०१ भूतिकामस्य आदित्यश्चरुः

विश्वेदेवा ऋषयः ।

मूलम् (संयुक्तम्)

आ॒दि॒त्येभ्यो॒ भुव॑द्वद्भ्यश्च॒रुन्निर्व॑पे॒द्भूति॑काम आदि॒त्या वा ए॒तम्भूत्यै॒ प्रति॑ नुदन्ते॒ योऽल॒म्भूत्यै॒ सन्भूति॒न्न प्रा॒प्नोत्या॑दि॒त्याने॒व भुव॑द्वत॒स्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैन॒म्भूति॑ङ्गमयन्ति॒ भव॑त्ये॒व

विश्वास-प्रस्तुतिः

आ॒दि॒त्येभ्यो॒ भुव॑द्वद्भ्यश्च॒रुन्निर्व॑पे॒द्भूति॑कामः ।
आ॒दि॒त्य वा ए॒तम्भूत्यै॒ प्रति॑ नुदन्ते ।
योऽल॒म्भूत्यै॒ सन्भूति॒न्न प्रा॒प्नोति॑।
आ॒दि॒त्याने॒व भुव॑द्वत॒स्स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
त ए॒वैन॒म्भूति॑ङ्गमयन्ति॒ भव॑त्ये॒व ।

मूलम्

आ॒दि॒त्येभ्यो॒ भुव॑द्वद्भ्यश्च॒रुन्निर्व॑पे॒द्भूति॑कामः ।
आ॒दि॒त्य वा ए॒तम्भूत्यै॒ प्रति॑ नुदन्ते ।
योऽल॒म्भूत्यै॒ सन्भूति॒न्न प्रा॒प्नोति॑।
आ॒दि॒त्याने॒व भुव॑द्वत॒स्स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
त ए॒वैन॒म्भूति॑ङ्गमयन्ति॒ भव॑त्ये॒व ।

भट्टभास्कर-टीका

1आदित्येभ्यो भुवद्वद्भ्य इत्यादि ॥ भवता अपिद्रा [अवित्रा] तद्वन्तो भुवद्वन्तः, याज्यानुवाक्ययोस्तादृशत्वात् । भवतेर्लटश्शत्रादेशः, ‘बहुलं छन्दसि’ इति शपो लुक्, ‘व्यत्ययेनाद्युदात्तत्वम् । शपि वा व्यत्ययेन गुणाभावः, तत्रादुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः, ‘तसौ मत्वर्थे’ इति व्यत्ययेन न प्रवर्तते । तत्र ‘यज्ञो देवानाम्’ इति पुरोनुवाक्या, ‘शुचिरपः’ इति याज्या, तत्र ‘आदित्यासो भवता मृडयन्तः’ ‘य आदित्यानां भवति प्रणीतौ’ इति दर्शनात् भुवद्वत्त्वम् । गतमन्यत् ॥

अपरुद्धापरुद्ध्यमानयोरादित्यश्चरुः

मूलम् (संयुक्तम्)

आ॒दि॒त्येभ्यो॑ धा॒रय॑द्वद्भ्यश्च॒रुन्निर्व॑पेदप॑रुद्धो वाऽपरु॒ध्यमा॑नो वा ..

विश्वास-प्रस्तुतिः

आ॒दि॒त्येभ्यो॑ धा॒रय॑द्वद्भ्यश्च॒रुन्निर्व॑पेत् ।
अप॑रुद्धो वाऽपरु॒ध्यमा॑नो वा +++(एतं चरुं निर्वपेत् )+++..

मूलम्

आ॒दि॒त्येभ्यो॑ धा॒रय॑द्वद्भ्यश्च॒रुन्निर्व॑पेत् ।
अप॑रुद्धो वाऽपरु॒ध्यमा॑नो वा +++(एतं चरुं निर्वपेत् )+++..

