- १-५. ब्रह्मवर्चसकामस्य चरुः
- ६. चर्मरोगभीतस्य चरुः
- ७. प्रजाकामस्य चरुः
- ८. अभिचरतः चरुः
- ९ -१०. दीर्घरोगयुक्तस्य चरुः
- ११.परस्यवैरिजनकामस्य चरुः
मूलम् (संयुक्तम्)
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒तँ सो॑मारौ॒द्रञ्च॒रुन्निर॑वप॒न्तेनै॒वास्मि॒न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात्तस्मा॑ ए॒तँ सो॑मारौ॒द्रञ्च॒रुन्निर्व॑पे॒त्सोम॑ञ्चै॒व रु॒द्रञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मि॑न्ब्रह्मवर्च॒सन्ध॑त्तो ब्रह्मवर्च॒स्ये॑व भ॑वति तिष्यापूर्णमा॒से निर्व॑पेद्रु॒द्रः (53) वै ति॒ष्य॑स्सोमᳶ॑ पू॒र्णमा॑सस्सा॒क्षादे॒व ब्र॑ह्मवर्च॒समव॑रुन्धे॒ परि॑श्रिते याजयति ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै
विश्वास-प्रस्तुतिः
अ॒सावा॑दि॒त्यो न व्य॑रोचत ।
तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छन् ।
तस्मा॑ ए॒तँ सो॑मारौ॒द्रञ्च॒रुन्निर॑वपन् ।
तेनै॒वास्मि॒न्रुच॑मदधुः ।
यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात् ।
तस्मा॑ ए॒तँ सो॑मारौ॒द्रञ्च॒रुन्निर्व॑पेत् ।
सोम॑ञ्चै॒व रु॒द्रञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।
तावे॒वास्मि॑न्ब्रह्मवर्च॒सन्ध॑त्तः ।
ब्र॒ह्म॒व॒र्च॒स्ये॑व भ॑वति ।
मूलम्
अ॒सावा॑दि॒त्यो न व्य॑रोचत ।
तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छन् ।
तस्मा॑ ए॒तँ सो॑मारौ॒द्रञ्च॒रुन्निर॑वपन् ।
तेनै॒वास्मि॒न्रुच॑मदधुः ।
यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात् ।
तस्मा॑ ए॒तँ सो॑मारौ॒द्रञ्च॒रुन्निर्व॑पेत् ।
सोम॑ञ्चै॒व रु॒द्रञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।
तावे॒वास्मि॑न्ब्रह्मवर्च॒सन्ध॑त्तः ।
ब्र॒ह्म॒व॒र्च॒स्ये॑व भ॑वति ।
भट्टभास्कर-टीका
1असावादित्य इत्यादि ॥ सोमारौद्रमिति । उत्तरपदवृद्धिश्छान्दसी ।
विश्वास-प्रस्तुतिः
ति॒ष्या॒पू॒र्ण॒मा॒से निर्व॑पेत् ।
मूलम्
ति॒ष्या॒पू॒र्ण॒मा॒से निर्व॑पेत् ।
भट्टभास्कर-टीका
तिष्यापौर्णमासे इति । तैष्यां पौर्णमास्यामित्यर्थः । तिष्येण सहितः पूर्णमासस्तिष्यापूणर्मासः । ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम् । तिष्यः पुष्यः ।
विश्वास-प्रस्तुतिः
रु॒द्रो वै ति॒ष्य॑स्सोमᳶ॑ पू॒र्णमा॑सः ।
