१-६ मृत्युभीतस्य प्राजापत्या शतकृष्णला इष्टिः
विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
दे॒वा वै मृ॒त्योर॑बिभयु॒स्ते प्र॒जाप॑ति॒मुपा॑धाव॒न्तेभ्य॑ ए॒ताम्प्रा॑जाप॒त्याँ श॒तकृ॑ष्णला॒न्निर॑वप॒त्तयै॒वैष्व॒मृत॑मदधात्
विश्वास-प्रस्तुतिः
दे॒वा वै मृ॒त्योर॑बिभयुः ।
ते प्र॒जाप॑ति॒मुपा॑धावन् ।
तेभ्य॑ ए॒ताम्प्रा॑जाप॒त्याँ श॒तकृ॑ष्णला॒न्निर॑वपत् ।
तयै॒वैष्व॒मृत॑मदधात् ।
यो मृ॒त्योर्बि॑भी॒यात् ।
तस्मा॑ ए॒ताम्प्रा॑जाप॒त्याँ श॒तकृ॑ष्णला॒न्निर्व॑पेत् ।
प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वास्मि॒न्नायु॑र्दधाति ।
सर्व॒मायु॑रेति ।
मूलम्
दे॒वा वै मृ॒त्योर॑बिभयुः ।
ते प्र॒जाप॑ति॒मुपा॑धावन् ।
तेभ्य॑ ए॒ताम्प्रा॑जाप॒त्याँ श॒तकृ॑ष्णला॒न्निर॑वपत् ।
तयै॒वैष्व॒मृत॑मदधात् ।
यो मृ॒त्योर्बि॑भी॒यात् ।
तस्मा॑ ए॒ताम्प्रा॑जाप॒त्याँ श॒तकृ॑ष्णला॒न्निर्व॑पेत् ।
प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वास्मि॒न्नायु॑र्दधाति ।
सर्व॒मायु॑रेति ।
भट्टभास्कर-टीका
1देवा वा इत्यादि ॥ शतकृष्णलामिति । शतं स्वर्णानि कृष्णलानि कृष्णलतुलितानि परिमाणमस्यास्समभीष्टं सा तथोक्ता । तया देवेष्वमृतत्वमदधात्प्रजापतिः । गतमन्यत् ॥
मूलम् (संयुक्तम्)
श॒तकृ॑ष्णला भवति श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये [6] प्रति॑ तिष्ठति घृ॒ते भ॑व॒त्यायु॒र्वै घृ॒तम॒मृतँ॒ हिर॑ण्य॒मायु॑श्चै॒वास्मा॑ अ॒मृत॑ञ्च स॒मीची॑ दधाति
विश्वास-प्रस्तुतिः
श॒तकृ॑ष्णला भवति ।
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति ।
मूलम्
श॒तकृ॑ष्णला भवति ।
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति ।
भट्टभास्कर-टीका
2शतकृष्णलां निर्वपेदित्ययं क्रमः - ‘देवस्य त्वा सवितुः प्रसवे’ इति प्रतिपदं कृत्वा ‘प्रजापतये जुष्टं निर्वपामि’ इति चतुरो मुष्टीन् कृष्णलान्निर्वपति ।
विश्वास-प्रस्तुतिः
घृ॒ते भ॑वति ।
आयु॒र्वै घृ॒तम् ।
मूलम्
घृ॒ते भ॑वति ।
आयु॒र्वै घृ॒तम् ।
भट्टभास्कर-टीका
हविष्कृता वाचं विसृज्य गार्हपत्ये नवं पात्रमधिश्रित्य तिरःपवित्रमाज्यमानीय तिरःपवित्रं कृष्णलान्यावपति । तदिदमुक्तं - घृते भवतीत्यादि ॥
विश्वास-प्रस्तुतिः
ऋतँ॒ हिर॑ण्य॒मायु॑श्चै॒वास्मा॑ अ॒मृत॑ञ्च स॒मीची॑ दधाति ।