भट्टभास्कर-टीका

2धारयद्वद्भ्य इति ॥ धारयच्छब्दवत्त्वाद्याज्यानुवाक्ययोः, यथा’धारयन्त अदित्यासः’ तिस्रो भूमीर्धारयन्’ इति । अत्रापि पूर्ववद्भत्वाभावः, अयस्मयादित्वाद्वा उभयत्र पदत्वम् । अपरुद्ध इत्यादि । अपरुद्धो राजान्तरेणापहृतराष्ट्रः । स एतं चरुं निर्वपेत् पुना राष्ट्रं लप्सीयेति । अपरुद्ध्यमानो वा राजान्तरेणापजिहीर्षितराष्ट्रः । स वा निर्वपेदिमं चरुं मा मा राष्ट्रं हासीदिति ।

अपरुद्धराष्ट्रावगतिकामस्य आदित्यश्चरुः

विश्वास-प्रस्तुतिः

आ॒दि॒त्या वा अ॑परो॒द्धारः॑ , आ॒दि॒त्या अ॑वगमयि॒तारः॑ , आ॒दि॒त्याने॒व धा॒रय॑द्वतः ,
स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
त ए॒वैनव्ँ॑वि॒शि दा॑ध्रति ।
अ॒न॒प॒रु॒ध्यो भ॑वति ।

मूलम्

आ॒दि॒त्या वा अ॑परो॒द्धारः॑ , आ॒दि॒त्या अ॑वगमयि॒तारः॑ , आ॒दि॒त्याने॒व धा॒रय॑द्वतः ,
स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
त ए॒वैनव्ँ॑वि॒शि दा॑ध्रति ।
अ॒न॒प॒रु॒ध्यो भ॑वति ।

भट्टभास्कर-टीका

आदित्या वा इत्यादि । आदित्या एव रास्ट्रस्यापरोद्धारः अपहर्तारः राष्ट्रापहारेण वास्य दुःखयितारः । आदित्या एव तस्यापगमयितारः । तस्मात्तेनानेन चरुणा एनमपरुद्धं विशि प्रकृतिषु दाध्रति धारयन्ति धारयद्वत्त्वात् । धारयतेः ‘दाधर्तिदर्धर्ति’ इत्यादिना निपात्यते । ततश्चायमनपरुद्ध्यः अपरोद्धुमशक्यो भवति । छान्दसो यत् ; ‘ययतोश्चादर्थे’ इत्युत्तरपदान्तोदात्तत्वम् ॥

अपरुद्ध्यमानस्य प्रतिबन्धतारतम्येन प्रयोगविशेषाः

मूलम् (संयुक्तम्)

अदि॒तेऽनु॑ मन्य॒स्वेत्य॑परु॒ध्यमा॑नोऽस्य प॒दमा द॑दीते॒यव्ँ वा अदि॑तिरि॒यमे॒वास्मै॑ रा॒ज्यमनु॑ मन्यते

विश्वास-प्रस्तुतिः

अदि॒तेऽनु॑ मन्य॒स्व, इत्य॑परु॒ध्यमा॑नोऽस्य प॒दमा द॑दीत ।
इ॒यव्ँ वा अदि॑तिः, इ॒यमे॒वास्मै॑ रा॒ज्यमनु॑ मन्यते ।

मूलम्

अदि॒तेऽनु॑ मन्य॒स्व, इत्य॑परु॒ध्यमा॑नोऽस्य प॒दमा द॑दीत ।
इ॒यव्ँ वा अदि॑तिः, इ॒यमे॒वास्मै॑ रा॒ज्यमनु॑ मन्यते ।

भट्टभास्कर-टीका

3अथात्र प्रयोगविशेषा उच्यन्ते - तत्रापरुद्ध्यमानोस्यापरोद्धुः पदं पदपांसूनाददीत - अदितेनु मन्यस्वेति ॥ हे अदिते अखण्डिते पृथिवि मामनुमन्यस्व अनुजानीहि राज्यप्राप्तिमिति । गतमन्यत् ॥