सा॒क्षादे॒व ब्र॑ह्मवर्च॒समव॑रुन्धे।
मूलम्
रु॒द्रो वै ति॒ष्य॑स्सोमᳶ॑ पू॒र्णमा॑सः ।
सा॒क्षादे॒व ब्र॑ह्मवर्च॒समव॑रुन्धे।
भट्टभास्कर-टीका
रुद्रो वा इत्यादि । तयोस्तत्प्रधानत्वात्ताच्छब्द्यम् ।
साक्षादिति । अव्यवधानेन द्वयोरपि तेजस्वित्वात् ॥
विश्वास-प्रस्तुतिः
परि॑श्रिते याजयति ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ।
मूलम्
परि॑श्रिते याजयति ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ।
भट्टभास्कर-टीका
2परिश्रिते क[कु]शादिभिः परितः छादिते । ‘याजयति’ इति वचनात्प्रधानं तु परिश्रिते ; स्विष्टकृदाद्यपरिश्रिते एव ।
मूलम् (संयुक्तम्)
श्वे॒तायै॑ श्वे॒तव॑त्सायै दु॒ग्धम्म॑थि॒तमाज्य॑म्भव॒त्याज्य॒म्प्रोक्ष॑ण॒माज्ये॑न मार्जयन्ते॒ याव॑दे॒व ब्र॑ह्मवर्च॒सन्तत्सर्व॑ङ्करो॒त्यति॑ ब्रह्मवर्च॒सङ्क्रि॑यत॒ इत्या॑हुरीश्व॒रो दु॒श्चर्मा॒ भवि॑तो॒रिति॑ मान॒वी ऋचौ॑ धा॒य्ये॑ कुर्या॒द्यद्वै किञ्च॒ मनु॒रव॑द॒त्तद्भे॑ष॒जम् (54) भे॒ष॒जमे॒वास्मै॑ करोति॒ यदि॑ बिभी॒याद्दु॒श्चर्मा॑ भविष्या॒मीति॑
विश्वास-प्रस्तुतिः
श्वे॒तायै॑ श्वे॒तव॑त्सायै दु॒ग्धम्म॑थि॒तमाज्य॑म्भवति ।
आज्य॒म्प्रोक्ष॑ण॒माज्ये॑न मार्जयन्ते ।
याव॑दे॒व ब्र॑ह्मवर्च॒सन्तत्सर्व॑ङ्करोति ।
अति॑ ब्रह्मवर्च॒सङ्क्रि॑यत॒ इत्या॑हुः ।
मूलम्
श्वे॒तायै॑ श्वे॒तव॑त्सायै दु॒ग्धम्म॑थि॒तमाज्य॑म्भवति ।
आज्य॒म्प्रोक्ष॑ण॒माज्ये॑न मार्जयन्ते ।
याव॑दे॒व ब्र॑ह्मवर्च॒सन्तत्सर्व॑ङ्करोति ।
अति॑ ब्रह्मवर्च॒सङ्क्रि॑यत॒ इत्या॑हुः ।
भट्टभास्कर-टीका
3श्वेताया इत्यादि ॥ ईदृशेनाज्येन एतत्कुर्यात् । सर्वब्रह्मवर्चसलाभः सर्वं प्रोक्षणमार्जनान्या[नाद्या]ज्येनेति ।
विश्वास-प्रस्तुतिः
ई॒श्व॒रोदु॒श्चर्मा॑ भवि॑तो॒रिति॑।
मान॒वी ऋचौ॑ धा॒य्ये॑ कुर्यात् ।
मूलम्
ई॒श्व॒रोदु॒श्चर्मा॑ भवि॑तो॒रिति॑।
मान॒वी ऋचौ॑ धा॒य्ये॑ कुर्यात् ।
भट्टभास्कर-टीका
एवं ब्रह्मवर्चसमतिक्रियते अन्यत्रोत्पाद्यते, तत्रायं दुश्चर्मा श्वित्री भवितुमीश्वरस्स्यादित्याहुर्ब्रह्मविदः, तत्परिहाराय मानवी मानव्यौ ऋचौ धाय्ये कुर्यात् । ‘मक्षू देववतः’ इत्यासां द्वे धाय्ये । लोके दधाति । आद्ये इत्येके । अन्त्ये इत्यन्ये । ‘देवानां य इन्मनः’ इति सर्वत्रानुषज्यते । ‘समिद्ध्यमानः’ इति ‘समिद्धः’ इत्येतयोर्मध्ये ये भवतः ते धाय्ये ।
