विश्वेदेवा ऋषयः
- १-२. अभिशस्यमानस्य प्रजाकामस्य च पुरोडाशचरवः
- ३. पुत्रजन्मवतः पुरोडाशः
- ४-५. दर्शपूर्णमासातिक्रमवतः पुरोडाशः
- ६-७. अग्निमुद्वासयिष्यतः पुरोडाशः
- ८-१३ ग्रामकामस्य पुरोडाशः
मूलम् (संयुक्तम्)
वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेद्वारु॒णञ्च॒रुन्द॑धि॒क्राव्ण्णे॑ च॒रुम॑भिश॒स्यमा॑नो॒ यद्वै॑श्वान॒रो द्वाद॑शकपालो॒ भव॑ति सव्ँ वत्स॒रो वा अ॒ग्निर्वै॑श्वान॒रस्सव्ँ॑वत्स॒रेणै॒वैनँ॑ स्वदय॒त्यप॑ पा॒पव्ँ वर्णँ॑ हते वारु॒णेनै॒वैनव्ँ॑वरुणपा॒शान्मु॑ञ्चति दधि॒क्राव्ण्णा॑ पुनाति॒ हिर॑ण्य॒न्दक्षि॑णा प॒वित्रव्ँ॒ वै हिर॑ण्यम्पु॒नात्ये॒वैन॑मा॒द्य॑म॒स्यान्न॑म्भवति
विश्वास-प्रस्तुतिः
वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत् ,वारु॒णञ्च॒रुम्।
द॒धि॒क्राव्ण्णे॑ च॒रुम॑भिश॒स्यमा॑नो॒ यद्वै॑श्वान॒रो द्वाद॑शकपालो॒ भव॑ति ।
सव्ँ॒व॒त्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः ।
सव्ँ॒व॒त्स॒रेणै॒वैनँ॑ स्वदयति ।
मूलम्
वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत् ,वारु॒णञ्च॒रुम्।
द॒धि॒क्राव्ण्णे॑ च॒रुम॑भिश॒स्यमा॑नो॒ यद्वै॑श्वान॒रो द्वाद॑शकपालो॒ भव॑ति ।
सव्ँ॒व॒त्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः ।
सव्ँ॒व॒त्स॒रेणै॒वैनँ॑ स्वदयति ।
भट्टभास्कर-टीका
1वैश्वानरं द्वादशकपालमिति ॥ अभिशस्यमानः पातकारोपेण दूष्यमाणः स्वदयति निर्दोषीकरोतीति । ष्वद आस्वादने, चुरादिरदन्तः ।
विश्वास-प्रस्तुतिः
अप॑ पा॒पव्ँ वर्णँ॑ हते वारु॒णेनै॒वैनव्ँ॑वरुणपा॒शान्मु॑ञ्चति ।
मूलम्
अप॑ पा॒पव्ँ वर्णँ॑ हते वारु॒णेनै॒वैनव्ँ॑वरुणपा॒शान्मु॑ञ्चति ।
भट्टभास्कर-टीका
अपेति । पापं वर्णं रूपं आरोप्यमाणं अपहते ।
विश्वास-प्रस्तुतिः
दधि॒क्राव्ण्णा॑ पुनाति॒ हिर॑ण्य॒न्दक्षि॑णा ।
प॒वित्रव्ँ॒ वै हिर॑ण्यम्पु॒नात्ये॒वैन॑म् ।
आ॒द्य॑म॒स्यान्न॑म्भवति ।
मूलम्
दधि॒क्राव्ण्णा॑ पुनाति॒ हिर॑ण्य॒न्दक्षि॑णा ।
प॒वित्रव्ँ॒ वै हिर॑ण्यम्पु॒नात्ये॒वैन॑म् ।
आ॒द्य॑म॒स्यान्न॑म्भवति ।
भट्टभास्कर-टीका
दधिक्राव्णा पुनातीति । दधीनि धारकाणि पृथिव्यादीनि । ‘आदृगमहन’ इति किप्रत्ययः । तेषु सर्वेषु क्रमते व्याप्नोतीति व्यापकोग्निः दधिक्रावा, तेन पुनाति । क्रमेः ‘अन्येभ्योपि दृश्यते’ इति वनिप्, विड्वनोरनुनासिकस्यात्’ इत्यात्वम् । हिरण्यमिति ।अन्वाहायर्मासाद्य हिरण्यं दक्षिणां ददाति ॥
