०३

१-३ यज्ञविभ्रष्टस्य, ४ कामितार्थसिद्ध्यर्थिनः, ५ ब्रह्मवर्चसार्थिनः, ६ क्लैब्याद् बिभ्यतः, ७ ग्रामकामस्य, ८-९ अतिक्रामतो वैश्यस्य वश्यार्थं च चरुपुरोडाशाः ।

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

दे॒वा वै स॒त्त्रमा॑स॒तर्द्धि॑परिमितय्ँ॒यश॑स्कामा॒स्तेषाँ॒ सोमँ॒ राजा॑नय्ँ॒यश॑ आर्च्छ॒त्स गि॒रिमुदै॒त्तम॒ग्निरनूदै॒त्ताव॒ग्नीषोमौ॒ सम॑भवता॒न्ताविन्द्रो॑ य॒ज्ञवि॑भ्र॒ष्टोऽनु॒ परै॒त्ताव॑ब्रवीद्या॒जय॑त॒म्मेति॒ तस्मा॑ ए॒तामिष्टि॒न्निर॑वपतामाग्ने॒यम॒ष्टाक॑पालमै॒न्द्रमेका॑दशकपालँ सौ॒म्यञ्च॒रुन्तयै॒वास्मि॒न्तेजः॑ [15] इ॒न्द्रि॒यम्ब्र॑ह्मवर्च॒सम॑धत्ताय्ँ॒यो य॒ज्ञवि॑भ्रष्ट॒स्स्यात्तस्मा॑ ए॒तामिष्टि॒न्निर्व॑पेत् ।

विश्वास-प्रस्तुतिः

दे॒वा वै स॒त्त्रमा॑सत ।
ऋद्धि॑परिमितय्ँ॒यश॑स्कामाः ।
तेषाँ॒ सोमँ॒ राजा॑नय्ँ॒यश॑ आर्च्छत् ।
स गि॒रिमुदै॑त्।
तम॒ग्निरनूदै॑त् ।

मूलम्

दे॒वा वै स॒त्त्रमा॑सत ।
ऋद्धि॑परिमितय्ँ॒यश॑स्कामाः ।
तेषाँ॒ सोमँ॒ राजा॑नय्ँ॒यश॑ आर्च्छत् ।
स गि॒रिमुदै॑त्।
तम॒ग्निरनूदै॑त् ।

भट्टभास्कर-टीका

1देवा वै सत्रमासतेति ॥ ऋद्ध्या फलेन परिमितमविच्छिन्नं सत्रमासत, तादृशं क्रतुविशेषमकुर्वत यशस्कामा देवाः । केचिदाहुः - सत्रासनं क्रतुविशेषः सत्रशब्देनोच्यते, तत्र ‘गोपोषं पुष्णाते’ इतिवत् सामान्यवचन आस्तिर्द्रष्टव्य इति । अन्ये त्वाहुः - आस्थानकर्मा आस्तिरिति । तेषामित्यादि । गतम् । तेषामिति निर्धारणे षष्ठी ।

विश्वास-प्रस्तुतिः

ताव॒ग्नीषोमौ॒ सम॑भवताम् ।
ताविन्द्रो॑ य॒ज्ञवि॑भ्र॒ष्टोऽनु॒ परै॑त् ।

मूलम्

ताव॒ग्नीषोमौ॒ सम॑भवताम् ।
ताविन्द्रो॑ य॒ज्ञवि॑भ्र॒ष्टोऽनु॒ परै॑त् ।

भट्टभास्कर-टीका

समभवतामिति । एकभूतौ ऐकमत्यं गतावित्यर्थः ।

विश्वास-प्रस्तुतिः

ताव॑ब्रवीत् ।
या॒जय॑त॒म्मेति॑ ।
तस्मा॑ ए॒तामिष्टि॒न्निर॑वपताम् ।

मूलम्

ताव॑ब्रवीत् ।
या॒जय॑त॒म्मेति॑ ।
तस्मा॑ ए॒तामिष्टि॒न्निर॑वपताम् ।

भट्टभास्कर-टीका

तस्मा इति । इन्द्रायेष्टिं निरवपतामग्नीषोमौ त्रिहविष्काम् । गतमन्यत् ।

विश्वास-प्रस्तुतिः

आ॒ग्ने॒यम॒ष्टाक॑पालमै॒न्द्रमेका॑दशकपालँ सौ॒म्यञ्च॒रुम् ।
तयै॒वास्मि॒न्तेज इ॒न्द्रि॒यम्ब्र॑ह्मवर्च॒सम॑धत्ताम् ।
यो य॒ज्ञवि॑भ्रष्ट॒स्स्यात् तस्मा॑ ए॒तामिष्टि॒न्निर्व॑पेत् ।

