०६

विश्वेदेवा ऋषयः

  • १.सङ्ग्राममुपप्रयास्यतः पुरोडाशः
  • २. सङ्ग्रामभूमिं प्राप्तस्य पुरोडाशः
  • ३. विद्विषतोरन्नं जग्धवतः पुरोडाशः
  • ४. शपथं कृत्वा द्रुह्यतः पुरोडाशः
  • ५. अविं प्रतिगृण्हानस्य पुरोडाशः
  • ६. उभयतोदन्तं प्रतिगृण्हानस्य पुरोडाशः
  • ७. याचयितुं प्रयास्यतः पुरोडाशः
  • ८-९. याचयित्वा प्रत्यागच्छतः पुरोडाशः
मूलम् (संयुक्तम्)

आ॒दि॒त्यञ्च॒रुन्निर्व॑पेत्सङ्ग्रा॒ममु॑पप्रया॒स्यन्नि॒यव्ँ वा अदि॑तिर॒स्यामे॒व पूर्वे॒ प्रति॑तिष्ठन्ति

विश्वास-प्रस्तुतिः

आ॒दि॒त्यञ्च॒रुन्निर्व॑पेत् ।

सङ्ग्रा॒ममु॑पप्रया॒स्यन्नि॒यव्ँ वा अदि॑तिर॒स्यामे॒व पूर्वे॒ प्रति॑तिष्ठन्ति ।

मूलम्

आ॒दि॒त्यञ्च॒रुन्निर्व॑पेत् ।

सङ्ग्रा॒ममु॑पप्रया॒स्यन्नि॒यव्ँ वा अदि॑तिर॒स्यामे॒व पूर्वे॒ प्रति॑तिष्ठन्ति ।

भट्टभास्कर-टीका

1आदित्यं चरुमित्यादि ॥ गतम् । संग्रामजयेनास्यां प्रतितिष्ठति ॥

मूलम् (संयुक्तम्)

वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेदा॒यतन॑ङ्ग॒त्वा सव्ँ॑वत्स॒रो वा अ॒ग्निर्वै॑श्वान॒रस्सव्ँ॑वत्स॒रᳵ खलु॒ वै दे॒वाना॑मा॒यत॑नमे॒तस्मा॒द्वा आ॒यत॑नाद्दे॒वा असु॑रानजय॒न्यद्वै॑श्वान॒रन्द्वाद॑शकपालन्नि॒र्वप॑ति दे॒वाना॑मे॒वायत॑ने यतते॒ जय॑ति॒ तँ स॑ङ्ग्रा॒मम्

विश्वास-प्रस्तुतिः

वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेदा॒यतन॑ङ्ग॒त्वा ।

सव्ँ॒व॒त्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः ।
सव्ँ॒व॒त्स॒रᳵ खलु॑ वै दे॒वाना॑मा॒यत॑नम् ।
ए॒तस्मा॒द्वा आ॒यत॑नाद्दे॒वा असु॑रानजयन् ।

यद्वै॑श्वान॒रन्द्वाद॑शकपालन्नि॒र्वप॑ति ।
दे॒वाना॑मे॒वायत॑ने यतते।
जय॑ति॒ तँ स॑ङ्ग्रा॒मम् ।

मूलम्

वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेदा॒यतन॑ङ्ग॒त्वा ।

सव्ँ॒व॒त्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः ।
सव्ँ॒व॒त्स॒रᳵ खलु॑ वै दे॒वाना॑मा॒यत॑नम् ।
ए॒तस्मा॒द्वा आ॒यत॑नाद्दे॒वा असु॑रानजयन् ।

यद्वै॑श्वान॒रन्द्वाद॑शकपालन्नि॒र्वप॑ति ।
दे॒वाना॑मे॒वायत॑ने यतते।
जय॑ति॒ तँ स॑ङ्ग्रा॒मम् ।

भट्टभास्कर-टीका

2आयतनमिति ॥ संग्रामायतनं गत्वा संग्रामजयार्थी तत्र यजेत । यद्वा - आ समन्ताद्यतनमायतनं सन्नाहगतं प्राप्य वैश्वानरं निर्वपेत् । देवानामेव सन्नाहे वर्तते इति सङ्ग्रामम् […मं जयति] । केचिदाहुः व्यायामस्थानमायतनमिति ॥

मूलम् (संयुक्तम्)

ए॒तस्मि॒न्वा ए॒तौ मृ॑जाते (30) यो वि॑द्विषा॒णयो॒रन्न॒मत्ति॑ वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेद्विद्विषा॒णयो॒रन्न॑ञ्ज॒ग्ध्वा सव्ँ॑वत्स॒रो वा अ॒ग्निर्वै॑श्वान॒रस्सव्ँ॑वत्स॒रस्व॑दितमे॒वात्ति॒ नास्मि॑न्मृजाते

