०८

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒ताँ सौ॒रीँ श्वे॒ताव्ँ व॒शामाऽल॑भन्त॒ तयै॒वास्मि॒न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात्तस्मा॑ ए॒ताँ सौ॒रीँ श्वे॒ताव्ँ व॒शामाल॑भेता॒मुमे॒वादि॒त्यँ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति बै॒ल्वो यूपो॑ भवत्य॒सौ (48) वा आ॑दि॒त्यो यतोऽजा॑यत॒ ततो॑ बि॒ल्व॑ उद॑तिष्ठ॒त्सयो॑न्ये॒व ब्र॑ह्मवर्च॒समव॑रुन्धे

विश्वास-प्रस्तुतिः

अ॒सावा॑दि॒त्यो न व्य॑रोचत ।
तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छन् ।
तस्मा॑ ए॒ताँ सौ॒रीँ श्वे॒ताव्ँ व॒शामाऽल॑भन्त ।
तयै॒वास्मि॒न्रुच॑मदधुः ।
यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात् ।
तस्मा॑ ए॒ताँ सौ॒रीँ श्वे॒ताव्ँ व॒शामाल॑भेत ।
अ॒मुमे॒वादि॒त्यँ स्वेन॑ भाग॒धेये॒नोप॑धावति।
स ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ।
ब्र॒ह्म॒व॒र्चस्ये॑व भ॑वति ।
बै॒ल्वो यूपो॑ भवति ।
अ॒सौ वा आ॑दि॒त्यो यतोऽजा॑यत ।
ततो॑ बि॒ल्व॑ उद॑तिष्ठत् ।
सयो॑न्ये॒व ब्र॑ह्मवर्च॒समव॑रुन्धे ।

मूलम्

अ॒सावा॑दि॒त्यो न व्य॑रोचत ।
तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छन् ।
तस्मा॑ ए॒ताँ सौ॒रीँ श्वे॒ताव्ँ व॒शामाऽल॑भन्त ।
तयै॒वास्मि॒न्रुच॑मदधुः ।
यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात् ।
तस्मा॑ ए॒ताँ सौ॒रीँ श्वे॒ताव्ँ व॒शामाल॑भेत ।
अ॒मुमे॒वादि॒त्यँ स्वेन॑ भाग॒धेये॒नोप॑धावति।
स ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ।
ब्र॒ह्म॒व॒र्चस्ये॑व भ॑वति ।
बै॒ल्वो यूपो॑ भवति ।
अ॒सौ वा आ॑दि॒त्यो यतोऽजा॑यत ।
ततो॑ बि॒ल्व॑ उद॑तिष्ठत् ।
सयो॑न्ये॒व ब्र॑ह्मवर्च॒समव॑रुन्धे ।

भट्टभास्कर-टीका

1असावादित्य इत्यादि ॥ सौरीमिति । ‘सूर्यतिष्यागत्स्य’ इति यलोपः ॥

मूलम् (संयुक्तम्)

ब्राह्मणस्प॒त्याम्ब॑भ्रुक॒र्णीमा ल॑भेताभि॒चर॑न्वारु॒णन्दश॑कपालम्पु॒रस्ता॒न्निर्व॑पे॒द्वरु॑णेनै॒व भ्रातृ॑व्यङ्ग्राहयि॒त्वा ब्रह्म॑णा स्तृणुते बभ्रुक॒र्णी भ॑वत्ये॒तद्वै ब्रह्म॑णो रू॒पँ समृ॑द्ध्यै

विश्वास-प्रस्तुतिः

ब्रा॒ह्म॒ण॒स्प॒त्याम्ब॑भ्रुक॒र्णीमा ल॑भेत ।
अ॒भि॒चर॑न्वारु॒णन्दश॑कपालम्पु॒रस्ता॒न्निर्व॑पे॒त् ।
वरु॑णेनै॒व भ्रातृ॑व्यङ्ग्राहयि॒त्वा ब्रह्म॑णा स्तृणुते ।
ब॒भ्रु॒क॒र्णी भ॑वति ।
ए॒तद्वै ब्रह्म॑णो रू॒पँ समृ॑द्ध्यै ।

