१०

मूलम् (संयुक्तम्)

आ॒श्वि॒नन्धू॒म्रल॑लाम॒माल॑भेत॒ यो दुर्ब्रा॑ह्मण॒स्सोम॒म्पिपा॑सेद॒श्विनौ॒ वै दे॒वाना॒मसो॑मपावास्ता॒न्तौ प॒श्चा सो॑मपी॒थम्प्राप्नु॑ताम॒श्विना॑वे॒तस्य॑ दे॒वता॒ यो दुर्ब्रा॑ह्मण॒स्सोम॒म्पिपा॑सत्य॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मै॑ सोमपी॒थम्प्रय॑च्छत॒ उपै॑नँ सोमपी॒थो न॑मति॒ यद्धू॒म्रो भव॑ति धूम्रि॒माण॑मे॒वास्मा॒दप॑हन्ति ल॒लामः॑ (57)
भ॒व॒ति॒ मु॒ख॒त ए॒वास्मि॒न्तेजो॑ दधाति

विश्वास-प्रस्तुतिः

आ॒श्वि॒नन्धू॒म्रल॑लाम॒माल॑भेत ।
यो दुर्ब्रा॑ह्मण॒स्सोम॒म्पिपा॑सेत् ।
अ॒श्विनौ॒ वै दे॒वाना॒मसो॑मपावास्ताम् ।
तौ प॒श्चा सो॑मपी॒थम्प्राप्नु॑ताम् ।
अ॒श्विना॑वे॒तस्य॑ दे॒वता॑।

मूलम्

आ॒श्वि॒नन्धू॒म्रल॑लाम॒माल॑भेत ।
यो दुर्ब्रा॑ह्मण॒स्सोम॒म्पिपा॑सेत् ।
अ॒श्विनौ॒ वै दे॒वाना॒मसो॑मपावास्ताम् ।
तौ प॒श्चा सो॑मपी॒थम्प्राप्नु॑ताम् ।
अ॒श्विना॑वे॒तस्य॑ दे॒वता॑।

भट्टभास्कर-टीका

1आश्विनमित्यादि ॥ धूम्रललामः धृम्रवर्णललामाञ्चितललाटः ।

विश्वास-प्रस्तुतिः

यो दुर्ब्रा॑ह्मण॒स्सोम॒म्पिपा॑सति ।
अ॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति।
तावे॒वास्मै॑ सोमपी॒थम्प्रय॑च्छतः।
उपै॑नँ सोमपी॒थो न॑मति॒ यद्धू॒म्रो भव॑ति ।

मूलम्

यो दुर्ब्रा॑ह्मण॒स्सोम॒म्पिपा॑सति ।
अ॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति।
तावे॒वास्मै॑ सोमपी॒थम्प्रय॑च्छतः।
उपै॑नँ सोमपी॒थो न॑मति॒ यद्धू॒म्रो भव॑ति ।

भट्टभास्कर-टीका

दुर्ब्राह्मण इति । त्रिपुरुषं वेदवेदिविच्छेदाद्दुर्ब्राह्मणः । यथा - यस्य वेदश्च वेदी च विछेद्येते त्रिपूरुषम् । स वै दुर्ब्राह्मणो नाम यश्चैव वृषलीपतिः ॥ इति । न नियतौपासनिकस्य दौर्ब्राह्मण्यमित्याचार्यः ।

विश्वास-प्रस्तुतिः

???

मूलम्

???