मूलम्
ऋतँ॒ हिर॑ण्य॒मायु॑श्चै॒वास्मा॑ अ॒मृत॑ञ्च स॒मीची॑ दधाति ।
भट्टभास्कर-टीका
समीची अनुक्रमेण सङ्गते । अथाज्यं निर्वपति अथाज्यमधिश्रयति । उभयं पर्यग्नि कृत्वा अन्तर्वेद्यासादयति । धर्ममात्रं श्रपणं न विक्लेदनाय ॥
मूलम् (संयुक्तम्)
च॒त्वारि॑चत्वारि कृ॒ष्णला॒न्यव॑ द्यति चतुरव॒त्तस्याप्त्या॑ एक॒धा ब्र॒ह्मण॒ उप॑ हरत्येक॒धैव यज॑मान॒ आयु॑र्दधाति
विश्वास-प्रस्तुतिः
च॒त्वारि॑चत्वारि कृ॒ष्णला॒न्यव॑द्यति ।
मूलम्
च॒त्वारि॑चत्वारि कृ॒ष्णला॒न्यव॑द्यति ।
भट्टभास्कर-टीका
3चत्वारि चत्वारीत्यादि ॥ सर्वावदानार्थं वीप्सा । एकस्मिन् अवदाने चत्वारि चत्वारि गृह्णीयात् । तद्यथा - अष्टौ देवताया अवद्यति, चत्वारि स्विष्टकृते, अष्टाविडायै, चत्वारि अवान्तरेडायै, एकं प्राशित्राय, एकं यजमानायाज्यमेव जुह्वतः [ह्वते] जुहोति, आज्यं च प्राश्नते प्राश्नाति ।
विश्वास-प्रस्तुतिः
च॒तु॒र॒व॒त्तस्याप्त्या॑ एक॒धा ब्र॒ह्मण॒ उप॑ हरति ।
एक॒धैव यज॑मान॒ आयु॑र्दधाति।
मूलम्
च॒तु॒र॒व॒त्तस्याप्त्या॑ एक॒धा ब्र॒ह्मण॒ उप॑ हरति ।
एक॒धैव यज॑मान॒ आयु॑र्दधाति।
भट्टभास्कर-टीका
अथ चतुर्धाकरणकाले शिष्टान्येकयोद्धृत्य ब्रह्मण उपहरति, इतरेषां भक्षापनयनम् ॥
ब्रह्मवर्चसकामस्य सौर्यश्चरुः
मूलम् (संयुक्तम्)
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒तँ सौ॒र्यञ्च॒रुन्निर॑वप॒न्तेनै॒वास्मि॑न्न् [7] रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात्तस्मा॑ ए॒तँ सौ॒र्यञ्च॒रुन्निर्व॑पेद॒मुमे॒वादि॒त्यँ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति
विश्वास-प्रस्तुतिः
अ॒सावा॑दि॒त्यो न व्य॑रोचत ।
तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छन् ।
तस्मा॑ ए॒तँ सौ॒र्यञ्च॒रुन्निर॑वपन् ।
तेनै॒वास्मि॑न्न् रुच॑मदधुः ।
यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात् ।
तस्मा॑ ए॒तँ सौ॒र्यञ्च॒रुन्निर्व॑पेत् ।
अ॒मुमे॒वादि॒त्यँ स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ।
ब्र॒ह्म॒व॒र्च॒स्ये॑व भ॑वति ।
मूलम्
अ॒सावा॑दि॒त्यो न व्य॑रोचत ।
तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छन् ।
तस्मा॑ ए॒तँ सौ॒र्यञ्च॒रुन्निर॑वपन् ।
तेनै॒वास्मि॑न्न् रुच॑मदधुः ।
यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात् ।
तस्मा॑ ए॒तँ सौ॒र्यञ्च॒रुन्निर्व॑पेत् ।
अ॒मुमे॒वादि॒त्यँ स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ।
ब्र॒ह्म॒व॒र्च॒स्ये॑व भ॑वति ।
भट्टभास्कर-टीका
4असावादित्य इत्यादि ॥ गतम् ॥
मूलम् (संयुक्तम्)
उभ॒यतो॑ रु॒क्मौ भ॑वत उभ॒यत॑ ए॒वास्मि॒न्रुच॑न्दधाति ।
विश्वास-प्रस्तुतिः
उ॒भ॒य॒तो॑ रु॒क्मौ भ॑वतः।
उ॒भ॒य॒त॑ ए॒वास्मि॒न्रुच॑न्दधाति ।
मूलम्
उ॒भ॒य॒तो॑ रु॒क्मौ भ॑वतः।
उ॒भ॒य॒त॑ ए॒वास्मि॒न्रुच॑न्दधाति ।
भट्टभास्कर-टीका
5उभयत इत्यादि ॥ सुवर्णरजतौ रुक्मौ उपकल्प्य शृतं हि हविः ताभ्यां पर्युपास्यान्तर्वेद्यासादयति, अपोह्य रुक्मौ चरुणा प्रचारः । उभयतः उभयोरपि पूर्वोत्तरयोरायुषोः अस्मिन्यजमाने रुचं दधाति । यद्वा - उभयोर्लोकयोः इहामुत्र चास्मिन्रुचं दधाति ॥
मूलम् (संयुक्तम्)
प्र॒या॒जेप्र॑याजे कृ॒ष्णल॑ञ्जुहोति दि॒ग्भ्य ए॒वास्मै॑ ब्रह्मवर्च॒समव॑ रुन्द्धे ।
विश्वास-प्रस्तुतिः
प्र॒या॒जेप्र॑याजे कृ॒ष्णल॑ञ्जुहोति ।
मूलम्
प्र॒या॒जेप्र॑याजे कृ॒ष्णल॑ञ्जुहोति ।
भट्टभास्कर-टीका
6प्रयाजेप्रयाजे इति ॥ पञ्च सुवर्णानि कृष्णलान्युपलिप्य प्रयाजेप्रयाजे एकं कृष्णलमन्ववधाय जुहोति ।
विश्वास-प्रस्तुतिः
दि॒ग्भ्य ए॒वास्मै॑ ब्रह्मवर्च॒समव॑ रुन्द्धे ।
मूलम्
दि॒ग्भ्य ए॒वास्मै॑ ब्रह्मवर्च॒समव॑ रुन्द्धे ।
भट्टभास्कर-टीका
दिग्भ्य इति । दिशामपि पञ्चत्वात् ।
मूलम् (संयुक्तम्)
आग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पेत्सावि॒त्रन्द्वाद॑शकपाल॒म्भूम्यै॑ [8] च॒रुय्ँयᳵ का॒मये॑त॒ हिर॑ण्यव्ँविन्देय॒ हिर॑ण्य॒म्मोप॑ नमे॒दिति॒ यदा॑ग्ने॒यो भव॑त्याग्ने॒यव्ँ वै हिर॑ण्यय्ँ॒यस्यै॒व हिर॑ण्य॒न्तेनै॒वैन॑द्विन्दते सावि॒त्रो भ॑वति सवि॒तृप्र॑सूत ए॒वैन॑द्विन्दते॒ भूम्यै॑ च॒रुर्भ॑वत्य॒स्यामे॒वैन॑द्विन्दत॒ उपै॑नँ॒ हिर॑ण्यन्नमति ।
विश्वास-प्रस्तुतिः
आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पेत् ।
सा॒वि॒त्रन्द्वाद॑शकपाल॒म्भूम्यै॑ च॒रुम् +++(निर्वपेत्)+++ ।
यᳵ का॒मये॑त॒ हिर॑ण्यव्ँविन्देय॒ हिर॑ण्य॒म्मोप॑ नमे॒दिति ।
यदा॑ग्ने॒यो भव॑ति ।
आग्ने॒यव्ँ वै हिर॑ण्यम् ,
यस्यै॒व हिर॑ण्यं, तेनै॒वैन॑द्विन्दते ।
सावि॒त्रो भ॑वति ।
सवि॒तृप्र॑सूत ए॒वैन॑द्विन्दते ।
भूम्यै॑ च॒रुर्भ॑वति ।
