विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
वरु॑णँ सुषुवा॒णम॒न्नाद्य॒न्नोपा॑नम॒त्स ए॒ताव्ँ वा॑रु॒णीङ्कृ॒ष्णाव्ँ व॒शाम॑पश्य॒त्ताँ स्वायै॑ दे॒वता॑या॒ आऽल॑भत॒ ततो॒ वै तम॒न्नाद्य॒मुपा॑नम॒द्यमल॑म॒न्नाद्या॑य॒ सन्त॑म॒न्नाद्य॒न्नोप॒नमे॒त्स ए॒ताव्ँ वा॑रु॒णीङ्कृ॒ष्णाव्ँ व॒शामाल॑भेत॒ वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॒ अन्न॒म्प्रय॑च्छत्यन्ना॒दः (53) ए॒व भ॑वति कृ॒ष्णा भ॑वति वारु॒णी ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै
विश्वास-प्रस्तुतिः
वरु॑णँ सुषुवा॒णम॒न्नाद्य॒न्नोपा॑नमत् ।
स ए॒ताव्ँ वा॑रु॒णीङ्कृ॒ष्णाव्ँ व॒शाम॑पश्यत् ।
मूलम्
वरु॑णँ सुषुवा॒णम॒न्नाद्य॒न्नोपा॑नमत् ।
स ए॒ताव्ँ वा॑रु॒णीङ्कृ॒ष्णाव्ँ व॒शाम॑पश्यत् ।
भट्टभास्कर-टीका
1वरुणं सुषुवाणमित्यादि ॥ सुषुवाणं सुतवन्तम् । सुनोतेर्लिटः कानजादेशः । अन्नस्यादनमन्नाद्यम् । बहुलवचनाद्यत् ।
विश्वास-प्रस्तुतिः
ताँ स्वायै॑ दे॒वता॑या॒ आऽल॑भत ।
ततो॒ वै तम॒न्नाद्य॒मुपा॑नमत् ।
यमल॑म॒न्नाद्या॑य॒ सन्त॑म॒न्नाद्य॒न्नोप॒नमे॑त् ।
स ए॒ताव्ँ वा॑रु॒णीङ्कृ॒ष्णाव्ँ व॒शामाल॑भेत ।
वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मा॒ अन्न॒म्प्रय॑च्छति ।
अ॒न्ना॒दः ए॒व भ॑वति ।
कृ॒ष्णा भ॑वति वारु॒णी ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै ।
मूलम्
ताँ स्वायै॑ दे॒वता॑या॒ आऽल॑भत ।
ततो॒ वै तम॒न्नाद्य॒मुपा॑नमत् ।
यमल॑म॒न्नाद्या॑य॒ सन्त॑म॒न्नाद्य॒न्नोप॒नमे॑त् ।
स ए॒ताव्ँ वा॑रु॒णीङ्कृ॒ष्णाव्ँ व॒शामाल॑भेत ।
वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मा॒ अन्न॒म्प्रय॑च्छति ।
अ॒न्ना॒दः ए॒व भ॑वति ।
कृ॒ष्णा भ॑वति वारु॒णी ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
स्वाया इति । आत्मने देवताया इति ॥
मूलम् (संयुक्तम्)
मै॒त्रँ श्वे॒तमाल॑भेत वारु॒णङ्कृ॒ष्णम॒पाञ्चौष॑धीनाञ्च स॒न्धावन्न॑कामो मै॒त्रीर्वा ओष॑धयो वारु॒णीरापो॒ऽपाञ्च॒ खलु॒ वा ओष॑धीनाञ्च॒ रस॒मुप॑जीवामो मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मा॒ अन्न॒म्प्रय॑च्छतोऽन्ना॒द ए॒व भ॑वति (54) अ॒पाञ्चौष॑धीनाञ्च स॒न्धावाल॑भत उ॒भय॒स्याव॑रुद्ध्यै॒ विशा॑खो॒ यूपो॑ भवति॒ द्वे ह्ये॑ते दे॒वते॒ समृ॑द्ध्यै
विश्वास-प्रस्तुतिः
मै॒त्रँ श्वे॒तमाल॑भेत ।
वा॒रु॒णङ्कृ॒ष्णम॒पाञ्चौष॑धीनाञ्च स॒न्धावन्न॑कामः ।
