त्रिष्टुप् , ७ द्विपदा ९ जगती ११-१३ अनुष्टुप् १८,२१ गायत्री विश्वेदेवा ऋषयः
विश्वास-प्रस्तुतिः
इन्द्रव्ँ॑वो वि॒श्वत॒स्परि ।
मूलम्
इन्द्रव्ँ॑वो वि॒श्वत॒स्परि ।
भट्टभास्कर-टीका
1अथ याज्याकाण्डं वैश्वदेवमेव । तत्र ‘ऐन्द्रमेकादशकपालं निर्वपेन्मारुतं सप्तकपालं ग्रामकामः’ इत्यस्य द्विहविष इष्टेरैन्द्रस्य एकादशकपालस्य पुरोनुवाक्या - इन्द्रं व इति गायत्री ॥ व्याख्याता चेयम्, ‘इन्द्रं वो विशतस्परि हवामहे’ इत्यत्र । इह त्वस्याः प्रतीकग्रहणम् ।
-
[ इन्द्रव्ँ॑वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः ।
अ॒स्माक॑मस्तु॒ केव॑लः ॥- ‘ऐन्द्रं चरुं निर्वपेत्पशुकामः’ इत्यस्य पुरोनुवाक्या - इन्द्रं व इति गायत्री ॥ याजमानब्राह्मणमध्ये याज्याकाण्डं वैश्वदेवम् । हे ऋत्विग्यजमाना वो युष्माकं मम जनेभ्यः पुत्रादिभ्यः सामर्थ्याद्युष्मभ्यमस्मभ्यं च सर्वार्थमिन्द्रं विश्वतस्परि विश्वस्मादुपरि हवामहे आह्वयामः । ‘पञ्चम्याः परावध्यर्थे’ इति सत्वम् । यद्वा - विश्वतो जनेभ्य उपरिस्थितमिन्द्रं वो युष्मदर्थं हवामहे । किमर्थम्’ अस्माकमेव केवलोसाधाणोस्तु साधको नान्येषामिति ॥ हे ऋत्विग्यजमानाः वः युष्मदर्थं विश्वेभ्यो जनेभ्य उपरि इन्द्रं हवामहे आह्वयामः अस्माकमेव केवलः स्वाम्यस्त्विति ॥]
विश्वास-प्रस्तुतिः
इन्द्र॒न्नरः॑ ।
मूलम्
इन्द्र॒न्नरः॑ ।
भट्टभास्कर-टीका
2तत्रैव याज्या - इन्द्रं नर इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । इह तु प्रतीकग्रहणम् । नरो मनुष्याः इन्द्रं हवन्ते आह्वयन्ति कीदृशं ? नेमधिता अर्धेन धार्यमाणं ‘यत्सर्वेषामर्धमिन्द्रः प्रति’ इति । कदा ? यदा पार्याः दुःखपारप्राप्तिहेतुभूताः धियः कर्माणि प्रज्ञा वा युनजते तदा इन्द्रमाह्वयन्ति । स त्वं शूरो नृषाता नृभिस्सम्भजनीयः शवसः बलाद्धेतोः चकानस्तृप्तिशीलः ईदृशस्त्वमस्मान् गोमति व्रजे गोष्ठे आभज स्थापयेति ॥
-
[ इन्द्र॒न्नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः ।
शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वन्नः॑ ॥ -
तत्रैव याज्या - इन्द्रं नर इति त्रिष्टुप् ॥ नरो मनुष्या इन्द्रं हवन्ते आह्वयन्ति । कीदृशम् ? नेमधिता, नेम इत्यर्धस्य नाम । ‘यत्सर्वेषामर्धमिन्द्रः प्रति’ इति सर्वेषां भागार्धेन इन्द्रो धीयते धार्यत इति नेमधितः । निष्ठायां ‘सुधितवसुधितनेमधित’ इति धिभावो निपात्यते, ‘सुपां सुलुक्’ इति द्वितीयैकवचनस्याकारः, ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । कदा पुनरसौ नेमेन धार्यत इत्याह - यद्यदा । तेनैव सप्तम्या लुक् । पार्याः परलोके साधवः । छान्दसो ञ्यः । यद्वा - दुःखानां पारं समाप्तिः । तत्र सध्वीर्धियः कर्माणि ता यदर्थमिन्द्रमाह्वयन्ति । ता यदा युनजते युञ्जते अनुतिष्ठन्ति तदा नेमधितेति । ‘छन्दस्युभयथा’ इत्यार्धधातुकत्वेन श्नमो ङित्त्वाभावात्, ‘श्नसोरल्लोपः’ इति न प्रवर्तते । अथेन्द्रः प्रत्यक्षमुच्यते - शूरः वीरः । नृषाता नृभिर्मनुष्यैः साता सातः सम्भक्तः आश्रितः नृषातः । पूर्ववदाकारः, ‘जनसनखनां सञ्झलोः’ इत्यात्वं, पूर्ववत्पूर्वपदप्रकृतिस्वरत्वं, सुषामादित्वात्षत्वम् । यद्वा - नरो मनुष्याः सनितारस्सम्भक्तारः दातारो वा यस्य नृषाता । छान्दसमात्वं, ‘ऋतश्छन्दसि’ इति कबभावः । शवसो बलस्य नेतारो यस्य दातारो यजमाना[यजना]धीनबलत्वात् । यद्वा - शवसो बलस्य नृभ्यो दाता । छान्दसमात्वम्, पूर्वपदप्रकृतिस्वरत्वं च । चकानस्तृप्तिशीलः । चक तृप्तौ, भौवादिकः उदात्तेत्, ताच्छीलिकश्चानश्, ‘बहुलं छन्दसि’ इति शपो लुक् । ईदृशस्त्वं नो ऽस्मान् गोमति व्रजे गोजाविमनुष्यादिमति सङ्घाते । यद्वा - व्रजे गोष्ठे भूयिष्ठगोभिर्युक्ते आभन आभिमुख्येनास्मान्योजय पशुमन्तं मां कुरु । ‘द्व्यचोतस्तिङः’ इति संहितायां दीर्घत्वम् ॥]
विश्वास-प्रस्तुतिः