मूलम् (संयुक्तम्)
ए॒तामे॒व निर्व॑पेत्प्र॒जाका॑मस्सव्ँ वत्स॒रः (23) वा ए॒तस्याशा॑न्तो॒ योनि॑म्प्र॒जायै॑ पशू॒नान्निर्द॑हति॒ योऽल॑म्प्र॒जायै॒ सन्प्र॒जान्न वि॒न्दते॒ यद्वै॑श्वान॒रो द्वाद॑शकपालो॒ भव॑ति सव्ँ वत्स॒रो वा अ॒ग्निर्वै॑श्वान॒रस्सव्ँ॑वत्स॒रमे॒व भा॑ग॒धेये॑न शमयति॒ सो॑ऽस्मै शा॒न्तस्स्वाद्योनेः॑ प्र॒जाम्प्रज॑नयति वारु॒णेनै॒वैनव्ँ॑वरुणपा॒शान्मु॑ञ्चति दधि॒क्राव्ण्णा॑ पुनाति॒ हिर॑ण्य॒न्दक्षि॑णा प॒वित्रव्ँ॒ वै हिर॑ण्यम्पु॒नात्ये॒वैन॑म् (24) वि॒न्दते॑ प्र॒जाम्
विश्वास-प्रस्तुतिः
ए॒तामे॒व निर्व॑पेत्प्र॒जाका॑मः ।
सव्ँ॒व॒त्स॒रो वा ए॒तस्याशा॑न्तो॒ योनि॑म्प्र॒जायै॑ पशू॒नान्निर्द॑हति ।
योऽल॑म्प्र॒जायै॒ सन्प्र॒जान्न वि॒न्दते॑ ।
यद्वै॑श्वान॒रो द्वाद॑शकपालो॒ भव॑ति ।
सव्ँ॒व॒त्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः ।
सव्ँ॒व॒त्स॒रमे॒व भा॑ग॒धेये॑न शमयति ।
सो॑ऽस्मै शा॒न्तस्स्वाद्योनेः॑ प्र॒जाम्प्रज॑नयति ।
वा॒रु॒णेनै॒वैनव्ँ॑वरुणपा॒शान्मु॑ञ्चति ।
द॒धि॒क्राव्ण्णा॑ पुनाति॒ हिर॑ण्य॒न्दक्षि॑णा ।
प॒वित्रव्ँ॒ वै हिर॑ण्यम्पु॒नात्ये॒वैन॑म् ।
वि॒न्दते॑ प्र॒जाम् ।

2एतामिति । त्रिहविष्कामिष्टिम् । एतस्येत्युक्तं, कस्येत्याह - योलमिति । गतमन्यत् ॥
मूलम् (संयुक्तम्)
वैँ॑श्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत्पु॒त्रे जा॒ते यद॒ष्टाक॑पालो॒ भव॑ति गायत्रि॒यैवैन॑म्ब्रह्मवर्च॒सेन॑ पुनाति॒ यन्नव॑कपालस्त्रि॒वृतै॒वास्मि॒न्तेजो॑ दधाति॒ यद्दश॑कपालो वि॒राजै॒वास्मि॑न्न॒न्नाद्य॑न्दधाति॒ यदेका॑दशकपालस्त्रि॒ष्टुभै॒वास्मि॑न्निन्द्रि॒यन्द॑धाति॒ यद्द्वाद॑शकपालो॒ जग॑त्यै॒वास्मि॑न्प॒शून्द॑धाति॒ यस्मि॑ञ्जा॒त ए॒तामिष्टि॑न्नि॒र्वप॑ति पू॒तः (25)
ए॒व ते॑ज॒स्व्य॑न्ना॒द इ॑न्द्रिया॒वी प॑शु॒मान्भ॑व॒ति
विश्वास-प्रस्तुतिः
वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत् ।
पु॒त्रे जा॒ते यद॒ष्टाक॑पालो॒ भव॑ति।
गा॒य॒त्रि॒यैवैन॑म्ब्रह्मवर्च॒सेन॑ पुनाति ।
मूलम्
वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत् ।
पु॒त्रे जा॒ते यद॒ष्टाक॑पालो॒ भव॑ति।
गा॒य॒त्रि॒यैवैन॑म्ब्रह्मवर्च॒सेन॑ पुनाति ।