मूलम् (संयुक्तम्)

स॒त्याशीरित्या॑ह स॒त्यामे॒वाशिष॑ङ्कुरुते ।

विश्वास-प्रस्तुतिः

स॒त्याशीरित्या॑ह ,
स॒त्यामे॒वाशिष॑ङ्कुरुते ।

मूलम्

स॒त्याशीरित्या॑ह ,
स॒त्यामे॒वाशिष॑ङ्कुरुते ।

भट्टभास्कर-टीका

4अथ तान् पांसून् यजमानस्याञ्जलौ आवपति - सत्याशीरिति ॥ सत्या अमोघफला आशीः प्रार्थना अस्य, अयमस्माकमनुपरुद्धो भवत्विति यावत् । गतमन्यत् ॥

मूलम् (संयुक्तम्)

इ॒ह मन॒ इत्या॑ह प्र॒जा ए॒वास्मै॒ सम॑नसᳵ करो॒ति

विश्वास-प्रस्तुतिः

इ॒ह मन॒ इत्या॑ह,
प्र॒जा ए॒वास्मै॒ सम॑नसᳵ करोति ।

मूलम्

इ॒ह मन॒ इत्या॑ह,
प्र॒जा ए॒वास्मै॒ सम॑नसᳵ करोति ।

भट्टभास्कर-टीका

5अथैतान् पांसूनुपनिगृह्णाति उपनिपीडयति - इह मन इति ॥ इहास्मिन् मयि मनोस्तु प्रजानामिति । ततस्सर्वा अस्मै समनसः अस्मिन्नेव सक्तमनसः करोति, ततोनपरुद्धो भवतीति ॥

मूलम् (संयुक्तम्)

उप॒ प्रेत॑ मरुतः [2] सु॒दा॒न॒व॒ ए॒ना वि॒श्पति॑ना॒भ्य॑मुँ राजा॑न॒मित्या॑ह मारु॒ती वै विड्ज्ये॒ष्ठो वि॒श्पति॑र्वि॒शैवनँ॑ रा॒ष्ट्रेण॒ सम॑र्धयति

विश्वास-प्रस्तुतिः

उप॒ प्रेत॑ मरुत सु॒दा॒न॒व॒ ए॒ना वि॒श्पति॑ना..

मूलम्

उप॒ प्रेत॑ मरुत सु॒दा॒न॒व॒ ए॒ना वि॒श्पति॑ना..

भट्टभास्कर-टीका

6अथ पदपांसूनादाय हरति - उप प्रेतेति द्विपदया जगत्या ॥ सामर्थ्याच्चायं मन्त्रोञ्जल्यावपनमन्त्रात्पूर्वो द्रष्टव्यः । हे मरुतस्सुदानवः सुष्ठु दातारोभिमतानां उपप्रेत उपसम्प्राप्नुत एना अनेनावरोधकेन । ‘सुपां सुलुक्’ इति तृतीयाया आजादेशः । विश्पतिना राज्ञा सह उपप्रेत । अयस्मयादित्वेन भत्वाद्विशो जश्त्वाभावः, तेनानवग्रहः, ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ।

विश्वास-प्रस्तुतिः

अभ्य॑मुँ राजा॑न॒मित्या॑ह ।

मूलम्

अभ्य॑मुँ राजा॑न॒मित्या॑ह ।

भट्टभास्कर-टीका

अमुमपरुद्ध्यमानं वीरसिंहवर्माणं राजानमभि इममभिमुखीकृत्येममनपरुद्धं कर्तुमुपप्रेतेति । । मरुतां राज्ञां च विशामधिपतित्वाद्विशा राष्ट्रेण समृद्धमेव करोति, एतन्मन्त्रसामर्थ्यात् ।