विश्वास-प्रस्तुतिः

ए॒तस्मि॒न्वा ए॒तौ मृ॑जाते ।

मूलम्

ए॒तस्मि॒न्वा ए॒तौ मृ॑जाते ।

भट्टभास्कर-टीका

3एतस्मिन्वा इत्यादि ॥ मृजाते पापमात्मीयं शोधयतः ।

विश्वास-प्रस्तुतिः

यो वि॑द्विषा॒णयो॒रन्न॒मत्ति॑ ।

मूलम्

यो वि॑द्विषा॒णयो॒रन्न॒मत्ति॑ ।

भट्टभास्कर-टीका

विविधं परस्परं विद्विषन्तौ आभिचारादिघोरानर्थप्रवृत्तौ विद्विषाणौ, तयोरितरस्यान्नं योत्ति तस्मिन्नात्मीयं पापं विद्विषाणौ मृजाते । उभयोरन्यतरमिति केचित् ।

विश्वास-प्रस्तुतिः

वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत् ।
वि॒द्वि॒षा॒णयो॒रन्न॑ञ्ज॒ग्ध्वा ।

सव्ँ॒व॒त्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः ।
सव्ँ॒व॒त्स॒रस्व॑दितमे॒वात्ति॒ नास्मि॑न्मृजाते ।

मूलम्

वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत् ।
वि॒द्वि॒षा॒णयो॒रन्न॑ञ्ज॒ग्ध्वा ।

सव्ँ॒व॒त्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः ।
सव्ँ॒व॒त्स॒रस्व॑दितमे॒वात्ति॒ नास्मि॑न्मृजाते ।

भट्टभास्कर-टीका

संवत्सरस्वदितमिति । संवत्सरेण निर्दोषीकृतमन्नमिति । तस्मान्नास्मिन् पापं मृजाते । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । मृजेर्व्यत्ययेनात्मनेपदम् ॥

मूलम् (संयुक्तम्)

सव्ँ वत्स॒राय॒ वा ए॒तौ सम॑माते॒ यौ स॑म॒माते॒ तयो॒र्यᳶ पूर्वो॑ऽभि॒द्रुह्य॑ति॒ तव्ँ वरु॑णो गृह्णाति वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत्सममा॒नयो॒ᳶ पूर्वो॑ऽभि॒द्रुह्य॑ सव्ँ वत्स॒रो वा अ॒ग्निर्वै॑श्वान॒रस्सव्ँ॑वत्स॒रमे॒वाप्त्वा नि॑र्वरु॒णम् (31) प॒रस्ता॑द॒भिद्रु॑ह्यति॒ नैनव्ँ॒वरु॑णो गृह्णाति

विश्वास-प्रस्तुतिः

सव्ँ॒व॒त्स॒राय॒ वा ए॒तौ सम॑माते ।

मूलम्

सव्ँ॒व॒त्स॒राय॒ वा ए॒तौ सम॑माते ।

भट्टभास्कर-टीका

4संवत्सराय वा इत्यादि ॥ यौ सममाते एकस्मिन् कार्ये शपथं कुर्वते अस्मिन्विषये अन्योन्यमावाभ्यां न द्रोग्धव्यमिति । एतौ खलु संवत्सराय सममाते संवत्सरार्थं संवत्सरमेव साक्षिणं कृत्वा । यद्वा - संवत्सरसमाप्तेः प्रागनभिद्रोहाय सममाते ।

विश्वास-प्रस्तुतिः

यौ स॑म॒माते॒ तयो॒र्यᳶ पूर्वो॑ऽभि॒द्रुह्य॑ति ।
तव्ँ वरु॑णो गृह्णाति ।

मूलम्

यौ स॑म॒माते॒ तयो॒र्यᳶ पूर्वो॑ऽभि॒द्रुह्य॑ति ।
तव्ँ वरु॑णो गृह्णाति ।

भट्टभास्कर-टीका

तस्मात् तयोर्मध्ये यः पूर्वोभिद्रुह्यति प्रथमं संवत्सरादर्वाक् समयं भिनत्ति तं वरुणो गृह्णाति, ।

विश्वास-प्रस्तुतिः

वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत् ।
स॒म॒मा॒नयो॒ᳶ पूर्वो॑ऽभि॒द्रुह्य॑ ।

मूलम्

वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत् ।
स॒म॒मा॒नयो॒ᳶ पूर्वो॑ऽभि॒द्रुह्य॑ ।