भट्टभास्कर-टीका
3पुत्रे जाते इति ॥ दशाहात्स्वयमपर्वण्येव । यदष्टाकपाल इत्यादि अवयुत्य द्वादशकपालेन स्तूयते ब्रह्मवर्चसेनेति । तद्धेतुत्वात्ताच्छब्द्यम् ।
विश्वास-प्रस्तुतिः
यन्नव॑कपालस्त्रि॒वृतै॒वास्मि॒न्तेजो॑ दधाति ।
यद्दश॑कपालो वि॒राजै॒वास्मि॑न्न॒न्नाद्य॑न्दधाति ।
मूलम्
यन्नव॑कपालस्त्रि॒वृतै॒वास्मि॒न्तेजो॑ दधाति ।
यद्दश॑कपालो वि॒राजै॒वास्मि॑न्न॒न्नाद्य॑न्दधाति ।
भट्टभास्कर-टीका
त्रिवृतेति नवरतोत्रीयस्तोमस्त्रिवृत् । विराट् दशाक्षरा, अन्नं च ।
विश्वास-प्रस्तुतिः
यदेका॑दशकपालस्त्रि॒ष्टुभै॒वास्मि॑न्निन्द्रि॒यन्द॑धाति।
मूलम्
यदेका॑दशकपालस्त्रि॒ष्टुभै॒वास्मि॑न्निन्द्रि॒यन्द॑धाति।
भट्टभास्कर-टीका
त्रिष्टुभेति । तस्येन्द्रियहेतुत्वात्त्रिष्टुबिन्द्रिययोस्सहजातत्वात् ।
विश्वास-प्रस्तुतिः
यद्द्वाद॑शकपालो॒ जग॑त्यै॒वास्मि॑न्प॒शून्द॑धाति ।
मूलम्
यद्द्वाद॑शकपालो॒ जग॑त्यै॒वास्मि॑न्प॒शून्द॑धाति ।
भट्टभास्कर-टीका
जगत्येति । तस्याः पशव्यत्वात् ।
विश्वास-प्रस्तुतिः
यस्मि॑ञ्जा॒त ए॒तामिष्टि॑न्नि॒र्वप॑ति ।
पू॒त ए॒व ते॑ज॒स्वी, अ॒न्ना॒दः, इ॑न्द्रिया॒वी, प॑शु॒मान् भ॑व॒ति ।
मूलम्
यस्मि॑ञ्जा॒त ए॒तामिष्टि॑न्नि॒र्वप॑ति ।
पू॒त ए॒व ते॑ज॒स्वी, अ॒न्ना॒दः, इ॑न्द्रिया॒वी, प॑शु॒मान् भ॑व॒ति ।
भट्टभास्कर-टीका
जातेष्ट्याः फलमाह - यस्मिन्निति । पूतत्वादिकं जातस्य पुत्रस्य फलमिति दर्शयति । तेन पूतत्वादिगुणो जाते भवत्विति सङ्कल्पः ॥
मूलम् (संयुक्तम्)
अव॒ वा ए॒ष सु॑व॒र्गाल्लो॒काच्छि॑द्यते॒ यो द॑र्शपूर्णमासया॒जी सन्न॑मावा॒स्याव्ँ॑ वा पौर्णमा॒सीव्ँ वा॑ऽतिपा॒दय॑ति सुव॒र्गाय॒ हि लो॒काय॑ दर्शपूर्णमा॒सावि॒ज्येते॑ वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेदमावा॒स्याव्ँ॑ वा पौर्णमा॒सीव्ँ वा॑ऽति॒पाद्य॑ सव्ँ वत्स॒रो वा अ॒ग्निर्वै॑श्वान॒रस्सव्ँ॑वत्स॒रमे॒व प्री॑णा॒त्यथो॑ सव्ँ वत्स॒रमे॒वास्मा॒ उप॑दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै (26)
विश्वास-प्रस्तुतिः
अव॒ वा ए॒ष सु॑व॒र्गाल्लो॒काच्छि॑द्यते ।
यो द॑र्शपूर्णमासया॒जी सन्न॑मावा॒स्याव्ँ॑ वा पौर्णमा॒सीव्ँ वा॑ऽतिपा॒दय॑ति ।
सुव॒र्गाय॒ हि लो॒काय॑ दर्शपूर्णमा॒सावि॒ज्येते॑ ।
वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत् ।