मूलम्
मै॒त्रँ श्वे॒तमाल॑भेत ।
वा॒रु॒णङ्कृ॒ष्णम॒पाञ्चौष॑धीनाञ्च स॒न्धावन्न॑कामः ।
भट्टभास्कर-टीका
2सन्धाविति ॥ प्रावृट्छरदोर्मध्ये । पर्वणीत्येके । नदीकेदारमध्ये इत्यन्ये ।
विश्वास-प्रस्तुतिः
मै॒त्रीर्वा ओष॑धयो वारु॒णीरापः॑ ।
अ॒पाञ्च॒ खलु॒ वा ओष॑धीनाञ्च॒ रस॒मुप॑जीवामः ।
मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
तावे॒वास्मा॒ अन्न॒म्प्रय॑च्छतः ।
अ॒न्ना॒द ए॒व भ॑वति ।
मूलम्
मै॒त्रीर्वा ओष॑धयो वारु॒णीरापः॑ ।
अ॒पाञ्च॒ खलु॒ वा ओष॑धीनाञ्च॒ रस॒मुप॑जीवामः ।
मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
तावे॒वास्मा॒ अन्न॒म्प्रय॑च्छतः ।
अ॒न्ना॒द ए॒व भ॑वति ।
भट्टभास्कर-टीका
मैत्रीर्वा इति । मित्रावरुणसम्बन्धिनीनामपामोषधीनां च सन्धौ मैत्रावरुणयोरालम्भात् अपामोषधीनां रसस्यान्नलक्षणस्य लाभादन्नादो भवति । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् ।
विश्वास-प्रस्तुतिः
अ॒पाञ्चौष॑धीनाञ्च स॒न्धावाल॑भते ।
उ॒भय॒स्याव॑रुद्ध्यै॒ विशा॑खो॒ यूपो॑ भवति ।
द्वे ह्ये॑ते दे॒वते॒ समृ॑द्ध्यै ।
मूलम्
अ॒पाञ्चौष॑धीनाञ्च स॒न्धावाल॑भते ।
उ॒भय॒स्याव॑रुद्ध्यै॒ विशा॑खो॒ यूपो॑ भवति ।
द्वे ह्ये॑ते दे॒वते॒ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
उभयस्येति । द्विप्रकारस्य रसस्य । विशाखः शाखाद्वयात्मा । उक्तमाचार्येण - ‘यदूर्ध्वं रशनायास्तद्विशाखं यद्वोपरात् उभे शाखे अष्टाश्री सचषाले स्याताम्’ इति ॥
मूलम् (संयुक्तम्)
मै॒त्रँ श्वे॒तमा ल॑भेत वारु॒णङ्कृ॒ष्णञ्ज्योगा॑मयावी॒ यन्मै॒त्रो भव॑ति मि॒त्रेणै॒वास्मै॒ वरु॑णँ शमयति॒ यद्वा॑रु॒णस्सा॒क्षादे॒वैनव्ँ॑वरुणपा॒शान्मु॑ञ्चत्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व
विश्वास-प्रस्तुतिः
मै॒त्रँ श्वे॒तमा ल॑भेत ।
वा॒रु॒णङ्कृ॒ष्णञ्ज्योगा॑मयावी॒ यन्मै॒त्रो भव॑ति ।
मूलम्
मै॒त्रँ श्वे॒तमा ल॑भेत ।
वा॒रु॒णङ्कृ॒ष्णञ्ज्योगा॑मयावी॒ यन्मै॒त्रो भव॑ति ।
भट्टभास्कर-टीका
3ज्योगामयावी । उक्तः ।
विश्वास-प्रस्तुतिः
मि॒त्रेणै॒वास्मै॒ वरु॑णँ शमयति ।
यद्वा॑रु॒णस्सा॒क्षादे॒वैनव्ँ॑वरुणपा॒शान्मु॑ञ्चति ।
उ॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ।
मूलम्
मि॒त्रेणै॒वास्मै॒ वरु॑णँ शमयति ।
यद्वा॑रु॒णस्सा॒क्षादे॒वैनव्ँ॑वरुणपा॒शान्मु॑ञ्चति ।