विश्वास-प्रस्तुतिः

मा॒रु॒ती वै विड् , ज्ये॒ष्ठो वि॒श्पतिः॑ , वि॒शैवनँ॑ रा॒ष्ट्रेण॒ सम॑र्धयति ।

मूलम्

मा॒रु॒ती वै विड् , ज्ये॒ष्ठो वि॒श्पतिः॑ , वि॒शैवनँ॑ रा॒ष्ट्रेण॒ सम॑र्धयति ।

भट्टभास्कर-टीका

अथ तान् पांसून् सञ्चरे अपरोद्धुर्मार्गे परावपति । अत्र यं यजमानो द्वेष्टि तं मनसा ध्यायति । अथ चरुणा यजेतेति । एवमपरुद्ध्यमानोनपरुद्धो भवति ॥

अपरुद्धराष्ट्रावगतये इष्ट्यन्तरम्

मूलम् (संयुक्तम्)

यᳶ प॒रस्ता॑द्ग्राम्यवा॒दी स्यात्तस्य॑ गृ॒हाद्व्री॒हीना ह॑रेच्छु॒क्लाँश्च॑ कृ॒ष्णाँश्च॒ वि चि॑नुया॒द्ये शु॒क्लास्स्युस्तमा॑दि॒त्यञ्च॒रुन्निर्व॑पेदादि॒त्या वै दे॒वत॑या॒ विड्विश॑मे॒वाव॑ गच्छति [3] अव॑गतास्य॒ विडन॑वगतँ रा॒ष्ट्रमित्या॑हु॒र्ये कृ॒ष्णास्स्युस्तव्ँ वा॑रु॒णञ्च॒रुन्निर्व॑पेद्वारु॒णव्ँ वै रा॒ष्ट्रमु॒भे ए॒व विश॑ञ्च रा॒ष्ट्रञ्चाव॑ गच्छति

विश्वास-प्रस्तुतिः

यᳶ प॒रस्ता॑द्ग्राम्यवा॒दी स्यात् , तस्य॑ गृ॒हाद्व्री॒हीना ह॑रेत् ।
शु॒क्लाँश्च॑ कृ॒ष्णाँश्च॒ वि चि॑नुयात् ।
ये शु॒क्लास्स्युस्तमा॑दि॒त्यञ्च॒रुन्निर्व॑पेत् ।
आ॒दि॒त्या वै दे॒वत॑या॒ विड्, विश॑मे॒वाव॑ गच्छति ।

मूलम्

यᳶ प॒रस्ता॑द्ग्राम्यवा॒दी स्यात् , तस्य॑ गृ॒हाद्व्री॒हीना ह॑रेत् ।
शु॒क्लाँश्च॑ कृ॒ष्णाँश्च॒ वि चि॑नुयात् ।
ये शु॒क्लास्स्युस्तमा॑दि॒त्यञ्च॒रुन्निर्व॑पेत् ।
आ॒दि॒त्या वै दे॒वत॑या॒ विड्, विश॑मे॒वाव॑ गच्छति ।

भट्टभास्कर-टीका

7अथ अपरुद्धराष्ट्रावगतये इष्ट्यन्तरं विदधाति - यः परस्तादिति ॥ ग्राम्यैः पूर्वमुक्ते पश्चाद्ग्रामप्रधानपुरुषतया ग्रामहितानां वक्ता यः तस्य गृहाद्व्रीहीनाहृत्य शुक्लकृष्णविवेकेन शुक्लानादित्यं चरुं निर्वपेत् । ‘त्यान्नु क्षत्रियान्’ इति पुरोनुवाक्या, ‘न दक्षिणा’ इति याज्या । तस्याप्या[अप्या]दित्यत्वादादीत्याया विशोवगत्यै भवति ।

विश्वास-प्रस्तुतिः

अव॑गतास्य॒ विट् ।
अन॑वगतँ रा॒ष्ट्रमित्या॑हुः ।

मूलम्

अव॑गतास्य॒ विट् ।
अन॑वगतँ रा॒ष्ट्रमित्या॑हुः ।

भट्टभास्कर-टीका

अवगतेति । अथाहुः - एवमनेन चरुणास्यापरुद्धस्य विडवगता लब्धा भवति, राष्ट्रं त्वनवगतमेवेति ।