मरु॑तो॒ यद्ध॑ वो दि॒वः ।
मूलम्
मरु॑तो॒ यद्ध॑ वो दि॒वः ।
भट्टभास्कर-टीका
3अथ मारुतस्य सप्तकपालस्य पुरोनुवाक्या - मरुतो यद्ध व इति गायत्री ॥ इयमपि ‘वैश्वानरो नः’ । इत्यत्र व्याख्याता । इह तु प्रतीकग्रहणम् । हे मरुतः वः युष्मान् सुम्नायन्तः सुखमिच्छन्तो वयं यद्यस्माद्दिवो द्युलोकात् हवामहे आह्वयामः तस्मादस्मान् शीघ्रमुपगन्तन उपगच्छतेति ॥
-
[ मरु॑तो॒ यद्ध॑ वो दि॒वस्सु॑म्ना॒यन्तो॒ हवा॑महे ।
आ तू न॒ उप॑ गन्तन ॥- `वैश्वानरं द्वादशकपालं निर्वपेन्मारुतं सप्तकपालं ग्रामकामः’ इति द्विहविषो मारुतस्य पुरोनुवाक्या - मरुतो यद्ध वो दिव इति गायत्री ॥ हे मरुतः यद्वो युष्मान् सुम्नायन्तस्सुखमिच्छन्तः । ‘देवसुम्नयोः’ इत्यात्वम् । दिवो द्युलोकात् हवामहे आह्वयामः । पूर्ववत्सम्प्रसारणम् । हूयमाना नोस्मानुपगन्तन आत्मनो विशेषवत्त्वं ख्यापयन्तु । तुशब्दो विनिवर्तकः, तिष्ठन्त्वन्ये अस्मांस्तूपागच्छतेति । ‘अन्येभ्योपि दृश्यते’ इति सांहितिको दीर्घः, गमेर्लेटि शपो लुक्, ‘तप्तनप्तनधनाश्च’ इति तनादेशः । ह इति पादपूरणे निश्चये वा ॥]
विश्वास-प्रस्तुतिः
या व॒श्शर्म॑ ।
मूलम्
या व॒श्शर्म॑ ।
भट्टभास्कर-टीका
4तत्रैव याज्या - या वश्शर्मेति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । प्रतीकग्रहणमिहास्याः । हे मरुतः युष्माकं यानि यानि शर्माणि सुखानि शशमानाय युष्मान् वृषणः वर्षितारः कामानामस्मभ्यं सुवीरं शोभनपुत्रादिकं रयिं धनं धत्तेति ॥
-
[ या व॒श्शर्म॑ शशमा॒नाय॒ सन्ति॑..
त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ ।
अ॒स्मभ्य॒न्तानि॑ मरुतो॒ वि य॑न्त ..
र॒यिन्नो॑ धत्त वृषणस्सु॒वीर॑म् ॥- तत्रैव याज्या - या व इति त्रिष्टुप् ॥ हे मरुतः वः युष्माकं या यानि शर्म शर्माणि सुखानि गृहाणि वा । पूर्वत्र ‘शेश्छन्दसि’ इति शेर्लोपः । उत्तरत्र ‘सुपां सुलुक्’ इति लुक् । त्रिधातूनि पृथिव्यादित्रिस्थानस्थितानि शशमानाय युष्मान् भजमानाय तदर्थं तस्मै दातुं सम्पादितानि यानि सन्ति । शश प्लुतगतौ, ताच्छीलिकश्चानश् । यानि च दाशुषे हविर्दत्तवते ददते वा यजमानायाधियच्छत अधिकं प्रयच्छत । यच्छतेश्छान्दसे लङि अडभावः । ‘दाश्वान् साश्वान्’ इति दाश्वान्निपात्यते । हे मरुतः तानि शर्माणि अस्मभ्यं वियन्त विशेषेण यच्छत विविधा वा दत्त । यच्छतेर्लेटि शपो लुक् ।
किञ्च - रयिं धनं च नोस्मभ्यं धत्त दत्त सुवीरं शोभनापत्या- दिकम् । ‘वीरवीर्यौ च’ इत्युत्तरपदाद्युदात्तत्वम् । हे वृषणः कामानां वर्षितारः । ‘कनिन्युवृषि’ इति निपात्यते, ‘वा षपूर्वस्य निगमे’ इति दीर्घाभावः ॥]
- तत्रैव याज्या - या व इति त्रिष्टुप् ॥ हे मरुतः वः युष्माकं या यानि शर्म शर्माणि सुखानि गृहाणि वा । पूर्वत्र ‘शेश्छन्दसि’ इति शेर्लोपः । उत्तरत्र ‘सुपां सुलुक्’ इति लुक् । त्रिधातूनि पृथिव्यादित्रिस्थानस्थितानि शशमानाय युष्मान् भजमानाय तदर्थं तस्मै दातुं सम्पादितानि यानि सन्ति । शश प्लुतगतौ, ताच्छीलिकश्चानश् । यानि च दाशुषे हविर्दत्तवते ददते वा यजमानायाधियच्छत अधिकं प्रयच्छत । यच्छतेश्छान्दसे लङि अडभावः । ‘दाश्वान् साश्वान्’ इति दाश्वान्निपात्यते । हे मरुतः तानि शर्माणि अस्मभ्यं वियन्त विशेषेण यच्छत विविधा वा दत्त । यच्छतेर्लेटि शपो लुक् ।
विश्वास-प्रस्तुतिः
भरे॒ष्विन्द्रँ॑ सु॒हवँ॑ हवामहेऽँहो॒मुचँ॑ सु॒कृत॒न्दैव्य॒ञ्जन॑म् ।
अ॒ग्निम्मि॒त्रव्ँ वरु॑णँ सा॒तये॒ भग॒न्द्यावा॑पृथि॒वी म॒रुत॑स्स्व॒स्तये॑ ।
मूलम्
भरे॒ष्विन्द्रँ॑ सु॒हवँ॑ हवामहेऽँहो॒मुचँ॑ सु॒कृत॒न्दैव्य॒ञ्जन॑म् ।
अ॒ग्निम्मि॒त्रव्ँ वरु॑णँ सा॒तये॒ भग॒न्द्यावा॑पृथि॒वी म॒रुत॑स्स्व॒स्तये॑ ।
भट्टभास्कर-टीका