भट्टभास्कर-टीका

पश्चेति । ‘पश्चपश्चाच्च’ इति निपात्यते । पश्चादित्यर्थः ।

विश्वास-प्रस्तुतिः

धू॒म्रि॒माण॑मे॒वास्मा॒दप॑हन्ति ।

मूलम्

धू॒म्रि॒माण॑मे॒वास्मा॒दप॑हन्ति ।

भट्टभास्कर-टीका

धूम्रिमाणमिति ।धूम्रत्वं मलिनत्वम् । ‘वर्णदृढादिभ्यः’ इतीमनिच् ।

विश्वास-प्रस्तुतिः

ल॒लामो॑ भवति ।
मु॒ख॒त ए॒वास्मि॒न्तेजो॑ दधाति ।

मूलम्

ल॒लामो॑ भवति ।
मु॒ख॒त ए॒वास्मि॒न्तेजो॑ दधाति ।

भट्टभास्कर-टीका

ललाम इति मत्वर्थीयो लुप्यते ॥

मूलम् (संयुक्तम्)

वाय॒व्य॑ङ्गोमृ॒गमाल॑भेत॒ यमज॑घ्निवाँसमभि॒शँसे॑यु॒रपू॑ता॒ वा ए॒तव्ँ वागृ॑च्छति॒ यमज॑घ्निवाँसमभि॒शँस॑न्ति॒ नैष ग्रा॒म्यᳶ प॒शुर्नार॒ण्यो यद्गो॑मृ॒गो नेवै॒ष ग्रामे॒ नार॑ण्ये॒ यमज॑घ्निवाँसमभि॒शँस॑न्ति वा॒युर्वै दे॒वाना॑म्प॒वित्रव्ँ॑वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒व (58) ए॒न॒म्प॒व॒य॒ति

विश्वास-प्रस्तुतिः

वाय॒व्य॑ङ्गोमृ॒गमाल॑भेत ।

मूलम्

वाय॒व्य॑ङ्गोमृ॒गमाल॑भेत ।

भट्टभास्कर-टीका

2गोमृगमिति ॥ प्राणिनो बाधमानश्चरन् ग्राम्यः पुङ्गवो गोमृगः ।

विश्वास-प्रस्तुतिः

यमज॑घ्निवाँसमभि॒शँसे॑युः ।

मूलम्

यमज॑घ्निवाँसमभि॒शँसे॑युः ।

भट्टभास्कर-टीका

यमिति । गवादिवधमकृतवन्तं यमभिशंसेयुः तत्पापं त्वयैव कृतमिति । मिथ्यापापसंयोजनमभिशंसनम् ।

विश्वास-प्रस्तुतिः

अपू॑ता॒ वा ए॒तव्ँ वागृ॑च्छति ।

मूलम्

अपू॑ता॒ वा ए॒तव्ँ वागृ॑च्छति ।

भट्टभास्कर-टीका

अपूतेत्यादि । गतम् ।

विश्वास-प्रस्तुतिः

यमज॑घ्निवाँसमभि॒शँस॑न्ति ।
नैष ग्रा॒म्यᳶ प॒शुर्नार॒ण्यो यद्गो॑मृ॒गः, नेवै॒ष ग्रामे॒ नार॑ण्ये॒ यमज॑घ्निवाँसमभि॒शँस॑न्ति ।

मूलम्

यमज॑घ्निवाँसमभि॒शँस॑न्ति ।
नैष ग्रा॒म्यᳶ प॒शुर्नार॒ण्यो यद्गो॑मृ॒गः, नेवै॒ष ग्रामे॒ नार॑ण्ये॒ यमज॑घ्निवाँसमभि॒शँस॑न्ति ।

भट्टभास्कर-टीका

नैष इति । हिंस्रत्वान्न ग्राम्यत्वं युज्यते, ग्रामचरत्वादारण्यत्वं न घटते ।
नेवैष इति । अभिशस्तत्वाद्ग्रामे वस्तुं नार्हति, मनुष्यत्वान्नारण्ये ।

विश्वास-प्रस्तुतिः

वा॒युर्वै दे॒वाना॑म्प॒वित्रँ॑म् ।
वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वैन॒म्प॒व॒य॒ति ।

मूलम्

वा॒युर्वै दे॒वाना॑म्प॒वित्रँ॑म् ।
वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वैन॒म्प॒व॒य॒ति ।