अ॒स्यामे॒वैन॑द्विन्दते ।
उपै॑नँ॒ हिर॑ण्यन्नमति ।
मूलम्
आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पेत् ।
सा॒वि॒त्रन्द्वाद॑शकपाल॒म्भूम्यै॑ च॒रुम् +++(निर्वपेत्)+++ ।
यᳵ का॒मये॑त॒ हिर॑ण्यव्ँविन्देय॒ हिर॑ण्य॒म्मोप॑ नमे॒दिति ।
यदा॑ग्ने॒यो भव॑ति ।
आग्ने॒यव्ँ वै हिर॑ण्यम् ,
यस्यै॒व हिर॑ण्यं, तेनै॒वैन॑द्विन्दते ।
सावि॒त्रो भ॑वति ।
सवि॒तृप्र॑सूत ए॒वैन॑द्विन्दते ।
भूम्यै॑ च॒रुर्भ॑वति ।
अ॒स्यामे॒वैन॑द्विन्दते ।
उपै॑नँ॒ हिर॑ण्यन्नमति ।
भट्टभास्कर-टीका
7आग्नेयमष्टाकपालमित्यादि ॥ गतम् ॥
७-९ ब्रह्मवर्चसकामस्य, १०.हिरण्यलिप्सोराग्नेयं हविः
मूलम् (संयुक्तम्)
वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते॒ यो हिर॑ण्यव्ँवि॒न्दते ।
विश्वास-प्रस्तुतिः
वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते ।
यो हिर॑ण्यव्ँवि॒न्दते ।
मूलम्
वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते ।
यो हिर॑ण्यव्ँवि॒न्दते ।
भट्टभास्कर-टीका
8वि वा एष इत्यादि ॥ गतम् । हिरण्यं वित्त्वा लब्ध्वा एतां निर्वपेत् ॥
लब्ध-नष्टहिरण्ययोः सावित्रं-भौमं च हविः
मूलम् (संयुक्तम्)
ए॒तामे॒व निर्व॑पे॒द्यस्य॒ हिर॑ण्य॒न्नश्ये॒द्यदा॑ग्ने॒यो भव॑त्याग्ने॒यव्ँ वै हिर॑ण्यय्ँ॒यस्यै॒व हिर॑ण्य॒न्तेनै॒वैन॑द्विन्दति सावि॒त्रो भ॑वति सवि॒तृप्र॑सूत ए॒वैन॑द्विन्दति॒ भूम्यै॑ च॒रुर्भ॑वत्य॒स्याव्ँवा ए॒तन्न॑श्यति॒ यन्नश्य॑त्य॒स्यामे॒वैन॑द्विन्द॒ति।
विश्वास-प्रस्तुतिः
ए॒तामे॒व निर्व॑पेत् ।
यस्य॒ हिर॑ण्य॒न्नश्येत् ।
यदा॑ग्ने॒यो भव॑ति ।
आ॒ग्ने॒यव्ँ वै हिर॑ण्यँ , यस्यै॒व हिर॑ण्यं , तेनै॒वैन॑द्विन्दति ।
सा॒वि॒त्रो भ॑वति ।
स॒वि॒तृप्र॑सूत॒ ए॒वैन॑द्विन्दति ।
भूम्यै॑ च॒रुर्भ॑वति ।
अ॒स्याव्ँवा ए॒तन्न॑श्यति ।
यन्नश्य॑त्य॒स्यामे॒वैन॑द्विन्दति ।
मूलम्
ए॒तामे॒व निर्व॑पेत् ।
यस्य॒ हिर॑ण्य॒न्नश्येत् ।
यदा॑ग्ने॒यो भव॑ति ।
आ॒ग्ने॒यव्ँ वै हिर॑ण्यँ , यस्यै॒व हिर॑ण्यं , तेनै॒वैन॑द्विन्दति ।
सा॒वि॒त्रो भ॑वति ।
स॒वि॒तृप्र॑सूत॒ ए॒वैन॑द्विन्दति ।
भूम्यै॑ च॒रुर्भ॑वति ।
अ॒स्याव्ँवा ए॒तन्न॑श्यति ।
यन्नश्य॑त्य॒स्यामे॒वैन॑द्विन्दति ।
भट्टभास्कर-टीका