5ऐन्द्रमेकादशकपालं निर्वपेद्वैश्वदेवं द्वादशकपालं ग्रामकामः’ इत्यस्याः पुरोनुवाक्या - भरेर्ष्विन्द्रमिति जगती ॥ भरेषु सङ्ग्रामेषु इन्द्रं सुहवं स्वाह्वानं आह्वानप्रयोजनस्य शीघ्रं कर्तारम् । प्रत्ययोत्पत्तेः प्रागेव ‘बहुलं छन्दसि’ इति सम्प्रसारणे अकारान्तलक्षणस्याचोप्रसङ्गात्, ‘ईषद्दुस्सुषु’ इति खल्, कृदुत्तरपदप्रकृतिस्वरत्वम्, लित्स्वरः । हवामहे आह्वयामः पूर्ववत्सम्प्रसारणम् । यद्वा - सुहवं सुयुद्धं युद्धे जेतृत्वात् । ‘भावेनुपसर्गस्य’ इति ह्वयतेरप्प्रत्यये सम्प्रसारणम्, तेनैव बहुव्रीहौ, ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । अंहोमुचं पापेभ्यो मोचयितारं सुकृतं सुष्ठु कर्तारम् । ‘सुकर्मपाप’ इति करोतेः क्विप् । दैव्यं दिवि भवम् । ‘देवाद्यञञौ’ इति यञ् । जनमन्यमपि द्युलोके जातम् । एकैकत्वेन तमाचष्टे - अग्निं मित्रं वरुणं सातये । ‘ऊतियूति’ इत्यादिना सनेः क्तिन्प्रत्ययो निपात्यते । भगं द्यावापृथिवी मरुतश्च, एतानप्याह्वयामः । किमर्थम् ? सातये लाभाय अभिमतानि नो दद्युरिति । किञ्च – स्वस्तये ग्रामस्य चाविनाशार्थम् ॥
विश्वास-प्रस्तुतिः
म॒मत्तु॑ न॒ᳶ परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पाव्ँ वृष॑ण्वान् ।
शि॒शी॒तमि॑न्द्रापर्वता यु॒वन्न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ।
मूलम्
म॒मत्तु॑ न॒ᳶ परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पाव्ँ वृष॑ण्वान् ।
शि॒शी॒तमि॑न्द्रापर्वता यु॒वन्न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ।
भट्टभास्कर-टीका
6अथ तत्रैव याज्या - ममत्तु न इति त्रिष्टुप् ॥ ममत्तु तृप्यतु नः अस्मदर्थं अस्मान्वा अभिमतप्रदानेन तर्पयतु । परिज्मा परितस्सर्वतः भक्षयिता । ‘श्वन्नुक्षन्’ इत्यादिना जनेः कनिन्प्रत्ययो निपात्यते । अजेर्वा जिनातेर्वा अग्निरुच्यते । वसर्हा अग्निहोत्रशरणाभिमुखस्थानार्हा वसनार्हा । नाशब्दो लुप्यते, पृषोदरादिः, ‘सुपां सुलुक्’ इति सोराकारः । यद्वा - वसितॄणां छादयितॄणां काष्ठादीनां हन्ता । छान्दसो रेफोपजनः । वस्तेः पचाद्यचि हन्तेः क्विप् । कश्चिदाह - वासरस्य हन्ता गमयिता वसर्हा । वर्णविकारलोपौ छान्दसौ । आदित्य उच्यते । वातो वायुश्च ममत्तु । अपां वृषा वर्षिता पर्जन्यः तद्वान् तत्सहितो वातः । अनो नुट् । हे इन्द्रापर्वता इन्द्रापर्वतौ । पर्वतस्संवत्सर इत्येके । युवामपि नो ऽस्मान् शिशीतिं तनूकुरुतं निर्मलीकुरुतम् । श्यतेः ‘बहुलं छन्दसि’ इति शपश्श्लुः, ईत्वं च । तत्तस्माद्विश्वेपि देवाः अन्येपि जनाः नः अस्मभ्यं वरिवस्यन्तु अन्नं दातुमिच्च्छन्तु ; वरिवोन्नम् । ‘छन्दसि परेच्छायाम्’ इति क्यच् ॥
विश्वास-प्रस्तुतिः
प्रि॒या वो॒ नाम॑ (60) हु॒वे॒ तु॒राणा॑म् ।
मूलम्
प्रि॒या वो॒ नाम॑ (60) हु॒वे॒ तु॒राणा॑म् ।
भट्टभास्कर-टीका
7’पृश्नियै दुग्धे प्रैयङ्गवं चरुं निर्वपेन्मरुद्भ्यो ग्रामकामः’ इत्यस्याः पुरोनुवाक्या - प्रिया वो नामेति द्विपदा त्रिष्टुप् ॥ हे मरुतः वः युष्माकं प्रिया प्रियाणि नाम नामानि । ‘सुपां सुलुक्’ इति लुक् । तुराणां कार्यं प्रति त्वरमाणानां हुवे आह्वयामि । पूर्ववत्सम्प्रसारणम् । आ इति आङ्पदश्रवणाद्योग्यं क्रियापदमध्याहार्यम् । आगच्छतेत्यर्थः ।
विश्वास-प्रस्तुतिः
आयत्तृ॒पन्म॑रुतो वावशा॒नाः ।
मूलम्
आयत्तृ॒पन्म॑रुतो वावशा॒नाः ।
भट्टभास्कर-टीका
आगमनं विशिनष्टि - यत् यस्मिन्नागमने वावशाना ग्रामादिकं कामयमानाः यजमानाः तृपन् तृपेयुरिति । लेटि वचनव्यत्ययः, तृपतिस्तौदादिकः । यद्वा - तृप्तिस्तृपन् औणादिकोनिप्रत्ययः । यद्यस्मद्यूयं तृप्तिं वावशानाः कामयमानास्स्थ, तस्मादागच्छतेति, यजमानस्य वा तृप्तिं वावशानाः यस्मात्तस्मादागच्छतेति । वशेर्यङ्लुगन्ताद्व्यत्ययेनात्मनेपदम् । ‘न वशः’ इति सम्प्रसारणाभावः ॥
विश्वास-प्रस्तुतिः
श्रि॒यसे॒ कम्भा॒नुभि॒स्सम्मि॑मिक्षिरे॒ …
ते र॒श्मिभि॒स्त ऋक्व॑भिस्सुखा॒दयः॑ ।
ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो ..
वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ।
मूलम्
श्रि॒यसे॒ कम्भा॒नुभि॒स्सम्मि॑मिक्षिरे॒ …
ते र॒श्मिभि॒स्त ऋक्व॑भिस्सुखा॒दयः॑ ।
ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो ..
वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ।
भट्टभास्कर-टीका
8तत्रैव याज्या - श्रियस इति चतुष्पदा जगती । विद्र इति चतुर्थपादादिः ॥ हे मरुतः श्रियसे सेवितुं कं जलं वृष्ट्यर्थम् । तुमर्थे असेप्रत्ययः । भानुभिः भानवद्भिः भानशीतैर्वा रश्मिभिः सूर्यस्य रश्मिभिः करैः सम्मिमिक्षिरे सङ्गच्छन्ते । मिक्षतिर्गतिकर्मा छान्दसः । यद्वा - लोके जलं श्रयितुं रश्मिभिस्सह मिमिक्षिरे मेढुमिच्छन्ति वृष्ट्या पृथिवीं सेक्तुमिच्छन्ति ते मरुतः सुखादयः सुखादनाः । खादतेरौणादिक इप्रत्ययः । सुष्ठु हविषां भक्षयितारो भूत्वा ऋत्विग्भिः सङ्गच्छन्ते । ऋक्वन्तो मन्त्रवन्तः ऋत्विज इत्यर्थः । ‘छन्दसीवनिपौ’ इति वनिप्, अयस्मयादित्वेन पदत्वात्कुत्वम्, भत्वाज्जश्त्वाभावः । ऋत्विग्भिस्संयुज्य हवींषि भक्षयन्तीत्यर्थः । ते मरुतो वाशीमन्तः शब्दवन्तः इष्मिणः गमनवन्तः अभीरवः भयरहिताः प्रियस्य सर्वाभिमतस्य मारुतस्य धाम्नः मरुतां सम्बन्धिनस्स्थानावीशेषस्य विद्रे लब्धवन्तः सर्वोपकारकत्वात् हविषस्सम्बन्धितया च विशिष्टं पदं प्राप्ताः । पूर्ववत्कर्मणस्सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । विन्दतेर्लेटि द्विर्वचनाभावश्छान्दसः, ‘इरयो रे’ इति रेभावः । यद्वा - लटि वचनव्यत्ययेनैकवचनम्, ‘बहुलं छन्दसि’ इति विकरणस्य लुक्, ‘लोपस्त आत्मनेपदेषु’ इति तलोपः, ‘बहुलं छन्दसि’ इति रुट्, पादादित्वान्न निहन्यते ॥
विश्वास-प्रस्तुतिः
अ॒ग्निᳶ प्र॑थ॒मो वसु॑भिर्नो अव्या॒त्सोमो॑ रु॒द्रेभि॑र॒भिर॑क्षतु॒ त्मना॑ ।
इन्द्रो॑ म॒रुद्भि॑र्ऋतु॒धा कृ॑णोत्वादि॒त्यैर्नो॒ वरु॑ण॒स्सँशि॑शातु ।
मूलम्
अ॒ग्निᳶ प्र॑थ॒मो वसु॑भिर्नो अव्या॒त्सोमो॑ रु॒द्रेभि॑र॒भिर॑क्षतु॒ त्मना॑ ।
इन्द्रो॑ म॒रुद्भि॑र्ऋतु॒धा कृ॑णोत्वादि॒त्यैर्नो॒ वरु॑ण॒स्सँशि॑शातु ।
भट्टभास्कर-टीका
9’यस्समानैर्मिथो विप्रियस्स्यात्तमेतया संज्ञान्या याजयेदग्नये वसुमते पुरोडाशमष्टाकपालं निर्वपेत्सोमाय रुद्रवते चरुमिन्द्राय मरुत्वते पुरोडाशमेकादशकपालं वरुणायादित्यवते चरुम्’ इत्यस्याः पुरोनुवाक्या - अग्निः प्रथम इति त्रिष्टुप् ॥
अग्निः प्रथमः प्रधानः आद्यो वा वसुभिस्सहास्मानव्यात् रक्षतु । रुद्रेभी रुद्रैस्सह सोमोस्मानभिरक्षतु त्मना आत्मना आत्मनैव अन्यनिरपेक्षः । ‘मन्त्रेष्वाङ्यादेरात्मनः’ इत्याकारलोपः । इन्द्रो मरुद्भिस्सह ऋतुधा ऋतावृतौ तद्धर्मान् कृणोतु करोतु तयातया विधया प्रवर्तयतु । धाप्रत्ययश्छान्दसः । आदित्यैस्सह वरुणोस्मान् संशिशातु संशितव्रतान् करोतु निर्मलीकरोतु । श्यतेर्लोटि शपश्श्लुः, ‘बहुलं छन्दसि’ इत्यभ्यासस्येत्वम् ॥
विश्वास-प्रस्तुतिः
सन्नो॑ दे॒वो वसु॑भिर॒ग्निस्सम् (61) सोम॑स्त॒नूभी॑ रु॒द्रिया॑भिः ।
समिन्द्रो॑ म॒रुद्भि॑र्य॒ज्ञियै॒स्समा॑दि॒त्यैर्नो॒ वरु॑णो अजिज्ञिपत् ।
मूलम्
सन्नो॑ दे॒वो वसु॑भिर॒ग्निस्सम् (61) सोम॑स्त॒नूभी॑ रु॒द्रिया॑भिः ।
समिन्द्रो॑ म॒रुद्भि॑र्य॒ज्ञियै॒स्समा॑दि॒त्यैर्नो॒ वरु॑णो अजिज्ञिपत् ।
भट्टभास्कर-टीका
10अथ याज्या - सं न इति त्रिष्टुप् पङ्क्तिप्रकारो वा ॥ नोस्मानग्निर्देवः वसुभिस्सह समजिज्ञिपत् सम्यक् ज्ञापयतु सम्यगभ्युपगच्छतु । ज्ञापयतेः छान्दसो लुङ्, छान्दसो वर्णविकारः । सोमोपि रुद्रियाभिः रुद्रार्हाभिस्तनूभिश्शरीरैः एकादशधा स्थिताभिरस्मान्समजि ज्ञिपत् । इन्द्रश्च यज्ञियैर्यज्ञार्हैर्मरुद्भिस्सहास्मान्समजिज्ञिपत् । वरुणश्चादित्यैस्सहास्मान् समनिज्ञिपत् ॥
विश्वास-प्रस्तुतिः
यथा॑ऽऽदि॒त्या वसु॑भिस्सम्बभू॒वुर्म॒रुद्भी॑ रु॒द्रास्स॒मजा॑नता॒भि ।