विश्वास-प्रस्तुतिः
यद्वै किञ्च॒ मनु॒रव॑द॒त्, तद्भे॑ष॒जम् ।
भे॒ष॒जमे॒वास्मै॑ करोति ।
यदि॑ बिभी॒याद्दु॒श्चर्मा॑ भविष्या॒मीति॑।
मूलम्
यद्वै किञ्च॒ मनु॒रव॑द॒त्, तद्भे॑ष॒जम् ।
भे॒ष॒जमे॒वास्मै॑ करोति ।
यदि॑ बिभी॒याद्दु॒श्चर्मा॑ भविष्या॒मीति॑।
भट्टभास्कर-टीका
यद्वा इत्यादि । मननान्मनुः मनस्वी प्रजापतिः । तेनोक्तं सर्वं भेषजं सर्वोपद्रवशमनं भवति । एवं मनोर्विशिष्टत्वान्मानव्योरपृचोर्विशिष्टत्वम् । अतस्तयोर्धाय्यात्वाद्दुश्चर्मत्वभयाप्रसङ्गः ॥
मूलम् (संयुक्तम्)
सोमापौ॒ष्णञ्च॒रुन्निर्व॑पेत्सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षᳶ पौ॒ष्णाᳶ प॒शव॒स्स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वच॑ङ्करोति॒ न दु॒श्चर्मा॑ भवति सोमारौ॒द्रञ्च॒रुन्निर्व॑पेत्प्र॒जाका॑म॒स्सोमो॒ वै रे॑तो॒धा अ॒ग्निᳶ प्र॒जाना॑म्प्रजनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑त्य॒ग्निᳶ प्र॒जाम्प्रज॑नयति वि॒न्दते॑ (55) प्र॒जाँ
विश्वास-प्रस्तुतिः
सोमापौ॒ष्णञ्च॒रुन्निर्व॑पेत् ।
सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षᳶ पौ॒ष्णाᳶ प॒शवः॑ ।
स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वच॑ङ्करोति ।
न दु॒श्चर्मा॑ भवति ।
सो॒मा॒रौ॒द्रञ्च॒रुन्निर्व॑पेत् ।
प्र॒जाका॑म॒स्सोमो॒ वै रे॑तो॒धाः ।
अ॒ग्निᳶ प्र॒जाना॑म्प्रजनयि॒ता ।
सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ।
अ॒ग्निᳶ प्र॒जाम्प्रज॑नयति ।
वि॒न्दते॑ प्र॒जाम् ।
मूलम्
सोमापौ॒ष्णञ्च॒रुन्निर्व॑पेत् ।
सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षᳶ पौ॒ष्णाᳶ प॒शवः॑ ।
स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वच॑ङ्करोति ।
न दु॒श्चर्मा॑ भवति ।
सो॒मा॒रौ॒द्रञ्च॒रुन्निर्व॑पेत् ।
प्र॒जाका॑म॒स्सोमो॒ वै रे॑तो॒धाः ।
अ॒ग्निᳶ प्र॒जाना॑म्प्रजनयि॒ता ।
सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ।
अ॒ग्निᳶ प्र॒जाम्प्रज॑नयति ।
वि॒न्दते॑ प्र॒जाम् ।
भट्टभास्कर-टीका
4-5सोमापौष्णमिति ॥ पूर्ववदुत्तरपदवृद्धिः ॥
मूलम् (संयुक्तम्)
सो॑मारौ॒द्रञ्च॒रुन्निर्व॑पेदभि॒चर॑न्त्सौ॒म्यो वै दे॒वत॑या॒ पुरु॑ष ए॒ष रु॒द्रो यद॒ग्निस्स्वाया॑ ए॒वैन॑न्दे॒वता॑यै नि॒ष्क्रीय॑ रु॒द्रायापि॑ दधाति ता॒जगार्ति॒मार्च्छ॑ति