अ॒मा॒वा॒स्याव्ँ॑वा पौर्णमा॒सीव्ँ वा॑ऽति॒पाद्य॑ ।
सव्ँ॒व॒त्स॒रो वा अ॒ग्निर्वै॑श्वान॒रस्सव्ँ॑वत्स॒रमे॒व प्री॑णाति ।

4अव वा एष इत्यादि ॥ गतम् । अत्र पाथिकृतवैश्वानरयोः समुदाय इत्येके, विकल्प इत्यन्ये ।
विश्वास-प्रस्तुतिः
अथो॑ सव्ँ वत्स॒रमे॒वास्मा॒ उप॑दधाति ।
सु॒व॒र्गस्य॑ लो॒कस्य॑ सम॑ष्ट्यै ।
मूलम्
अथो॑ सव्ँ वत्स॒रमे॒वास्मा॒ उप॑दधाति ।
सु॒व॒र्गस्य॑ लो॒कस्य॑ सम॑ष्ट्यै ।
भट्टभास्कर-टीका
अथो इति । अपि खल्वस्यसंवत्सरमेवास्मा उपदधाति उपस्थापयति । अवयविन उपस्थापने का नामावयवयोरतिपत्तिरिति । अथो अपि च देवेता एवान्वारभ्य स्वर्गं गच्छति, तत्कुतोस्य स्वर्गादपच्छित्तिरिति ॥
मूलम् (संयुक्तम्)
अथो॑ दे॒वता॑ ए॒वान्वा॒रभ्य॑ सुव॒र्गल्ँ लो॒कमे॑ति वीर॒हा वा ए॒ष दे॒वानाय्ँ॒यो॑ऽग्निमु॑द्वा॒सय॑ते॒ न वा ए॒तस्य॑ ब्राह्म॒णा ऋ॑ता॒यवᳶ॑ पु॒राऽन्न॑मक्षन्नाग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पेद्वैश्वान॒रन्द्वाद॑शकपालम॒ग्निमु॑द्वासयि॒ष्यन् यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो॑ऽग्निर्यावा॑ने॒वाग्निस्तस्मा॑ आति॒थ्यङ्क॑रो॒त्यथो॒ यथा॒ जनय्ँ॑य॒ते॑ऽव॒सङ्क॒रोति॑ ता॒दृक् (27) ए॒व तद्द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासा॑स्सव्ँ वत्स॒रस्सव्ँ॑वत्स॒रᳵ खलु॒ वा अ॒ग्नेर्योनि॒स्स्वामे॒वैनय्ँ॒योनि॑ङ्गमयत्या॒द्य॑म॒स्यान्न॑म्भवति
विश्वास-प्रस्तुतिः
अथो॑ दे॒वता॑ ए॒वान्वा॒रभ्य॑ सुव॒र्गल्ँ लो॒कमे॑ति ।
वी॒र॒हा वा ए॒ष दे॒वानाय्ँ॒यो॑ऽग्निमु॑द्वा॒सय॑ते ।
न वा ए॒तस्य॑ ब्राह्म॒णा ऋ॑ता॒यवᳶ॑ पु॒राऽन्न॑मक्षन् ।
आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पेत् ।

5वीरहेत्यादि ॥ ‘उद्वास्य पुनरा दधीत’ इत्यत्रेदमुच्यते । ऋतायवः ऋतं सत्यं यज्ञं वा आत्मन इच्छन्तः । अस्यान्नं नाक्षन् नादन् । ‘लुङ्सनोर्घसॢ’, ‘मन्त्रे घसह्वर’ इति च्लेर्लुक्, भाषानिवृत्त्यर्थर्त्वान्मन्त्रग्रहणस्य ; ‘घसिभसोर्हलि च’ इत्युपधालोपः, ‘शासिवसिघसीनां च’ इति षत्वम् ।
विश्वास-प्रस्तुतिः
वै॒श्वा॒न॒रन्द्वाद॑शकपालम॒ग्निमु॑द्वासयि॒ष्यन् यद॒ष्टाक॑पालो॒ भव॑ति ।
मूलम्
वै॒श्वा॒न॒रन्द्वाद॑शकपालम॒ग्निमु॑द्वासयि॒ष्यन् यद॒ष्टाक॑पालो॒ भव॑ति ।
भट्टभास्कर-टीका