भट्टभास्कर-टीका

तस्मात्सममानयोः पूर्वोभिद्रुह्यः वैश्वानरं द्वादशकपालं निर्वपेत् इति ।

विश्वास-प्रस्तुतिः

सव्ँ॒व॒त्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः ।
सव्ँ॒व॒त्स॒रमे॒वाप्त्वा नि॑र्वरु॒णम् प॒रस्ता॑द॒भिद्रु॑ह्यति ।

मूलम्

सव्ँ॒व॒त्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः ।
सव्ँ॒व॒त्स॒रमे॒वाप्त्वा नि॑र्वरु॒णम् प॒रस्ता॑द॒भिद्रु॑ह्यति ।

भट्टभास्कर-टीका

ततो यागबलेन संवत्सरमेवाप्त्वा आप्तं कृत्वा समाप्य वा परस्तादेवाभिद्रुह्यति । अन्येनाभिद्रुघे पश्चादेव वा संवत्सरस्याभिद्रोहः कृतो भवति ।

विश्वास-प्रस्तुतिः

नैनव्ँ॒वरु॑णो गृह्णाति ।

मूलम्

नैनव्ँ॒वरु॑णो गृह्णाति ।

भट्टभास्कर-टीका

निर्वरुणं वरुणग्रहणरहितं, तदेवाह - नैनं वरुणो गृह्णातीति । अमतिरत्र सत्यापने वर्तते । यथा - सोब्रवीदृतममीष्व’ इति । अमगत्यादिषु, ‘बहुलं छन्दसि’ इति शपो लुक् ॥

मूलम् (संयुक्तम्)

आव्यव्ँ॑वा ए॒ष प्रति॑गृह्णाति॒ योऽवि॑म्प्रतिगृ॒ह्णाति॑ वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पे॒दवि॑म्प्रति॒गृह्य॑ सव्ँ वत्स॒रो वा अ॒ग्निर्वै॑श्वान॒रस्सव्ँ॑वत्स॒रस्व॑दितामे॒व प्रति॑गृह्णाति॒ नाव्य॑म्प्रति॑गृह्णात्या॒त्मनो॒ वा ए॒ष मात्रा॑माप्नोति॒ य उ॑भ॒याद॑त्प्रतिगृ॒ह्णाति

विश्वास-प्रस्तुतिः

आ॒व्यव्ँ॑वा ए॒ष प्रति॑गृह्णाति ।

योऽवि॑म्प्रतिगृ॒ह्णाति॑ ।

वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत् ।

अवि॑म्प्रति॒गृह्य॑ ।

मूलम्

आ॒व्यव्ँ॑वा ए॒ष प्रति॑गृह्णाति ।

योऽवि॑म्प्रतिगृ॒ह्णाति॑ ।

वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत् ।

अवि॑म्प्रति॒गृह्य॑ ।

भट्टभास्कर-टीका

5आव्यमिति ॥ अवत्यस्मादिति आव्यं पापं रोगविशेषो वा । अवतेः ‘ऋहलोर्ण्यत्’ । शेफरोगं केचिदाहुः । तदेव खल्वयं प्रतिगृह्णाति योविं प्रतिगृह्णाति ।

विश्वास-प्रस्तुतिः

सव्ँ॒व॒त्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः ।

सव्ँ॒व॒त्स॒रस्व॑दितामे॒व प्रति॑गृह्णाति।

ना॒व्य॑म्प्रति॑गृह्णाति ।

मूलम्

सव्ँ॒व॒त्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः ।

सव्ँ॒व॒त्स॒रस्व॑दितामे॒व प्रति॑गृह्णाति।

ना॒व्य॑म्प्रति॑गृह्णाति ।

भट्टभास्कर-टीका

संवत्सरस्वदितामिति । संवत्सरेण निर्दोषीकृतामेवाविं प्रतिगृह्णाति । ततो नाव्यं प्रतिगृह्णातीति ॥

मूलम् (संयुक्तम्)

आ॒त्मनो॒ वा ए॒ष मात्रा॑माप्नोति॒ य उ॑भ॒याद॑त्प्रतिगृ॒ह्णाति अश्वव्ँ॑वा॒ पुरु॑षव्ँ वा वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेदुभ॒याद॑त् (32) प्र॒ति॒गृह्य॑ सव्ँ वत्स॒रो वा अ॒ग्निर्वै॑श्वान॒रस्सव्ँ॑वत्स॒रस्व॑दितमे॒व प्रति॑गृह्णाति॒ नात्मनो॒ मात्रा॑माप्नोति