विश्वास-प्रस्तुतिः

ये कृ॒ष्णास्स्युस्तव्ँ वा॑रु॒णञ्च॒रुन्निर्व॑पेत् ।
वा॒रु॒णव्ँ वै रा॒ष्ट्रमु॒भे ए॒व विश॑ञ्च रा॒ष्ट्रञ्चाव॑ गच्छति ।

मूलम्

ये कृ॒ष्णास्स्युस्तव्ँ वा॑रु॒णञ्च॒रुन्निर्व॑पेत् ।
वा॒रु॒णव्ँ वै रा॒ष्ट्रमु॒भे ए॒व विश॑ञ्च रा॒ष्ट्रञ्चाव॑ गच्छति ।

भट्टभास्कर-टीका

तस्मात्कृष्णान् व्रीहीन्वारुणं चरुं निर्वपेत् । तत्रास्य वारुणत्वाद्वारुणस्य राष्ट्रस्यावगत्यै भवति ।

विश्वास-प्रस्तुतिः

ये कृ॒ष्णास्स्युस्तव्ँ वा॑रु॒णञ्च॒रुन्निर्व॑पेत् ।
वा॒रु॒णव्ँ वै रा॒ष्ट्रमु॒भे ए॒व विश॑ञ्च रा॒ष्ट्रञ्चाव॑ गच्छति ।

मूलम्

ये कृ॒ष्णास्स्युस्तव्ँ वा॑रु॒णञ्च॒रुन्निर्व॑पेत् ।
वा॒रु॒णव्ँ वै रा॒ष्ट्रमु॒भे ए॒व विश॑ञ्च रा॒ष्ट्रञ्चाव॑ गच्छति ।

भट्टभास्कर-टीका

तस्मासदेवमुभयोः कृतयोः विशं राष्ट्रं च कृते गते अप्यवगच्छति । ‘इमं मे वरुण’ ‘तत्त्वा यामि’ इत्यस्य याज्यानुवाक्ये ॥

मूलम् (संयुक्तम्)

यदि॒ नाव॒गच्छे॑दि॒मम॒हमा॑दि॒त्येभ्यो॑ भा॒गन्निर्व॑पा॒म्यामुष्मा॑द॒मुष्यै॑ वि॒शोऽव॑गन्तो॒रिति॒ निर्व॑पेदादि॒त्या ए॒वैन॑म्भाग॒धेय॑म्प्रे॒प्सन्तो॒ विश॒मव॑ [4] ग॒म॒य॒न्ति

विश्वास-प्रस्तुतिः

यदि॒ नाव॒गच्छे॑त् इ॒मम॒हम् +++(निर्वपेत्)+++।

आ॒दि॒त्येभ्यो॑ भा॒गन्निर्व॑पा॒मि , आमुष्मा॑द॒मुष्यै॑ वि॒शोऽव॑गन्तो॒रिति॒ निर्व॑पेत् ।

मूलम्

यदि॒ नाव॒गच्छे॑त् इ॒मम॒हम् +++(निर्वपेत्)+++।

आ॒दि॒त्येभ्यो॑ भा॒गन्निर्व॑पा॒मि , आमुष्मा॑द॒मुष्यै॑ वि॒शोऽव॑गन्तो॒रिति॒ निर्व॑पेत् ।

भट्टभास्कर-टीका

8यदीत्यादि ॥ अथैवं कृतेपि वारुणे यदि राष्ट्रं नावगच्छेत् न लभेत ततः ‘इममहम्’ इत्यादिना मन्त्रेण पुनरादित्येभ्यो निर्वपेत् । अथ निरुप्योपनमति न संसादयति, अथावगते राष्ट्रं सांसादयति । अत्र ‘यज्ञो देवानाम्’ ‘आदित्यानामवसा’ याज्यानुवाक्ये ।