भट्टभास्कर-टीका

पवयतीति । छान्दसो वृद्ध्यभावः । केचिद्धात्वन्तरं पवयतिं छान्दसमाहुः ॥

मूलम् (संयुक्तम्)

परा॑ची॒ वा ए॒तस्मै॑ व्यु॒च्छन्ती॒ व्यु॑च्छति॒ तमᳶ॑ पा॒प्मान॒म्प्रवि॑शति॒ यस्या॑श्वि॒ने श॒स्यमा॑ने॒ सूर्यो॒ नाविर्भव॑ति सौ॒र्यम्ब॑हुरू॒पमाल॑भेता॒मुमे॒वादि॒त्यँ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॒त्तमᳶ॑ पा॒प्मान॒मप॑हन्ति प्र॒तीच्य॑स्मै व्यु॒च्छन्ती॒ व्यु॑च्छ॒त्यप॒ तमᳶ॑ पा॒प्मानँ॑ हते ॥ (59)

विश्वास-प्रस्तुतिः

परा॑ची॒ वा ए॒तस्मै॑ व्यु॒च्छन्ती॒ व्यु॑च्छति ।

मूलम्

परा॑ची॒ वा ए॒तस्मै॑ व्यु॒च्छन्ती॒ व्यु॑च्छति ।

भट्टभास्कर-टीका

3पराचीत्यादि ॥ पराची पराङ्मुखी व्युच्छन्ती उषा अस्मै व्युच्छति भाति अस्याभ्युदये व्युष्टिः प्रातिकूल्यं प्रतिपद्यते ।

विश्वास-प्रस्तुतिः

तमᳶ॑ पा॒प्मान॒म्प्रवि॑शति ।

मूलम्

तमᳶ॑ पा॒प्मान॒म्प्रवि॑शति ।

भट्टभास्कर-टीका

ततश्चायं तमः पाप्मानं तमोरूपं महत्पापं वा प्रविशति ।

विश्वास-प्रस्तुतिः

यस्या॑श्वि॒ने श॒स्यमा॑ने॒ सूर्यो॒ नाविर्भव॑ति ।

मूलम्

यस्या॑श्वि॒ने श॒स्यमा॑ने॒ सूर्यो॒ नाविर्भव॑ति ।

भट्टभास्कर-टीका

क इत्याह - यस्येत्यादि । आश्विनं नाम परस्सहस्रं शस्त्रम् ।

विश्वास-प्रस्तुतिः

सौ॒र्यम्ब॑हुरू॒पमाल॑भेत ।
अमुमे॒वादि॒त्यँ स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मा॒त्तमᳶ॑ पा॒प्मान॒मप॑हन्ति ।

मूलम्

सौ॒र्यम्ब॑हुरू॒पमाल॑भेत ।
अमुमे॒वादि॒त्यँ स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मा॒त्तमᳶ॑ पा॒प्मान॒मप॑हन्ति ।

भट्टभास्कर-टीका

सौर्यमित्यादि । गतम् ।

विश्वास-प्रस्तुतिः

प्र॒तीच्य॑स्मै व्यु॒च्छन्ती॒ व्यु॑च्छति ।
अप॒ तमᳶ॑ पा॒प्मानँ॑ हते ॥

मूलम्

प्र॒तीच्य॑स्मै व्यु॒च्छन्ती॒ व्यु॑च्छति ।
अप॒ तमᳶ॑ पा॒प्मानँ॑ हते ॥

भट्टभास्कर-टीका

प्रतीचीति । प्रतीची प्रत्यगञ्चना । एतमेव प्रति एतदभ्युदयाभिमुख्येन व्युच्छन्ती । व्युच्छतीति । ततश्च तमः पाप्मानमपहते अपहन्ति । व्यत्ययेनात्मनेपदम् । उच्छी विवासे, ‘छे च’ इति तुक् ॥

इति द्वितीये प्रथमे दशमोनुवाकः ॥