अग्निमुद्वासयिष्यन्नित्यादि । उद्वासनारम्भे अष्टाकपालनिर्वपणेन अष्टत्वान्वयाद्गायत्रत्वाच्च अग्निर्यावान् कश्चिदग्निर्नाम, तस्य सर्वस्य यत्र क्वापि गतस्यातिथ्यं करोति । तस्मादुद्वासनेनाग्नेरुत्क्षेप इति ।
विश्वास-प्रस्तुतिः
अ॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो॑ऽग्निर्यावा॑ने॒वाग्निस्तस्मा॑ आति॒थ्यङ्क॑रोति ।
अथो॒ यथा॒ जनय्ँ॑य॒ते॑ऽव॒सङ्क॒रोति॑ ।
मूलम्
अ॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो॑ऽग्निर्यावा॑ने॒वाग्निस्तस्मा॑ आति॒थ्यङ्क॑रोति ।
अथो॒ यथा॒ जनय्ँ॑य॒ते॑ऽव॒सङ्क॒रोति॑ ।
भट्टभास्कर-टीका
अथो अपि च यथाजनं जनपदादिकं जनमेव वाभीष्टं यते गच्छते । अवसं पाथेयादि करोति ।
विश्वास-प्रस्तुतिः
ता॒दृगे॒व तद्द्वाद॑शकपालो वैश्वान॒रो भ॑वति ।
मूलम्
ता॒दृगे॒व तद्द्वाद॑शकपालो वैश्वान॒रो भ॑वति ।
भट्टभास्कर-टीका
तादृशमेतदुद्वासनारम्भे अष्टाकपालनिर्वपणम् ।
विश्वास-प्रस्तुतिः
द्वाद॑श॒ मासा॑स्सव्ँ वत्स॒रः।
सव्ँ॒व॒त्स॒रᳵ खलु॑ वा अ॒ग्नेर्योनिः॑ ।
स्वामे॒वैनय्ँ॒योनि॑ङ्गमयत्या॒द्य॑म॒स्यान्न॑म्भवति ।
मूलम्
द्वाद॑श॒ मासा॑स्सव्ँ वत्स॒रः।
सव्ँ॒व॒त्स॒रᳵ खलु॑ वा अ॒ग्नेर्योनिः॑ ।
स्वामे॒वैनय्ँ॒योनि॑ङ्गमयत्या॒द्य॑म॒स्यान्न॑म्भवति ।
भट्टभास्कर-टीका
अथ द्वादशकपालनिर्वपणेन द्वादशत्वान्वयात् द्वादशमासात्मकसंवत्सरयोनेः स्वायामेव योनौ प्रतिष्ठापनं कृतं भवति । ततश्च न कश्चिदुद्वासने दोष इति ॥
मूलम् (संयुक्तम्)
वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेन्मारु॒तँ स॒प्तक॑पाल॒ङ्ग्राम॑काम आहव॒नीये॑ वैश्वान॒रमधि॑श्रयति॒ गार्ह॑पत्ये मारु॒तम्पा॑पवस्य॒सस्य॒ विधृ॑त्यै॒ द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासा॑स्सव्ँ वत्स॒रस्सव्ँ॑वत्स॒रेणै॒वास्मै॑ सजा॒ताँश्च्या॑वयति मारु॒तो भ॑वति (28) म॒रुतो॒ वै दे॒वानाव्ँ॒विशो॑ देववि॒शेनै॒वास्मै॑ मनुष्यवि॒शमव॑रुन्धे स॒प्तक॑पालो भवति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒वास्मै॑ सजा॒तानव॑रुन्धेऽनू॒च्यमा॑न॒ आसा॑दयति॒ विश॑मे॒वास्मा॒ अनु॑वर्त्मानङ्करोति ॥ (29)
विश्वास-प्रस्तुतिः
वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत् ।
मा॒रु॒तँ स॒प्तक॑पालम् ।
मूलम्
वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत् ।