9एतामेवेति ॥ यस्य हिरण्यं नश्येत् प्रसह्य नष्टस्य लाभायैतां निर्वपेत् । विन्दतिस्स्वरितेत् तत्र नष्टस्य लाभे कर्त्रभिप्रायस्य पूर्व[र्ण]स्या भावादात्मनेपदाभावः ॥
मूलम् (संयुक्तम्)
इन्द्रः॑ [10] त्वष्टु॒स्सोम॑मभी॒षहा॑पिब॒त्स विष्व॒ङ्व्या॑र्च्छ॒त्स इ॑न्द्रि॒येण॑ सोमपी॒थेन॒ व्या॑र्ध्यत॒ स यदू॒र्ध्वमु॒दव॑मी॒त्ते श्या॒माका॑ अभव॒न्त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तँ सो॑मे॒न्द्रँ श्या॑मा॒कञ्च॒रुन्निर॑वप॒त्तेनै॒वास्मि॑न्निन्द्रि॒यँ सो॑मपी॒थम॑दधात् ।
विश्वास-प्रस्तुतिः
इन्द्रस्त्वष्टु॒स्सोम॑मभी॒षहा॑पिबत् ।
मूलम्
इन्द्रस्त्वष्टु॒स्सोम॑मभी॒षहा॑पिबत् ।
भट्टभास्कर-टीका
10इन्द्रस्त्वष्टुरित्यादि ॥ अभीषहा सोममपिबत् । सहतेः क्विपि ‘नहिवृतिवृषि’ इत्युपसर्गस्य दीर्घत्वम् । शक्तिमभिभूय यथाबलं समग्रमपिबत् ।
विश्वास-प्रस्तुतिः
स विष्व॒ङ्व्या॑र्च्छत् ।
मूलम्
स विष्व॒ङ्व्या॑र्च्छत् ।
भट्टभास्कर-टीका
ततस्स सोमस्तेन पीतो वीष्वङ् नानागमनः उपरिष्टादधस्ताच्च व्यार्छत् विनिर्गतोभवत् ।
विश्वास-प्रस्तुतिः
स इ॑न्द्रि॒येण॑ सोमपी॒थेन॒ व्या॑र्ध्यत ।
मूलम्
स इ॑न्द्रि॒येण॑ सोमपी॒थेन॒ व्या॑र्ध्यत ।
भट्टभास्कर-टीका
ततस्स इन्द्र इन्द्रियेण सोमपीथेन पीतेन सोमेन व्यृद्धोभवत् ।
विश्वास-प्रस्तुतिः
स यदू॒र्ध्वमु॒दव॑मीत् ।
ते श्या॒माका॑ अभवन् ।
मूलम्
स यदू॒र्ध्वमु॒दव॑मीत् ।
ते श्या॒माका॑ अभवन् ।
भट्टभास्कर-टीका
तत्र स इन्द्रो यमूर्ध्वमुदवमीत्, ते श्यामाका अभवन् । वर्षाप्रभवो धान्यविशेषश्श्यामाकः ।
विश्वास-प्रस्तुतिः
स प्र॒जाप॑ति॒मुपा॑धावत् ।
मूलम्
स प्र॒जाप॑ति॒मुपा॑धावत् ।
भट्टभास्कर-टीका
अथ स इन्द्रः प्रजापतिमुपेत्य इत्थमस्मिन् प्रतिविधातव्यमित्यब्रवीत् ।
विश्वास-प्रस्तुतिः
तस्मा॑ ए॒तँ सो॑मे॒न्द्रँ श्या॑मा॒कञ्च॒रुन्निर॑वपत् ।
तेनै॒वास्मि॑न्निन्द्रि॒यँ सो॑मपी॒थम॑दधात् ।
मूलम्
तस्मा॑ ए॒तँ सो॑मे॒न्द्रँ श्या॑मा॒कञ्च॒रुन्निर॑वपत् ।
तेनै॒वास्मि॑न्निन्द्रि॒यँ सो॑मपी॒थम॑दधात् ।
भट्टभास्कर-टीका
तस्मा इत्यादि । गतम् ।
सोमेन्द्रमिति । ‘नेन्द्रस्य परस्य’ इत्युत्तरपदस्य वृद्ध्यभावः । सोमस्य तु पूर्वपदस्य नेष्यते वृद्धिः ।
श्यामाकमिति । ‘अनुदात्तादेश्च’ इत्यस्यापवादः ‘कोपधाच्च’ इत्यण् ॥
सोमवामिनः सोमेन्द्रश्यामाकश्चरुः
मूलम् (संयुक्तम्)