मूलम्

ब्रा॒ह्म॒ण॒स्प॒त्याम्ब॑भ्रुक॒र्णीमा ल॑भेत ।
अ॒भि॒चर॑न्वारु॒णन्दश॑कपालम्पु॒रस्ता॒न्निर्व॑पे॒त् ।
वरु॑णेनै॒व भ्रातृ॑व्यङ्ग्राहयि॒त्वा ब्रह्म॑णा स्तृणुते ।
ब॒भ्रु॒क॒र्णी भ॑वति ।
ए॒तद्वै ब्रह्म॑णो रू॒पँ समृ॑द्ध्यै ।

भट्टभास्कर-टीका

2बभ्रुकर्णी कपिलश्यामकर्णी । ‘नासिकोदर’ इत्यादिना ङीष्, ‘सतिशिष्टत्वात्तेन बहुव्रीहिस्वरो बाध्यते । ब्रह्मणा कर्मणा स्तृणुते छादयति हिनस्तीत्यर्थः ॥

मूलम् (संयुक्तम्)

स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति शर॒मय॑म्ब॒र्हिश्शृ॒णाति॑ (49) ए॒वैनव्ँ॒ वैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैनँ॑म्

विश्वास-प्रस्तुतिः

स्फ्यो यूपो॑ भवति ।
वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति ।
श॒र॒मय॑म्ब॒र्हिश्शृ॒णाति॑ ए॒वैन॑म् ।
वैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैन॑म् ।

मूलम्

स्फ्यो यूपो॑ भवति ।
वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति ।
श॒र॒मय॑म्ब॒र्हिश्शृ॒णाति॑ ए॒वैन॑म् ।
वैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैन॑म् ।

भट्टभास्कर-टीका

3स्फ्य इत्यादि ॥ व्याख्यातम् ॥

  • स्फ्य इति ॥ स्फ्याकृतिर्यूपः कार्यः स्फ्य एव वा यूपः कार्यः । तदानीमन्येन स्फ्यकार्यं कुर्यात् ।
  • शरमयमिति । ‘नित्यं वृद्धशिरादिभ्यः’ इति विकारे मयट् । शरोपि पङ्कतृणविशेषः तत्पर्णमयं भवति । शॄ हिंसायाम्, ‘पुंसि संज्ञायां घः’ ।
  • वैभीदक इति । ‘पलाशादिभ्यो वा’ इत्यण् । विभीदकोऽक्षद्रुमः । विभिनत्तीति विभीदः, ततस्संज्ञायां कन्, पृषोदरादित्वाद्दीर्घत्वम् ॥
मूलम् (संयुक्तम्)

वैष्ण॒वव्ँ वा॑म॒नमाल॑भेत॒ यय्ँ य॒ज्ञो नोप॒नमे॒द्विष्णु॒र्वै य॒ज्ञो विष्णु॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ य॒ज्ञम्प्रय॑च्छ॒त्युपै॑नय्ँ य॒ज्ञो न॑मति वाम॒नो भ॑वति वैष्ण॒वो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै

विश्वास-प्रस्तुतिः

वै॒ष्ण॒वव्ँ वा॑म॒नमाल॑भेत ।
यय्ँ य॒ज्ञो नोप॒नमे॑त् ।
विष्णु॒र्वै य॒ज्ञो विष्णु॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मै॑ य॒ज्ञम्प्रय॑च्छति ।
उपै॑नय्ँ य॒ज्ञो न॑मति वाम॒नो भ॑वति ।
वै॒ष्ण॒वो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै ।