विश्वास-प्रस्तुतिः
सो॑मारौ॒द्रञ्च॒रुन्निर्व॑पेत् ।
अ॒भि॒चर॑न्त्सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः ।
ए॒ष रु॒द्रो यद॒ग्निः ।
स्वाया॑ ए॒वैन॑न्दे॒वता॑यै नि॒ष्क्रीय॑ रु॒द्रायापि॑ दधाति ।
ता॒जगार्ति॒मार्च्छ॑ति ।
मूलम्
सो॑मारौ॒द्रञ्च॒रुन्निर्व॑पेत् ।
अ॒भि॒चर॑न्त्सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः ।
ए॒ष रु॒द्रो यद॒ग्निः ।
स्वाया॑ ए॒वैन॑न्दे॒वता॑यै नि॒ष्क्रीय॑ रु॒द्रायापि॑ दधाति ।
ता॒जगार्ति॒मार्च्छ॑ति ।
भट्टभास्कर-टीका
6अग्निरिति ॥ रोदनाद्रुद्रत्वमग्नेः । स्वाया इति । सौम्यं पुरुषं सोमान्निष्क्रीय रुद्रायाग्नये अपिदधाति उपहरति, ताजक् तदानीमेवार्तिमार्छति ॥
मूलम् (संयुक्तम्)
सोमारौ॒द्रञ्च॒रुन्निर्व॑पे॒ज्ज्योगा॑मयावी॒ सोमव्ँ॒वा ए॒तस्य॒ रसो॑ गच्छत्य॒ग्निँ शरी॑रय्ँ॒यस्य॒ ज्योगा॒मय॑ति॒ सोमा॑दे॒वास्य॒ रस॑न्निष्क्री॒णात्य॒ग्नेश्शरी॑रमु॒त यदि॑ (56) इ॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व सो॑मारु॒द्रयो॒र्वा ए॒तङ्ग्र॑सि॒तँ होता॒ निष्खि॑दति॒ स ई॑श्व॒र आर्ति॒मार्तो॑रन॒ड्वान्होत्रा॒ देयो॒ वह्नि॒र्वा अ॑न॒ड्वान्वह्नि॒र्होता॒ वह्नि॑नै॒व वह्नि॑मा॒त्मानँ॑ स्पृणोति
विश्वास-प्रस्तुतिः
सो॒मा॒रौ॒द्रञ्च॒रुन्निर्व॑पेत् ।
ज्योगा॑मयावी॒ सोमव्ँ॒वा ए॒तस्य॒ रसो॑ गच्छति ।
अ॒ग्निँ शरी॑रम् ।
यस्य॒ ज्योगा॒मय॑ति।
सोमा॑दे॒वास्य॒ रस॑न्निष्क्री॒णाति॑ ।
अ॒ग्नेश्शरी॑रमु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ।
मूलम्
सो॒मा॒रौ॒द्रञ्च॒रुन्निर्व॑पेत् ।
ज्योगा॑मयावी॒ सोमव्ँ॒वा ए॒तस्य॒ रसो॑ गच्छति ।
अ॒ग्निँ शरी॑रम् ।
यस्य॒ ज्योगा॒मय॑ति।
सोमा॑दे॒वास्य॒ रस॑न्निष्क्री॒णाति॑ ।
अ॒ग्नेश्शरी॑रमु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ।
भट्टभास्कर-टीका
7ज्योगामयावी व्याख्यातः ।
विश्वास-प्रस्तुतिः
सो॒मा॒रु॒द्रयो॒र्वा ए॒तङ्ग्र॑सि॒तँ होता॒ निष्खि॑दति।
मूलम्
सो॒मा॒रु॒द्रयो॒र्वा ए॒तङ्ग्र॑सि॒तँ होता॒ निष्खि॑दति।
भट्टभास्कर-टीका
ग्रसितमिति । सोमारुद्रयोः आस्यगतं खलु होता याज्यया यजन्निष्खिदति निष्क्रमयति । ‘ग्रसितस्कभित’ इति निपात्यते ।
विश्वास-प्रस्तुतिः
स ई॑श्व॒र आर्तिम् ..
मूलम्
स ई॑श्व॒र आर्तिम् ..