वि वा ए॒ष इ॑न्द्रि॒येण॑ सोमपी॒थेन॑र्ध्यते॒ यस्सोमव्ँ॒वमि॑ति॒ यस्सो॑मवा॒मी स्यात्तस्मै॑ [11] ए॒तँ सो॑मे॒न्द्रँ श्या॑मा॒कञ्च॒रुन्निर्व॑पे॒त्सोम॑ञ्चै॒वेन्द्र॑ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्निन्द्रि॒यँ सो॑मपी॒थन्ध॑त्तो॒ नेन्द्रि॒येण॑ सोमपी॒थेन॒ व्यृ॑ध्यते॒ यत्सौ॒म्यो भव॑ति सोमपी॒थमे॒वाव॑ रुन्द्धे॒ यदै॒न्द्रो भव॑तीन्द्रि॒यव्ँ वै सो॑मपी॒थ इ॑न्द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्द्धे श्यामा॒को भ॑वत्ये॒ष वाव स सोमः॑ [12] सा॒क्षादे॒व सो॑मपी॒थमव॑ रुन्द्धे
विश्वास-प्रस्तुतिः
वि वा ए॒ष इ॑न्द्रि॒येण॑ सोमपी॒थेन॑र्ध्यते ।
यस्सोमव्ँ॒वमि॑ति॒ यस्सो॑मवा॒मी स्यात् ।
तस्मा ए॒तँ सो॑मे॒न्द्रँ श्या॑मा॒कञ्च॒रुन्निर्व॑पेत् ।
सोम॑ञ्चै॒वेन्द्र॑ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
तावे॒वास्मि॑न्निन्द्रि॒यँ सो॑मपी॒थन्ध॑त्तः ।
नेन्द्रि॒येण॑ सोमपी॒थेन॒ व्यृ॑ध्यते ।
यत्सौ॒म्यो भव॑ति ।
सोमपी॒थमे॒वाव॑ रुन्द्धे ।
यदै॒न्द्रो भव॑ति ।
इन्द्रि॒यव्ँ वै सो॑मपी॒थः, इ॑न्द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्द्धे ।
श्या॒मा॒को भ॑वति ।
मूलम्
वि वा ए॒ष इ॑न्द्रि॒येण॑ सोमपी॒थेन॑र्ध्यते ।
यस्सोमव्ँ॒वमि॑ति॒ यस्सो॑मवा॒मी स्यात् ।
तस्मा ए॒तँ सो॑मे॒न्द्रँ श्या॑मा॒कञ्च॒रुन्निर्व॑पेत् ।
सोम॑ञ्चै॒वेन्द्र॑ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
तावे॒वास्मि॑न्निन्द्रि॒यँ सो॑मपी॒थन्ध॑त्तः ।
नेन्द्रि॒येण॑ सोमपी॒थेन॒ व्यृ॑ध्यते ।
यत्सौ॒म्यो भव॑ति ।
सोमपी॒थमे॒वाव॑ रुन्द्धे ।
यदै॒न्द्रो भव॑ति ।
इन्द्रि॒यव्ँ वै सो॑मपी॒थः, इ॑न्द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्द्धे ।
श्या॒मा॒को भ॑वति ।
भट्टभास्कर-टीका
11यस्सोमवामी स्यादिति ॥ वैदिकस्य वमने चरुर्विधीयते ।न विरेकार्थस्य लौकिकस्य । आहुश्च - ‘पानव्यापच्च तद्वत्’ इति । तत्रापि यजमानस्य वमने न ऋत्विजामिति ‘तत्सर्वत्राविशेषात्’ इत्यत्र प्रतिपादितम् । गतमन्यत् ।
विश्वास-प्रस्तुतिः
ए॒ष वाव स सोमः॑ , सा॒क्षादे॒व सो॑मपी॒थमव॑ रुन्द्धे ।
मूलम्
ए॒ष वाव स सोमः॑ , सा॒क्षादे॒व सो॑मपी॒थमव॑ रुन्द्धे ।
भट्टभास्कर-टीका
एष वाव स सोम इति । उद्वान्तसोमपरिमाणत्वात् ॥
मूलम् (संयुक्तम्)