मूलम्

वै॒ष्ण॒वव्ँ वा॑म॒नमाल॑भेत ।
यय्ँ य॒ज्ञो नोप॒नमे॑त् ।
विष्णु॒र्वै य॒ज्ञो विष्णु॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मै॑ य॒ज्ञम्प्रय॑च्छति ।
उपै॑नय्ँ य॒ज्ञो न॑मति वाम॒नो भ॑वति ।
वै॒ष्ण॒वो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै ।

भट्टभास्कर-टीका

4वामनो ह्रस्वाङ्गः । यं यज्ञ इति ॥ अनुष्ठातुं शक्तो न भवतीति । यज्ञो नित्यः यज्ञफलं वा यन्नोपगच्छति ॥

मूलम् (संयुक्तम्)

त्वा॒ष्ट्रव्ँ व॑ड॒बमाल॑भेत प॒शुका॑म॒स्त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नाना॑म् (50) प्र॒ज॒न॒यि॒ता त्वष्टा॑रमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ प॒शून्मि॑थु॒नान्प्रज॑नयति प्र॒जा हि वा ए॒तस्मि॑न्प॒शव॒ᳶ प्रवि॑ष्टा॒ अथै॒ष पुमा॒न्त्सन्व॑ड॒बस्सा॒क्षादे॒व प्र॒जाम्प॒शूनव॑रुन्धे

विश्वास-प्रस्तुतिः

त्वा॒ष्ट्रव्ँ व॑ड॒बमाल॑भेत प॒शुका॑मः ।

मूलम्

त्वा॒ष्ट्रव्ँ व॑ड॒बमाल॑भेत प॒शुका॑मः ।

भट्टभास्कर-टीका

5वडबमिति ॥ यं पुमांसं सन्तमारोहन्ति बडबामिव[सः]अविद्यमानस्त्रीगुणो वडबः ।

विश्वास-प्रस्तुतिः

त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नाना॑म् प्रजनयि॒ता ।
त्वष्टा॑रमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति।
स ए॒वास्मै॑ प॒शून्मि॑थु॒नान्प्रज॑नयति ।

मूलम्

त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नाना॑म् प्रजनयि॒ता ।
त्वष्टा॑रमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति।
स ए॒वास्मै॑ प॒शून्मि॑थु॒नान्प्रज॑नयति ।

भट्टभास्कर-टीका

पशूनां तन्मिथुनानां च त्वष्टा प्रजनयिता ।

विश्वास-प्रस्तुतिः

प्र॒जा हि वा ए॒तस्मि॑न्प॒शव॒ᳶ प्रवि॑ष्टाः ।

मूलम्

प्र॒जा हि वा ए॒तस्मि॑न्प॒शव॒ᳶ प्रवि॑ष्टाः ।

भट्टभास्कर-टीका

प्रजा हीति । प्रजाश्च पशवश्च एतस्मिन् प्रविष्टाः सूक्ष्मरूपेण यदैवम् ।

विश्वास-प्रस्तुतिः

अथै॒ष पुमा॒न्त्सन्व॑ड॒बः, सा॒क्षादे॒व प्र॒जाम्प॒शूनव॑रुन्धे ।

मूलम्

अथै॒ष पुमा॒न्त्सन्व॑ड॒बः, सा॒क्षादे॒व प्र॒जाम्प॒शूनव॑रुन्धे ।

भट्टभास्कर-टीका

अथैवं सति एषोऽश्वः पुमान् सन् वडबो भवति तस्माद्वडबस्यालम्भनेन साक्षात् अव्यवधानेनैव प्रजाः पशूंश्चावरुन्धे ॥

मूलम् (संयुक्तम्)

मै॒त्रँ श्वे॒तमाल॑भेत सङ्ग्रा॒मे सय्ँय॑त्ते सम॒यका॑मो मि॒त्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॑म्मि॒त्रेण॒ सन्न॑यति (51) वि॒शा॒लो भ॑वति॒ व्यव॑साययत्ये॒वैन॑म्