भट्टभास्कर-टीका
ततश्च स आर्तिं गन्तुमीश्वरस्स्यात् ।
विश्वास-प्रस्तुतिः
आर्तो॑रन॒ड्वान् होत्रा॒ देयः ।
मूलम्
आर्तो॑रन॒ड्वान् होत्रा॒ देयः ।
भट्टभास्कर-टीका
तस्मात्तेन होत्रा अन्वाहार्यसादनानन्तरं अनड्वान् देयः।
विश्वास-प्रस्तुतिः
वह्नि॒र्वा अ॑न॒ड्वान्वह्नि॒र्होता॒ वह्नि॑नै॒व वह्नि॑मा॒त्मानँ॑ स्पृणोति ।
मूलम्
वह्नि॒र्वा अ॑न॒ड्वान्वह्नि॒र्होता॒ वह्नि॑नै॒व वह्नि॑मा॒त्मानँ॑ स्पृणोति ।
भट्टभास्कर-टीका
तथा सति वह्निना वोढ्रा अनडुहा वह्निं यज्ञस्य वोढारं आत्मानं स्पृणोति प्रीणयति, वर्धयति वा । सर्वत्यादिक्षु[स्पृ प्रीत्यादिषु] । सौवादिकः ॥
मूलम् (संयुक्तम्)
सोमारौ॒द्रञ्च॒रुन्निर्व॑पे॒द्यᳵ का॒मये॑त॒ स्वे॑ऽस्मा आ॒यत॑ने॒ भ्रातृ॑व्यञ्जनयेय॒मिति॒ वेदि॑म्परि॒गृह्या॒र्द्धमु॑द्ध॒न्याद॒र्द्धन्नार्द्धम्ब॒र्हिष॑स्स्तृणी॒याद॒र्द्धन्नार्द्धमि॒द्ध्मस्या॑भ्याद॒द्ध्याद॒र्द्धन्न स्व ए॒वास्मा॑ आ॒यत॑ने॒ भ्रातृ॑व्यञ्जनयति ॥ (57)
विश्वास-प्रस्तुतिः
सो॒मा॒रौ॒द्र॒ञ्च॒रुन्निर्व॑पेत् ।
यᳵ का॒मये॑त॒ स्वे॑ऽस्मा आ॒यत॑ने॒ भ्रातृ॑व्यञ्जनयेय॒मिति॑ ।
वेदि॑म्परि॒गृह्या॒र्द्धमु॑द्ध॒न्यात् ।
मूलम्
सो॒मा॒रौ॒द्र॒ञ्च॒रुन्निर्व॑पेत् ।
यᳵ का॒मये॑त॒ स्वे॑ऽस्मा आ॒यत॑ने॒ भ्रातृ॑व्यञ्जनयेय॒मिति॑ ।
वेदि॑म्परि॒गृह्या॒र्द्धमु॑द्ध॒न्यात् ।
भट्टभास्कर-टीका
8यः कामयेतेति ॥ कृषिभूमौ परस्य क्षेत्रमाश्रितां वेदिं परिगृह्य तस्या अर्धं वाध्यवसाय दक्षिणामुद्धन्यात् ।
विश्वास-प्रस्तुतिः
अ॒र्धन्न +++(उद्धन्यात् )+++।
मूलम्
अ॒र्धन्न +++(उद्धन्यात् )+++।
भट्टभास्कर-टीका
अर्धान्तरं नोद्धन्यात् ।
विश्वास-प्रस्तुतिः
अर्द्धम्ब॒र्हिष॑स्स्तृणी॒यात् ।
मूलम्
अर्द्धम्ब॒र्हिष॑स्स्तृणी॒यात् ।
भट्टभास्कर-टीका
अर्धं तदेव बर्हिषा स्तृणीयात् छादयेत् ।
विश्वास-प्रस्तुतिः
अ॒र्धन्न +++(तृणीयात् )+++।
मूलम्
अ॒र्धन्न +++(तृणीयात् )+++।
भट्टभास्कर-टीका
अर्धान्तरं न स्तृणीयात् । बर्हिषोर्धमुत्करे त्यजेत् ।
विश्वास-प्रस्तुतिः
अ॒र्धमि॒ध्मस्या॑भ्याद॒ध्यात् ।
अ॒र्द्धन्न ।
मूलम्
अ॒र्धमि॒ध्मस्या॑भ्याद॒ध्यात् ।
अ॒र्द्धन्न ।
भट्टभास्कर-टीका
इध्मस्यार्धं अभ्यादध्यात् नार्धान्तरं. उत्करे तं त्यजेत् ।
विश्वास-प्रस्तुतिः
स्व ए॒वास्मा॑ आ॒यत॑ने॒ भ्रातृ॑व्यञ्जनयति ॥
मूलम्
स्व ए॒वास्मा॑ आ॒यत॑ने॒ भ्रातृ॑व्यञ्जनयति ॥
भट्टभास्कर-टीका
एवं कुर्वन् स्व एवायतने अस्मै भ्रातृव्यं जनयति गृहजातमेवास्य शत्रुं करोति ॥
इति द्वितीये द्वितीये दशमोनुवाकः ॥