अग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒दिन्द्रा॑य प्रदा॒त्रे पु॑रो॒डाश॒मेका॑दशकपालम्प॒शुका॑मो॒ऽग्निरे॒वास्मै॑ प॒शून्प्र॑ज॒नय॑ति वृ॒द्धानिन्द्र॒ᳶ प्र य॑च्छति
विश्वास-प्रस्तुतिः
अ॒ग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् ।
इन्द्रा॑य प्रदा॒त्रे पु॑रो॒डाश॒मेका॑दशकपालम् +++(निर्वपेत्)+++।
प॒शुका॑मो॒ऽग्निरे॒वास्मै॑ प॒शून्प्र॑ज॒नय॑ति ।
वृ॒द्धानिन्द्र॒ᳶ प्र य॑च्छति।
मूलम्
अ॒ग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् ।
इन्द्रा॑य प्रदा॒त्रे पु॑रो॒डाश॒मेका॑दशकपालम् +++(निर्वपेत्)+++।
प॒शुका॑मो॒ऽग्निरे॒वास्मै॑ प॒शून्प्र॑ज॒नय॑ति ।
वृ॒द्धानिन्द्र॒ᳶ प्र य॑च्छति।
भट्टभास्कर-टीका
12अग्नये दात्र इत्यादि ॥ तृतीयं संसृष्टहविः प्राजापत्यम् । ‘उदात्तयणः’ इति चतुर्थ्या उदात्तत्वम् ॥
पशुकामस्य आग्नेयैन्द्रप्राजापत्यत्रयम्
मूलम् (संयुक्तम्)
दधि॒ मधु॑ घृ॒तमापो॑ धा॒ना भ॑वन्त्ये॒तद्वै प॑शू॒नाँ रू॒पँ रू॒पेणै॒व प॒शूनव॑ रुन्द्धे पञ्चगृही॒तम्भ॑वति॒ पाङ्क्ता॒ हि प॒शवो॑ बहुरू॒पम्भ॑वति बहुरू॒पा हि प॒शवः॑ [13] समृ॑द्ध्यै प्राजाप॒त्यम्भ॑वति प्राजाप॒त्या वै प॒शवᳶ॑ प्र॒जाप॑तिरे॒वास्मै॑ प॒शून्प्र ज॑नयति
विश्वास-प्रस्तुतिः
दधि॒ मधु॑ घृ॒तमापो॑ धा॒ना भ॑वन्ति ।
ए॒तद्वै प॑शू॒नाँ रू॒पम् , रू॒पेणै॒व प॒शूनव॑ रुन्द्धे ।
प॒ञ्च॒गृ॒ही॒तम्भ॑वति ।
मूलम्
दधि॒ मधु॑ घृ॒तमापो॑ धा॒ना भ॑वन्ति ।
ए॒तद्वै प॑शू॒नाँ रू॒पम् , रू॒पेणै॒व प॒शूनव॑ रुन्द्धे ।
प॒ञ्च॒गृ॒ही॒तम्भ॑वति ।
भट्टभास्कर-टीका
13दधि मध्वित्यादि ॥ अत्रायं प्रयोगः - ‘देवस्य त्वा’ इति प्रतिपदं कृत्वा ‘अग्नये दात्रे जुष्टम्’ इति चतुरो मुष्टीन् व्रीहीणां निर्वपति ।
अथैवमेव ‘इन्द्राय प्रदात्रे’ एवं व्रीहीणाम् । अथैवमेव ‘प्रजापतये जुष्टम्’ इति चतुरो यवानाम्, तेषां व्रीहिष्वेव हविष्कृतमुत्पाद यन्ति, उपोद्यच्छन्ते यवान्, हविष्कृता वाचं विसृजन्ते । समानं कर्माधिवपनात् । आधिवाप्य दक्षिणार्धे गार्हपत्यस्य अष्टौ कपालान्युपदधाति, एकादेशोत्तरतः । अथैनान् यवानुलूखले परिक्षुद्य गार्हपत्ये कपालमधिश्रित्य धाना भर्जयन्ति, यदैते हवींषि अभिवृणक्ति तदैता धानाश्चतुष्टयेनोपसृजन्ति, दध्ना मधुना घृतेनाद्भिरिति । एवं पञ्चगृहीतं भवति ।
विश्वास-प्रस्तुतिः
पाङ्क्ता॒ हि प॒शवो॑ बहुरू॒पम्भ॑वति ।
