खल्विति ॥ दातुरर्यमत्वं ताद्धर्म्यात् ॥

मूलम् (संयुक्तम्)

यᳵ का॒मये॑त स्व॒स्ति ज॒नता॑मिया॒मित्य॒सौ वा आ॑दि॒त्यो॑ऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒न्तद्ग॑मयति॒ यत्र॒ जिग॑मिषति

विश्वास-प्रस्तुतिः

यᳵ का॒मये॑त स्व॒स्ति ज॒नता॑मिया॒मिति॑ ।
अ॒सौ वा आ॑दि॒त्यो॑ऽर्य॒मा ।
अ॒र्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वैन॒न्तद्ग॑मयति॒ यत्र॒ जिग॑मिषति ।

मूलम्

यᳵ का॒मये॑त स्व॒स्ति ज॒नता॑मिया॒मिति॑ ।
अ॒सौ वा आ॑दि॒त्यो॑ऽर्य॒मा ।
अ॒र्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वैन॒न्तद्ग॑मयति॒ यत्र॒ जिग॑मिषति ।

भट्टभास्कर-टीका

3स्वस्तीति ॥ अविघ्नेन । तद्गमयतीति । गन्तव्यं स्वस्ति गसयति, अरणहेतुरर्यमेति ॥

मूलम् (संयुक्तम्)

इन्द्रो॒ वै दे॒वाना॑मानुजाव॒र आ॑सी॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमै॒न्द्रमा॑नुषू॒कमेका॑दशकपाल॒न्निः [21] अ॒व॒प॒त्तेनै॒वैन॒मग्र॑न्दे॒वता॑ना॒म्पर्य॑णयद्बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ अकरोद्बु॒ध्नादे॒वैन॒मग्र॒म्पर्य॑णय॒द्यो रा॑ज॒न्य॑ आनुजाव॒रस्स्यात्तस्मा॑ ए॒तमै॒न्द्रमा॑नुषू॒कमेका॑दशकपाल॒न्निर्व॑पे॒दिन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मग्रँ॑ समा॒नाना॒म्परि॑ णयति बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒ध्नादे॒वैन॒मग्र॑म् [22] परि॑ णयत्यानुषू॒को भ॑वत्ये॒षा ह्ये॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒रस्समृ॑द्ध्यै

विश्वास-प्रस्तुतिः

इन्द्रो॒ वै दे॒वाना॑मानुजाव॒र आ॑सीत् ।
स प्र॒जाप॑ति॒मुपा॑धावत् ।

मूलम्

इन्द्रो॒ वै दे॒वाना॑मानुजाव॒र आ॑सीत् ।
स प्र॒जाप॑ति॒मुपा॑धावत् ।

भट्टभास्कर-टीका

4इन्द्रो वा इत्यादि ॥ आनुजावर इव आसीत् । आनुजावरोपकर्षते [रोपकृष्टतरः] ।

विश्वास-प्रस्तुतिः

तस्मा॑ ए॒तमै॒न्द्रमा॑नुषू॒कमेका॑दशकपाल॒न्निर॑वपत् ।

मूलम्

तस्मा॑ ए॒तमै॒न्द्रमा॑नुषू॒कमेका॑दशकपाल॒न्निर॑वपत् ।

भट्टभास्कर-टीका

आनुषूकमिति । अनुषूयन्त इत्यानुषूकाः व्रीहिविशेषाः । ये लूनेभ्यः स्तम्बेभ्यः स्वयं पुनःप्ररोहन्ति तत्प्रभवाणां व्रीहीणामियं संज्ञा । ‘सत्सूद्विष’ इत्य[इति] क्विप्, अल्पार्थे प्रागिवीयः, सुषामादित्वात्षत्वम् । तेषां विकारः पुरोडाशः आनुषूकः । कोपधादण् ।

विश्वास-प्रस्तुतिः

तेनै॒वैन॒मग्र॑न्दे॒वता॑ना॒म्पर्य॑णयत् ।

मूलम्

तेनै॒वैन॒मग्र॑न्दे॒वता॑ना॒म्पर्य॑णयत् ।

भट्टभास्कर-टीका

अग्रं प्राधान्यं देवतानां पर्यणयत् सर्वतः प्रापयत् ।

विश्वास-प्रस्तुतिः

बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ अकरोत् ।

मूलम्

बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ अकरोत् ।

भट्टभास्कर-टीका

बुध्नवती इति । ‘बुध्नादग्रमङ्गिरोभिः’ इति पुरोनुवाक्या, ‘बुध्नादग्रेण वि मिमाय मानैः’ इति याज्या ।