विश्वास-प्रस्तुतिः

मै॒त्रँ श्वे॒तमाल॑भेत ।
स॒ङ्ग्रा॒मे सय्ँय॑त्ते सम॒यका॑मो मि॒त्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।

मूलम्

मै॒त्रँ श्वे॒तमाल॑भेत ।
स॒ङ्ग्रा॒मे सय्ँय॑त्ते सम॒यका॑मो मि॒त्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।

भट्टभास्कर-टीका

6समयकाम इति ॥ आर्थीयैस्सुहृद्भिरैकमत्यं समयः । शत्रुभिस्सन्धिरित्यन्ये ।

विश्वास-प्रस्तुतिः

स ए॒वैन॑म्मि॒त्रेण॒ सन्न॑यति ।

मूलम्

स ए॒वैन॑म्मि॒त्रेण॒ सन्न॑यति ।

भट्टभास्कर-टीका

सन्नयति संश्लेषयति ।

विश्वास-प्रस्तुतिः

वि॒शा॒लो भ॑वति॒ व्यव॑साययत्ये॒वैन॑म् ।

मूलम्

वि॒शा॒लो भ॑वति॒ व्यव॑साययत्ये॒वैन॑म् ।

भट्टभास्कर-टीका

विशाल इति । विकटशृङ्गः । ‘वेश्शालच्छङ्कटचौ’ इति शालच् । व्यवसाययत्येवेति मित्रलाभेन कृतोद्योगमेनं करोति ॥

विश्वास-प्रस्तुतिः

प्रा॒जा॒प॒त्यङ्कृ॒ष्णमाल॑भेत॒ वृष्टि॑कामः ।
प्र॒जाप॑ति॒र्वै वृष्ट्या॑ ईशे ।
प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मै॑ प॒र्जन्यव्ँ॑वर्षयति कृ॒ष्णो भ॑वति ।

मूलम्

प्रा॒जा॒प॒त्यङ्कृ॒ष्णमाल॑भेत॒ वृष्टि॑कामः ।
प्र॒जाप॑ति॒र्वै वृष्ट्या॑ ईशे ।
प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मै॑ प॒र्जन्यव्ँ॑वर्षयति कृ॒ष्णो भ॑वति ।

भट्टभास्कर-टीका

7ईशे इति ॥ ‘लोपस्त आत्मनेपदेषु’ इति तलोपः ॥

विश्वास-प्रस्तुतिः

ए॒तद् वै वृष्ट्यै॑ रू॒पँ रू॒पेणै॒व वृष्टि॒मव॑रुन्धे ।
श॒बलो॑ भवति ।
वि॒द्युत॑मे॒वास्मै॑ जनयि॒त्वा व॑र्षयति ।

मूलम्

ए॒तद् वै वृष्ट्यै॑ रू॒पँ रू॒पेणै॒व वृष्टि॒मव॑रुन्धे ।
श॒बलो॑ भवति ।
वि॒द्युत॑मे॒वास्मै॑ जनयि॒त्वा व॑र्षयति ।

भट्टभास्कर-टीका

8शबलो हरितवर्णः । कृष्णश्वेतवर्ण इत्येके ।

विश्वास-प्रस्तुतिः

अ॒वा॒शृ॒ङ्गो भ॑वति ।

मूलम्

अ॒वा॒शृ॒ङ्गो भ॑वति ।

भट्टभास्कर-टीका

अवाशृङ्गः अवनतशृङ्गः । छान्दसं दीर्घत्वम् । यद्वा - अवाक्छृङ्गः । छान्दसो वर्णलोपः, निरुदकादिर्द्रष्टव्यः ।

विश्वास-प्रस्तुतिः

वृष्टि॑मे॒वास्मै॒ निय॑च्छति ॥

मूलम्

वृष्टि॑मे॒वास्मै॒ निय॑च्छति ॥

भट्टभास्कर-टीका

नियच्छति न्यक्पातयति ॥

इति द्वितीये प्रथमे अष्टमोनुवाकः ॥