मूलम्

आ॒ग्ने॒यम॒ष्टाक॑पालमै॒न्द्रमेका॑दशकपालँ सौ॒म्यञ्च॒रुम् ।
तयै॒वास्मि॒न्तेज इ॒न्द्रि॒यम्ब्र॑ह्मवर्च॒सम॑धत्ताम् ।
यो य॒ज्ञवि॑भ्रष्ट॒स्स्यात् तस्मा॑ ए॒तामिष्टि॒न्निर्व॑पेत् ।

भट्टभास्कर-टीका

ब्रह्मवर्चसं तेनेति । दधातीत्येव ॥

मूलम् (संयुक्तम्)

आ॒ग्ने॒यम॒ष्टाक॑पालमै॒न्द्रमेका॑दशकपालँ सौ॒म्यञ्च॒रुय्ँयदा॑ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न्तेन॑ दधाति॒ यदै॒न्द्रो भव॑तीन्द्रि॒यमे॒वास्मि॒न्तेन॑ दधाति॒ यत्सौ॒म्यो ब्र॑ह्मवर्च॒सन्तेना॑ग्ने॒यस्य॑ च सौ॒म्यस्य॑ चै॒न्द्रे स॒माश्ले॑षये॒त्तेज॑श्चै॒वास्मि॑न्ब्रह्मवर्च॒सञ्च॑ स॒मीची॑ [16] द॒धा॒ति ।

विश्वास-प्रस्तुतिः

आ॒ग्ने॒यम॒ष्टाक॑पालमै॒न्द्रमेका॑दशकपालँ सौ॒म्यञ्च॒रुम् ।
यदा॑ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न्तेन॑ दधाति ।
यदै॒न्द्रो भव॑तीन्द्रि॒यमे॒वास्मि॒न्तेन॑ दधाति ।

यत्सौ॒म्यो ब्र॑ह्मवर्च॒सन्तेना॑ग्ने॒यस्य॑ च सौ॒म्यस्य॑ चै॒न्द्रे स॒माश्ले॑षयेत् ।

मूलम्

आ॒ग्ने॒यम॒ष्टाक॑पालमै॒न्द्रमेका॑दशकपालँ सौ॒म्यञ्च॒रुम् ।
यदा॑ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न्तेन॑ दधाति ।
यदै॒न्द्रो भव॑तीन्द्रि॒यमे॒वास्मि॒न्तेन॑ दधाति ।

यत्सौ॒म्यो ब्र॑ह्मवर्च॒सन्तेना॑ग्ने॒यस्य॑ च सौ॒म्यस्य॑ चै॒न्द्रे स॒माश्ले॑षयेत् ।

भट्टभास्कर-टीका

2आग्नेयस्य चेत्यादि ॥ कर्मणस्सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । आग्नेयं सौम्यं चैन्द्रमाश्लेषयेत् समाश्लिष्टानि संहितानि सर्वाणि हवींषि अधिश्रयेत् ।

विश्वास-प्रस्तुतिः

तेज॑श्चै॒वास्मि॑न्ब्रह्मवर्च॒सञ्च॑ स॒मीची॑ दधाति ।

मूलम्

तेज॑श्चै॒वास्मि॑न्ब्रह्मवर्च॒सञ्च॑ स॒मीची॑ दधाति ।

भट्टभास्कर-टीका

तेजश्च ब्रह्मवर्चसं चास्मिन् यजमाने यज्ञविभ्रष्टे समीची सङ्गते दधाति । आग्नेयसौम्ययोर्वा लेपौ । इष्टिपशुसोमानां स्वकालेऽकरणं विभ्रेषः ॥