ए॒वा त्रि॑णाम॒न्नहृ॑णीयमाना॒ विश्वे॑ दे॒वास्सम॑नसो भवन्तु ।
मूलम्
यथा॑ऽऽदि॒त्या वसु॑भिस्सम्बभू॒वुर्म॒रुद्भी॑ रु॒द्रास्स॒मजा॑नता॒भि ।
ए॒वा त्रि॑णाम॒न्नहृ॑णीयमाना॒ विश्वे॑ दे॒वास्सम॑नसो भवन्तु ।
भट्टभास्कर-टीका
11अथ याज्याविकल्पः - यथेति त्रिष्टुप् ॥ यथा वसुभिस्सहादित्यास्सम्बभूवुः एकीबभूवुः यथा वा मरुद्भिस्सह रुद्रा अभिसमजानत आभिमुख्येन सङ्गताः । एवा एवम् । ‘सुपां सुलुक्’ इति डादेशः । हे त्रिणामन् त्रीणि नामानि गुह्यप्रकाशसोमनिमित्तानि यस्य स तथोक्तः । ‘पूर्वपदात्संज्ञायामगः’ इति णत्वम् । अग्नियजमानयोरभेद उपचर्यते अहृणीयमानाः अहीयमानः वि[…यमानवि]भूतयः । हृणिः कण्ड्वादिः । ईदृशा विश्वे देवाः परस्परमभिसमनसो भवन्तु समानमनसो भवन्तु । ‘समानस्य छन्दसि’ इति सभावः ॥
विश्वास-प्रस्तुतिः
कुत्रा॑चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने ।
अर्ह॑न्तश्चि॒द्यमि॑न्ध॒ते स॑ञ्ज॒नय॑न्ति ज॒न्तवः॑ ।
सय्ँयदि॒षो वना॑महे॒ सँ ह॒व्या मानु॑षाणाम् । उ॒त द्यु॒म्नस्य॒ शव॑सः (62) ऋ॒तस्य॑ र॒श्मिमाद॑दे ।
मूलम्
कुत्रा॑चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने ।
अर्ह॑न्तश्चि॒द्यमि॑न्ध॒ते स॑ञ्ज॒नय॑न्ति ज॒न्तवः॑ ।
सय्ँयदि॒षो वना॑महे॒ सँ ह॒व्या मानु॑षाणाम् । उ॒त द्यु॒म्नस्य॒ शव॑सः (62) ऋ॒तस्य॑ र॒श्मिमाद॑दे ।
भट्टभास्कर-टीका
12अथ कुत्रा चिदित्यनयोरनुष्टुभोः कुत्र चिद्विनियोगो द्रष्टव्यः केचिदाहुः - अत्रैव स्विष्टकृतः पुरोनुवाक्या याज्या चेति ॥ कुत्रा चित् कुत्र चिदपि सर्वत्रापीति यावत् । यस्य समृतौ सम्प्राप्तौ नरो मनुष्याः रण्वा रमणा भवन्ति । रणनवन्तो वा, गतिमन्तो वा । रवि गतौ, इदित्त्वान्नुम्, पचाद्यच् । नृषदने नरास्सीदन्ति यत्रयत्र सर्वत्र प्रदेशे ।
किञ्च - यमेवाग्निं अर्हन्तो महान्तः पूजयन्तो वा मनुष्याः इन्धते दीपयन्ति । किञ्च - यमग्निं जन्तवो मनुष्याः सञ्जनयन्ति आधानादिना सम्यगुत्पादयन्ति । सोस्माकमस्य ऋतस्य सत्यस्य रश्मिमिममग्निमाददे आददीमहे । वचनव्यत्ययः । आश्रयामह इत्यर्थः ॥
विश्वास-प्रस्तुतिः
य॒ज्ञो दे॒वाना॒म्प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ ।
आवो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादँ॒होश्चि॒द्या व॑रिवो॒वित्त॒राऽस॑त् ।
मूलम्
य॒ज्ञो दे॒वाना॒म्प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ ।
आवो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादँ॒होश्चि॒द्या व॑रिवो॒वित्त॒राऽस॑त् ।
भट्टभास्कर-टीका
13’आदित्येभ्यो भुवद्वद्भ्यश्चरुं निर्वपेद्भूतिकामः’ इत्यस्याः पुरोनुवाक्या - यज्ञो देवानामिति त्रिष्टुप् ॥ ग्रहेषु व्याख्याता ‘कदाचन’ इत्यत्र ।
- [ पुनरपि नरपि तस्मिन्नेव सोमं गृह्णाति - यज्ञो देवानामिति चतुष्पदया त्रिष्टुभा । ‘तिसृभिर् ऋग्भिर्गृह्णाति’ इति ब्राह्मणम् ॥ अयं यज्ञोस्मदीयं धनं देवानां सुम्नं सुखं प्रति एति एतु प्राप्नोतु सुखं सम्पादयतु । यद्वा - अयं देवानां यज्ञः अस्माकं सुखं प्रत्येतु प्रत्याययतु ।
- किञ्च - हे आदित्यासः आदित्याः अस्मान्मृडयन्तस्सुखयन्तो भवत । असुन्, आमन्त्रितस्याविद्यमानत्वात्तिङन्तं न निहन्यते । ‘छन्दस्युभयथा’ इति शतुरार्धधातुकत्वे ‘अदुपदेशात्’ इति लसार्वधातुकानुदात्तत्वाभावः ।
- किञ्च - वः यष्माकं या सुमतिः शोभनात्मिकानुग्रहपरा मतिः सार्वाची अस्मदभिमुखी आववृत्यात् आवर्तताम् । वृतेर्व्यत्ययेन परस्मैपदम्, लिङि यासुट्, ‘बहुलं छन्दसि’ इति शप् श्लुः । अर्वागञ्चतीत्यर्वाची, ऋत्विगादिना क्विन्, ‘अञ्चतेश्चोपसङ्ख्यानम्’ इति ङीप्, ‘मन्क्तिन्व्याख्यान’ इत्यादिना सुमतिशब्दस्योत्तरपदान्तोदात्तत्वम् ।