विश्वास-प्रस्तुतिः

आ॒त्मनो॒ वा ए॒ष मात्रा॑माप्नोति ।
य उ॑भ॒याद॑त्प्रतिगृ॒ह्णाति॑ ।

अश्वव्ँ॑वा॒ पुरु॑षव्ँ वा वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत् ।
उभ॒याद॑त् प्र॒ति॒गृह्य॑ ।

सव्ँ॒व॒त्स॒रो वा अ॒ग्निर्वै॑श्वान॒रस्सव्ँ॑वत्स॒रस्व॑दितमे॒व प्रति॑गृह्णाति ।
नात्मनो॒ मात्रा॑माप्नोति ।

मूलम्

आ॒त्मनो॒ वा ए॒ष मात्रा॑माप्नोति ।
य उ॑भ॒याद॑त्प्रतिगृ॒ह्णाति॑ ।

अश्वव्ँ॑वा॒ पुरु॑षव्ँ वा वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत् ।
उभ॒याद॑त् प्र॒ति॒गृह्य॑ ।

सव्ँ॒व॒त्स॒रो वा अ॒ग्निर्वै॑श्वान॒रस्सव्ँ॑वत्स॒रस्व॑दितमे॒व प्रति॑गृह्णाति ।
नात्मनो॒ मात्रा॑माप्नोति ।

भट्टभास्कर-टीका

6आत्मन इत्यादि ॥ अश्वादिकमुभयादत् उभयोर्भागयोर्दन्तवत् । प्रतिगृह्णन् आत्मन एष मात्रां प्रतिगृह्णाति । मीयतेनयेति मात्रा । तस्या हि प्रतिग्रहे प्रतिग्राह्यत्वे क्षिप्तः स्यादात्मा । यद्वा - अत्मनो मात्राल्पता आयुस्समाप्तिः ; तां प्रतिगृह्णाति म्रियते इत्यर्थः । यद्वा - आत्मनो मात्रामेकदेशं प्रतिगृह्णाति एकदेशस्य प्रतिग्राह्यत्वेन क्षेपः । ‘छन्दसि च’ इति दन्तस्य दतृभावः, वस्तुत्वेन विवक्षितत्वान्नपुंसकत्वम्, ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम् ॥

मूलम् (संयुक्तम्)

वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत्स॒निमे॒ष्यन्त्सव्ँ॑वत्स॒रो वा अ॒ग्निर्वै॑श्वान॒रो य॒दा खलु॒ वै सव्ँ॑वत्स॒रञ्ज॒नता॑या॒ञ्चर॒त्यथ॒ स ध॑ना॒र्घो भ॑वति॒ यद्वै॑श्वान॒रन्द्वाद॑शकपालन्नि॒र्वप॑ति सव्ँ वत्स॒रसा॑तामे॒व स॒निम॒भि प्रच्य॑वते॒ दान॑कामा अस्मै प्र॒जा भ॑वन्ति

विश्वास-प्रस्तुतिः

वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत्, स॒निमे॒ष्यन् ।

सव्ँ॒व॒त्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः ।

मूलम्

वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत्, स॒निमे॒ष्यन् ।

सव्ँ॒व॒त्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः ।

भट्टभास्कर-टीका

7सनिमेष्यन्निति ॥ याच्ञालब्धं धनं सनिः, तदर्थमेष्यन् वैश्वानरं निर्वपेदिति ।

विश्वास-प्रस्तुतिः

य॒दा खलु॒ वै सव्ँ॑वत्स॒रञ्ज॒नता॑या॒ञ्चर॑ति ।

अथ॒ स ध॑ना॒र्घो भ॑वति।
यद्वै॑श्वान॒रन्द्वाद॑शकपालन्नि॒र्वप॑ति ।

मूलम्

य॒दा खलु॒ वै सव्ँ॑वत्स॒रञ्ज॒नता॑या॒ञ्चर॑ति ।

अथ॒ स ध॑ना॒र्घो भ॑वति।
यद्वै॑श्वान॒रन्द्वाद॑शकपालन्नि॒र्वप॑ति ।

भट्टभास्कर-टीका

यदेत्यादि । संवत्सरं जनतायां जनसमूहे दातृपार्श्वे चरन् धनार्घो भवति धनेन पूजितो महाधनो भवति । अर्घ पूजायाम्, कर्मणि घञ्, थाथादिनोत्तरपदान्तोदात्तत्वम् ।