मूलम् (संयुक्तम्)

अ॒ग्नी॒षो॒मीय॒मेका॑दशकपाल॒न्निर्व॑पे॒द्यङ्कामो॒ नोप॒नमे॑दाग्ने॒यो वै ब्रा॑ह्म॒णस्स सोम॑म्पिबति॒ स्वामे॒व दे॒वताँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवैन॒ङ्कामे॑न॒ सम॑र्धय॒त्युपै॑न॒ङ्कामो॑ नमति

विश्वास-प्रस्तुतिः

अ॒ग्नी॒षो॒मीय॒मेका॑दशकपाल॒न्निर्व॑पेत् ।
यङ्कामो॒ नोप॒नमे॑त् ।
आ॒ग्ने॒यो वै ब्रा॑ह्म॒णस्स सोम॑म्पिबति ।
स्वामे॒व दे॒वताँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
सैवैन॒ङ्कामे॑न॒ सम॑र्धयति ।
उपै॑न॒ङ्कामो॑ नमति ।

मूलम्

अ॒ग्नी॒षो॒मीय॒मेका॑दशकपाल॒न्निर्व॑पेत् ।
यङ्कामो॒ नोप॒नमे॑त् ।
आ॒ग्ने॒यो वै ब्रा॑ह्म॒णस्स सोम॑म्पिबति ।
स्वामे॒व दे॒वताँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
सैवैन॒ङ्कामे॑न॒ सम॑र्धयति ।
उपै॑न॒ङ्कामो॑ नमति ।

भट्टभास्कर-टीका

3अग्नीषोमीयमित्यदि ॥ ‘द्यावापृथिवीशुनासीर’ इति छः । ब्राह्मणस्याग्नेयत्वात् सोमवत्त्वाच्चास्याग्निस्सोमश्च स्वा देवता ॥

मूलम् (संयुक्तम्)

अग्नीषो॒मीय॑म॒ष्टाक॑पाल॒न्निर्व॑पेद्ब्रह्मवर्च॒सका॑मो॒ऽग्नीषोमा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्ब्रह्मवर्च॒सन्ध॑त्तो ब्रह्मवर्च॒स्ये॑व [17] भ॒व॒ति॒ यद॒ष्टाक॑पाल॒स्तेना॑ग्ने॒यो यच्छ्या॑मा॒कस्तेन॑ सौ॒म्यस्समृ॑द्ध्यै ।

विश्वास-प्रस्तुतिः

अ॒ग्नी॒षो॒मीय॑म॒ष्टाक॑पाल॒न्निर्व॑पेद्ब्रह्मवर्च॒सका॑मः ।
अ॒ग्नीषोमा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
तावे॒वास्मि॑न्ब्रह्मवर्च॒सन्ध॑त्तः ।
ब्र॒ह्म॒व॒र्च॒स्ये॑व भ॑वति ।
यद॒ष्टाक॑पाल॒स्तेना॑ग्ने॒यः ..
यच्छ्या॑मा॒कस्तेन॑ सौ॒म्यस्समृ॑द्ध्यै ।

मूलम्

अ॒ग्नी॒षो॒मीय॑म॒ष्टाक॑पाल॒न्निर्व॑पेद्ब्रह्मवर्च॒सका॑मः ।
अ॒ग्नीषोमा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
तावे॒वास्मि॑न्ब्रह्मवर्च॒सन्ध॑त्तः ।
ब्र॒ह्म॒व॒र्च॒स्ये॑व भ॑वति ।
यद॒ष्टाक॑पाल॒स्तेना॑ग्ने॒यः ..
यच्छ्या॑मा॒कस्तेन॑ सौ॒म्यस्समृ॑द्ध्यै ।

भट्टभास्कर-टीका

4अग्नीषोमीयमष्टाकपालमीति ॥ गतम् । ‘यच्छ्यामाकः’ इति वचनात् श्यामाकानां निर्वपेत् ॥

मूलम् (संयुक्तम्)