विश्वास-प्रस्तुतिः

आ॒दि॒त्या ए॒वैन॑म्भाग॒धेय॑म्प्रे॒प्सन्तो॒ विश॒मव॑ [4] गमयन्ति ।

मूलम्

आ॒दि॒त्या ए॒वैन॑म्भाग॒धेय॑म्प्रे॒प्सन्तो॒ विश॒मव॑ [4] गमयन्ति ।

भट्टभास्कर-टीका

अथ निरुप्यानासादनस्य प्रयोजनमाह - आदित्या एवैनं भागधेयं प्रेप्सन्तो विशमव गमयन्तीति । न ह्ययमनवगते राष्ट्रे विशि वा हविस्संसादयति । तस्माद्धविःप्रेप्सया शीघ्रं विशं राष्ट्रं चावगमयति ।
मन्त्रस्तु व्याख्यायते - इमं भागधेयं आदित्येभ्यो हविर्निर्वपामीति । अमुष्मादपरोद्धुर्वीरसिंहवर्मणस्सकाशादमुष्यै अमुष्या देवकोकाया […वकोटाया ?] विशोवगन्तोः अवगमनात् अलाभात् । ‘अमुष्मात्’ ‘अमुस्यै’ इति च सर्वविशेषार्थं सामान्यपदं, नामविशेषं चात्र निर्दिशेत् । ‘भावलक्षणे स्थेण्’ इति तोसुन्, ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

यदि॒ नाव॒गच्छे॒दाश्व॑त्थान्म॒यूखा॑न्त्स॒प्त म॑ध्यमे॒षाया॒मुप॑ हन्यादि॒दम॒हमा॑दि॒त्यान्ब॑ध्ना॒म्यामुष्मा॑द॒मुष्यै॑ वि॒शोऽव॑गन्तो॒रित्या॑दि॒त्या ए॒वैन॑म्ब॒द्धवी॑रा॒ विश॒मव॑ गमयन्ति

विश्वास-प्रस्तुतिः

यदि॒ नाव॒गच्छे॒त् ,आश्व॑त्थान्म॒यूखा॑न्त्स॒प्त म॑ध्यमे॒षाया॒मुप॑ हन्यात् ।

मूलम्

यदि॒ नाव॒गच्छे॒त् ,आश्व॑त्थान्म॒यूखा॑न्त्स॒प्त म॑ध्यमे॒षाया॒मुप॑ हन्यात् ।

भट्टभास्कर-टीका

9अथैवं कृतेपि यदि नावगच्छेत् राष्ट्रं विड्वा, तत आश्वत्थान् अश्वत्थविकारान् मयूखान् शङ्कून् सप्त त्रीषे शकटे मध्यमेषायामुपहन्यात् ‘इदमहम्’ इति मन्त्रेण । ‘अनुदात्तादेश्च’ इत्यश्वत्थशब्दादञ् ।

अत्रायं प्रयोगः - प्रागीषमनोवस्थाप्य तत्र मध्यमेषायां मध्यममुपहत्य त्रीन् प्रतीचस्त्रीन् प्राचः आयातयति ।

विश्वास-प्रस्तुतिः

इ॒दम॒हमा॑दि॒त्यान्ब॑ध्ना॒मि, आमुष्मा॑द॒मुष्यै॑ वि॒शोऽव॑गन्तोः॒ इति॑ ,
आ॒दि॒त्या ए॒वैन॑म्ब॒द्धवी॑रा॒ विश॒मव॑ गमयन्ति़ ।

मूलम्

इ॒दम॒हमा॑दि॒त्यान्ब॑ध्ना॒मि, आमुष्मा॑द॒मुष्यै॑ वि॒शोऽव॑गन्तोः॒ इति॑ ,
आ॒दि॒त्या ए॒वैन॑म्ब॒द्धवी॑रा॒ विश॒मव॑ गमयन्ति़ ।