मा॒रु॒तँ स॒प्तक॑पालम् ।
भट्टभास्कर-टीका
6आहवनीय इति ॥ उपसादनं च वैश्वानरस्यापरेणाहवनीयं एवमपरेण गार्हपत्यं सामर्थ्यात्क्षत्रियस्यैवम् । क्षत्रियवृत्तीनामपीच्छन्ति द्रोणादेरिव ।
विश्वास-प्रस्तुतिः
ग्राम॑काम आहव॒नीये॑ वैश्वान॒रमधि॑श्रयति ।
गार्ह॑पत्ये मारु॒तम् पा॑पवस्य॒सस्य॒ विधृ॑त्यै ।
मूलम्
ग्राम॑काम आहव॒नीये॑ वैश्वान॒रमधि॑श्रयति ।
गार्ह॑पत्ये मारु॒तम् पा॑पवस्य॒सस्य॒ विधृ॑त्यै ।
भट्टभास्कर-टीका
पापवस्यसस्येति । वसीयः पापं पापवस्यसम् । राजदन्तादित्वात्परनिपातः, ईयस ईकारस्य छान्दसो लोपः, ‘अनसन्तान्नपुंसकाच्छन्दसि’ इत्यच्समासान्तः । विधृत्यै विश्लेषाय ।
विश्वास-प्रस्तुतिः
द्वाद॑शकपालो वैश्वान॒रो भ॑वति ।
द्वाद॑श॒ मासा॑स्सव्ँ वत्स॒रस्सव्ँ॑वत्स॒रेणै॒वास्मै॑ सजा॒ताँश्च्या॑वयति ।
मा॒रु॒तो भ॑वति ।
मूलम्
द्वाद॑शकपालो वैश्वान॒रो भ॑वति ।
द्वाद॑श॒ मासा॑स्सव्ँ वत्स॒रस्सव्ँ॑वत्स॒रेणै॒वास्मै॑ सजा॒ताँश्च्या॑वयति ।
मा॒रु॒तो भ॑वति ।
भट्टभास्कर-टीका
च्यावयति प्रह्वीभूतान् करोति ।
विश्वास-प्रस्तुतिः
म॒रुतो॒ वै दे॒वानाव्ँ॒विशो॑ देववि॒शेनै॒वास्मै॑ म॒नु॒ष्य॒वि॒शमव॑रुन्धे ।
स॒प्तक॑पालो भवति ।
मूलम्
म॒रुतो॒ वै दे॒वानाव्ँ॒विशो॑ देववि॒शेनै॒वास्मै॑ म॒नु॒ष्य॒वि॒शमव॑रुन्धे ।
स॒प्तक॑पालो भवति ।
भट्टभास्कर-टीका
देवविशेनेति । ‘अच्’ इति योगविभागादच्समासान्तः ।
विश्वास-प्रस्तुतिः
स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒वास्मै॑ सजा॒तानव॑रुन्धे ।
मूलम्
स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒वास्मै॑ सजा॒तानव॑रुन्धे ।
भट्टभास्कर-टीका
गणश इति । ‘बहुगण’ इति सङ्ख्यात्वात्, ‘सङ्ख्यैकवचनाच्च’ इति शस् ।
विश्वास-प्रस्तुतिः
अ॒नू॒च्यमा॑न॒ आसा॑दयति ।
मूलम्
अ॒नू॒च्यमा॑न॒ आसा॑दयति ।
भट्टभास्कर-टीका
अनूच्यमान इति । सामिधेनीसमूहेनूच्यमाने मारुतस्यासादनकाले प्रत्यञ्चं वैश्वानरमासादयति ।
विश्वास-प्रस्तुतिः
विश॑मे॒वास्मा॒ अनु॑वर्त्मानङ्करोति ॥
मूलम्
विश॑मे॒वास्मा॒ अनु॑वर्त्मानङ्करोति ॥
भट्टभास्कर-टीका
अनुवर्त्मानमिति । या वर्त्मन्यागत्यानुवर्त्मा[वर्त]नं करोति सानुवर्त्मा । देवविशां सम्बन्धिनो मारुतस्यासादने पाश्चात्यतया मनुष्यविशोप्यनुवर्त्मानो भवन्तीति ॥
इति द्वितीये द्वितीये पञ्चमोनुवाकः ॥