सोमा॑य वा॒जिने॑ श्यामा॒कञ्च॒रुन्निर्व॑पे॒द्यᳵ क्लैव्या॑द्बिभी॒याद्रेतो॒ हि वा ए॒तस्मा॒द्वाजि॑नमप॒क्राम॒त्यथै॒ष क्लैब्या॑द्बिभाय॒ सोम॑मे॒व वा॒जिनँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न्रेतो॒ वाजि॑नन्दधाति॒ न क्ली॒बो भ॑वति

विश्वास-प्रस्तुतिः

सोमा॑य वा॒जिने॑ श्यामा॒कञ्च॒रुन्निर्व॑पेत् ।
यᳵ क्लैव्या॑द्बिभी॒यात् ।
रेतो॒ हि वा ए॒तस्मा॒द्वाजि॑नमप॒क्रामति ।

मूलम्

सोमा॑य वा॒जिने॑ श्यामा॒कञ्च॒रुन्निर्व॑पेत् ।
यᳵ क्लैव्या॑द्बिभी॒यात् ।
रेतो॒ हि वा ए॒तस्मा॒द्वाजि॑नमप॒क्रामति ।

भट्टभास्कर-टीका

5सोमाय वाजिन इत्यादि ॥ वाजिनं वाजिनस्थानीयं प्रजननशक्तिमत् रेतोस्मादपक्रामति ।

विश्वास-प्रस्तुतिः

अथै॒ष क्लैब्या॑द्बिभाय ।
सोम॑मे॒व वा॒जिनँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वास्मि॒न्रेतो॒ वाजि॑नन्दधाति ।
न क्ली॒बो भ॑वति ।

मूलम्

अथै॒ष क्लैब्या॑द्बिभाय ।
सोम॑मे॒व वा॒जिनँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वास्मि॒न्रेतो॒ वाजि॑नन्दधाति ।
न क्ली॒बो भ॑वति ।

भट्टभास्कर-टीका

अथानन्तरमेष क्लैब्याद्बिभाय बिभेति । छान्दसो लिट् । गतमन्यत् ॥

मूलम् (संयुक्तम्)

ब्राह्मणस्प॒त्यमेका॑दशकपाल॒न्निर्व॑पे॒द्ग्राम॑कामः [18] ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ सजा॒तान्प्र य॑च्छति ग्रा॒म्ये॑व भ॑वति ग॒णव॑ती याज्यानुवा॒क्ये॑ भवतस्सजा॒तैरे॒वैन॑ङ्ग॒णव॑न्तङ्करोत्ये॒तामे॒व निर्व॑पेत्

विश्वास-प्रस्तुतिः

ब्रा॒ह्म॒ण॒स्प॒त्यमेका॑दशकपाल॒न्निर्व॑पे॒द्ग्राम॑कामः ।
ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वास्मै॑ सजा॒तान्प्र य॑च्छति ।
ग्रा॒म्ये॑व भ॑वति ।

मूलम्

1 अथ राजसूयब्राह्मणं वैश्वदेवं काण्डम् । ऋचो यजूंषि चात्र भवन्ति, प्रायिकत्वाद्ब्राह्मणमुच्यते । द्विविधं ब्राह्मणं, कर्म-ब्राह्मणं कल्प-ब्राह्मणं चेति । तत्र कर्म-ब्राह्मणं, यत्केवलानि कर्माणि विधत्ते, मन्त्नान्विनियुङ्क्ते, न प्रशंसां करोति न निन्दाम्, यथेदमेव - ‘अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति धेनुर्दक्षिणा’ इत्यादि ।
कल्प-ब्राह्मणं भवति यथा - ‘संवत्सरमेतद्व्रतं चरेत् । द्वौ वा मासौ’ इत्यादि ।
कृतयः ‘प्रजापतिः प्रजा असृजत’ इत्यादयः, तदपि कल्प-ब्राह्मणम् । गाधा इतिहासाः पुराकल्पाश्च ब्राह्मणान्येव । गाधा वैदिकाश्श्लोकाः अर्थ-प्रधानाः न प्रशंसा-निन्दा-पराः ‘स्मृतिः प्रत्यक्षमैतिह्यम् । अनुमानश्चतुष्टयम्’ इत्याद्याः ।
इतिहासाः पर-कृतयः मनुष्य-कृतयः ‘विश्वरूपो वै त्वाष्ट्रः’ इत्येवमादयः ।
पुराकल्पाः प्रजापत्यादि-कृतयः ‘प्रजापतिः प्रजा असृजत’ इत्येवमादयः । सर्वाण्येतानि ब्राह्मणान्युच्यन्ते ।
एतदुक्तं भवति - कर्ममन्त्रचोदना ब्राह्मणम् । तत्त्वविषयमर्थवादादियुक्तं कर्म-विधानं कल्पं ब्राह्मणमित्युच्यते । अतत्त्व-विषयं कर्म-विधानं कल्प-ब्राह्मणमेव यथा, ‘सावित्रं जुहोति प्रसूत्यै’ इत्यादि । आहुश्च -