- पुनरपि सुमतिर्विशेष्यते - या युष्माकं सुमतिः अंहोः हननशीलस्य दुरात्मनः चित् स्ववच्छेत्री । छिदेः कर्तरि क्विप्, आदिवर्णव्यत्ययः । हन्तीत्यंहुः, हन्तेरौणादिक उप्रत्ययः । आद्यो हकारोन्तेवतिष्ठते, नकारस्यानुस्वारः । यद्वा - अहि गतौ, स एव प्रत्ययः । गत्यर्थाश्च बुद्ध्यर्थाः । पुरुषस्य या चित् चेतिः । चेततेः क्विप् । ज्ञाता हि मतिस्सुमतिर्भवतीति भावः । व्युत्पत्तिद्वयेपि चिच्छब्दस्यानुदात्तत्वं मृग्यम् ।
- अथ ब्रूमः - चिदिति निपातः चादित्वादनुदात्तः, अवधाराणे वर्तते, इवार्थे वा । अंहोरेव ज्ञातुरिव वा या मतिः सा आवर्ततामिति । वरिवोवित्तरा च या मतिरसत् भवेत् । अस्तेर्लेङन्तस्य अडागमः । सा आवर्ततामिति । वरिवो धनं, तस्य वेदयित्री लम्भयित्री वरिवोवित् । विन्दतेर्ण्यन्तात्क्विपि, ‘बहुलं संज्ञाछन्दसोः’ इति णिलुक्, ततोतिशायने तरप्प्रत्ययः । ज्ञातुरेव हि मतिर्वरिवोवित्तरा भवति । तस्माद्या ईदृशी मतिर्भवति सा सुमतिरस्मानावर्ततामिति ॥]
अयमस्मदीयो यज्ञः देवानां सुम्नं सुखं प्रत्येति गच्छतु । किञ्च - हे आदित्याः यूयमप्यस्मान् मृडयन्तो भवत किञ्च - युष्माकं सुमतिश्शोभनानुग्रहात्मिका बुद्धिरर्वाची अस्मदभिमुखी आववृत्यात् आवर्तताम् । किञ्च - अंहो ज्ञातुरिव ज्ञातृष्विव या मतिः वरिवोवित्तरा धनस्य लम्भयित्री भवेदिति ॥
विश्वास-प्रस्तुतिः
शुचि॑र॒पस्सू॒यव॑सा॒ अद॑ब्ध॒ उप॑क्षेति वृ॒द्धव॑यास्सु॒वीरः॑ ।
नकि॒ष्टङ्घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्याना॒म्भव॑ति॒ प्रणी॑तौ ।
मूलम्
शुचि॑र॒पस्सू॒यव॑सा॒ अद॑ब्ध॒ उप॑क्षेति वृ॒द्धव॑यास्सु॒वीरः॑ ।
नकि॒ष्टङ्घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्याना॒म्भव॑ति॒ प्रणी॑तौ ।
भट्टभास्कर-टीका
14तत्रैव याज्या - शुचिरिति त्रिष्टुप् ॥ शुचिश्शुद्धो भूत्वा अपः कर्माणि कर्मफलानि वा उपक्षेति उपगच्छति । क्षि निवासगत्योः, ‘बहुलं छन्दसि’ इति शपो लुक् । सूयवसाः शोभनयवसाः शोभनांशुकाः । ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम्, ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । अदब्धः केन चिदप्यहिंसितः वृद्धवयाः प्रभूतान्नतमः सुवीरः शोभनपुत्रपौत्रादिकः । ‘वीरवीर्यौ च’ इत्युत्तरपदाद्युदात्तत्वम् । किञ्च - केचिदपि तं नकिः घ्नन्ति हन्तुं समर्था भवन्ति । ‘युष्मत्तत्ततक्षुषु’ इति षत्वम् । अन्तितः अन्तिकेपि स्थिताः न च दूराद्दूरेपि स्थिताः । ‘कादिलोपो बहुलम्’ इत्यन्तिकस्य लोपः । कस्यैतदेवं भवतीत्याहय – आदित्यानामादित्यार्थं प्रणीतौ परिचरणे भवति वर्तते ॥
विश्वास-प्रस्तुतिः
धा॒रय॑न्त आदि॒त्यासो॒ जग॒त्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः ।
दी॒र्घाधि॑यो॒ रक्ष॑माणाः (63) अ॒सु॒र्य॑मृ॒तावा॑न॒श्चय॑माना ऋ॒णानि॑ ।
मूलम्
धा॒रय॑न्त आदि॒त्यासो॒ जग॒त्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः ।
दी॒र्घाधि॑यो॒ रक्ष॑माणाः (63) अ॒सु॒र्य॑मृ॒तावा॑न॒श्चय॑माना ऋ॒णानि॑ ।
भट्टभास्कर-टीका
15’आदित्येभ्यो धारयद्वद्भ्यश्चरुं निर्वपेदपरुद्धो वाऽपरुद्ध्यमानो वा’ इत्यस्याः पुरोनुवाक्या - धारयन्त इति त्रिष्टुप् ॥ जगद्धारयन्तस्स्थापयन्तः आदित्यासः आदित्याः स्थाः स्थास्नवः ‘क्विप्च’ इति क्विप् । देवाः देवनशीलाः विश्वस्य भुवनस्य भूतजातस्य गोपाः पोषकाः दीर्घाधियः दीर्घाण्यविच्छिन्नानि धियः कर्माणि उदयास्तमयलक्षणानि बुद्धयो वा येषान्ते दीर्घाधियः । छान्दसं पूर्वपदस्य दीर्घत्वम् । असुर्यं असुरमर्हतीति । ‘छन्दसि च’ इति यः । असुस्थानीयमुदकं ददातीत्यसुरो मेघः । तेन धार्यमुदकं रक्षमाणा रक्षन्तः ऋतावानस्सत्यवन्तः यज्ञवन्तो वा । पूर्ववद्वनिप्, दीर्घत्वं च, चयमानाः चाययन्तः गमयन्तः । चय गतौ, अनुदात्तेत् भौवादिकः । ऋणानि दिव्यानि मानुषाणि ; वृष्ट्या हि सस्योत्पत्तौ यजमानस्य सर्वाणि ऋणान्यपाक्रियन्ते इति । क्रियापदाभावाद्योग्यं पदमध्याह्रियते । ईदृशा आदित्या इमं यजमानमनपरुद्धं कुर्वन्त्विति ॥