विश्वास-प्रस्तुतिः

बु॒ध्नादे॒वैन॒मग्र॒म्पर्य॑णयत् ।

मूलम्

बु॒ध्नादे॒वैन॒मग्र॒म्पर्य॑णयत् ।

भट्टभास्कर-टीका

बुध्नादेवेति । मूलादेवारभ्य दृढमूलमिति यावत् ।

विश्वास-प्रस्तुतिः

यो रा॑ज॒न्य॑ आनुजाव॒रस्स्यात् ।
तस्मा॑ ए॒तमै॒न्द्रमा॑नुषू॒कमेका॑दशकपाल॒न्निर्व॑पेत् ।
इन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वैन॒मग्रँ॑ समा॒नाना॒म्परि॑ णयति ।
बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतः ।
बु॒ध्नादे॒वैन॒मग्र॒म्परि॑णयति ।
आ॒नु॒षू॒को भ॑वति ।

मूलम्

यो रा॑ज॒न्य॑ आनुजाव॒रस्स्यात् ।
तस्मा॑ ए॒तमै॒न्द्रमा॑नुषू॒कमेका॑दशकपाल॒न्निर्व॑पेत् ।
इन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वैन॒मग्रँ॑ समा॒नाना॒म्परि॑ णयति ।
बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतः ।
बु॒ध्नादे॒वैन॒मग्र॒म्परि॑णयति ।
आ॒नु॒षू॒को भ॑वति ।

भट्टभास्कर-टीका

आनुजावर इति । अनुजः कनिष्ठः । तस्मान्निकृष्टैश्वर्यो योनुजस्य गुणभूतो भवति सोनुजावरः स एवानुजावरः । ‘सान्नाय्यानुजावर’ इत्यादिना स्वार्थिकोण् ।

विश्वास-प्रस्तुतिः

ए॒षा ह्ये॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒रस्समृ॑द्ध्यै ।

मूलम्

ए॒षा ह्ये॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒रस्समृ॑द्ध्यै ।

भट्टभास्कर-टीका

एषा हीति । य आनुजावरः एतस्य एषा देवता । का ? या आनुषूकस्य, आनुषूकभागी इन्द्र इत्यर्थः ॥

मूलम् (संयुक्तम्)

यो ब्रा॑ह्म॒ण आ॑नुजाव॒रस्स्यात्तस्मा॑ ए॒तम्बा॑र्हस्प॒त्यमा॑नुषू॒कञ्च॒रुन्निर्व॑पे॒द्बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मग्रँ॑ समा॒नाना॒म्परि॑ णयति बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒ध्नादे॒वैन॒मग्र॒म्परि॑ णयत्यानुषू॒को भ॑वत्ये॒षा ह्ये॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒रस्समृ॑द्ध्यै ॥ [23]

विश्वास-प्रस्तुतिः

यो ब्रा॑ह्म॒ण आ॑नुजाव॒रस्स्यात् ।
तस्मा॑ ए॒तम्बा॑र्हस्प॒त्यमा॑नुषू॒कञ्च॒रुन्निर्व॑पेत् ।
बृ॒ह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वैन॒मग्रँ॑ समा॒नाना॒म्परि॑ णयति ।
बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतः ।
बु॒ध्नादे॒वैन॒मग्र॒म्परि॑णयति ।
आ॒नु॒षू॒को भ॑वति ।
एषा ह्ये॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒रस्समृ॑द्ध्यै ॥

मूलम्

यो ब्रा॑ह्म॒ण आ॑नुजाव॒रस्स्यात् ।
तस्मा॑ ए॒तम्बा॑र्हस्प॒त्यमा॑नुषू॒कञ्च॒रुन्निर्व॑पेत् ।
बृ॒ह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वैन॒मग्रँ॑ समा॒नाना॒म्परि॑ णयति ।
बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतः ।
बु॒ध्नादे॒वैन॒मग्र॒म्परि॑णयति ।
आ॒नु॒षू॒को भ॑वति ।
एषा ह्ये॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒रस्समृ॑द्ध्यै ॥

भट्टभास्कर-टीका

5यो ब्राह्मण इत्यादि ॥ ब्राह्मणानुजावरविषये बार्हस्पत्यचरुविधिः । शेषो गतः ॥

इति द्वितीये तृतीये चतुर्थोनुवाकः ॥