भट्टभास्कर-टीका

अथैवं कृते बद्धवीरा आदित्या आत्मवीर्यमोक्षार्थं विशमवगमयन्ति राष्ट्रं च ।
मन्त्रार्थस्तु - इदमिति क्रियाविशेषणम् । अहमादीत्यानिदं बध्नति । अमुष्मादित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

यदि॒ नाव॒गच्छे॑दे॒तमे॒वादि॒त्यञ्च॒रुन्निर्व॑पेदि॒ध्मेऽपि॑ म॒यूखा॒न्त्सन्न॑ह्येदनपरु॒ध्यमे॒वाव॑ गच्छ॒त्याश्व॑त्था भवन्ति म॒रुताव्ँ॒वा ए॒तदोजो॒ यद॑श्व॒त्थ ओज॑सै॒व विश॒मव॑ गच्छति स॒प्त भ॑वन्ति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒व विश॒मव॑ गच्छति ॥ [5]

विश्वास-प्रस्तुतिः

यदि॒ नाव॒गच्छे॑दे॒तमे॒वादि॒त्यञ्च॒रुन्निर्व॑पेत् ।

मूलम्

यदि॒ नाव॒गच्छे॑दे॒तमे॒वादि॒त्यञ्च॒रुन्निर्व॑पेत् ।

भट्टभास्कर-टीका

10एवं कृते यदि नावगच्छेद्राष्ट्रं विड्वा एतमनन्तरं विहितमादित्मं चरुं निर्वपेत् ।

विश्वास-प्रस्तुतिः

इ॒ध्मेऽपि॑ म॒यूखा॒न्त्सन्न॑ह्येत् ।

मूलम्

इ॒ध्मेऽपि॑ म॒यूखा॒न्त्सन्न॑ह्येत् ।

भट्टभास्कर-टीका

इध्मेपि सप्ताश्वत्थान् सहेध्मेनाभ्यादध्यात् ।

विश्वास-प्रस्तुतिः

अ॒न॒प॒रु॒ध्यमे॒वाव॑ गच्छति ।

मूलम्

अ॒न॒प॒रु॒ध्यमे॒वाव॑ गच्छति ।

भट्टभास्कर-टीका

एवं कृतेवश्यमनपरुध्यं पुनः केन चिदप्यवरोद्धुमशक्यं राष्ट्रं विशं च अवगच्छति लभते । पूर्ववदन्तोदात्तत्वम् ।

विश्वास-प्रस्तुतिः

आश्व॑त्था भवन्ति ।

मूलम्

आश्व॑त्था भवन्ति ।

भट्टभास्कर-टीका

आश्वत्था इत्यादि । गतम् ।

विश्वास-प्रस्तुतिः

म॒रुताव्ँ॒वा ए॒तदोजः॑ ।
यद॑श्व॒त्थ ओज॑सै॒व विश॒मव॑ गच्छति ।
स॒प्त भ॑वन्ति ।

मूलम्

म॒रुताव्ँ॒वा ए॒तदोजः॑ ।
यद॑श्व॒त्थ ओज॑सै॒व विश॒मव॑ गच्छति ।
स॒प्त भ॑वन्ति ।

भट्टभास्कर-टीका

मरुतामोजस्त्वमत्युच्छ्रितत्वेन मरुतामचलव्यक्तिस्थानत्वात् ।

विश्वास-प्रस्तुतिः

स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒व विश॒मव॑ गच्छति ॥

मूलम्

स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒व विश॒मव॑ गच्छति ॥

भट्टभास्कर-टीका

गणश इति । ‘सङ्ख्यैकवचनाच्च’ इति शम्, ‘बहुगण’ इति सङ्ख्यासंज्ञा । गणंगणं विशोवगच्छति ॥

इति द्वितीये तृतीये प्रथमोनुवाकः ॥