विश्वास-प्रस्तुतिः

सव्ँ॒व॒त्स॒रसा॑तामे॒व स॒निम॒भि प्रच्य॑वते ।

मूलम्

सव्ँ॒व॒त्स॒रसा॑तामे॒व स॒निम॒भि प्रच्य॑वते ।

भट्टभास्कर-टीका

संवत्सरसातां संवत्सरेण दत्तां सनिमभिप्रच्यवते प्रगच्छति प्राप्तं चेष्टते ।

विश्वास-प्रस्तुतिः

दान॑कामा अस्मै प्र॒जा भ॑वन्ति।

मूलम्

दान॑कामा अस्मै प्र॒जा भ॑वन्ति।

भट्टभास्कर-टीका

ततश्च सर्वाः प्रजाः अस्मै दानकामा भवन्ति ॥

मूलम् (संयुक्तम्)

यो वै सव्ँ॑वत्स॒रम् (33) प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑प्रतिष्ठा॒नो वै स भ॑वत्ये॒तमे॒व वै॑श्वान॒रम्पुन॑रा॒गत्य॒ निर्व॑पे॒द्यमे॒व प्र॑यु॒ङ्क्ते तम्भा॑ग॒धेये॑न॒ विमु॑ञ्चति॒ प्रति॑ष्ठित्यै॒ यया॒ रज्ज्वो॑त्त॒माङ्गामा॒जेत्ताम्भ्रातृ॑व्याय॒ प्रहि॑णुया॒न्निर्ऋ॑तिमे॒वास्मै॒ प्रहि॑णोति ॥ (34)

विश्वास-प्रस्तुतिः

यो वै सव्ँ॑वत्स॒रम् प्र॒युज्य॒ न वि॑मु॒ञ्चति ।
अ॒प्र॒ति॒ष्ठा॒नो वै स भ॑वति ।

मूलम्

यो वै सव्ँ॑वत्स॒रम् प्र॒युज्य॒ न वि॑मु॒ञ्चति ।
अ॒प्र॒ति॒ष्ठा॒नो वै स भ॑वति ।

भट्टभास्कर-टीका

8यो वा इत्यादि ॥ सन्यर्थं संवत्सरयागेन प्रयुज्य न विमुञ्चति अप्रतिष्ठानो भवति प्रतिष्ठानशक्तिरहितस्स्यात् ।

विश्वास-प्रस्तुतिः

ए॒तमे॒व वै॑श्वान॒रम्पुन॑रा॒गत्य॒ निर्व॑पेत् ।

मूलम्

ए॒तमे॒व वै॑श्वान॒रम्पुन॑रा॒गत्य॒ निर्व॑पेत् ।

भट्टभास्कर-टीका

सनिं लब्ध्वा आगत्यैनं वैश्वानरं पुनर्निर्वपेत् । अत्र कपालोपदेशाभावान्न कर्मभेदः ; अधिकारभेद एवायम् ।

विश्वास-प्रस्तुतिः

यमे॒व प्र॑यु॒ङ्क्ते तम्भा॑ग॒धेये॑न॒ विमु॑ञ्चति॒ प्रति॑ष्ठित्यै ।

मूलम्

यमे॒व प्र॑यु॒ङ्क्ते तम्भा॑ग॒धेये॑न॒ विमु॑ञ्चति॒ प्रति॑ष्ठित्यै ।

भट्टभास्कर-टीका

संवत्सरं प्रयुङ्क्ते, तं भागधेयेन विमुञ्चति तच्चास्य प्रतिष्ठित्यै भवति ।

विश्वास-प्रस्तुतिः

यया॒ रज्ज्वो॑त्त॒माङ्गामा॒जेत् ।
ताम्भ्रातृ॑व्याय॒ प्रहि॑णुयात् ।
निर्ऋ॑तिमे॒वास्मै॒ प्रहि॑णोति ॥

मूलम्

यया॒ रज्ज्वो॑त्त॒माङ्गामा॒जेत् ।
ताम्भ्रातृ॑व्याय॒ प्रहि॑णुयात् ।
निर्ऋ॑तिमे॒वास्मै॒ प्रहि॑णोति ॥

भट्टभास्कर-टीका

तत्रागमनकाले यया रज्ज्वा उत्तमां गां सर्वासां काल्यमानानां गवां पृष्ठतो गच्छन्तीं सनिलब्धामाजेद्गमयेत्, तां भ्रातृव्याय प्रहिणुयात् भ्रातृव्यमध्यमगोष्ठे [व्यगोष्ठमध्ये] न्यस्यति [स्येत्] भ्रातृव्यगवीं वाभिदध्यात् [वा बध्नीयात्] निरृतिं लक्ष्मीमेव भ्रातृव्याय प्रहिणोति प्रेरयति ॥

इति द्वितीये द्वितीये षष्ठोनुवाकः ॥