विश्वास-प्रस्तुतिः
ति॒स्रो भूमी॑र्धारय॒न्त्रीँ रु॒त द्यून्त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षाम् ।
ऋ॒तेना॑दित्या॒ महि॑ वो महि॒त्वन्तद॑र्यमन्वरुण मित्र॒ चारु॑ ।
मूलम्
ति॒स्रो भूमी॑र्धारय॒न्त्रीँ रु॒त द्यून्त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षाम् ।
ऋ॒तेना॑दित्या॒ महि॑ वो महि॒त्वन्तद॑र्यमन्वरुण मित्र॒ चारु॑ ।
भट्टभास्कर-टीका
16तत्रैव याज्या - तिस्र इति त्रिष्टुप् ॥ तिस्रो भूमीः पृथिवी पातालनागलोकान् पृथिव्यन्तरिक्षद्युलोकान्वा । ये इत्यध्याह्रियते । ये धारयन् धारयन्ति । धारयतेश्छान्दसो लङ्, ‘बहुलं छन्दस्यमाङ्योगेपि’ इत्यडभावः । उत अपि च त्रीन् द्यून् दिवः परान् द्युतिमतो लोकान् । रुत्वानुनासिकौ पूर्ववत् ।
किञ्च - त्रीणि व्रतानि कर्माणि लोकत्रयगोचराणि त्रीणि व्रतानि । एषां लोकानां अन्तः मध्ये सर्वलोकधारणार्थानि रसादानधारणमध्यस्थानायनलक्षणानि च कर्माणि ये धारयन्ति आदित्या विदथे यज्ञे यज्ञार्थं, उपलक्षणत्वात् सर्वव्यापारार्थं, इत्थं कुर्वन्त्येते आदित्याः यद्वा - धारयन्तीति वचनव्यत्ययेनैकवचनम् । हे धारयन्तः आदित्याः किं तिस्रो भूमीः त्रींश्च द्यून् येषां च मध्ये त्रीणि व्रतानि यज्ञार्थं धारयन्तः हे आदित्याः वः युष्माकं महित्वं महत्त्वं माहात्म्यं, महि महत् तत्तादृशं यथोक्तलक्षणं चारु शोभनं चायनीयं वा ऋतेन सत्येन नात्र कार्या विचारणेति । इदानीमादित्यानेकैकत्वेनामन्त्रयते - अर्यमन्वरुण मित्रेति । प्रदर्शनं चैतदन्येषामपि ॥
विश्वास-प्रस्तुतिः
त्यान्नु क्ष॒त्रियाँ॒ अव॑ आदि॒त्यान् या॑चिषामहे ।
सु॒मृ॒डी॒काँ अ॒भिष्ट॑ये ।
मूलम्
त्यान्नु क्ष॒त्रियाँ॒ अव॑ आदि॒त्यान् या॑चिषामहे ।
सु॒मृ॒डी॒काँ अ॒भिष्ट॑ये ।
भट्टभास्कर-टीका
17’यः परस्ताद्ग्राम्यवादीस्यात्तस्य गृहाद्वीहीनाहरेच्छुक्लांश्चकृष्णांश्च वि चिनुयाद्ये शुक्लास्स्युस्तमादित्यं चरुं निर्वपेत्’ इत्यस्याः पुरोनुवाक्या - त्यानिति गायत्री ॥ त्यांस्तान् नु प्राक्तनान् क्षत्रियान् बलवतः - आदित्यान् अवः रक्षणं याचिषामहे याचामहे । ‘सिब्बहुलं लेटि’ ‘लेटोडाटौ’ इत्यडागमः । सुमृडीकान् सुष्ठु सुखयितॄन् । ‘मृडीकादयश्च’ इति निपात्यते । शोभनम्मृडीकत्वं येषामिति बहुव्रीहौ ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम्, उञ्छादिर्वा द्रष्टव्यः ; पूर्ववद्रुत्वानुनासिकौ । अभिष्टये आभिमुख्येन तानेव यष्टुम् । अन्वादित्वात्पररूपत्वम् । यद्वा - अभिष्टयो यागस्तन्निमित्तम् । छान्दसो वर्णविकारः ॥
विश्वास-प्रस्तुतिः
न द॑क्षि॒णा विचि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा ।
पा॒क्या॑चिद्वसवो धी॒र्या॑चित् (64) यु॒ष्मानी॑तो॒ अभ॑य॒ञ्ज्योति॑रश्याम् ।
मूलम्
न द॑क्षि॒णा विचि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा ।
पा॒क्या॑चिद्वसवो धी॒र्या॑चित् (64) यु॒ष्मानी॑तो॒ अभ॑य॒ञ्ज्योति॑रश्याम् ।
भट्टभास्कर-टीका
18तत्रैव याज्या - न दकिष्णेति त्रिष्टुप् ॥ दक्षिणा दक्षिणं साव्या सव्यम्, उभयत्रापि ‘सुपां सुलुक्’ इत्याडादेशः । दक्षिणं सव्यं च न विचिकिते न विजानामि विशेषेण न जानामि, दक्षिणसव्यविभागज्ञानमपि मे नास्तीत्यर्थः । किततेश्छान्दसो लिट् । हे आदित्याः प्राचीनं प्राक् । ‘विभाषाञ्चेरदिक्स्त्रियाम्’ इति खः । पश्चा पश्चात् । ‘पश्च पश्चाच्च’ इति निपात्यते । प्राक्पश्चाच्च न विचिकिते इति, प्राक्प्रत्यग्विभागज्ञानमपि मे नस्तीति । यस्मादेवं तस्मादहं पाक्याचित् पाकयितव्यः, अपरिपक्वः पाक्यः बालः । ‘ऋहलोर्ण्यत्’ ‘तित्स्वरितम्’ इति स्वरितत्वम् । हे वसवः वासहेतवः धीर्या चित् धीरयितव्यः, धीर्यः कातरः इति । तत्करोति इति णिजन्ताण्ण्यत्, पूर्ववदाकारः । यथा बालाः कातराश्च स्वयं किञ्चिद्धिताहितमजानन्तः अन्यैर्हिताहितकारिभिः देवेन वा नीयमाना भवन्ति, एवमहमपि युष्माभिर्नीतः युष्माभिस्समिद्धते […भिरस्मद्धिते] पथि प्रवर्तमानः । वर्णविकारश्छान्दसः ; ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम्, विकृतत्वादनवग्रहः । अभयं ज्योतिर्ज्ञानं विडवगमलक्षणमश्यां प्राप्र्नुयाम् । ‘बहुलं छन्दसि’ इति शपो लुक् । यद्वा - युष्मत्प्रसादेन अभयं अपुनरावृत्तिभयं परं ज्योतिरश्याम्, किम्पुनर्विडवगमादीति ॥