उ॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ।
भट्टभास्कर-टीका
मित्रेणैवेति । मित्रेण मित्रद्वारा वरुणस्य शान्तिः वरुणेन साक्षाद्वरुणस्य शान्तिः । ततश्च वरुणपाशाद्दीर्घामयरूपात् मुक्तः इतासुरपि गतासुरपि जीवत्येव ॥
मूलम् (संयुक्तम्)
दे॒वा वै पुष्टि॒न्नावि॑न्दन्न् (55) ताम्मि॑थु॒ने॑ऽपश्य॒न्तस्या॒न्न सम॑राधय॒न्ताव॒श्विना॑वब्रूतामा॒वयो॒र्वा ए॒षा मैतस्याव्ँ॑ वदद्ध्व॒मिति॒ साऽश्विनो॑रे॒वाभ॑व॒द्यᳶ पुष्टि॑काम॒स्स्यात्स ए॒तामा॑श्वि॒नीय्ँय॒मीव्ँ व॒शामाल॑भेता॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मि॒न्पुष्टि॑न्धत्त॒ᳶ पुष्य॑ति प्र॒जया॑ प॒शुभिः॑ ॥ (56)
विश्वास-प्रस्तुतिः
दे॒वा वै पुष्टि॒न्नावि॑न्दन् ।
मूलम्
दे॒वा वै पुष्टि॒न्नावि॑न्दन् ।
भट्टभास्कर-टीका
4देवा वा इति ॥ पुष्टिं प्रजातिमलभमाना देवा मिथुनीभाव एव तामपश्यन् मिथुनीभाव एव पुष्टिर्भवतीत्यपश्यन् ।
विश्वास-प्रस्तुतिः
ताम्मि॑थु॒ने॑ऽपश्यन् ।
मूलम्
ताम्मि॑थु॒ने॑ऽपश्यन् ।
भट्टभास्कर-टीका
ततो मिथुनेनापि तस्यां न समराधयन् पुष्टिसंसिद्धिर्नाभिजाता नावर्धन्तेति यावत् ।
विश्वास-प्रस्तुतिः
तस्या॒न्न सम॑राधय॒न्ताव॒श्विना॑वब्रूताम् , आ॒वयो॒र्वा ए॒षा मैतस्याव्ँ॑ वदद्ध्व॒मिति॑ ।
मूलम्
तस्या॒न्न सम॑राधय॒न्ताव॒श्विना॑वब्रूताम् , आ॒वयो॒र्वा ए॒षा मैतस्याव्ँ॑ वदद्ध्व॒मिति॑ ।
भट्टभास्कर-टीका
अथाश्विनौ देवानब्रूतां ; आवयोरेवैषा पुष्टिः ; आवामेव पुष्टिहेतुः ; तस्मादावाभ्यां विना यूयमेतस्यां मा विदध्वं पुष्टिविषयं किञ्चिदपि विदितुं नार्हथ । ‘भासन’ इत्यादिना भासने आत्मनेपदम् ।
विश्वास-प्रस्तुतिः
साऽश्विनो॑रे॒वाभ॑वत् ।
यᳶ पुष्टि॑काम॒स्स्यात् ।
मूलम्
साऽश्विनो॑रे॒वाभ॑वत् ।
यᳶ पुष्टि॑काम॒स्स्यात् ।
भट्टभास्कर-टीका
ततस्सा पुष्टिरश्विनोरेवाभवत् तद्धेतुकैवाभवत् ॥
विश्वास-प्रस्तुतिः
स ए॒तामा॑श्वि॒नीय्ँय॒मीव्ँ व॒शामाल॑भेत ।
आ॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
तावे॒वास्मि॒न्पुष्टि॑न्धत्त॒ᳶ पुष्य॑ति प्र॒जया॑ प॒शुभिः॑ ॥
मूलम्
स ए॒तामा॑श्वि॒नीय्ँय॒मीव्ँ व॒शामाल॑भेत ।
आ॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
तावे॒वास्मि॒न्पुष्टि॑न्धत्त॒ᳶ पुष्य॑ति प्र॒जया॑ प॒शुभिः॑ ॥
भट्टभास्कर-टीका
5यमीमिति ॥ सहजातौ यमौ । तयोस्स्त्री यमी । गौरादित्वात् ङीष् ॥
इति द्वितीये प्रथमे नवमोनुवाकः ॥