ब॒हु॒रू॒पा॒ हि प॒शव॒समृ॑द्ध्यै ।
मूलम्
पाङ्क्ता॒ हि प॒शवो॑ बहुरू॒पम्भ॑वति ।
ब॒हु॒रू॒पा॒ हि प॒शव॒समृ॑द्ध्यै ।
भट्टभास्कर-टीका
पाङ्क्ता इति । पङ्क्तिप्रभवाः । पङ्क्तिशब्द उत्सादिः । बहुरूपमिति । दध्यादीनां नानारूपत्वात् । ‘बहोर्नञ्वत्’ इत्युत्तरपदान्तोदात्तत्वम् ।
विश्वास-प्रस्तुतिः
प्रा॒जा॒प॒त्यम्भ॑वति ।
प्रा॒जा॒प॒त्या वै प॒शवᳶ॑ प्र॒जाप॑तिरे॒वास्मै॑ प॒शून्प्र ज॑नयति ।
मूलम्
प्रा॒जा॒प॒त्यम्भ॑वति ।
प्रा॒जा॒प॒त्या वै प॒शवᳶ॑ प्र॒जाप॑तिरे॒वास्मै॑ प॒शून्प्र ज॑नयति ।
भट्टभास्कर-टीका
प्राजापत्यमिति । तृतीयस्य प्राजापत्यत्वात् ॥
मूलम् (संयुक्तम्)
आ॒त्मा वै पुरु॑षस्य॒ मधु॒ यन्मध्व॒ग्नौ जु॒होत्या॒त्मान॑मे॒व तद्यज॑मानो॒ऽग्नौ प्र द॑धाति प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवत॒ᳶ पाङ्क्त॒ᳶ पुरु॑ष॒ᳶ पाङ्क्ताः॑ प॒शव॑ आ॒त्मान॑मे॒व मृ॒त्योर्नि॒ष्क्रीय॑ प॒शूनव॑ रुन्द्धे ॥ [14]
विश्वास-प्रस्तुतिः
आ॒त्मा वै पुरु॑षस्य॒ मधु ।
यन्मध्व॒ग्नौ जु॒होति, आ॒त्मान॑मे॒व तद्यज॑मानो॒ऽग्नौ प्र द॑धाति ।
मूलम्
आ॒त्मा वै पुरु॑षस्य॒ मधु ।
यन्मध्व॒ग्नौ जु॒होति, आ॒त्मान॑मे॒व तद्यज॑मानो॒ऽग्नौ प्र द॑धाति ।
भट्टभास्कर-टीका
14अथ मधुहोमं दूषयति - आत्मेति ॥ पुरुषस्यात्मा मधु मन्तृत्वात् । मन्यतेर्मधु ; उप्रत्यये धकारोन्तादेशो विधीयते ।
विश्वास-प्रस्तुतिः
प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः ।
पाङ्क्त॒ᳶ पुरु॑ष॒ᳶ पाङ्क्ताः॑ प॒शवः॑ ।
मूलम्
प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः ।
पाङ्क्त॒ᳶ पुरु॑ष॒ᳶ पाङ्क्ताः॑ प॒शवः॑ ।
भट्टभास्कर-टीका
तस्मान्मधुनोग्नौ होमेन आत्मानमेवाग्नौ यजमानः प्रक्षिपति, तस्मादयुक्तमिति । परिहरति - पङ्क्त्याविति । ‘घृतं न पूतम्’ ‘उभे सुश्चन्द्र सर्पिषः’ इति प्राजापत्यस्य याज्यानुवाक्ये भवतः ।
विश्वास-प्रस्तुतिः
आ॒त्मान॑मे॒व मृ॒त्योर्नि॒ष्क्रीय॑ प॒शूनव॑ रुन्द्धे ।
मूलम्
आ॒त्मान॑मे॒व मृ॒त्योर्नि॒ष्क्रीय॑ प॒शूनव॑ रुन्द्धे ।
भट्टभास्कर-टीका
आत्मानमेवेति । याज्यानुवाक्यात्मपङ्क्त्यात्मनः पुरुषस्याग्नावनुप्रवेशात् अग्न्यात्मकान्मृत्योरात्मानं मधुहोमेनाग्नौ प्रविष्टं निष्क्रीय पशूनवरुन्धे ॥
इति द्वितीये तृतीये द्वितीयोनुवाकः ॥