क्वचिद्विधिः प्रशंसा च केषु चिद्विधिरेव हि ।
केषु चित्स्तुतिरेव स्यात् एवं निन्दा-निषेधयोः ॥ इति ।

तत्रास्मिन् प्रश्ने कर्माणि विधीयन्ते मन्त्राश्च केवलमाम्नायन्ते, न विनियुज्यन्ते । औपानुवाक्ये तु कर्माणि च विधीयन्ते मन्त्राश्चाम्नायन्ते तदानीमेव च ते विनियुज्यन्ते इति विशेषः ।

भट्टभास्कर-टीका

6ब्राह्मणस्पत्यमित्यादि ॥ पत्युत्तरपदलक्षणो ण्यः ।

विश्वास-प्रस्तुतिः

ग॒णव॑ती याज्यानुवा॒क्ये॑ भवतः ।

मूलम्

ग॒णव॑ती याज्यानुवा॒क्ये॑ भवतः ।

भट्टभास्कर-टीका

गणवती इति । ’ गणानां त्वा गणपतिम् ’ ’ स इज्जनेन ’ इति । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । गणवत्यौ ।

विश्वास-प्रस्तुतिः

स॒जा॒तै॒रे॒वैन॑ङ्ग॒णव॑न्तङ्करोति ।
ए॒तामे॒व निर्व॑पेत् ।

मूलम्

स॒जा॒तै॒रे॒वैन॑ङ्ग॒णव॑न्तङ्करोति ।
ए॒तामे॒व निर्व॑पेत् ।

भट्टभास्कर-टीका

सजातैरिति । सजातैर्गणैस्तद्वन्तमेनं करोति ॥

मूलम् (संयुक्तम्)

यᳵ का॒मये॑त॒ ब्रह्म॒न्विशव्ँ॒वि ना॑शयेय॒मिति॑ मारु॒ती या॑ज्यानुवा॒क्ये॑ कुर्या॒द्ब्रह्म॑न्ने॒व विशव्ँ॒वि ना॑शयति ॥ [19]

विश्वास-प्रस्तुतिः

यᳵ का॒मये॑त॒ ब्रह्म॒न्विशव्ँ॒वि ना॑शयेय॒मिति॑ ।
मा॒रु॒ती या॑ज्यानुवा॒क्ये॑ कुर्यात् ।
ब्रह्म॑न्ने॒व विशव्ँ॒वि ना॑शयति ॥

मूलम्

यᳵ का॒मये॑त॒ ब्रह्म॒न्विशव्ँ॒वि ना॑शयेय॒मिति॑ ।
मा॒रु॒ती या॑ज्यानुवा॒क्ये॑ कुर्यात् ।
ब्रह्म॑न्ने॒व विशव्ँ॒वि ना॑शयति ॥

भट्टभास्कर-टीका

7ब्रह्मन्विशमिति ॥ नशिर्गतिकर्मा छान्दसः । ब्रह्मन् ब्राह्मणे विशं वैश्यं विनाशयेयं विशेषेण गमयेयं प्रापयेयमिति । यद्वा - ब्रह्मणि प्रतियोगिनि विनष्टा भवन्तु वैश्या इति । मारुती मारुत्यौ ’ मरुतो यद्ध वो दिवः ’ ’ या वश्शर्म ’ इति ब्रह्मणि विशं प्रापयत्येव । ’ आ तू न उप गन्तन ’ इति च मन्त्रलिङ्गम् । मरुतो हि देवानां विशः ॥

इति द्वितीये तृतीये तृतीयः ॥