विश्वास-प्रस्तुतिः
आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शन्त॑मेन ।
अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मय्ँ य॒ज्ञन्द॑धतु॒ श्रोष॑माणाः ।
मूलम्
आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शन्त॑मेन ।
अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मय्ँ य॒ज्ञन्द॑धतु॒ श्रोष॑माणाः ।
भट्टभास्कर-टीका
19अथ तत्रैव याज्या विकल्प्यते - आदित्यानामिति त्रिष्टुप् ॥ आदित्यानामवसा नूतनेन अभिनवेन सक्षीमहि युक्ता भूयास्म, केन ? शर्मणा सुखेन शन्तमेन सुखतमेन शान्ततमेन वा । किञ्च - अनागास्त्वे निरपराधित्वे अदितित्वे खण्डनरहितत्वे च इममस्मदीयं यज्ञं दधतु स्थापयन्तु तुरासस्त्वरमाणाः । तुर त्वरासम्भ्रमयोः, ‘इगुपधात्कः’ ‘आज्जसेरसुक्’ । श्रोषमाणाः अस्माकं स्तुतीश्शृण्वन्तः । शृणोतेर्विकरणौ सिप्शपौ लेटो वा व्यत्ययेन शानच् । श्रोषतिर्वा धात्वन्तरं द्रष्टव्यम् ॥
विश्वास-प्रस्तुतिः
इ॒मम्मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय ।
त्वाम॑व॒स्युराच॑के ।
मूलम्
इ॒मम्मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय ।
त्वाम॑व॒स्युराच॑के ।
भट्टभास्कर-टीका
20अथ ‘ये कृष्णास्स्युस्तं वारुणं चरुं निर्वपेत्’ इत्यस्याः पुरोनुवाक्या - इमं म इति गायत्री । श्रुधीति प्रथमपादान्तः ॥ हे वरुण इममस्मदीयं हवमाह्वानं श्रुधि शृणु । ‘बहुलं छन्दसि’ इति शपो लुक् । ‘श्रुशृणुपृकृवृभ्यः’ इति धिभावः । श्रुत्वा चाद्यैव मां मृडय सुखय । यस्मादहं त्वामवस्युः रक्षणमात्मन इच्छन् । ‘क्याच्छन्दसि’ इत्युप्रत्ययः । आचके आभिमुख्येन शब्दयामि प्रार्थये । कै गै शब्दे ॥
विश्वास-प्रस्तुतिः
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शँस॒ मा न॒ आयु॒ᳶ प्रमो॑षीः ॥ (65)
मूलम्
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शँस॒ मा न॒ आयु॒ᳶ प्रमो॑षीः ॥ (65)
भट्टभास्कर-टीका
20तत्रैव याज्या - तत्त्वेति त्रिष्टुप् ॥ हे वरुण ब्रह्मणा मन्त्रेण त्वामेव वन्दमानः स्तुवन्नहं तत्तदर्थम् । चतुर्थ्या लुक् । तदर्थमेव त्वां यामि भजे । यद्वा - तदेव त्वां यामि याचे । छान्दसोन्त्यलोपः, परस्मैपदं च । यजमानोपि सर्वस्तदेवाशास्ते हविर्भिश्चरुपुरोडाशादिभिः हे उरुशंस महास्तुतिक त्वमपि तामस्मदीयां विज्ञापनां इह कर्माणि अहेडमानः अक्रुद्ध्यन् बोधि बुध्यस्व । पूर्ववद्विकरणस्य लुक्, ‘हुझल्भ्यो हेर्धिः’, ‘वा छन्दसि’ इत्यपित्त्वादेव ङित्त्वाभावाद्गुणः, अन्त्यलोपश्छान्दसः । किम्पुनस्तत्प्रार्थनीयमित्याह - नः अस्माकं आयुर्दीप्तिमन्नं वा मा प्रमोषीः मा छेत्सीः तदर्थं विशं च रा[राष्ट्रं चा]वगमयेति भावः ॥
- तत्रैव याज्या - तत्त्वा यामि ब्रह्मणा वन्दमान इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । हे वरुण अहं ब्रह्मणा मन्त्रेण हविषा त्वां वन्दमानः स्तुवन् अहं त्वामभियाचे यजमानोऽपि तदेव हविर्भिराशास्ते त्वमपि तत्? अहेडमानः अक्रुध्यन् इह कर्मणि बुद्ध्यस्व । किंपुनः तत्? हे वरुण उरु शंसमानः अस्माकमायुर्मा प्रमोषीरिति ॥ ]
इति भट्टभास्करमिश्रविरचिते यजुवेर्दभाष्ये द्वितीये काण्डे प्रथमप्रपाठके एकादशोनुवाकः ॥
समाप्तश्च प्रपाठकः ॥